Book 3: Chapter 81
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 3: Chapter 81

The Mahabharata in Sanskrit

Book 3
Chapter 81

1 [पुलस्त्य]
ततॊ गच्छेत राजेन्द्र कुरुक्षेत्रम अभिष्टुतम
पापेभ्यॊ विप्रमुच्यन्ते तद्गताः सर्वजन्तवः
2 कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य अहम
य एवं सततं बरूयात सॊ ऽपि पापैः परमुच्यते
3 अत्र मासं वसेद वीर सरस्वत्यां युधिष्ठिर
यत्र बरह्मादयॊ देव ऋषयः सिद्धचारणाः
4 गन्धर्वाप्सरसॊ यक्षाः पन्नगाश च महीपते
बरह्म कषेत्रं महापुण्यम अभिगच्छन्ति भारत
5 मनसाप्य अभिकामस्य कुरुक्षेत्रं युधिष्ठिर
पापाणि विप्रणश्यन्ति बरह्मलॊकं च गच्छति
6 गत्वा हि शरद्धया युक्तः कुरुक्षेत्रं कुरूद्वह
राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः
7 ततॊ मचक्रुकं राजन दवारपालं महाबलम
यक्षं समभिवाद्यैव गॊसहस्रफलं लभेत
8 ततॊ गच्छेत धर्मज्ञ विष्णॊर सथानम अनुत्तमम
सततं नाम राजेन्द्र यत्र संनिहितॊ हरिः
9 तत्र सनात्वार्चयित्वा च तरिलॊकप्रभवं हरिम
अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति
10 ततः पारिप्लवं गच्छेत तीर्थं तरैलॊक्यविश्रुतम
अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति मानवः
11 पृथिव्यास तीर्थम आसाद्य गॊसहस्रफलं लभेत
ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप
दशाश्वमेधिके सनात्वा तद एव लभते फलम
12 सर्पदर्वीं समासाद्य नागानां तीर्थम उत्तमम
अग्निष्टॊमम अवाप्नॊति नागलॊकं च विन्दति
13 ततॊ गच्छेत धर्मज्ञ दवारपालं तरन्तुकम
तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत
14 ततः पञ्चनदं गत्वा नियतॊ नियताशनः
कॊटिकीर्थम उपस्पृश्य हयमेध फलं लभेत
अश्विनॊस तीर्थम आसाद्य रूपवान अभिजायते
15 ततॊ गच्छेत धर्मज्ञ वाराहं तीर्थम उत्तमम
विष्णुर वाराह रूपेण पूर्वं यत्र सथितॊ ऽभवत
तत्र सनात्वा नरव्याघ्र अग्निष्टॊम फलं लभेत
16 ततॊ जयन्त्या राजेन्द्र सॊमतीर्थं समाविशेत
सनात्वा फलम अवाप्नॊति राजसूयस्य मानवः
17 एकहंसे नरः सनात्वा गॊसहस्रफलं लभेत
कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह
पुण्डरीकम अवाप्नॊति कृतशौचॊ भवेन नरः
18 ततॊ मुञ्ज वटं नाम महादेवस्य धीमतः
तत्रॊष्य रजनीम एकां गाणपत्यम अवाप्नुयात
19 तत्रैव च महाराज यक्षी लॊकपरिश्रुता
तां चाभिगम्य राजेन्द्र पुण्याँल लॊकान अवाप्नुयात
20 कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ
परदक्षिणम उपावृत्य तीर्थसेवी समाहितः
21 संमिते पुष्कराणां च सनात्वार्च्य पितृदेवताः
जामदग्न्येन रामेण आहृते वै महात्मना
कृतकृत्यॊ भवेद राजन्न अश्वमेधं च विन्दति
22 ततॊ रामह्रदान गच्छेत तीर्थसेवी नराधिप
यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा
कषत्रम उत्साद्य वीर्येण हरदाः पञ्च निवेशिताः
23 पूरयित्वा नरव्याघ्र रुधिरेणेति नः शरुतम
पितरस तर्पिताः सर्वे तथैव च पिता महाः
ततस ते पितरः परीता रामम ऊचुर महीपते
24 रम राम महाभाग परीताः सम तव भार्गव
अनया पितृभक्त्या च विक्रमेण च ते विभॊ
वरं वृणीष्व भद्रं ते किम इच्छसि महाद्युते
25 एवम उक्तः स राजेन्द्र रामः परहरतां वरः
अब्रवीत पराञ्जलिर वाक्यं पितॄन स गगने सथितान
26 भवन्तॊ यदि मे परीता यद्य अनुग्राह्यता मयि
पितृप्रसादाद इच्छेयं तपसाप्यायनं पुनः
27 यच च रॊषाभिभूतेन कषत्रम उत्सादितं मया
ततश च पापान मुच्येयं युष्माकं तेजसा हय अहम
हरदाश च तीर्थभूता मे भवेयुर भुवि विश्रुताः
28 एतच छरुत्वा शुभं वाक्यं रामस्य पितरस तदा
परत्यूचुः परमप्रीता रामं हर्षसमन्विताः
29 तपस ते वर्धतां भूयः पितृभक्त्या विशेषतः
यच च रॊषाभिभूतेन कषत्रम उत्सादितं तवया
30 ततश च पापान मुक्तस तवं कर्मभिस ते च पातिताः
हरदाश च तव तीर्थत्वं गमिष्यन्ति न संशयः
31 हरदेष्व एतेषु यः सनात्वा पितॄन संतर्पयिष्यति
पितरस तस्य वै परीता दास्यन्ति भुवि दुर्लभम
ईप्सितं मनसः कामं सवर्गलॊकं च शाश्वतम
32 एवं दत्त्वा वरान राजन रामस्य पितरस तदा
आमन्त्र्य भार्गवं परीतास तत्रैवान्तर दधुस तदा
33 एवं रामह्रदाः पुण्या भार्गवस्य महात्मनाः
सनात्वा हरदेषु रामस्य बरह्म चारी शुभव्रतः
रामम अभ्यर्च्य राजेन्द्र लभेद बहुसुवर्णकम
34 वंशमूलकम आसाद्य तीर्थसेवी कुरूद्वह
सववंशम उद्धरेद राजन सनात्वा वै वंशमूलके
35 कायशॊधनम आसाद्य तीर्थं भरतसत्तम
शरीरशुद्धिः सनातस्य तस्मिंस तीर्थे न संशयः
शुद्धदेहश च संयाति शुभाँल लॊकान अनुत्तमान
36 ततॊ गच्छेत राजेन्द्र तीर्थं तरैलॊक्यविश्रुतम
लॊका यत्रॊद्धृताः पूर्वं विष्णुना परभ विष्णुना
37 लॊकॊद्धारं समासाद्य तीर्थं तरैलॊक्यविश्रुतम
सनात्वा तीर्थवरे राजँल लॊकान उद्धरते सवकान
शरीतीर्थं च समासाद्य विन्दते शरियम उत्तमाम
38 कपिला तीर्थम आसाद्य बरह्म चारी समाहितः
तत्र सनात्वार्चयित्वा च दैवतानि पितॄंस तथा
कपिलानां सहस्रस्य फलं विन्दति मानवः
39 सूर्यतीर्थं समासाद्य सनात्वा नियतमानसः
अर्चयित्वा पितॄन देवान उपवासपरायणः
अग्निष्टॊमम अवाप्नॊति सूर्यलॊकं च गच्छति
40 गमां भवनम आसाद्य तीर्थसेवी यथाक्रमम
तत्राभिषेकं कुर्वाणॊ गॊसहस्रफलं लभेत
41 शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह
देव्यास तीर्थे नरः सनात्वा लभते रूपम उत्तमम
42 ततॊ गच्छेत राजेन्द्र दवारपालम अरन्तुकम
तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनाः
तत्र सनात्वा नरॊ राजन्न अग्निष्टॊम फलं लभेत
43 ततॊ गच्छेत धर्मज्ञ बरह्मावर्तं नराधिप
बरह्मावर्ते नरः सनात्वा बरह्मलॊकम अवाप्नुयात
44 ततॊ गच्छेत धर्मज्ञ सुतीर्थकम अनुत्तमम
यत्र संनिहिता नित्यं पितरॊ दैवतैः सह
45 तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
