Book 3: Chapter 80
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 3: Chapter 80

The Mahabharata in Sanskrit

Book 3
Chapter 80

1 [व]
धनंजयॊत्सुकास ते तु वने तस्मिन महारथाः
नयवसन्त महाभागा दरौपद्या सह पाण्डवाः
2 अथापश्यन महात्मानं देवर्षिं तत्र नारदम
दीप्यमानं शरिया बराह्म्या दीप्ताग्निसमतेजसम
3 स तैः परिवृतः शरीमान भरातृभिः कुरुसत्तमः
विबभाव अतिदीप्तौजॊ देवैर इव शतक्रतुः
4 यथा च वेदान सावित्री याज्ञसेनी तथा सती
न जहौ धर्मतः पार्थान मेरुम अर्कप्रभा यथा
5 परतिगृह्य तु तां पूजां नारदॊ भगवान ऋषिः
आश्वासयद धर्मसुतं युक्तरूपम इवानघ
6 उवाच च महात्मानं धर्मराजं युधिष्ठिरम
बरूहि धर्मभृतां शरेष्ठ केनार्थः किं ददामि ते
7 अथ धर्मसुतॊ राजा परणम्य भरातृभिः सह
उवाच पराञ्जलिर वाक्यं नारदं देव संमितम
8 तवयि तुष्टे महाभाग सर्वलॊकाभिपूजिते
कृतम इत्य एव मन्ये ऽहं परसादात तव सुव्रत
9 यदि तव अहम अनुग्राह्यॊ भरातृभिः सहितॊ ऽनघ
संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुम अर्हसि
10 परदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः
किं फलं तस्य कार्त्स्न्येन तद बरह्मन वक्तुम अर्हसि
11 [न]
शृणु राजन्न अवहितॊ यथा भीष्मेण भारत
पुलस्त्यस्य सकाशाद वै सर्वम एतद उपश्रुतम
12 पुरा भागीरथी तीरे भीष्मॊ धर्मभृतां वरः
पित्र्यं वरतं समास्थाय नयवसन मुनिवत तदा
13 शुभे देशे महाराज पुण्ये देवर्षिसेविते
गङ्गा दवारे महातेजॊ देवगन्धर्वसेविते
14 स पितॄंस तर्पयाम आस देवांश च परमद्युतिः
ऋषींश च तॊषयाम आस विधिदृष्टेन कर्मणा
15 कस्य चित तव अथ कालस्य जपन्न एव महातपाः
ददर्शाद्भुतसंकाशं पुलस्त्यम ऋषिसत्तमम
16 स तं दृष्ट्वॊग्र तपसं दीप्यमानम इव शरिया
परहर्षम अतुलं लेभे विस्मयं च परं ययौ
17 उपस्थितं महाराज पूजयाम आस भारत
भीष्मॊ धर्मभृतां शरेष्ठॊ विधिदृष्टेन कर्मणा
18 शिरसा चार्घ्यम आदाय शुचिः परयत मानसः
नाम संकीर्तयाम आस तस्मिन बरह्मर्षिसत्तमे
19 भीष्मॊ ऽहम अस्मि भद्रं ते दासॊ ऽसमि तव सुव्रत
तव संदर्शनाद एव मुक्तॊ ऽहं सर्वकिल्बिषैः
20 एवम उक्त्वा महाराज भीष्मॊ धर्मभृतां वरः
वाग्यतः पराञ्जलिर भूत्वा तूष्णीम आसीद युधिष्ठिर
21 तं दृष्ट्वा नियमेनाथ सवाध्यायाम्नाय कर्शितम
भीष्मं कुरु कुलश्रेष्ठं मुनिः परीतमनाभवत
22 [पुलस्त्य]
अनेन तव धर्मज्ञ परश्रयेण दमेन च
सत्येन च महाभाग तुष्टॊ ऽसमि तव सर्वशः
23 यस्येदृशस ते धर्मॊ ऽयं पितृभक्त्याश्रितॊ ऽनघ
तेन पश्यसि मां पुत्र परीतिश चापि मम तवयि
24 अमॊघदर्शी भीष्माहं बरूहि किं करवाणि ते
यद वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि ते ऽनघ
25 [भ]
परीते तवयि महाभाग सर्वलॊकाभिपूजिते
कृतम इत्य एव मन्ये ऽहं यद अहं दृष्टवान परभुम
26 यदि तव अहम अनुग्राह्यस तव धर्मभृतां वर
वक्ष्यामि हृत्स्थं संदेहं तन मे तवं वक्तुम अर्हसि
27 अस्ति मे भगवन कश चित तीर्थेभ्यॊ धर्मसंशयः
तम अहं शरॊतुम इच्छामि पृथक संकीर्तितं तवया
28 परदक्षिणं यः पृथिवीं करॊत्य अमितविक्रम
किं फलं तस्य विप्रर्षे तन मे बरूहि तपॊधन
29 [प]
हन्त ते ऽहं परवक्ष्यामि यद ऋषीणां परायणम
तद एकाग्रमनास तात शृणु तीर्थेषु यत फलम
30 यस्य हस्तौ च पादौ च मनश चैव सुसंयतम
विद्या तपश च कीर्तिश च स तीर्थफलम अश्नुते
31 परतिग्रहाद उपावृत्तः संतुष्टॊ नियतः शुचिः
अहं कारनिवृत्तिश च स तीर्थफलम अश्नुते
32 अकल्ककॊ निरारम्भॊ लघ्व आहारॊ जितेन्द्रियः
विमुक्तः सर्वदॊषैर यः स तीर्थफलम अश्नुते
33 अक्रॊधनश च राजेन्द्र सत्यशीलॊ दृढव्रतः
आत्मॊपमश च भूतेषु स तीर्थफलम अश्नुते
34 ऋषिभिः करतवः परॊक्ता वेदेष्व इह यथाक्रमम
फलं चैव यथातत्त्वं परेत्य चेह च सर्वशः
35 न ते शक्या दरिद्रेण यज्ञाः पराप्तुं महीपते
