Book 3: Chapter 82
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 3: Chapter 82

The Mahabharata in Sanskrit

Book 3
Chapter 82

1 [पुलस्त्य]
ततॊ गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम
तत्र सनात्वा नरॊ राजन धर्मशीलः समाहितः
आ सप्तमं कुलं राजन पुनीते नात्र संशयः
2 ततॊ गच्छेत धर्मज्ञ कारा पतनम उत्तमम
अग्निष्टॊमम अवाप्नॊति मुनिलॊकं च गच्छति
3 सौगन्धिकं वनं राजंस ततॊ गच्छेत मानवः
यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः
4 सिद्धचारणगन्धर्वाः किंनराः स महॊरगाः
तद वनं परविशन्न एव सर्वपापैः परमुच्यते
5 ततॊ हि सा सरिच्छ्रेष्ठा नदीनाम उत्तमा नदी
पलक्षाद देवी सरुता राजन महापुण्या सरस्वती
6 तत्राभिषेकं कुर्वीत वल्मीकान निःसृते जले
अर्चयित्वा पितॄन देवान अश्वमेध फलं लभेत
7 ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम
षट्सु शम्या निपातेषु वल्मीकाद इति निश्चयः
8 कपिलानां सहस्रं च वाजिमेधं च विन्दति
तत्र सनात्वा नरव्याघ्र दृष्टम एतत पुरातने
9 सुगन्धां शतकुम्भां च पञ्च यज्ञां च भारत
अभिगम्य नरश्रेष्ठ सवर्गलॊके महीयते
10 तरिशूलखातं तत्रैव तीर्थम आसाद्य भारत
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
गाणपत्यं स लभते देहं तयक्त्वा न संशयः
11 ततॊ गच्छेत राजेन्द्र देव्याः सथानं सुदुर्लभम
शाकम्भरीति विख्याता तरिषु लॊकेषु विश्रुता
12 दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत
आहारं सा कृतवती मासि मासि नराधिप
13 ऋषयॊ ऽभयागतास तत्र देव्या भक्त्या तपॊधनाः
आतिथ्यं च कृतं तेषां शाकेन किल भारत
ततः शाकम्भरीत्य एव नाम तस्याः परतिष्ठितम
14 शाकम्भरीं समासाद्य बरह्म चारी समाहितः
तरिरात्रम उषितः शाकं भक्षयेन नियतः शुचिः
15 शाकाहारस्य यत सम्यग वर्षैर दवादशभिः फलम
तत फलं तस्य भवति देव्याश छन्देन भारत
16 ततॊ गच्छेत सुवर्णाक्षं तरिषु लॊकेषु विश्रुतम
यत्र विष्णुः परसादार्थं रुद्रम आराधयत पुरा
17 वरांश च सुबहूँल लेभे दैवतेषु सुदुर्लभान
उक्तश च तरिपुरघ्नेन परितुष्टेन भारत
18 अपि चास्मत परियतरॊ लॊके कृष्ण भविष्यसि
तवन मुखं च जगत कृत्स्नं भविष्यति न संशयः
19 तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम
अश्वमेधम अवाप्नॊति गाणपत्यं च विन्दति
20 धूमावतीं ततॊ गच्छेत तरिरत्रॊपॊषितॊ नरः
मनसा परार्थितान कामाँल लभते नात्र संशयः
21 देव्यास तु दक्षिणार्धेन रथावर्तॊ नराधिप
तत्रारॊहेत धर्मज्ञ शरदधानॊ जितेन्द्रियः
महादेव परसादाद धि गच्छेत परमं गतिम
22 परदक्षिणम उपावृत्य गच्छेत भरतर्षभ
धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम
तत्र सनात्वा नरव्याघ्र न शॊचति नराधिप
23 ततॊ गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम
सवर्गद्वारेण यत तुल्यं गङ्गा दवारं न संशयः
24 तत्राभिषेकं कुर्वीत कॊटितीर्थे समाहितः
पुण्डरीकम अवाप्नॊति कुलं चैव समुद्धरेत
25 सप्त गङ्गे तरिगङ्गे च शक्रावर्ते च तर्पयन
देवान पितॄंश च विधिवत पुण्यलॊके महीयते
26 ततः कनखले सनात्वा तरिरात्रॊपॊषितॊ नरः
अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति
27 कपिला वटं च गच्छेत तीर्थसेवी नराधिप
उष्यैकां रजनीं तत्र गॊसहस्रफलं लभेत
28 नागराजस्य राजेन्द्र कपिलस्य महात्मनाः
तीर्थं कुरु वरश्रेष्ठ सर्वलॊकेषु विश्रुतम
29 तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप
कपिलानां सहस्रस्य फलं पराप्नॊति मानवः
30 ततॊ ललितिकां गच्छेच छंतनॊर तीर्थम उत्तमम
तत्र सनात्वा नरॊ राजन न दुर्गतिम अवाप्नुयात
31 गङ्गा संगमयॊश चैव सनाति यः संगमे नरः
दशाश्वमेधान आप्नॊति कुलं चैव समुद्धरेत
32 ततॊ गच्छेत राजेन्द्र सुगन्धां लॊकविश्रुताम
सर्वपापविशुद्धात्मा बरह्मलॊके महीयते
33 रुद्रावर्तं ततॊ गच्छेत तीर्थसेवी नराधिप
तत्र सनात्वा नरॊ राजन सवर्गलॊके महीयते
34 गङ्गायाश च नरश्रेष्ठ सरस्वत्याश च संगमे
सनातॊ ऽशवमेधम आप्नॊति सवर्गलॊकं च गच्छति
35 भद्र कर्णेश्वरं गत्वा देवम अर्च्य यथाविधि
न दुर्गतिम अवाप्नॊति सवर्गलॊकं च गच्छति
36 ततः कुब्जाम्रकं गच्छेत तीर्थसेवी यथाक्रमम
गॊसहस्रम अवाप्नॊति सवर्गलॊकं च गच्छति
37 अरुन्धती वटं गच्छेत तीर्थसेवी नराधिप