अश्वमेधम अवाप्नॊति पितृलॊकं च गच्छति
46 ततॊ ऽमबुवश्यं धर्मज्ञ समासाद्य यथाक्रमम
कॊशेश्वरस्य तीर्थेषु सनात्वा भरतसत्तम
सर्वव्याधिविनिर्मुक्तॊ बरह्मलॊके महीयते
47 मातृतीर्थं च तत्रैव यत्र सनातस्य भारत
परजा विवर्धते राजन्न अनन्तां चाश्नुते शरियम
48 ततः शीतवनं गच्छेन नियतॊ नियताशनः
तीर्थं तत्र महाराज महद अन्यत्र दुर्लभम
49 पुनाति दर्शनाद एव दण्डेनैकं नराधिप
केशान अभ्युक्ष्य वै तस्मिन पूतॊ भवति भारत
50 तीर्थं तत्र महाराज शवानलॊमापहं समृतम
यतविप्रा नरव्याघ्र विद्वांसस तीर्थतत्पराः
51 शवानलॊमापनयने तीर्थे भरतसत्तम
पराणायामैर निर्हरन्ति शवलॊमानि दविजॊत्तमाः
52 पूतात्मानश च राजेन्द्र परयान्ति परमां गतिम
दशाश्वमेधिकं चैव तस्मिंस तीर्थे महीपते
तत्र सनात्वा नरव्याघ्र गच्छेत परमां गतिम
53 ततॊ गच्छेत राजेन्द्र मानुषं लॊकविश्रुतम
यत्र कृष्णमृगा राजन वयाधेन परिपीडिताः
अवगाह्य तस्मिन सरसि मानुषत्वम उपागताः
54 तस्मिंस तीर्थे नरः सनात्वा बरह्म चारी जितेन्द्रियः
सर्वपापविशुद्धात्मा सवर्गलॊके महीयते
55 मानुषस्य तु पूर्वेण करॊशमात्रे महीपते
आपगा नाम विख्याता नदी सिद्धनिषेविता
56 शयामाक भॊजनं तत्र यः परयच्छति मानवः
देवान पितॄंश च उद्दिश्य तस्य धर्मफलं महत
एकस्मिन भॊजिते विप्रे कॊटिर भवति भॊजिता
57 तत्र सनात्वार्चयित्वा च दैवतानि पितॄंस तथा
उषित्वा रजनीम एकाम अग्निष्टॊम फलं लभेत
58 ततॊ गच्छेत राजेन्द्र बरह्मणः सथानम उत्तमम
बरह्मॊदुम्बरम इत्य एव परकाशं भुवि भारत
59 तत्र सप्तर्षिकुण्डेषु सनातस्य कुरुपुंगव
केदारे चैव राजेन्द्र कपिष्ठल महात्मनाः
60 बरह्माणम अभिगम्याथ शुचिः परयत मानसः
सर्वपापविशुद्धात्मा बरह्मलॊकं परपद्यते
61 कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम
अन्तर्धानम अवाप्नॊति तपसा दग्धकिल्बिषः
62 ततॊ गच्छेत राजेन्द्र सरकं लॊकविश्रुतम
कृष्णपक्षे चतुर्दश्याम अभिगम्य वृषध्वजम
लभते सर्वकामान हि सवर्गलॊकं च गच्छति
63 तिस्रः कॊट्यस तु तीर्थानां सरके कुरुनन्दन
रुद्र कॊटिस तथा कूपे हरदेषु च महीपते
इलास्पदं च तत्रैव तीर्थं भरतसत्तम
64 तत्र सनात्वार्चयित्वा च पितॄन देवांश च भारत
न दुर्गतिम अवाप्नॊति वाजपेयं च विन्दति
65 किंदाने च नरः सनात्वा किंजप्ये च महीपते
अप्रमेयम अवाप्नॊति दानं जप्यं च भारत
66 कलश्यां चाप्य उपस्पृश्य शरद्दधानॊ जितेन्द्रियः
अग्निष्टॊमस्य यज्ञस्य फलं पराप्नॊति मानवः
67 सरकस्य तु पूर्वेण नारदस्य महात्मनाः
तीर्थं कुरु वरश्रेष्ठ अनाजन्मेति विश्रुतम
68 तत्र तीर्थे नरः सनात्वा पराणांश चॊत्सृज्य भारत
नारदेनाभ्यनुज्ञातॊ लॊकान पराप्नॊति दुर्लभान
69 शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत
तत्र सनात्वा नरॊ राजन पुण्डरीकफलं लभेत
70 ततस तरिविष्टपं गच्छेत तरिषु लॊकेषु विश्रुतम
तत्र वैतरणी पुण्या नदी पापप्रमॊचनी
71 तत्र सनात्वार्चयित्वा च शूलपाणिं वृषध्वजम
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम
72 ततॊ गच्छेत राजेन्द्र फलकी वनम उत्तमम
यत्र देवाः सदा राजन फलकी वनम आश्रिताः
तपश चरन्ति विपुलं बहुवर्षसहस्रकम
73 दृषद्वत्यां नरः सनात्वा तर्पयित्वा च देवताः
अग्निष्टॊमातिरात्राभ्यां फलं विन्दति भारत
74 तीर्थे च सर्वदेवानां सनात्वा भरतसत्तम
गॊसहस्रस्य राजेन्द्र फलं पराप्नॊति मानवः
75 पाणिखाते नरः सनात्वा तर्पयित्वा च देवताः
राजसूयम अवाप्नॊति ऋषिलॊकं च गच्छति
76 ततॊ गच्छेत राजेन्द्र मिश्रकं तीर्थम उत्तमम
तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना
77 वयासेन नृपशार्दूल दविजार्थम इति नः शरुतम
सर्वतीर्थेषु स सनाति मिश्रके सनाति यॊ नरः
78 ततॊ वयास वनं गच्छेन नियतॊ नियताशनः
मनॊजवे नरः सनात्वा गॊसहस्रफलं लभेत
79 गत्वा मधु वटीं चापि देव्यास तीर्थं नरः शुचिः
तत्र सनात्वार्चयेद देवान पितॄंश च परयतः शुचिः
स देव्या समनुज्ञातॊ गॊसहस्रफलं लभेत
80 कौशिक्याः संगमे यस तु दृषद्वत्याश च भारत
सनाति वै नियताहारः सर्वपापैः परमुच्यते
81 ततॊ वयास सथली नाम यत्र वयासेन धीमता
पुत्रशॊकाभितप्तेन देहत्यागार्थ निश्चयः
82 कृतॊ देवैश च राजेन्द्र पुनर उत्थापितस तदा
अभिगम्य सथलीं तस्य गॊसहस्रफलं लभेत
83 किं दत्तं कूपम आसाद्य तिलप्रस्थं परदाय च
गच्छेत परमां सिद्धिम ऋणैर मुक्तः कुरूद्वह
84 अहश च सुदिनं चैव दवे तीर्थे च सुदुर्लभे
तयॊः सनात्वा नरव्याघ्र सूर्यलॊकम अवाप्नुयात
85 मृगधूमं ततॊ गच्छेत तरिषु लॊकेषु विश्रुतम
तत्र गङ्गा हरदे सनात्वा समभ्यर्च्य च मानवः
शूलपाणिं महादेवम अश्वमेध फलं लभेत
86 देव तीर्थे नरः सनात्वा गॊसहस्रफलं लभेत
अथ वामनकं गच्छेत तरिषु लॊकेषु विश्रुतम
87 तत्र विष्णुपदे सनात्वा अर्चयित्वा च वामनम
सर्वपापविशुद्धात्मा विष्णुलॊकम अवाप्नुयात
88 कुलम्पुने नरः सनात्वा पुनाति सवकुलं नरः
पवनस्य हरदं गत्वा मरुतां तीर्थम उत्तमम
तत्र सनात्वा नरव्याघ्र वायुलॊके महीयते
89 अमराणां हरदे सनात्वा अमरेषु नराधिप
अमराणां परभावेन सवर्गलॊके महीयते
90 शालिहॊत्रस्य राजेन्द्र शालिशूर्पे यथाविधि
सनात्वा नरवरश्रेष्ठ गॊसहस्रफलं लभेत
91 शरीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम
तत्र सनात्वा नरॊ राजन्न अग्निष्टॊम फलं लभेत
92 ततॊ नैमिष कुञ्जं च समासाद्य कुरूद्वह
ऋषयः किल राजेन्द्र नैमिषेयास तपॊधनाः
तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा
93 ततः कुञ्जः सरस्वत्यां कृतॊ भरतसत्तम
ऋषीणाम अवकाशः सयाद यथा तुष्टिकरॊ महान
94 तस्मिन कुञ्जे नरः सनात्वा गॊसहस्रफलं लभेत
कन्या तीर्थे नरः सनात्वा अग्निष्टॊम फलं लभेत
95 ततॊ गच्छेन नरव्याघ्र बरह्मणः सथानम उत्तमम
तत्र वर्णावरः सनात्वा बराह्मण्यं लभते नरः