बहूपकरणा यज्ञा नाना संभारविस्तराः
36 पराप्यन्ते पार्थिवैर एते समृद्धैर वा नरैः कव चित
नार्थान्य ऊनॊपकरणैर एकात्मभिर असंहतैः
37 यॊ दरिद्रैर अपि विधिः शक्यः पराप्तुं नरेश्वर
तुल्यॊ यज्ञफलैः पुण्यैस तं निबॊध युधां वर
38 ऋषीणां परमं गुह्यम इदं भरतसत्तम
तीर्थाभिगमनं पुण्यं यज्ञैर अपि विशिष्यते
39 अनुपॊष्य तरिरात्राणि तीर्थान्य अनभिगम्य च
अदत्त्वा काञ्चनं गाश च दरिद्रॊ नाम जायते
40 अग्निष्टॊमादिभिर यज्ञैर इष्ट्वा विपुलदक्षिणैः
न तत फलम अवाप्नॊति तीर्थाभिगमनेन यत
41 नृलॊके देवदेवस्य तीर्थं तरैलॊक्यविश्रुतम
पुष्करं नाम विख्यातं महाभागः समाविशेत
42 दशकॊटिसहस्राणि तीर्थानां वै महीपते
सांनिध्यं पुष्करे येषां तरिसंध्यं कुरुनन्दन
43 आदित्या वसवॊ रुद्राः साध्याश च स मरुद्गणाः
गन्धर्वाप्सरसश चैव नित्यं संनिहिता विभॊ
44 यत्र देवास तपस तप्त्वा दैत्या बरह्मर्षयस तथा
दिव्ययॊगा महाराज पुण्येन महतान्विताः
45 मनसाप्य अभिकामस्य पुष्कराणि मनस्विनः
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते
46 तस्मिंस तीर्थे महाभाग नित्यम एव पिता महः
उवास परमप्रीतॊ देवदानव संम्मतः
47 पुष्करेषु महाभाग देवाः सर्षिपुरॊगमाः
सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः
48 तत्राभिषेकं यः कुर्यात पितृदेवार्चने रतः
अश्वमेधं दशगुणं परवदन्ति मनीषिणः
49 अप्य एकं भॊजयेद विप्रं पुष्करारण्यम आश्रितः
तेनासौ कर्मणा भीष्म परेत्य चेह च मॊदते
50 शाकमूलफलैर वापि येन वर्तयते सवयम
तद वै दद्याद बराह्मणाय शरद्धावान अनसूयकः
तेनैव पराप्नुयात पराज्ञॊ हयमेध फलं नरः
51 बराह्मणः कषत्रियॊ वैश्यः शूद्रॊ वा राजसत्तम
न वियॊनिं वरजन्त्य एते सनातास तीर्थे महात्मनः
52 कार्तिक्यां तु विशेषेण यॊ ऽभिगच्छेत पुष्करम
फलं तत्राक्षयं तस्य वर्धते भरतर्षभ
53 सायंप्रातः समरेद यस तु पुष्कराणि कृताञ्जलिः
उपस्पृष्टं भवेत तेन सर्वतीर्थेषु भारत
पराप्नुयाच च नरॊ लॊकान बरह्मणः सदने ऽकषयान
54 जन्मप्रभृति यत पापं सत्रियॊ वा पुरुषस्य वा
पुष्करे सनातमात्रस्य सर्वम एव परणश्यति
55 यथा सुराणां सर्वेषाम आदिस तु मधुसूदनः
तथैव पुष्करं राजंस तीर्थानाम आदिर उच्यते
56 उष्य दवादश वर्षाणि पुष्करे नियतः शुचिः
करतून सर्वान अवाप्नॊति बरह्मलॊकं च गच्छति
57 यस तु वर्षशतं पूर्णम अग्निहॊत्रम उपासते
कार्तिकीं वा वसेद एकां पुष्करे समम एव तत
58 पुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम
59 उष्य दवादश रात्रं तु नियतॊ नियताशनः
परदक्षिणम उपावृत्तॊ जम्बू मार्गं समाविशेत
60 जम्बू मार्गं समाविश्य देवर्षिपितृसेवितम
अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति
61 तत्रॊष्य रजनीः पञ्च षष्ठ कालक्षमी नरः
न दुर्गतिम अवाप्नॊति सिद्धिं पराप्नॊति चॊत्तमाम
62 जम्बू मार्गाद उपावृत्तॊ गच्छेत तण्डुलिकाश्रमम
न दुर्गतिम अवाप्नॊति सवर्गलॊके च पूज्यते
63 अगस्य सर आसाद्य पितृदेवार्चने रतः
तरिरात्रॊपॊषितॊ राजन्न अग्निष्टॊम फलं लभेत
64 शाकवृत्तिः फलैर वापि कौमारं विन्दते पदम
कण्वाश्रमं समासाद्य शरीजुष्टं लॊकपूजितम
65 धर्मारण्यं हि तत पुण्यम आद्यं च भरतर्षभ
यत्र परविष्टमात्रॊ वै पापेभ्यॊ विप्रमुच्यते
66 अर्चयित्वा पितॄन देवान नियतॊ नियताशनः
सर्वकामसमृद्धस्य यज्ञस्य फलम अश्नुते
67 परदक्षिणं ततः कृत्वा ययाति पतनं वरजेत
हयमेधस्य यज्ञस्य फलं पराप्नॊति तत्र वै
68 महाकालं ततॊ गच्छेन नियतॊ नियताशनः
कॊटितीर्थम उपस्पृश्य हयमेध फलं लभेत
69 ततॊ गच्छेत धर्मज्ञ पुण्यस्थानम उमापतेः
नाम्ना भद्र वटं नाम तरिषु लॊकेषु विश्रुतम
70 तत्राभिगम्य चेशानं गॊसहस्रफलं लभेत
महादेव परसादाच च गाणपत्यम अवाप्नुयात
71 नर्मदाम अथ चासाद्य नदीं तरैलॊक्यविश्रुताम