सामुद्रकम उपस्पृश्य तरिरात्रॊपॊषितॊ नरः
गॊसहस्रफलं विन्देत कुलं चैव समुद्धरेत
38 बरह्मावर्तं ततॊ गच्छेद बरह्म चारी समाहितः
अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति
39 यमुना परभवं गत्वा उपस्पृश्य च यामुने
अश्वमेध फलं लब्ध्वा सवर्गलॊके महीयते
40 दर्वी संक्रमणं पराप्य तीर्थं तरैलॊक्यविश्रुतम
अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति
41 सिन्धॊर च परभवं गत्वा सिद्धगन्धर्वसेवितम
तत्रॊष्य रजनीः पञ्च विन्द्याद बहुसुवर्णकम
42 अथ वेदीं समासाद्य नरः परमदुर्गमाम
अश्वमेधम अवाप्नॊति गच्छेच चौशनसीं गतिम
43 ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत
वासिष्ठं समतिक्रम्य सर्वे वर्णा दविजातयः
44 ऋषिकुल्यां नरः सनात्वा ऋषिलॊकं परपद्यते
यदि तत्र वसेन मासं शाकाहारॊ नराधिप
45 भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत
गत्वा वीर परमॊक्षं च सर्वपापैः परमुच्यते
46 कृत्तिका मघयॊश चैव तीर्थम आसाद्य भारत
अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति पुण्यकृत
47 ततः संध्यां समासाद्य विद्या तीर्थम अनुत्तमम
उपस्पृश्य च विद्यानां सर्वासां पारगॊ भवेत
48 महाश्रमे वसेद रात्रिं सर्वपापप्रमॊचने
एककालं निराहारॊ लॊकान आवसते शुभान
49 षष्ठ कालॊपवासेन मासम उष्य महालये
सर्वपापविशुद्धात्मा विन्द्याद बहुसुवर्णकम
50 अथ वेतसिकां गत्वा पिता मह निषेविताम
अश्वमेधम अवाप्नॊति गच्छेच चौशनसीं गतिम
51 अथ सुन्दरिका तीर्थं पराप्य सिद्धनिषेवितम
रूपस्य भागी भवति दृष्टम एतत पुरातने
52 ततॊ वै बराह्मणीं गत्वा बरह्म चारी जितेन्द्रियः
पद्मवर्णेन यानेन बरह्मलॊकं परपद्यते
53 ततश च नैमिषं गच्छेत पुण्यं सिद्धनिषेवितम
तत्र नित्यं निवसति बरह्मा देवगणैर वृतः
54 नैमिषं परार्थयानस्य पापस्यार्धं परणश्यति
परविष्टमात्रस तु नरः सर्वपापैः परमुच्यते
55 तत्र मासं वसेद धीरॊ नैमिषे तीर्थतत्परः
पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत
56 अभिषेककृतस तत्र नियतॊ नियताशनः
गवामयस्य यज्ञस्य फलं पराप्नॊति भारत
पुनात्य आ सप्तमं चैव कुलं भरतसत्तम
57 यस तयजेन नैमिषे पराणान उपवासपरायणः
स मॊदेत सवर्गलॊकस्थ एवम आहुर मनीषिणः
नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम
58 गङ्गॊद्भेदं समासाद्य तरिरात्रॊपॊषितॊ नरः
वाजपेयम अवाप्नॊति बरह्मभूतश च जायते
59 सरस्वतीं समासाद्य तर्पयेत पितृदेवताः
सारस्वतेषु लॊकेषु मॊदते नात्र संशयः
60 ततश च बाहुदां गच्छेद बरह्म चारी समाहितः
देव सत्रस्य यज्ञस्य फलं पराप्नॊति मानवः
61 ततश चीरवतीं गच्छेत पुण्यां पुण्यतमैर वृताम
पितृदेवार्चन रतॊ वाजपेयम अवाप्नुयात
62 विमलाशॊकम आसाद्य विराजति यथा शशी
तत्रॊष्य रजनीम एकां सवर्गलॊके महीयते
63 गॊप्रतारं ततॊ गच्छेत सरय्वास तीर्थम उत्तमम
यत्र रामॊ गतः सवर्गं स भृत्यबलवाहनः
64 देहं तयक्त्वा दिवं यातस तस्य तीर्थस्य तेजसा
रामस्य च परसादेन वयवसायाच च भारत
65 तस्मिंस तीर्थे नरः सनात्वा गॊमत्यां कुरुनन्दन
सर्वपापविशुद्धात्मा सवर्गलॊके महीयते
66 राम तीर्थे नरः सनात्वा गॊमत्यां कुरुनन्दन
अश्वमेधम अवाप्नॊति पुनाति च कुलं नरः
67 शतसाहस्रिकं तत्र तीर्थं भरतसत्तम
तत्रॊपस्पर्शनं कृत्वा नियतॊ नियताशनः
गॊसहस्रफलं पुण्यं पराप्नॊति भरतर्षभ
68 ततॊ गच्छेत राजेन्द्र भर्तृस्थानम अनुत्तमम
कॊटितीर्थे नरः सनात्वा अर्चयित्वा गुहं नृप
गॊसहस्रफलं विन्देत तेजस्वी च भवेन नरः
69 ततॊ वाराणसीं गत्वा अर्चयित्वा वृषध्वजम
कपिला हरदे नरः सनात्वा राजसूय फलं लभेत
70 मार्कण्डेयस्य राजेन्द्र तीर्थम आसाद्य दुर्लभम
गॊमती गङ्गयॊश चैव संगमे लॊकविश्रुते
अग्निष्टॊमम अवाप्नॊति कुलं चैव समुद्धरेत
71 ततॊ गयां समासाद्य बरह्म चारी जितेन्द्रियः
अश्वमेधम अवाप्नॊति गमनाद एव भारत
72 तत्राक्षयवतॊ नाम तरिषु लॊकेषु विश्रुतः
पितॄणां तत्र वै दत्तम अक्षयं भवति परभॊ
73 महानद्याम उपस्पृश्य तर्पयेत पितृदेवताः
अक्षयान पराप्नुयाल लॊकान कुलं चैव समुद्धरेत
74 ततॊ बरह्मसरॊ गच्छेद धर्मारण्यॊपशॊभितम
पौण्डरीकम अवाप्नॊति परभाताम एव शर्वरीम
75 तस्मिन सरसि राजेन्द्र बरह्मणॊ यूप उच्छ्रितः
यूपं परदक्षिणं कृत्वा वाजपेयफलं लभेत