बराह्मणश च विशुद्धात्मा गच्छेत परमां गतिम
96 ततॊ गच्छेन नरश्रेष्ठ सॊमतीर्थम अनुत्तमम
तत्र सनात्वा नरॊ राजन सॊमलॊकम अवाप्नुयात
97 सप्त सारस्वतं तीर्थं ततॊ गच्छेन नराधिप
यत्र मङ्कणकः सिद्धॊ महर्षिर लॊकविश्रुतः
98 पुरा मङ्कणकॊ राजन कुशाग्रेणेति नः शरुतम
कषतः किल करे राजंस तस्य शाकरसॊ ऽसरवत
99 स वै शाकरसं दृष्ट्वा हर्षाविष्टॊ महातपाः
परनृत्तः किल विप्रर्षिर विस्मयॊत्फुल्ललॊचनः
100 ततस तस्मिन परनृत्ते वै सथावरं जङ्गमं च यत
परनृत्तम उभयं वीर तेजसा तस्य मॊहितम
101 बरह्मादिभिः सुरै राजन्न ऋषिभिश च तपॊधनैः
विज्ञप्तॊ वै महादेव ऋषेर अर्थे नराधिप
नायं नृत्येद यथा देव तथा तवं कर्तुम अर्हसि
102 ततः परनृत्तम आसाद्य हर्षाविष्टेन चेतसा
सुराणां हितकामार्थम ऋषिं देवॊ ऽभयभाषत
103 अहॊ महर्षे धर्मज्ञ किमर्थं नृत्यते भवान
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव
104 [रसि]
किं न पश्यसि मे देवकराच छाक रसं सरुतम
यं दृष्ट्वाहं परनृत्तॊ वै हर्षेण महतान्वितः
105 [पुलस्त्य]
तं परहस्याब्रवीद देवॊ मुनिं रागेण मॊहितम
अहं वै विस्मयं विप्र न गच्छामीति पश्य माम
106 एवम उक्त्वा नरश्रेष्ठ महादेवेन धीमता
अङ्गुल्यग्रेण राजेन्द्र सवाङ्गुष्ठस ताडितॊ ऽनघ
107 ततॊ भस्म कषताद राजन निर्गतं हिमसंनिभम
तद दृष्ट्वा वरीडितॊ राजन स मुनिः पादयॊर गतः
108 नान्यं देवम अहं मन्ये रुद्रात परतरं महत
सुरासुरस्य जगतॊ गतिस तवम असि शूलधृक
109 तवया सृष्टम इदं विश्वं तरैलॊक्यं स चराचरम
तवाम एव भगवन सर्वे परविशन्ति युगक्षये
110 देवैर अपि न शक्यस तवं परिज्ञातुं कुतॊ मया
तवयि सर्वे च दृश्यन्ते सुरा बरह्मादयॊ ऽनघ
111 सर्वस तवम असि लॊकानां कर्ता कारयिता च ह
तवत्प्रसादात सुराः सर्वे मॊदन्तीहाकुतॊ भयाः
एवं सतुत्वा महादेवं स ऋषिः परणतॊ ऽभवत
112 [रसि]
तवत्प्रसादान महादेव तपॊ मे न कषरेत वै
113 [पुलस्त्य]
ततॊ देवः परहृष्टात्मा बरह्मर्षिम इदम अब्रवीत
तपस ते वर्धतां विप्र मत्प्रसादात सहस्रधा
114 आश्रमे चेह वत्स्यामि तवया सार्धं महामुने
सप्त सारस्वते सनात्वा अर्चयिष्यन्ति ये तु माम
115 न तेषां दुर्लभं किं चिद इह लॊके परत्र च
सारस्वतं च ते लॊकं गमिष्यन्ति न संशयः
116 ततस तव औशनसं गच्छेत तरिषु लॊकेषु विश्रुतम
यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः
117 कार्तिकेयश च भगवांस तरिसंध्यं किल भारत
सांनिध्यम अकरॊत तत्र भार्गव परियकाम्यया
118 कपालमॊचनं तीर्थं सर्वपापप्रमॊचनम
तत्र सनात्वा नरव्याघ्र सर्वपापैः परमुच्यते
119 अग्नितीर्थं ततॊ गच्छेत तत्र सनात्वा नरर्षभ
अग्निलॊकम अवाप्नॊति कुलं चैव समुद्धरेत
120 विश्वा मित्रस्य तत्रैव तीर्थं भरतसत्तम
तत्र सनात्वा महाराज बराह्मण्यम अभिजायते
121 बरह्मयॊनिं समासाद्य शुचिः परयत मानसः
तत्र सनात्वा नरव्याघ्र बरह्मलॊकं परपद्यते
पुनात्य आ सप्तमं चैव कुलं नास्त्य अत्र संशयः
122 ततॊ गच्छेत राजेन्द्र तीर्थं तरैलॊक्यविश्रुतम
पृथूदकम इति खयातं कार्तिकेयस्य वै नृप
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
123 अज्ञानाज जञानतॊ वापि सत्रिया वा पुरुषेण वा
यत किं चिद अशुभं कर्मकृतं मानुषबुद्धिना
124 तत सर्वं नश्यते तस्य सनातमात्रस्य भारत
अश्वमेध फलं चापि सवर्गलॊकं च गच्छति
125 पुण्यम आहुः कुरुक्षेत्रं कुरुक्षेत्रात सरस्वतीम
सरस्वत्याश च तीर्थानि तीर्थेभ्यश च पृथूदकम
126 उत्तमे सर्वतीर्थानां यस तयजेद आत्मनस तनुम
पृथूदके जप्यपरॊ नैनं शवॊ मरणं तपेत
127 गीतं सनत कुमारेण वयासेन च महात्मना
वेदे च नियतं राजन अभिगच्छेत पृथूदकम
128 पृथूदकात पुण्यतमं नान्यत तीर्थं नरॊत्तम
एतन मेध्यं पवित्रं च पावनं च न संशयः
129 तत्र सनात्वा दिवं यान्ति अपि पापकृतॊ जनाः
पृथूदके नरश्रेष्ठ पराहुर एवं मनीषिणः
130 मधुस्रवं च तत्रैव तीर्थं भरतसत्तम
तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत
131 ततॊ गच्छेन नरश्रेष्ठ तीर्थं देव्या यथाक्रमम
सरस्वत्यारुणायाश च संगमं लॊकविश्रुतम
132 तरिरात्रॊपॊषितः सनात्वा मुच्यते बरह्महत्यया
अग्निष्टॊमातिरात्राभ्यां फलं विन्दति मानवः
133 आ सप्तमं कुलं चैव पुनाति भरतर्षभ
अवतीर्णं च तत्रैव तीर्थं कुरुकुलॊद्वह
विप्राणाम अनुकम्पार्थं दर्भिणा निर्मितं पुरा
134 वरतॊपनयनाभ्यां वा उपवासेन वा दविजः
करिया मन्त्रैश च संयुक्तॊ बराह्मणः सयान न संशयः
135 करिया मन्त्रविहीनॊ ऽपि तत्र सनात्वा नरर्षभ
चीर्ण वरतॊ भवेद विप्रॊ दृष्टम एतत पुरातने
136 समुद्राश चापि चत्वारः समानीताश च दर्भिणा
येषु सनातॊ नरव्याघ्र न दुर्गतिम अवाप्नुयात
फलानि गॊसहस्राणां चतुर्णां विन्दते च सः
137 ततॊ गच्छेत राजेन्द्र तीर्थं शतसहस्रकम
साहस्रकं च तत्रैव दवे तीर्थे लॊकविश्रुते
138 उभयॊर हि नरः सनात्वा गॊसहस्रफलं भवेत
दानं वाप्य उपवासॊ वा सहस्रगुणितं भवेत
139 ततॊ गच्छेत राजेन्द्र रेणुका तीर्थम उत्तमम
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
सरव पापविशुद्धात्मा अग्निष्टॊम फलं लभेत
140 विमॊचनम उपस्पृश्य जितमन्युर जितेन्द्रियः
परतिग्रह कृतैर दॊषैर सर्वैः स परिमुच्यते
141 ततः पञ्च वटं गत्वा बरह्म चारी जितेन्द्रियः
पुण्येन महता युक्तः सतां लॊके महीयते
142 यत्र यॊगेश्वरः सथाणुः सवयम एव वृषध्वजः
तम अर्चयित्वा देवेशं गमनाद एव सिध्यति
143 औजसं वरुणं तीर्थं दीप्यते सवेन तेजसा
यत्र बरह्मादिभिर देवैर ऋषिभिश च तपॊधनैः
सेनापत्येन देवानाम अभिषिक्तॊ गुहस तदा
144 औजसस्य तु पूर्वेण कुरु तीर्थं कुरूद्वह
कुरु तीर्थे नरः सनात्वा बरह्म चारी जितेन्द्रियः
सर्वपापविशुद्धात्मा कुरु लॊकं परपद्यते
145 सवर्गद्वारं ततॊ गच्छेन नियतॊ नियताशनः
सवर्गलॊकम अवाप्नॊति बरह्मलॊकं च गच्छति