तर्पयित्वा पितॄन देवान अग्निष्टॊम फलं लभेत
72 दक्षिणं सिन्धुम आसाद्य बरह्म चारी जितेन्द्रियः
अग्निष्टॊमम अवाप्नॊति विमानं चाधिरॊहति
73 चर्मण्वतीं समासाद्य नियतॊ नियताशनः
रन्ति देवाभ्यनुज्ञातॊ अग्निष्टॊम फलं लभेत
74 ततॊ गच्छेत धर्मज्ञ हिमवत्सुतम अर्बुदम
पृथिव्यां यत्र वै छिद्रं पूर्वम आसीद युधिष्ठिर
75 तत्राश्रमॊ वसिष्ठस्य तरिषु लॊकेषु विश्रुतः
तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत
76 पिङ्गा तीर्थम उपस्पृश्य बरह्म चारी जितेन्द्रियः
कपिलानां नरव्याघ्र शतस्य फलम अश्नुते
77 ततॊ गच्छेत धर्मज्ञ परभासं लॊकविश्रुतम
यत्र संनिहितॊ नित्यं सवयम एव हुताशनः
देवतानां मुखं वीर अनलॊ ऽनिलसारथिः
78 तस्मिंस तीर्थवरे सनात्वा शुचिः परयत मानसः
अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति मानवः
79 ततॊ गत्वा सरस्वत्याः सागरस्य च संगमे
गॊसहस्रफलं पराप्य सवर्गलॊके महीयते
दीप्यमानॊ ऽगनिवन नित्यं परभया भरतर्षभ
80 तरिरात्रम उषितस तत्र तर्पयेत पितृदेवताः
परभासते यथा सॊमॊ अश्वमेधं च विन्दति
81 वरदानं ततॊ गच्छेत तीर्थं भरतसत्तम
विष्णॊर दुर्वाससा यत्र वरॊ दत्तॊ युधिष्ठिर
82 वरदाने नरः सनात्वा गॊसहस्रफलं लभेत
ततॊ दवारवतीं गच्छेन नियतॊ नियताशनः
पिण्डारके नरः सनात्वा लभेद बहुसुवर्णकम
83 तस्मिंस तीर्थे महाभाग पद्मलक्षणलक्षिताः
अद्यापि मुद्रा दृश्यन्ते तद अद्भुतम अरिंदम
84 तरिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन
महादेवस्य सांनिध्यं तत्रैव भरतर्षभ
85 सागरस्य च सिन्धॊश च संगमं पराप्य भारत
तीर्थे सलिलराजस्य सनात्वा परयत मानसः
86 तर्पयित्वा पितॄन देवान ऋषींश च भरतर्षभ
पराप्नॊति वारुणं लॊकं दीप्यमानः सवतेजसा
87 शङ्कुकर्णेश्वरं देवम अर्चयित्वा युधिष्ठिर
अश्वमेधं दशगुणं परवदन्ति मनीषिणः
88 परदक्षिणम उपावृत्य गच्छेत भरतर्षभ
तीर्थं कुरु वरश्रेष्ठ तरिषु लॊकेषु विश्रुतम
दृमीति नाम्ना विख्यातं सर्वपापप्रमॊचनम
89 यत्र बरह्मादयॊ देवा उपासन्ते महेश्वरम
तत्र सनात्वार्चयित्वा च रुद्रं देवगणैर वृतम
जन्मप्रभृति पापानि कृतानि नुदते नरः
90 दृमी चात्र नरश्रेष्ठ सर्वदेवैर अभिष्टुता
तत्र सनात्वा नरव्याघ्र हयमेधम अवाप्नुयात
91 जित्वा यत्र महाप्राज्ञ विष्णुना परभ विष्णुना
पुरा शौचं कृतं राजन हत्वा दैवतकण्टकान
92 ततॊ गच्छेत धर्मज्ञ वसॊर धाराम अभिष्टुताम
गमनाद एव तस्यां हि हयमेधम अवाप्नुयात
93 सनात्वा कुरु वरश्रेष्ठ परयतात्मा तु मानवः
तर्प्य देवान पितॄंश चैव विष्णुलॊके महीयते
94 तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ
तत्र सनात्वा च पीत्वा च वसूनां संमतॊ भवेत
95 सिन्धूत्तमम इति खयातं सर्वपापप्रणाशनम
तत्र सनात्वा नरश्रेष्ठ लभेद बहुसुवर्णकम
96 बरह्म तुङ्गं समासाद्य शुचिः परयत मानसः
बरह्मलॊकम अवाप्नॊति सुकृती विरजा नरः
97 कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम
तत्र सनात्वा नरः कषिप्रं शक्र लॊकम अवाप्नुयात
98 रेणुकायाश च तत्रैव तीर्थं देव निषेवितम
तत्र सनात्वा भवेद विप्रॊ विमलश चन्द्रमा यथा
99 अथ पञ्चनदं गत्वा नियतॊ नियताशनः
पञ्च यज्ञान अवाप्नॊति करमशॊ ये ऽनुकीर्तिताः
100 ततॊ गच्छेत धर्मज्ञ भीमायाः सथानम उत्तमम
तत्र सनात्वा तु यॊन्यां वै नरॊ भरतसत्तम
101 देव्याः पुत्रॊ भवेद राजंस तप्तकुण्डलविग्रहः
गवां शतसहस्रस्य फलं चैवाप्नुयान महत
102 गिरिमुञ्जं समासाद्य तरिषु लॊकेषु विश्रुतम
पिता महं नमस्कृत्य गॊसहस्रफलं लभेत
103 ततॊ गच्छेत धर्मज्ञ विमलं तीर्थम उत्तमम
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः
104 तत्र सनात्वा नरश्रेष्ठ वाजपेयम अवाप्नुयात
सर्वपापविशुद्धात्मा गच्छेच च परमां गतिम
105 ततॊ गच्छेत मलदां तरिषु लॊकेषु विश्रुताम