76 ततॊ गच्छेत राजेन्द्र धेनुकां लॊकविश्रुताम
एकरत्रॊषितॊ राजन परयच्छेत तिलधेनुकाम
सर्वपापविशुद्धात्मा सॊमलॊकं वरजेद धरुवम
77 तत्र चिह्नं महाराज अद्यापि हि न संशयः
कपिला सह वत्सेन पर्वते विचरत्य उत
स वत्सायाः पदानि सम दृश्यन्ते ऽदयापि भारत
78 तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम
यत किं चिद अशुभं कर्म तत परणश्यति भारत
79 ततॊ गृध्रवटं गच्छेत सथानं देवस्य धीमतः
सनायीत भस्मना तत्र अभिगम्य वृषध्वजम
80 बराह्मणेन भवेच चीर्णं वरतं दवादश वार्षिकम
इतरेषां तु वर्णानां सर्वपापं परणश्यति
81 गच्छेत तत उद्यन्तं पर्वतं गीतनादितम
सावित्रं तु पदं तत्र दृश्यते भरतर्षभ
82 तत्र संध्याम उपासीत बराह्मणः संशितव्रतः
उपास्ता च भवेत संध्या तेन दवादश वार्षिकी
83 यॊनिद्वारं च तत्रैव विश्रुतं भरतर्षभ
तत्राभिगम्य मुच्येत पुरुषॊ यॊनिसंकरात
84 कृष्ण शुक्लाव उभौ पक्षौ गयायां यॊ वसेन नरः
पुनात्य आ सप्तमं राजन कुलं नास्त्य अत्र संशयः
85 एष्टव्या बहवः पुत्रा यद्य एकॊ ऽपि गयां वरजेत
यजेत वाश्वमेधेन नीलं वा वृषम उत्सृजेत
86 ततः फल्गुं वरजेद राजंस तीर्थसेवी नराधिप
अश्वमेधम अवाप्नॊति सिद्धिं च महतीं वरजेत
87 ततॊ गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः
यत्र धर्मॊ महाराज नित्यम आस्ते युधिष्ठिर
अभिगम्य ततस तत्र वाजिमेधफलं लभेत
88 ततॊ गच्छेत राजेन्द्र बरह्मणस तीर्थम उत्तमम
तत्रार्चयित्वा राजेन्द्र बरह्माणम अमितौजसम
राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः
89 ततॊ राजगृहं गच्छेत तीर्थसेवी नराधिप
उपस्पृश्य तपॊदेषु काक्षीवान इव मॊदते
90 यक्षिण्या नैत्यकं तत्र पराश्नीत पुरुषः शुचिः
यक्षिण्यास तु परसादेन मुच्यते भरूण हत्यया
91 मणिनागं ततॊ गत्वा गॊसहस्रफलं लभेत
नैत्यकं भुञ्जते यस तु मणिनागस्य मानवः
92 दष्टस्याशीविषेणापि न तस्य करमते विषम
तत्रॊष्य रजनीम एकां सर्वपापैः परमुच्यते
93 ततॊ गच्छेत बरह्मर्षेर गौतमस्य वनं नृप
अहल्याया हलदे सनात्वा वरजेत परमां गतिम
अभिगम्य शरियं राजन विन्दते शरियम उत्तमाम
94 तत्रॊद पानॊ धर्मज्ञ तरिषु लॊकेषु विश्रुतः
तत्राभिषेकं कृत्वा तु वाजिमेधम अवाप्नुयात
95 जनकस्य तु राजर्षेः कूपस तरिदशपूजितः
तत्राभिषेकं कृत्वा तु विष्णुलॊकम अवाप्नुयात
96 ततॊ विनशनं गच्छेत सर्वपापप्रमॊचनम
वाजपेयम अवाप्नॊति सॊमलॊकं च गच्छति
97 गण्डकीं तु समासाद्य सर्वतीर्थजलॊद्भवाम
वाजपेयम अवाप्नॊति सूर्यलॊकं च गच्छति
98 ततॊ ऽधिवंश्यं धर्मज्ञ समाविश्य तपॊवनम
गुह्यकेषु महाराज मॊदते नात्र संशयः
99 कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम
पुण्डरीकम अवाप्नॊति सूर्यलॊकं च गच्छति
100 ततॊ विशालाम आसाद्य नदीं तरैलॊक्यविश्रुताम
अग्निष्टॊमम अवाप्नॊति सवर्गलॊकं च गच्छति
101 अथ माहेश्वरीं धारां समासाद्य नराधिप
अश्वमेधम अवाप्नॊति कुलं चैव समुद्धरेत
102 दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः
न दुर्गतिम अवाप्नॊति वाजपेयं च विन्दति
103 महेश्वर पदं गच्छेद बरह्म चारी समाहितः
महेश्वर पदे सनात्वा वाजिमेधफलं लभेत
104 तत्र कॊटिस तु तीर्थानां विश्रुता भरतर्षभ
कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना
हरियमाणाहृता राजन विष्णुना परभ विष्णुना
105 तत्राभिषेकं कुर्वाणस तीर्थकॊट्यां युधिष्ठिर
पुण्डरीकम अवाप्नॊति विष्णुलॊकं च गच्छति
106 ततॊ गच्छेत राजेन्द्र सथानं नारायणस्य तु
सदा संनिहितॊ यत्र हरिर वसति भारत
शालग्राम इति खयातॊ विष्णॊर अद्भुतकर्मणः
107 अभिगम्य तरिलॊकेशं वरदं विष्णुम अव्ययम
अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति
108 तत्रॊद पानॊ धर्मज्ञ सर्वपापप्रमॊचनः
समुद्रास तत्र चत्वारः कूपे संनिहिताः सदा
तत्रॊपस्पृश्य राजेन्द्र न दुर्गतिम अवाप्नुयात
109 अभिगम्य महादेवं वरदं विष्णुम अव्ययम
विराजति यथा सॊम ऋणैर मुक्तॊ युधिष्ठिर
110 जातिस्मर उपस्पृश्य शुचिः परयत मानसः
जातिस्मरत्वं पराप्नॊति सनात्वा तत्र न संशयः
111 वटेश्वर पुरं गत्वा अर्चयित्वा तु केशवम
ईप्सिताँल लभते कामान उपवासान न संशयः
112 ततस तु वामनं गत्वा सर्वपापप्रमॊचनम
अभिवाद्य हरिं देवं न दुर्गतिम अवाप्नुयात
113 भरतस्याश्रमं गत्वा सर्वपापप्रमॊचनम