146 ततॊ गच्छेद अनरकं तीर्थसेवी नराधिप
तत्र सनात्वा नरॊ राजन न दुर्गतिम इवाप्नुयात
147 तत्र बरह्मा सवयं नित्यं देवैः सह महीपते
अन्वास्यते नरश्रेष्ठ नारायण पुरॊगमैः
148 सांनिध्यं चैव राजेन्द्र रुद्र पत्न्याः कुरूद्वह
अभिगम्य च तां देवीं न दुर्गतिम अवाप्नुयात
149 तत्रैव च महाराज विश्वेश्वरम उमापतिम
अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः
150 नारायणं चाभिगम्य पद्मनाभम अरिंदमम
शॊभमानॊ महाराज विष्णुलॊकं परपद्यते
151 तीर्थे तु सर्वदेवानां सनातः स पुरुषर्षभ
सर्वदुःखैः परित्यक्तॊ दयॊतते शशिवत सदा
152 ततः सवस्ति पुरं गच्छेत तीर्थसेवी नराधिप
पावनं तीर्थम आसाद्य तर्पयेत पितृदेवताः
अग्निष्टॊमस्य यज्ञस्य फलं पराप्नॊति मानवः
153 गङ्गा हरदश च तत्रैव कूपश च भरतर्षभ
तिस्रः कॊट्यस तु तीर्थानां तस्मिन कूपे महीपते
तत्र सनात्वा नरॊ राजन सवर्गलॊकं परपद्यते
154 आपगायां नरः सनात्वा अर्चयित्वा महेश्वरम
गाणपत्यम अवाप्नॊति कुलं चॊद्धरते सवकम
155 ततः सथाणुवटं गच्छेत तरिषु लॊकेषु विश्रुतम
तत्र सनात्वा सथितॊ रात्रिं रुद्र लॊकम अवाप्नुयात
156 बदरी पाचनं गच्छेद वसिष्ठस्याश्रमं ततः
बदरं भक्षयेत तत्र तरिरात्रॊपॊषितॊ नरः
157 सम्यग दवादश वर्षाणि बदरान भक्षयेत तु यः
तरिरात्रॊपॊषितश चैव भवेत तुल्यॊ नराधिप
158 इन्द्र मार्गं समासाद्य तीर्थसेवी नराधिप
अहॊरात्रॊपवासेन शक्र लॊके महीयते
159 एकरात्रं समासाद्य एकरात्रॊषितॊ नरः
नियतः सत्यवादी च बरह्मलॊके महीयते
160 ततॊ गच्छेत धर्मज्ञ तीर्थं तरैलॊक्यविश्रुतम
आदित्यस्याश्रमॊ यत्र तेजॊराशेर महात्मनाः
161 तस्मिंस तीर्थे नरः सनात्वा पूजयित्वा विभावसुम
आदित्यलॊकं वरजति कुलं चैव समुद्धरेत
162 सॊमतीर्थे नरः सनात्वा तीर्थसेवी कुरूद्वह
सॊमलॊकम अवाप्नॊति नरॊ नास्त्य अत्र संशयः
163 ततॊ गच्छेत धर्मज्ञ दधीचस्य महात्मनाः
तीर्थं पुण्यतमं राजन पावनं लॊकविश्रुतम
164 यत्र सारस्वतॊ राजन सॊ ऽङगिरास तपसॊ निधिः
तस्मिंस तीर्थे नरः सनात्वा वाजपेयफलं लभेत
सारस्वतीं गतिं चैव लभते नात्र संशयः
165 ततः कन्याश्रमं गच्छेन नियतॊ बरह्मचर्यवान
तरिरात्रॊपॊषितॊ राजन्न उपवासपरायणः
लभेत कन्याशतं दिव्यं बरह्मलॊकं च गच्छति
166 यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः
मासि मासि समायान्ति पुण्येन महतान्विताः
167 संनिहित्याम उपस्पृश्य राहुग्रस्ते दिवाकरे
अश्वमेध शतं तेन इष्टं भवति शाश्वतम
168 पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च
नद्यॊ नदास तडागाश च सर्वप्रस्रवणानि च
169 उदपानाश च वप्राश च पुण्यान्य आयतनानि च
मासि मासि समायान्ति संनिहित्यां न संशयः
170 यत किं चिद दुष्कृतं कर्म सत्रिया वा पुरुषस्य वा
सनातमात्रस्य तत सर्वं नश्यते नात्र संशयः
पद्मवर्णेन यानेन बरह्मलॊकं स गच्छति
171 अभिवाद्य ततॊ यक्षं दवारपालम अरन्तुकम
कॊटिरूपम उपस्पृश्य लभेद बहुसुवर्णकम
172 गङ्गा हरदश च तत्रैव तीर्थं भरतसत्तम
तत्र सनातस तु धर्मज्ञ बरह्म चारी समाहितः
राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम
173 पृथिव्यां नैमिषं पुण्यम अन्तरिक्षे च पुष्करम
तरयाणाम अपि लॊकानां कुरुक्षेत्रं विशिष्यते
174 पांसवॊ ऽपि कुरुक्षेत्रे वायुना समुदीरिताः
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम
175 दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम
ये वसन्ति कुरुक्षेत्रे ते वसन्ति तरिविष्टपे
176 कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य अहम
अप्य एकां वाचम उत्सृज्य सर्वपापैः परमुच्यते
177 बरह्म वेदी कुरुक्षेत्रं पुण्यं बरह्मर्षिसेवितम
तदावसन्ति ये राजन न ते शॊच्याः कथं चन
178 तरन्तुकारन्तुकयॊर यद अन्तरं; रामह्रदानां च मचक्रुकस्य
एतत कुरुक्षेत्रसमन्तपञ्चकं; पिता महस्यॊत्तर वेदिर उच्यते
1 [pulastya]
tato gaccheta rājendra kurukṣetram abhiṣṭutam
pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ
2 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham
ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate
3 atra māsaṃ vased vīra sarasvatyāṃ yudhiṣṭhira
yatra brahmādayo deva ṛṣayaḥ siddhacāraṇāḥ
4 gandharvāpsaraso yakṣāḥ pannagāś ca mahīpate
brahma kṣetraṃ mahāpuṇyam abhigacchanti bhārata
5 manasāpy abhikāmasya kurukṣetraṃ yudhiṣṭhira
pāpāṇi vipraṇaśyanti brahmalokaṃ ca gacchati
6 gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha
rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
7 tato macakrukaṃ rājan dvārapālaṃ mahābalam
yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet
8 tato gaccheta dharmajña viṣṇor sthānam anuttamam
satataṃ nāma rājendra yatra saṃnihito hariḥ
9 tatra snātvārcayitvā ca trilokaprabhavaṃ harim
aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
10 tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ
11 pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet
tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa
daśāśvamedhike snātvā tad eva labhate phalam
12 sarpadarvīṃ samāsādya nāgānāṃ tīrtham uttamam
agniṣṭomam avāpnoti nāgalokaṃ ca vindati
13 tato gaccheta dharmajña dvārapālaṃ tarantukam
tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet
14 tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ
koṭikīrtham upaspṛśya hayamedha phalaṃ labhet
aśvinos tīrtham āsādya rūpavān abhijāyate
15 tato gaccheta dharmajña vārāhaṃ tīrtham uttamam