पश्चिमायां तु संध्यायाम उपस्पृश्य यथाविधि
106 चरुं नरेन्द्र सप्तार्चेर यथाशक्ति निवेदयेत
पितॄणाम अक्षयं दानं परवदन्ति मनीषिणः
107 गवां शतसहस्रेण राजसूय शतेन च
अश्वमेध सहस्रेण शरेयान सप्तार्चिषश चरुः
108 ततॊ निवृत्तॊ राजेन्द्र वस्त्रा पदम अथाविशेत
अभिगम्य महादेवम अश्वमेध फलं लभेत
109 मणिमन्तं समासाद्य बरह्म चारी समाहितः
एकरात्रॊषितॊ राजन्न अग्निष्टॊम फलं लभेत
110 अथ गच्छेत राजेन्द्र देविकां लॊकविश्रुताम
परसूतिर यत्र विप्राणां शरूयते भरतर्षभ
111 तरिशूलपाणेः सथानं च तरिषु लॊकेषु विश्रुतम
देविकायां नरः सनात्वा समभ्यर्च्य महेश्वरम
112 यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम
113 कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम
तत्र सनात्वा नरः कषिप्रं सिद्धिम आप्नॊति भारत
114 यजनं याजनं गत्वा तथैव बरह्म वालुकाम
पुष्पन्यास उपस्पृश्य न शॊचेन मरणं ततः
115 अर्धयॊजनविस्तारां पञ्चयॊजनम आयताम
एतावद देविकाम आहुः पुण्यां देवर्षिसेविताम
116 ततॊ गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम
यत्र बरह्मादयॊ देवाः सिद्धाश च परमर्षयः
दीर्घसत्रम उपासन्ते दक्षिणाभिर यतव्रताः
117 गमनाद एव राजेन्द्र दीर्घसत्रम अरिंदम
राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः
118 ततॊ विनशनं गच्छेन नियतॊ नियताशनः
गच्छत्य अन्तर्हिता यत्र मरु पृष्ठे सरस्वती
चमसे च शिवॊद्भेदे नागॊद्भेदे च दृश्यते
119 सनात्वा च चमसॊद्भेदे अग्निष्टॊम फलं लभेत
शिवॊद्भेदे नरः सनात्वा गॊसहस्रफलं लभेत
120 नागॊद्भेदे नरः सनात्वा नागलॊकम अवाप्नुयात
शशयानं च राजेन्द्र तीर्थम आसाद्य दुर्लभम
शशरूपप्रतिछन्नाः पुष्करा यत्र भारत
121 सरस्वत्यां महाराज अनु संवत्सरं हि ते
सनायन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकीं सदा
122 तत्र सनात्वा नरव्याघ्र दयॊतते शशिवत सदा
गॊसहस्रपलं चैव पराप्नुयाद भरतर्षभ
123 कुमार कॊटिम आसाद्य नियतः कुरुनन्दन
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
गवामयम अवाप्नॊति कुलं चैव समुद्धरेत
124 ततॊ गच्छेत धर्मज्ञ रुद्र कॊटिं समाहितः
पुरा यत्र महाराज ऋषिकॊटिः समाहिता
परहर्षेण च संविष्टा देव दर्शनकाङ्क्षया
125 अहं पूर्वम अहं पूर्वं दरक्ष्यामि वृषभध्वजम
एवं संप्रस्थिता राजन्न ऋषयः किल भारत
126 ततॊ यॊगेष्वरेणापि यॊगम आस्थाय भूपते
तेषां मन्युप्रणाशार्थम ऋषीणां भावितात्मनाम
127 सृष्टा कॊटिस तु रुद्राणाम ऋषीणाम अग्रतः सथिता
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक
128 तेषां तुष्टॊ महादेव ऋषीणाम उग्रतेजसाम
भक्त्या परमया राजन वरं तेषां परदिष्टवान
अद्य परभृति युष्माकं धर्मवृद्धिर भविष्यति
129 तत्र सनात्वा नरव्याघ्र रुद्र कॊट्यां नरः शुचिः
अश्वमेधम अवाप्नॊति कुलं चैव समुद्धरेत
130 ततॊ गच्छेत राजेन्द्र संगमं लॊकविश्रुतम
सरस्वत्या महापुण्यम उपासन्ते जनार्दनम
131 यत्र बरह्मादयॊ देवा ऋषयः सिद्धचारणाः
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम
132 तत्र सनात्वा नरव्याघ्र विन्देद बहुसुवर्णकम
सर्वपापविशुद्धात्मा बरह्मलॊकं च गच्छति
133 ऋषीणां यत्र सत्राणि समाप्तानि नराधिप
सत्रावसानम आसाद्य गॊसहस्रफलं लभेत
1 [v]
dhanaṃjayotsukās te tu vane tasmin mahārathāḥ
nyavasanta mahābhāgā draupadyā saha pāṇḍavāḥ
2 athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam
dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam
3 sa taiḥ parivṛtaḥ śrīmān bhrātṛbhiḥ kurusattamaḥ
vibabhāv atidīptaujo devair iva śatakratuḥ
4 yathā ca vedān sāvitrī yājñasenī tathā satī
na jahau dharmataḥ pārthān merum arkaprabhā yathā