कौशिकीं तत्र सेवेत महापातक नाशिनीम
राजसूयस्य यज्ञस्य फलं पराप्नॊति मानवः
114 ततॊ गच्छेत धर्मज्ञ चम्पकारण्यम उत्तमम
तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत
115 अथ जयेष्ठिलम आसाद्य तीर्थं परमसंमतम
उपॊष्य रजनीम एकाम अग्निष्टॊम फलं लभेत
116 तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम
मित्रा वरुणयॊर लॊकान आप्नॊति पुरुषर्षभ
117 कन्या संवेद्यम आसाद्य नियतॊ नियताशनः
मनॊः परजापतेर लॊकान आप्नॊति भरतर्षभ
118 कन्यायां ये परयच्छन्ति पानम अन्नं च भारत
तद अक्षयम इति पराहुर ऋषयः संशितव्रताः
119 निश्चीरां च समासाद्य तरिषु लॊकेषु विश्रुताम
अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति
120 ये तु दानं परयच्छन्ति निश्चीरा संगमे नराः
ते यान्ति नरशार्दूल बरह्मलॊकं न संशयः
121 तत्राश्रमॊ वसिष्ठस्य तरिषु लॊकेषु विश्रुतः
तत्राभिषेकं कुर्वाणॊ वाजपेयम अवाप्नुयात
122 देवकूटं समासाद्य बरह्मर्षिगणसेवितम
अश्वमेधम अवाप्नॊति कुलं चैव समुद्धरेत
123 ततॊ गच्छेत राजेन्द्र कौशिकस्य मुनेर हरदम
यत्र सिद्धिं परां पराप्तॊ विश्वा मित्रॊ ऽथ कौशिकः
124 तत्र मासं वसेद वीर कौशिक्यां भरतर्षभ
अश्वमेधस्य यत पुण्यं तन मासेनाधिगच्छति
125 सर्वतीर्थवरे चैव यॊ वसेत महाह्रदे
न दुर्गतिम अवाप्नॊति विन्देद बहुसुवर्णकम
126 कुमारम अभिगत्वा च वीराश्रमनिवासिनम
अश्वमेधम अवाप्नॊति नरॊ नास्त्य अत्र संशयः
127 अग्निधारां समासाद्य तरिषु लॊकेषु विश्रुताम
अग्निष्टॊमम अवाप्नॊति न च सवर्गान निवर्तते
128 पिता मह सरॊ गत्वा शैलराजप्रतिष्ठितम
तत्राभिषेकं कुर्वाणॊ अग्निष्टॊम फलं लभेत
129 पिता महस्य सरसः परस्रुता लॊकपावनी
कुमार धारा तत्रैव तरिषु लॊकेषु विश्रुता
130 यत्र सनात्वा कृतार्थॊ ऽसमीत्य आत्मानम अवगच्छति
षष्ठ कालॊपवासेन मुच्यते बरह्महत्यया
131 शिखरं वै महादेव्या गौर्यास तरैलॊक्यविश्रुतम
समारुह्य नरः शराद्धः सतनकुण्डेषु संविशेत
132 तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः
हयमेधम अवाप्नॊति शक्र लॊकं च गच्छति
133 ताम्रारुणं समासाद्य बरह्म चारी समाहितः
अश्वमेधम अवाप्नॊति शक्र लॊकं च गच्छति
134 नन्दिन्यां च समासाद्य कूपं तरिदशसेवितम
नरमेधस्य यत पुण्यं तत पराप्नॊति कुरूद्वह
135 कालिका संगमे सनात्वा कौशिक्यारुणयॊर यतः
तरिरात्रॊपॊषितॊ विद्वान सर्वपापैः परमुच्यते
136 उर्वशी तीर्थम आसाद्य ततः सॊमाश्रमं बुधः
कुम्भकर्णाश्रमे सनात्वा पूज्यते भुवि मानवः
137 सनात्वा कॊका मुखे पुण्ये बरह्म चारी यतव्रतः
जातिस्मरत्वं पराप्नॊति दृष्टम एतत पुरातने
138 सकृन नन्दां समासाद्य कृतात्मा भवति दविजः
सर्वपापविशुद्धात्मा शक्र लॊकं च गच्छति
139 ऋषभद्वीपम आसाद्य सेव्यं करौञ्चनिषूदनम
सरस्वत्याम उपस्पृश्य विमानस्थॊ विराजते
140 औद्दालकं महाराज तीर्थं मुनिनिषेवितम
तत्राभिषेकं कुर्वीत सर्वपापैः परमुच्यते
141 धर्मतीर्थं समासाद्य पुण्यं बरह्मर्षिसेवितम
वाजपेयम अवाप्नॊति नरॊ नास्त्य अत्र संशयः
142 तथा चम्पां समासाद्य भागीरथ्यां कृतॊदकः
दण्डार्कम अभिगम्यैव गॊसहस्रफलं लभेत
143 लवेडिकां ततॊ गच्छेत पुण्यां पुण्यॊपसेविताम
वाजपेयम अवाप्नॊति विमानस्थश च पूज्यते
1 [pulastya]
tato gaccheta dharmajña dharmatīrthaṃ purātanam
tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ
ā saptamaṃ kulaṃ rājan punīte nātra saṃśayaḥ
2 tato gaccheta dharmajña kārā patanam uttamam
agniṣṭomam avāpnoti munilokaṃ ca gacchati
3 saugandhikaṃ vanaṃ rājaṃs tato gaccheta mānavaḥ
yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
4 siddhacāraṇagandharvāḥ kiṃnarāḥ sa mahoragāḥ
tad vanaṃ praviśann eva sarvapāpaiḥ pramucyate
5 tato hi sā saricchreṣṭhā nadīnām uttamā nadī
plakṣād devī srutā rājan mahāpuṇyā sarasvatī
6 tatrābhiṣekaṃ kurvīta valmīkān niḥsṛte jale
arcayitvā pitṝn devān aśvamedha phalaṃ labhet
7 īśānādhyuṣitaṃ nāma tatra tīrthaṃ sudurlabham
ṣaṭsu śamyā nipāteṣu valmīkād iti niścayaḥ
8 kapilānāṃ sahasraṃ ca vājimedhaṃ ca vindati
tatra snātvā naravyāghra dṛṣṭam etat purātane
9 sugandhāṃ śatakumbhāṃ ca pañca yajñāṃ ca bhārata