viṣṇur vārāha rūpeṇa pūrvaṃ yatra sthito 'bhavat
tatra snātvā naravyāghra agniṣṭoma phalaṃ labhet
16 tato jayantyā rājendra somatīrthaṃ samāviśet
snātvā phalam avāpnoti rājasūyasya mānavaḥ
17 ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet
kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha
puṇḍarīkam avāpnoti kṛtaśauco bhaven naraḥ
18 tato muñja vaṭaṃ nāma mahādevasya dhīmataḥ
tatroṣya rajanīm ekāṃ gāṇapatyam avāpnuyāt
19 tatraiva ca mahārāja yakṣī lokapariśrutā
tāṃ cābhigamya rājendra puṇyāṁl lokān avāpnuyāt
20 kurukṣetrasya taddvāraṃ viśrutaṃ bharatarṣabha
pradakṣiṇam upāvṛtya tīrthasevī samāhitaḥ
21 saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ
jāmadagnyena rāmeṇa āhṛte vai mahātmanā
kṛtakṛtyo bhaved rājann aśvamedhaṃ ca vindati
22 tato rāmahradān gacchet tīrthasevī narādhipa
yatra rāmeṇa rājendra tarasā dīptatejasā
kṣatram utsādya vīryeṇa hradāḥ pañca niveśitāḥ
23 pūrayitvā naravyāghra rudhireṇeti naḥ śrutam
pitaras tarpitāḥ sarve tathaiva ca pitā mahāḥ
tatas te pitaraḥ prītā rāmam ūcur mahīpate
24 rama rāma mahābhāga prītāḥ sma tava bhārgava
anayā pitṛbhaktyā ca vikrameṇa ca te vibho
varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute
25 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ
abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān
26 bhavanto yadi me prītā yady anugrāhyatā mayi
pitṛprasādād iccheyaṃ tapasāpyāyanaṃ punaḥ
27 yac ca roṣābhibhūtena kṣatram utsāditaṃ mayā
tataś ca pāpān mucyeyaṃ yuṣmākaṃ tejasā hy aham
hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ
28 etac chrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā
pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ
29 tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ
yac ca roṣābhibhūtena kṣatram utsāditaṃ tvayā
30 tataś ca pāpān muktas tvaṃ karmabhis te ca pātitāḥ
hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ
31 hradeṣv eteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati
pitaras tasya vai prītā dāsyanti bhuvi durlabham
īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam
32 evaṃ dattvā varān rājan rāmasya pitaras tadā
āmantrya bhārgavaṃ prītās tatraivāntar dadhus tadā
33 evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanāḥ
snātvā hradeṣu rāmasya brahma cārī śubhavrataḥ
rāmam abhyarcya rājendra labhed bahusuvarṇakam
34 vaṃśamūlakam āsādya tīrthasevī kurūdvaha
svavaṃśam uddhared rājan snātvā vai vaṃśamūlake
35 kāyaśodhanam āsādya tīrthaṃ bharatasattama
śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ
śuddhadehaś ca saṃyāti śubhāṁl lokān anuttamān
36 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam
lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabha viṣṇunā
37 lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam
snātvā tīrthavare rājaṁl lokān uddharate svakān
śrītīrthaṃ ca samāsādya vindate śriyam uttamām
38 kapilā tīrtham āsādya brahma cārī samāhitaḥ
tatra snātvārcayitvā ca daivatāni pitṝṃs tathā
kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ
39 sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ
arcayitvā pitṝn devān upavāsaparāyaṇaḥ
agniṣṭomam avāpnoti sūryalokaṃ ca gacchati
40 gamāṃ bhavanam āsādya tīrthasevī yathākramam
tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet
41 śaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha
devyās tīrthe naraḥ snātvā labhate rūpam uttamam
42 tato gaccheta rājendra dvārapālam arantukam
tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanāḥ
tatra snātvā naro rājann agniṣṭoma phalaṃ labhet
43 tato gaccheta dharmajña brahmāvartaṃ narādhipa
brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt
44 tato gaccheta dharmajña sutīrthakam anuttamam
yatra saṃnihitā nityaṃ pitaro daivataiḥ saha
45 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
aśvamedham avāpnoti pitṛlokaṃ ca gacchati
46 tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam
kośeśvarasya tīrtheṣu snātvā bharatasattama
sarvavyādhivinirmukto brahmaloke mahīyate
47 mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata
prajā vivardhate rājann anantāṃ cāśnute śriyam
48 tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ
tīrthaṃ tatra mahārāja mahad anyatra durlabham
49 punāti darśanād eva daṇḍenaikaṃ narādhipa
keśān abhyukṣya vai tasmin pūto bhavati bhārata
50 tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam
yataviprā naravyāghra vidvāṃsas tīrthatatparāḥ
51 śvānalomāpanayane tīrthe bharatasattama
prāṇāyāmair nirharanti śvalomāni dvijottamāḥ
52 pūtātmānaś ca rājendra prayānti paramāṃ gatim
daśāśvamedhikaṃ caiva tasmiṃs tīrthe mahīpate
tatra snātvā naravyāghra gaccheta paramāṃ gatim
53 tato gaccheta rājendra mānuṣaṃ lokaviśrutam
yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ
avagāhya tasmin sarasi mānuṣatvam upāgatāḥ
54 tasmiṃs tīrthe naraḥ snātvā brahma cārī jitendriyaḥ
sarvapāpaviśuddhātmā svargaloke mahīyate
55 mānuṣasya tu pūrveṇa krośamātre mahīpate
āpagā nāma vikhyātā nadī siddhaniṣevitā
56 śyāmāka bhojanaṃ tatra yaḥ prayacchati mānavaḥ
devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat
ekasmin bhojite vipre koṭir bhavati bhojitā
57 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā
uṣitvā rajanīm ekām agniṣṭoma phalaṃ labhet
58 tato gaccheta rājendra brahmaṇaḥ sthānam uttamam
brahmodumbaram ity eva prakāśaṃ bhuvi bhārata
59 tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava
kedāre caiva rājendra kapiṣṭhala mahātmanāḥ
60 brahmāṇam abhigamyātha śuciḥ prayata mānasaḥ
sarvapāpaviśuddhātmā brahmalokaṃ prapadyate
61 kapiṣṭhalasya kedāraṃ samāsādya sudurlabham
antardhānam avāpnoti tapasā dagdhakilbiṣaḥ
62 tato gaccheta rājendra sarakaṃ lokaviśrutam
kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam
labhate sarvakāmān hi svargalokaṃ ca gacchati
63 tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana
rudra koṭis tathā kūpe hradeṣu ca mahīpate
ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama
64 tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata
na durgatim avāpnoti vājapeyaṃ ca vindati
65 kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate
aprameyam avāpnoti dānaṃ japyaṃ ca bhārata
66 kalaśyāṃ cāpy upaspṛśya śraddadhāno jitendriyaḥ
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ
67 sarakasya tu pūrveṇa nāradasya mahātmanāḥ
tīrthaṃ kuru varaśreṣṭha anājanmeti viśrutam
68 tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata
nāradenābhyanujñāto lokān prāpnoti durlabhān
69 śuklapakṣe daśamyāṃ tu puṇḍarīkaṃ samāviśet
tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet
70 tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam
tatra vaitaraṇī puṇyā nadī pāpapramocanī
71 tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam
sarvapāpaviśuddhātmā gaccheta paramāṃ gatim
72 tato gaccheta rājendra phalakī vanam uttamam
yatra devāḥ sadā rājan phalakī vanam āśritāḥ
tapaś caranti vipulaṃ bahuvarṣasahasrakam
73 dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ
agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata
74 tīrthe ca sarvadevānāṃ snātvā bharatasattama
gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ
75 pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ
rājasūyam avāpnoti ṛṣilokaṃ ca gacchati
76 tato gaccheta rājendra miśrakaṃ tīrtham uttamam
tatra tīrthāni rājendra miśritāni mahātmanā
77 vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam
sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ
78 tato vyāsa vanaṃ gacchen niyato niyatāśanaḥ
manojave naraḥ snātvā gosahasraphalaṃ labhet
79 gatvā madhu vaṭīṃ cāpi devyās tīrthaṃ naraḥ śuciḥ
tatra snātvārcayed devān pitṝṃś ca prayataḥ śuciḥ
sa devyā samanujñāto gosahasraphalaṃ labhet
80 kauśikyāḥ saṃgame yas tu dṛṣadvatyāś ca bhārata
snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate
81 tato vyāsa sthalī nāma yatra vyāsena dhīmatā
putraśokābhitaptena dehatyāgārtha niścayaḥ
82 kṛto devaiś ca rājendra punar utthāpitas tadā
abhigamya sthalīṃ tasya gosahasraphalaṃ labhet
83 kiṃ dattaṃ kūpam āsādya tilaprasthaṃ pradāya ca
gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha
84 ahaś ca sudinaṃ caiva dve tīrthe ca sudurlabhe
tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt
85 mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam
tatra gaṅgā hrade snātvā samabhyarcya ca mānavaḥ
śūlapāṇiṃ mahādevam aśvamedha phalaṃ labhet
86 deva tīrthe naraḥ snātvā gosahasraphalaṃ labhet
atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam
87 tatra viṣṇupade snātvā arcayitvā ca vāmanam
sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt
88 kulampune naraḥ snātvā punāti svakulaṃ naraḥ
pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam
tatra snātvā naravyāghra vāyuloke mahīyate
89 amarāṇāṃ hrade snātvā amareṣu narādhipa
amarāṇāṃ prabhāvena svargaloke mahīyate
90 śālihotrasya rājendra śāliśūrpe yathāvidhi
snātvā naravaraśreṣṭha gosahasraphalaṃ labhet
91 śrīkuñjaṃ ca sarasvatyāṃ tīrthaṃ bharatasattama
tatra snātvā naro rājann agniṣṭoma phalaṃ labhet
92 tato naimiṣa kuñjaṃ ca samāsādya kurūdvaha
ṛṣayaḥ kila rājendra naimiṣeyās tapodhanāḥ
tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā
93 tataḥ kuñjaḥ sarasvatyāṃ kṛto bharatasattama
ṛṣīṇām avakāśaḥ syād yathā tuṣṭikaro mahān
94 tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet
kanyā tīrthe naraḥ snātvā agniṣṭoma phalaṃ labhet
95 tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam
tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ
brāhmaṇaś ca viśuddhātmā gaccheta paramāṃ gatim
96 tato gacchen naraśreṣṭha somatīrtham anuttamam
tatra snātvā naro rājan somalokam avāpnuyāt
97 sapta sārasvataṃ tīrthaṃ tato gacchen narādhipa
yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ
98 purā maṅkaṇako rājan kuśāgreṇeti naḥ śrutam
kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat
99 sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ
pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ
100 tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat
pranṛttam ubhayaṃ vīra tejasā tasya mohitam
101 brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ
vijñapto vai mahādeva ṛṣer arthe narādhipa
nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi
102 tataḥ pranṛttam āsādya harṣāviṣṭena cetasā
surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata
103 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān
harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava
104 [rsi]
kiṃ na paśyasi me devakarāc chāka rasaṃ srutam
yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ
105 [pulastya]
taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam
ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām
106 evam uktvā naraśreṣṭha mahādevena dhīmatā
aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha
107 tato bhasma kṣatād rājan nirgataṃ himasaṃnibham
tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ
108 nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat
surāsurasya jagato gatis tvam asi śūladhṛk
109 tvayā sṛṣṭam idaṃ viśvaṃ trailokyaṃ sa carācaram
tvām eva bhagavan sarve praviśanti yugakṣaye
110 devair api na śakyas tvaṃ parijñātuṃ kuto mayā
tvayi sarve ca dṛśyante surā brahmādayo 'nagha
111 sarvas tvam asi lokānāṃ kartā kārayitā ca ha
tvatprasādāt surāḥ sarve modantīhākuto bhayāḥ
evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat
112 [rsi]
tvatprasādān mahādeva tapo me na kṣareta vai
113 [pulastya]
tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt
tapas te vardhatāṃ vipra matprasādāt sahasradhā
114 āśrame ceha vatsyāmi tvayā sārdhaṃ mahāmune
sapta sārasvate snātvā arcayiṣyanti ye tu mām
115 na teṣāṃ durlabhaṃ kiṃ cid iha loke paratra ca
sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ
116 tatas tv auśanasaṃ gacchet triṣu lokeṣu viśrutam
yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
117 kārtikeyaś ca bhagavāṃs trisaṃdhyaṃ kila bhārata
sāṃnidhyam akarot tatra bhārgava priyakāmyayā
118 kapālamocanaṃ tīrthaṃ sarvapāpapramocanam
tatra snātvā naravyāghra sarvapāpaiḥ pramucyate
119 agnitīrthaṃ tato gacchet tatra snātvā nararṣabha
agnilokam avāpnoti kulaṃ caiva samuddharet
120 viśvā mitrasya tatraiva tīrthaṃ bharatasattama
tatra snātvā mahārāja brāhmaṇyam abhijāyate
121 brahmayoniṃ samāsādya śuciḥ prayata mānasaḥ
tatra snātvā naravyāghra brahmalokaṃ prapadyate
punāty ā saptamaṃ caiva kulaṃ nāsty atra saṃśayaḥ
122 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam
pṛthūdakam iti khyātaṃ kārtikeyasya vai nṛpa
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
123 ajñānāj jñānato vāpi striyā vā puruṣeṇa vā
yat kiṃ cid aśubhaṃ karmakṛtaṃ mānuṣabuddhinā
124 tat sarvaṃ naśyate tasya snātamātrasya bhārata
aśvamedha phalaṃ cāpi svargalokaṃ ca gacchati
125 puṇyam āhuḥ kurukṣetraṃ kurukṣetrāt sarasvatīm
sarasvatyāś ca tīrthāni tīrthebhyaś ca pṛthūdakam
126 uttame sarvatīrthānāṃ yas tyajed ātmanas tanum
pṛthūdake japyaparo nainaṃ śvo maraṇaṃ tapet
127 gītaṃ sanat kumāreṇa vyāsena ca mahātmanā
vede ca niyataṃ rājan abhigacchet pṛthūdakam
128 pṛthūdakāt puṇyatamaṃ nānyat tīrthaṃ narottama
etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ
129 tatra snātvā divaṃ yānti api pāpakṛto janāḥ
pṛthūdake naraśreṣṭha prāhur evaṃ manīṣiṇaḥ
130 madhusravaṃ ca tatraiva tīrthaṃ bharatasattama
tatra snātvā naro rājan gosahasraphalaṃ labhet
131 tato gacchen naraśreṣṭha tīrthaṃ devyā yathākramam
sarasvatyāruṇāyāś ca saṃgamaṃ lokaviśrutam
132 trirātropoṣitaḥ snātvā mucyate brahmahatyayā
agniṣṭomātirātrābhyāṃ phalaṃ vindati mānavaḥ
133 ā saptamaṃ kulaṃ caiva punāti bharatarṣabha
avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha
viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā
134 vratopanayanābhyāṃ vā upavāsena vā dvijaḥ
kriyā mantraiś ca saṃyukto brāhmaṇaḥ syān na saṃśayaḥ
135 kriyā mantravihīno 'pi tatra snātvā nararṣabha
cīrṇa vrato bhaved vipro dṛṣṭam etat purātane
136 samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā
yeṣu snāto naravyāghra na durgatim avāpnuyāt
phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ
137 tato gaccheta rājendra tīrthaṃ śatasahasrakam
sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute
138 ubhayor hi naraḥ snātvā gosahasraphalaṃ bhavet