5 pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ
āśvāsayad dharmasutaṃ yuktarūpam ivānagha
6 uvāca ca mahātmānaṃ dharmarājaṃ yudhiṣṭhiram
brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te
7 atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha
uvāca prāñjalir vākyaṃ nāradaṃ deva saṃmitam
8 tvayi tuṣṭe mahābhāga sarvalokābhipūjite
kṛtam ity eva manye 'haṃ prasādāt tava suvrata
9 yadi tv aham anugrāhyo bhrātṛbhiḥ sahito 'nagha
saṃdehaṃ me muniśreṣṭha hṛdisthaṃ chettum arhasi
10 pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ
kiṃ phalaṃ tasya kārtsnyena tad brahman vaktum arhasi
11 [n]
śṛṇu rājann avahito yathā bhīṣmeṇa bhārata
pulastyasya sakāśād vai sarvam etad upaśrutam
12 purā bhāgīrathī tīre bhīṣmo dharmabhṛtāṃ varaḥ
pitryaṃ vrataṃ samāsthāya nyavasan munivat tadā
13 śubhe deśe mahārāja puṇye devarṣisevite
gaṅgā dvāre mahātejo devagandharvasevite
14 sa pitṝṃs tarpayām āsa devāṃś ca paramadyutiḥ
ṛṣīṃś ca toṣayām āsa vidhidṛṣṭena karmaṇā
15 kasya cit tv atha kālasya japann eva mahātapāḥ
dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam
16 sa taṃ dṛṣṭvogra tapasaṃ dīpyamānam iva śriyā
praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau
17 upasthitaṃ mahārāja pūjayām āsa bhārata
bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā
18 śirasā cārghyam ādāya śuciḥ prayata mānasaḥ
nāma saṃkīrtayām āsa tasmin brahmarṣisattame
19 bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata
tava saṃdarśanād eva mukto 'haṃ sarvakilbiṣaiḥ
20 evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ
vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira
21 taṃ dṛṣṭvā niyamenātha svādhyāyāmnāya karśitam
bhīṣmaṃ kuru kulaśreṣṭhaṃ muniḥ prītamanābhavat
22 [pulastya]
anena tava dharmajña praśrayeṇa damena ca
satyena ca mahābhāga tuṣṭo 'smi tava sarvaśaḥ
23 yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha
tena paśyasi māṃ putra prītiś cāpi mama tvayi
24 amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te
yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha
25 [bh]
prīte tvayi mahābhāga sarvalokābhipūjite
kṛtam ity eva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum
26 yadi tv aham anugrāhyas tava dharmabhṛtāṃ vara
vakṣyāmi hṛtsthaṃ saṃdehaṃ tan me tvaṃ vaktum arhasi
27 asti me bhagavan kaś cit tīrthebhyo dharmasaṃśayaḥ
tam ahaṃ śrotum icchāmi pṛthak saṃkīrtitaṃ tvayā
28 pradakṣiṇaṃ yaḥ pṛthivīṃ karoty amitavikrama
kiṃ phalaṃ tasya viprarṣe tan me brūhi tapodhana
29 [p]
hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam
tad ekāgramanās tāta śṛṇu tīrtheṣu yat phalam
30 yasya hastau ca pādau ca manaś caiva susaṃyatam
vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute
31 pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ
ahaṃ kāranivṛttiś ca sa tīrthaphalam aśnute
32 akalkako nirārambho laghv āhāro jitendriyaḥ
vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute
33 akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ
ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute
34 ṛṣibhiḥ kratavaḥ proktā vedeṣv iha yathākramam
phalaṃ caiva yathātattvaṃ pretya ceha ca sarvaśaḥ