abhigamya naraśreṣṭha svargaloke mahīyate
10 triśūlakhātaṃ tatraiva tīrtham āsādya bhārata
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
gāṇapatyaṃ sa labhate dehaṃ tyaktvā na saṃśayaḥ
11 tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham
śākambharīti vikhyātā triṣu lokeṣu viśrutā
12 divyaṃ varṣasahasraṃ hi śākena kila suvrata
āhāraṃ sā kṛtavatī māsi māsi narādhipa
13 ṛṣayo 'bhyāgatās tatra devyā bhaktyā tapodhanāḥ
ātithyaṃ ca kṛtaṃ teṣāṃ śākena kila bhārata
tataḥ śākambharīty eva nāma tasyāḥ pratiṣṭhitam
14 śākambharīṃ samāsādya brahma cārī samāhitaḥ
trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ
15 śākāhārasya yat samyag varṣair dvādaśabhiḥ phalam
tat phalaṃ tasya bhavati devyāś chandena bhārata
16 tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam
yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā
17 varāṃś ca subahūṁl lebhe daivateṣu sudurlabhān
uktaś ca tripuraghnena parituṣṭena bhārata
18 api cāsmat priyataro loke kṛṣṇa bhaviṣyasi
tvan mukhaṃ ca jagat kṛtsnaṃ bhaviṣyati na saṃśayaḥ
19 tatrābhigamya rājendra pūjayitvā vṛṣadhvajam
aśvamedham avāpnoti gāṇapatyaṃ ca vindati
20 dhūmāvatīṃ tato gacchet triratropoṣito naraḥ
manasā prārthitān kāmāṁl labhate nātra saṃśayaḥ
21 devyās tu dakṣiṇārdhena rathāvarto narādhipa
tatrāroheta dharmajña śradadhāno jitendriyaḥ
mahādeva prasādād dhi gaccheta paramaṃ gatim
22 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha
dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm
tatra snātvā naravyāghra na śocati narādhipa
23 tato gaccheta dharmajña namaskṛtya mahāgirim
svargadvāreṇa yat tulyaṃ gaṅgā dvāraṃ na saṃśayaḥ
24 tatrābhiṣekaṃ kurvīta koṭitīrthe samāhitaḥ
puṇḍarīkam avāpnoti kulaṃ caiva samuddharet
25 sapta gaṅge trigaṅge ca śakrāvarte ca tarpayan
devān pitṝṃś ca vidhivat puṇyaloke mahīyate
26 tataḥ kanakhale snātvā trirātropoṣito naraḥ
aśvamedham avāpnoti svargalokaṃ ca gacchati
27 kapilā vaṭaṃ ca gaccheta tīrthasevī narādhipa
uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet
28 nāgarājasya rājendra kapilasya mahātmanāḥ
tīrthaṃ kuru varaśreṣṭha sarvalokeṣu viśrutam
29 tatrābhiṣekaṃ kurvīta nāgatīrthe narādhipa
kapilānāṃ sahasrasya phalaṃ prāpnoti mānavaḥ
30 tato lalitikāṃ gacchec chaṃtanor tīrtham uttamam
tatra snātvā naro rājan na durgatim avāpnuyāt
31 gaṅgā saṃgamayoś caiva snāti yaḥ saṃgame naraḥ
daśāśvamedhān āpnoti kulaṃ caiva samuddharet
32 tato gaccheta rājendra sugandhāṃ lokaviśrutām
sarvapāpaviśuddhātmā brahmaloke mahīyate
33 rudrāvartaṃ tato gacchet tīrthasevī narādhipa
tatra snātvā naro rājan svargaloke mahīyate
34 gaṅgāyāś ca naraśreṣṭha sarasvatyāś ca saṃgame
snāto 'śvamedham āpnoti svargalokaṃ ca gacchati
35 bhadra karṇeśvaraṃ gatvā devam arcya yathāvidhi
na durgatim avāpnoti svargalokaṃ ca gacchati
36 tataḥ kubjāmrakaṃ gacchet tīrthasevī yathākramam
gosahasram avāpnoti svargalokaṃ ca gacchati
37 arundhatī vaṭaṃ gacchet tīrthasevī narādhipa
sāmudrakam upaspṛśya trirātropoṣito naraḥ
gosahasraphalaṃ vindet kulaṃ caiva samuddharet
38 brahmāvartaṃ tato gacched brahma cārī samāhitaḥ
aśvamedham avāpnoti svargalokaṃ ca gacchati
39 yamunā prabhavaṃ gatvā upaspṛśya ca yāmune
aśvamedha phalaṃ labdhvā svargaloke mahīyate
40 darvī saṃkramaṇaṃ prāpya tīrthaṃ trailokyaviśrutam
aśvamedham avāpnoti svargalokaṃ ca gacchati
41 sindhor ca prabhavaṃ gatvā siddhagandharvasevitam
tatroṣya rajanīḥ pañca vindyād bahusuvarṇakam
42 atha vedīṃ samāsādya naraḥ paramadurgamām
aśvamedham avāpnoti gacchec cauśanasīṃ gatim
43 ṛṣikulyāṃ samāsādya vāsiṣṭhaṃ caiva bhārata
vāsiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ
44 ṛṣikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate
yadi tatra vasen māsaṃ śākāhāro narādhipa
45 bhṛgutuṅgaṃ samāsādya vājimedhaphalaṃ labhet
gatvā vīra pramokṣaṃ ca sarvapāpaiḥ pramucyate
46 kṛttikā maghayoś caiva tīrtham āsādya bhārata
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti puṇyakṛt
47 tataḥ saṃdhyāṃ samāsādya vidyā tīrtham anuttamam
upaspṛśya ca vidyānāṃ sarvāsāṃ pārago bhavet
48 mahāśrame vased rātriṃ sarvapāpapramocane
ekakālaṃ nirāhāro lokān āvasate śubhān
49 ṣaṣṭha kālopavāsena māsam uṣya mahālaye
sarvapāpaviśuddhātmā vindyād bahusuvarṇakam
50 atha vetasikāṃ gatvā pitā maha niṣevitām
aśvamedham avāpnoti gacchec cauśanasīṃ gatim
51 atha sundarikā tīrthaṃ prāpya siddhaniṣevitam
rūpasya bhāgī bhavati dṛṣṭam etat purātane
52 tato vai brāhmaṇīṃ gatvā brahma cārī jitendriyaḥ
padmavarṇena yānena brahmalokaṃ prapadyate
53 tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam
tatra nityaṃ nivasati brahmā devagaṇair vṛtaḥ
54 naimiṣaṃ prārthayānasya pāpasyārdhaṃ praṇaśyati
praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate
55 tatra māsaṃ vased dhīro naimiṣe tīrthatatparaḥ
pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata
56 abhiṣekakṛtas tatra niyato niyatāśanaḥ
gavāmayasya yajñasya phalaṃ prāpnoti bhārata
punāty ā saptamaṃ caiva kulaṃ bharatasattama
57 yas tyajen naimiṣe prāṇān upavāsaparāyaṇaḥ
sa modet svargalokastha evam āhur manīṣiṇaḥ
nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama
58 gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ
vājapeyam avāpnoti brahmabhūtaś ca jāyate
59 sarasvatīṃ samāsādya tarpayet pitṛdevatāḥ
sārasvateṣu lokeṣu modate nātra saṃśayaḥ
60 tataś ca bāhudāṃ gacched brahma cārī samāhitaḥ
deva satrasya yajñasya phalaṃ prāpnoti mānavaḥ
61 tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām
pitṛdevārcana rato vājapeyam avāpnuyāt
62 vimalāśokam āsādya virājati yathā śaśī
tatroṣya rajanīm ekāṃ svargaloke mahīyate
63 gopratāraṃ tato gacchet sarayvās tīrtham uttamam
yatra rāmo gataḥ svargaṃ sa bhṛtyabalavāhanaḥ
64 dehaṃ tyaktvā divaṃ yātas tasya tīrthasya tejasā
rāmasya ca prasādena vyavasāyāc ca bhārata
65 tasmiṃs tīrthe naraḥ snātvā gomatyāṃ kurunandana
sarvapāpaviśuddhātmā svargaloke mahīyate
66 rāma tīrthe naraḥ snātvā gomatyāṃ kurunandana
aśvamedham avāpnoti punāti ca kulaṃ naraḥ
67 śatasāhasrikaṃ tatra tīrthaṃ bharatasattama
tatropasparśanaṃ kṛtvā niyato niyatāśanaḥ
gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha
68 tato gaccheta rājendra bhartṛsthānam anuttamam
koṭitīrthe naraḥ snātvā arcayitvā guhaṃ nṛpa
gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ
69 tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam
kapilā hrade naraḥ snātvā rājasūya phalaṃ labhet
70 mārkaṇḍeyasya rājendra tīrtham āsādya durlabham
gomatī gaṅgayoś caiva saṃgame lokaviśrute
agniṣṭomam avāpnoti kulaṃ caiva samuddharet
71 tato gayāṃ samāsādya brahma cārī jitendriyaḥ
aśvamedham avāpnoti gamanād eva bhārata
72 tatrākṣayavato nāma triṣu lokeṣu viśrutaḥ
pitṝṇāṃ tatra vai dattam akṣayaṃ bhavati prabho
73 mahānadyām upaspṛśya tarpayet pitṛdevatāḥ
akṣayān prāpnuyāl lokān kulaṃ caiva samuddharet
74 tato brahmasaro gacched dharmāraṇyopaśobhitam
pauṇḍarīkam avāpnoti prabhātām eva śarvarīm
75 tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ
yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet
76 tato gaccheta rājendra dhenukāṃ lokaviśrutām
ekaratroṣito rājan prayacchet tiladhenukām
sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam
77 tatra cihnaṃ mahārāja adyāpi hi na saṃśayaḥ
kapilā saha vatsena parvate vicaraty uta
sa vatsāyāḥ padāni sma dṛśyante 'dyāpi bhārata
78 teṣūpaspṛśya rājendra padeṣu nṛpasattama
yat kiṃ cid aśubhaṃ karma tat praṇaśyati bhārata
79 tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ
snāyīta bhasmanā tatra abhigamya vṛṣadhvajam
80 brāhmaṇena bhavec cīrṇaṃ vrataṃ dvādaśa vārṣikam
itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaśyati
81 gaccheta tata udyantaṃ parvataṃ gītanāditam
sāvitraṃ tu padaṃ tatra dṛśyate bharatarṣabha
82 tatra saṃdhyām upāsīta brāhmaṇaḥ saṃśitavrataḥ
upāstā ca bhavet saṃdhyā tena dvādaśa vārṣikī
83 yonidvāraṃ ca tatraiva viśrutaṃ bharatarṣabha
tatrābhigamya mucyeta puruṣo yonisaṃkarāt
84 kṛṣṇa śuklāv ubhau pakṣau gayāyāṃ yo vasen naraḥ
punāty ā saptamaṃ rājan kulaṃ nāsty atra saṃśayaḥ
85 eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet
yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet
86 tataḥ phalguṃ vrajed rājaṃs tīrthasevī narādhipa
aśvamedham avāpnoti siddhiṃ ca mahatīṃ vrajet
87 tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ
yatra dharmo mahārāja nityam āste yudhiṣṭhira
abhigamya tatas tatra vājimedhaphalaṃ labhet
88 tato gaccheta rājendra brahmaṇas tīrtham uttamam
tatrārcayitvā rājendra brahmāṇam amitaujasam
rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
89 tato rājagṛhaṃ gacchet tīrthasevī narādhipa
upaspṛśya tapodeṣu kākṣīvān iva modate
90 yakṣiṇyā naityakaṃ tatra prāśnīta puruṣaḥ śuciḥ
yakṣiṇyās tu prasādena mucyate bhrūṇa hatyayā
91 maṇināgaṃ tato gatvā gosahasraphalaṃ labhet
naityakaṃ bhuñjate yas tu maṇināgasya mānavaḥ
92 daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam
tatroṣya rajanīm ekāṃ sarvapāpaiḥ pramucyate
93 tato gaccheta brahmarṣer gautamasya vanaṃ nṛpa
ahalyāyā hlade snātvā vrajeta paramāṃ gatim
abhigamya śriyaṃ rājan vindate śriyam uttamām
94 tatroda pāno dharmajña triṣu lokeṣu viśrutaḥ
tatrābhiṣekaṃ kṛtvā tu vājimedham avāpnuyāt
95 janakasya tu rājarṣeḥ kūpas tridaśapūjitaḥ
tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt
96 tato vinaśanaṃ gacchet sarvapāpapramocanam
vājapeyam avāpnoti somalokaṃ ca gacchati
97 gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām
vājapeyam avāpnoti sūryalokaṃ ca gacchati
98 tato 'dhivaṃśyaṃ dharmajña samāviśya tapovanam
guhyakeṣu mahārāja modate nātra saṃśayaḥ
99 kampanāṃ tu samāsādya nadīṃ siddhaniṣevitām
puṇḍarīkam avāpnoti sūryalokaṃ ca gacchati
100 tato viśālām āsādya nadīṃ trailokyaviśrutām
agniṣṭomam avāpnoti svargalokaṃ ca gacchati
101 atha māheśvarīṃ dhārāṃ samāsādya narādhipa
aśvamedham avāpnoti kulaṃ caiva samuddharet
102 divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ
na durgatim avāpnoti vājapeyaṃ ca vindati
103 maheśvara padaṃ gacched brahma cārī samāhitaḥ
maheśvara pade snātvā vājimedhaphalaṃ labhet
104 tatra koṭis tu tīrthānāṃ viśrutā bharatarṣabha
kūrmarūpeṇa rājendra asureṇa durātmanā
hriyamāṇāhṛtā rājan viṣṇunā prabha viṣṇunā
105 tatrābhiṣekaṃ kurvāṇas tīrthakoṭyāṃ yudhiṣṭhira
puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati
106 tato gaccheta rājendra sthānaṃ nārāyaṇasya tu
sadā saṃnihito yatra harir vasati bhārata
śālagrāma iti khyāto viṣṇor adbhutakarmaṇaḥ
107 abhigamya trilokeśaṃ varadaṃ viṣṇum avyayam
aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
108 tatroda pāno dharmajña sarvapāpapramocanaḥ
samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā
tatropaspṛśya rājendra na durgatim avāpnuyāt