dānaṃ vāpy upavāso vā sahasraguṇitaṃ bhavet
139 tato gaccheta rājendra reṇukā tīrtham uttamam
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
srava pāpaviśuddhātmā agniṣṭoma phalaṃ labhet
140 vimocanam upaspṛśya jitamanyur jitendriyaḥ
pratigraha kṛtair doṣair sarvaiḥ sa parimucyate
141 tataḥ pañca vaṭaṃ gatvā brahma cārī jitendriyaḥ
puṇyena mahatā yuktaḥ satāṃ loke mahīyate
142 yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ
tam arcayitvā deveśaṃ gamanād eva sidhyati
143 aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā
yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ
senāpatyena devānām abhiṣikto guhas tadā
144 aujasasya tu pūrveṇa kuru tīrthaṃ kurūdvaha
kuru tīrthe naraḥ snātvā brahma cārī jitendriyaḥ
sarvapāpaviśuddhātmā kuru lokaṃ prapadyate
145 svargadvāraṃ tato gacchen niyato niyatāśanaḥ
svargalokam avāpnoti brahmalokaṃ ca gacchati
146 tato gacched anarakaṃ tīrthasevī narādhipa
tatra snātvā naro rājan na durgatim ivāpnuyāt
147 tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate
anvāsyate naraśreṣṭha nārāyaṇa purogamaiḥ
148 sāṃnidhyaṃ caiva rājendra rudra patnyāḥ kurūdvaha
abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt
149 tatraiva ca mahārāja viśveśvaram umāpatim
abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ
150 nārāyaṇaṃ cābhigamya padmanābham ariṃdamam
śobhamāno mahārāja viṣṇulokaṃ prapadyate
151 tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha
sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā
152 tataḥ svasti puraṃ gacchet tīrthasevī narādhipa
pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ
153 gaṅgā hradaś ca tatraiva kūpaś ca bharatarṣabha
tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate
tatra snātvā naro rājan svargalokaṃ prapadyate
154 āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram
gāṇapatyam avāpnoti kulaṃ coddharate svakam
155 tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam
tatra snātvā sthito rātriṃ rudra lokam avāpnuyāt
156 badarī pācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ
badaraṃ bhakṣayet tatra trirātropoṣito naraḥ
157 samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ
trirātropoṣitaś caiva bhavet tulyo narādhipa
158 indra mārgaṃ samāsādya tīrthasevī narādhipa
ahorātropavāsena śakra loke mahīyate
159 ekarātraṃ samāsādya ekarātroṣito naraḥ
niyataḥ satyavādī ca brahmaloke mahīyate
160 tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam
ādityasyāśramo yatra tejorāśer mahātmanāḥ
161 tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum
ādityalokaṃ vrajati kulaṃ caiva samuddharet
162 somatīrthe naraḥ snātvā tīrthasevī kurūdvaha
somalokam avāpnoti naro nāsty atra saṃśayaḥ
163 tato gaccheta dharmajña dadhīcasya mahātmanāḥ
tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam
164 yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ
tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet
sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ
165 tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān
trirātropoṣito rājann upavāsaparāyaṇaḥ
labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati
166 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
māsi māsi samāyānti puṇyena mahatānvitāḥ
167 saṃnihityām upaspṛśya rāhugraste divākare
aśvamedha śataṃ tena iṣṭaṃ bhavati śāśvatam
168 pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca
nadyo nadās taḍāgāś ca sarvaprasravaṇāni ca
169 udapānāś ca vaprāś ca puṇyāny āyatanāni ca
māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ
170 yat kiṃ cid duṣkṛtaṃ karma striyā vā puruṣasya vā
snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ
padmavarṇena yānena brahmalokaṃ sa gacchati
171 abhivādya tato yakṣaṃ dvārapālam arantukam
koṭirūpam upaspṛśya labhed bahusuvarṇakam
172 gaṅgā hradaś ca tatraiva tīrthaṃ bharatasattama
tatra snātas tu dharmajña brahma cārī samāhitaḥ
rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam
173 pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram
trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate
174 pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ
api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim
175 dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm
ye vasanti kurukṣetre te vasanti triviṣṭape
176 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham
apy ekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate
177 brahma vedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam
tadāvasanti ye rājan na te śocyāḥ kathaṃ cana
178 tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya
etat kurukṣetrasamantapañcakaṃ; pitā mahasyottara vedir ucyate

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

381 of 2013 Book 19% ~21 min left