35 na te śakyā daridreṇa yajñāḥ prāptuṃ mahīpate
bahūpakaraṇā yajñā nānā saṃbhāravistarāḥ
36 prāpyante pārthivair ete samṛddhair vā naraiḥ kva cit
nārthāny ūnopakaraṇair ekātmabhir asaṃhataiḥ
37 yo daridrair api vidhiḥ śakyaḥ prāptuṃ nareśvara
tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara
38 ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama
tīrthābhigamanaṃ puṇyaṃ yajñair api viśiṣyate
39 anupoṣya trirātrāṇi tīrthāny anabhigamya ca
adattvā kāñcanaṃ gāś ca daridro nāma jāyate
40 agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ
na tat phalam avāpnoti tīrthābhigamanena yat
41 nṛloke devadevasya tīrthaṃ trailokyaviśrutam
puṣkaraṃ nāma vikhyātaṃ mahābhāgaḥ samāviśet
42 daśakoṭisahasrāṇi tīrthānāṃ vai mahīpate
sāṃnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ kurunandana
43 ādityā vasavo rudrāḥ sādhyāś ca sa marudgaṇāḥ
gandharvāpsarasaś caiva nityaṃ saṃnihitā vibho
44 yatra devās tapas taptvā daityā brahmarṣayas tathā
divyayogā mahārāja puṇyena mahatānvitāḥ
45 manasāpy abhikāmasya puṣkarāṇi manasvinaḥ
pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate
46 tasmiṃs tīrthe mahābhāga nityam eva pitā mahaḥ
uvāsa paramaprīto devadānava saṃmmataḥ
47 puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ
siddhiṃ samabhisaṃprāptāḥ puṇyena mahatānvitāḥ
48 tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ
aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ
49 apy ekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ
tenāsau karmaṇā bhīṣma pretya ceha ca modate
50 śākamūlaphalair vāpi yena vartayate svayam
tad vai dadyād brāhmaṇāya śraddhāvān anasūyakaḥ
tenaiva prāpnuyāt prājño hayamedha phalaṃ naraḥ
51 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama
na viyoniṃ vrajanty ete snātās tīrthe mahātmanaḥ
52 kārtikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram
phalaṃ tatrākṣayaṃ tasya vardhate bharatarṣabha
53 sāyaṃprātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ
upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata
prāpnuyāc ca naro lokān brahmaṇaḥ sadane 'kṣayān
54 janmaprabhṛti yat pāpaṃ striyo vā puruṣasya vā
puṣkare snātamātrasya sarvam eva praṇaśyati
55 yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ
tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate
56 uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ
kratūn sarvān avāpnoti brahmalokaṃ ca gacchati
57 yas tu varṣaśataṃ pūrṇam agnihotram upāsate
kārtikīṃ vā vased ekāṃ puṣkare samam eva tat
58 puṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ
duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram
59 uṣya dvādaśa rātraṃ tu niyato niyatāśanaḥ
pradakṣiṇam upāvṛtto jambū mārgaṃ samāviśet
60 jambū mārgaṃ samāviśya devarṣipitṛsevitam
aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
61 tatroṣya rajanīḥ pañca ṣaṣṭha kālakṣamī naraḥ
na durgatim avāpnoti siddhiṃ prāpnoti cottamām
62 jambū mārgād upāvṛtto gacchet taṇḍulikāśramam
na durgatim avāpnoti svargaloke ca pūjyate
63 agasya sara āsādya pitṛdevārcane rataḥ
trirātropoṣito rājann agniṣṭoma phalaṃ labhet
64 śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam
kaṇvāśramaṃ samāsādya śrījuṣṭaṃ lokapūjitam
65 dharmāraṇyaṃ hi tat puṇyam ādyaṃ ca bharatarṣabha
yatra praviṣṭamātro vai pāpebhyo vipramucyate
66 arcayitvā pitṝn devān niyato niyatāśanaḥ
sarvakāmasamṛddhasya yajñasya phalam aśnute
67 pradakṣiṇaṃ tataḥ kṛtvā yayāti patanaṃ vrajet
hayamedhasya yajñasya phalaṃ prāpnoti tatra vai
68 mahākālaṃ tato gacchen niyato niyatāśanaḥ
koṭitīrtham upaspṛśya hayamedha phalaṃ labhet
69 tato gaccheta dharmajña puṇyasthānam umāpateḥ
nāmnā bhadra vaṭaṃ nāma triṣu lokeṣu viśrutam
70 tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet
mahādeva prasādāc ca gāṇapatyam avāpnuyāt
71 narmadām atha cāsādya nadīṃ trailokyaviśrutām
tarpayitvā pitṝn devān agniṣṭoma phalaṃ labhet
72 dakṣiṇaṃ sindhum āsādya brahma cārī jitendriyaḥ
agniṣṭomam avāpnoti vimānaṃ cādhirohati
73 carmaṇvatīṃ samāsādya niyato niyatāśanaḥ
ranti devābhyanujñāto agniṣṭoma phalaṃ labhet
74 tato gaccheta dharmajña himavatsutam arbudam
pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira
75 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ
tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet
76 piṅgā tīrtham upaspṛśya brahma cārī jitendriyaḥ
kapilānāṃ naravyāghra śatasya phalam aśnute
77 tato gaccheta dharmajña prabhāsaṃ lokaviśrutam
yatra saṃnihito nityaṃ svayam eva hutāśanaḥ
devatānāṃ mukhaṃ vīra analo 'nilasārathiḥ
78 tasmiṃs tīrthavare snātvā śuciḥ prayata mānasaḥ
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ
79 tato gatvā sarasvatyāḥ sāgarasya ca saṃgame
gosahasraphalaṃ prāpya svargaloke mahīyate
dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha
80 trirātram uṣitas tatra tarpayet pitṛdevatāḥ
prabhāsate yathā somo aśvamedhaṃ ca vindati
81 varadānaṃ tato gacchet tīrthaṃ bharatasattama
viṣṇor durvāsasā yatra varo datto yudhiṣṭhira
82 varadāne naraḥ snātvā gosahasraphalaṃ labhet
tato dvāravatīṃ gacchen niyato niyatāśanaḥ
piṇḍārake naraḥ snātvā labhed bahusuvarṇakam
83 tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ
adyāpi mudrā dṛśyante tad adbhutam ariṃdama
84 triśūlāṅkāni padmāni dṛśyante kurunandana
mahādevasya sāṃnidhyaṃ tatraiva bharatarṣabha
85 sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata
tīrthe salilarājasya snātvā prayata mānasaḥ
86 tarpayitvā pitṝn devān ṛṣīṃś ca bharatarṣabha
prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā
87 śaṅkukarṇeśvaraṃ devam arcayitvā yudhiṣṭhira
aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ
88 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha
tīrthaṃ kuru varaśreṣṭha triṣu lokeṣu viśrutam
dṛmīti nāmnā vikhyātaṃ sarvapāpapramocanam
89 yatra brahmādayo devā upāsante maheśvaram
tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam
janmaprabhṛti pāpāni kṛtāni nudate naraḥ
90 dṛmī cātra naraśreṣṭha sarvadevair abhiṣṭutā
tatra snātvā naravyāghra hayamedham avāpnuyāt
91 jitvā yatra mahāprājña viṣṇunā prabha viṣṇunā
purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān
92 tato gaccheta dharmajña vasor dhārām abhiṣṭutām
gamanād eva tasyāṃ hi hayamedham avāpnuyāt
93 snātvā kuru varaśreṣṭha prayatātmā tu mānavaḥ