109 abhigamya mahādevaṃ varadaṃ viṣṇum avyayam
virājati yathā soma ṛṇair mukto yudhiṣṭhira
110 jātismara upaspṛśya śuciḥ prayata mānasaḥ
jātismaratvaṃ prāpnoti snātvā tatra na saṃśayaḥ
111 vaṭeśvara puraṃ gatvā arcayitvā tu keśavam
īpsitāṁl labhate kāmān upavāsān na saṃśayaḥ
112 tatas tu vāmanaṃ gatvā sarvapāpapramocanam
abhivādya hariṃ devaṃ na durgatim avāpnuyāt
113 bharatasyāśramaṃ gatvā sarvapāpapramocanam
kauśikīṃ tatra seveta mahāpātaka nāśinīm
rājasūyasya yajñasya phalaṃ prāpnoti mānavaḥ
114 tato gaccheta dharmajña campakāraṇyam uttamam
tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet
115 atha jyeṣṭhilam āsādya tīrthaṃ paramasaṃmatam
upoṣya rajanīm ekām agniṣṭoma phalaṃ labhet
116 tatra viśveśvaraṃ dṛṣṭvā devyā saha mahādyutim
mitrā varuṇayor lokān āpnoti puruṣarṣabha
117 kanyā saṃvedyam āsādya niyato niyatāśanaḥ
manoḥ prajāpater lokān āpnoti bharatarṣabha
118 kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata
tad akṣayam iti prāhur ṛṣayaḥ saṃśitavratāḥ
119 niścīrāṃ ca samāsādya triṣu lokeṣu viśrutām
aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
120 ye tu dānaṃ prayacchanti niścīrā saṃgame narāḥ
te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ
121 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ
tatrābhiṣekaṃ kurvāṇo vājapeyam avāpnuyāt
122 devakūṭaṃ samāsādya brahmarṣigaṇasevitam
aśvamedham avāpnoti kulaṃ caiva samuddharet
123 tato gaccheta rājendra kauśikasya muner hradam
yatra siddhiṃ parāṃ prāpto viśvā mitro 'tha kauśikaḥ
124 tatra māsaṃ vased vīra kauśikyāṃ bharatarṣabha
aśvamedhasya yat puṇyaṃ tan māsenādhigacchati
125 sarvatīrthavare caiva yo vaseta mahāhrade
na durgatim avāpnoti vinded bahusuvarṇakam
126 kumāram abhigatvā ca vīrāśramanivāsinam
aśvamedham avāpnoti naro nāsty atra saṃśayaḥ
127 agnidhārāṃ samāsādya triṣu lokeṣu viśrutām
agniṣṭomam avāpnoti na ca svargān nivartate
128 pitā maha saro gatvā śailarājapratiṣṭhitam
tatrābhiṣekaṃ kurvāṇo agniṣṭoma phalaṃ labhet
129 pitā mahasya sarasaḥ prasrutā lokapāvanī
kumāra dhārā tatraiva triṣu lokeṣu viśrutā
130 yatra snātvā kṛtārtho 'smīty ātmānam avagacchati
ṣaṣṭha kālopavāsena mucyate brahmahatyayā
131 śikharaṃ vai mahādevyā gauryās trailokyaviśrutam
samāruhya naraḥ śrāddhaḥ stanakuṇḍeṣu saṃviśet
132 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ
hayamedham avāpnoti śakra lokaṃ ca gacchati
133 tāmrāruṇaṃ samāsādya brahma cārī samāhitaḥ
aśvamedham avāpnoti śakra lokaṃ ca gacchati
134 nandinyāṃ ca samāsādya kūpaṃ tridaśasevitam
naramedhasya yat puṇyaṃ tat prāpnoti kurūdvaha
135 kālikā saṃgame snātvā kauśikyāruṇayor yataḥ
trirātropoṣito vidvān sarvapāpaiḥ pramucyate
136 urvaśī tīrtham āsādya tataḥ somāśramaṃ budhaḥ
kumbhakarṇāśrame snātvā pūjyate bhuvi mānavaḥ
137 snātvā kokā mukhe puṇye brahma cārī yatavrataḥ
jātismaratvaṃ prāpnoti dṛṣṭam etat purātane
138 sakṛn nandāṃ samāsādya kṛtātmā bhavati dvijaḥ
sarvapāpaviśuddhātmā śakra lokaṃ ca gacchati
139 ṛṣabhadvīpam āsādya sevyaṃ krauñcaniṣūdanam
sarasvatyām upaspṛśya vimānastho virājate
140 auddālakaṃ mahārāja tīrthaṃ muniniṣevitam
tatrābhiṣekaṃ kurvīta sarvapāpaiḥ pramucyate
141 dharmatīrthaṃ samāsādya puṇyaṃ brahmarṣisevitam
vājapeyam avāpnoti naro nāsty atra saṃśayaḥ
142 tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ
daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet
143 laveḍikāṃ tato gacchet puṇyāṃ puṇyopasevitām
vājapeyam avāpnoti vimānasthaś ca pūjyate

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

382 of 2013 Book 19% ~15 min left