tarpya devān pitṝṃś caiva viṣṇuloke mahīyate
94 tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha
tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet
95 sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam
tatra snātvā naraśreṣṭha labhed bahusuvarṇakam
96 brahma tuṅgaṃ samāsādya śuciḥ prayata mānasaḥ
brahmalokam avāpnoti sukṛtī virajā naraḥ
97 kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam
tatra snātvā naraḥ kṣipraṃ śakra lokam avāpnuyāt
98 reṇukāyāś ca tatraiva tīrthaṃ deva niṣevitam
tatra snātvā bhaved vipro vimalaś candramā yathā
99 atha pañcanadaṃ gatvā niyato niyatāśanaḥ
pañca yajñān avāpnoti kramaśo ye 'nukīrtitāḥ
100 tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam
tatra snātvā tu yonyāṃ vai naro bharatasattama
101 devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ
gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat
102 girimuñjaṃ samāsādya triṣu lokeṣu viśrutam
pitā mahaṃ namaskṛtya gosahasraphalaṃ labhet
103 tato gaccheta dharmajña vimalaṃ tīrtham uttamam
adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ
104 tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt
sarvapāpaviśuddhātmā gacchec ca paramāṃ gatim
105 tato gaccheta maladāṃ triṣu lokeṣu viśrutām
paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi
106 caruṃ narendra saptārcer yathāśakti nivedayet
pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ
107 gavāṃ śatasahasreṇa rājasūya śatena ca
aśvamedha sahasreṇa śreyān saptārciṣaś caruḥ
108 tato nivṛtto rājendra vastrā padam athāviśet
abhigamya mahādevam aśvamedha phalaṃ labhet
109 maṇimantaṃ samāsādya brahma cārī samāhitaḥ
ekarātroṣito rājann agniṣṭoma phalaṃ labhet
110 atha gaccheta rājendra devikāṃ lokaviśrutām
prasūtir yatra viprāṇāṃ śrūyate bharatarṣabha
111 triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam
devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram
112 yathāśakti caruṃ tatra nivedya bharatarṣabha
sarvakāmasamṛddhasya yajñasya labhate phalam
113 kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam
tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata
114 yajanaṃ yājanaṃ gatvā tathaiva brahma vālukām
puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ
115 ardhayojanavistārāṃ pañcayojanam āyatām
etāvad devikām āhuḥ puṇyāṃ devarṣisevitām
116 tato gaccheta dharmajña dīrghasatraṃ yathākramam
yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ
dīrghasatram upāsante dakṣiṇābhir yatavratāḥ
117 gamanād eva rājendra dīrghasatram ariṃdama
rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
118 tato vinaśanaṃ gacchen niyato niyatāśanaḥ
gacchaty antarhitā yatra maru pṛṣṭhe sarasvatī
camase ca śivodbhede nāgodbhede ca dṛśyate
119 snātvā ca camasodbhede agniṣṭoma phalaṃ labhet
śivodbhede naraḥ snātvā gosahasraphalaṃ labhet
120 nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt
śaśayānaṃ ca rājendra tīrtham āsādya durlabham
śaśarūpapratichannāḥ puṣkarā yatra bhārata
121 sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te
snāyante bharataśreṣṭha vṛttāṃ vai kārtikīṃ sadā
122 tatra snātvā naravyāghra dyotate śaśivat sadā
gosahasrapalaṃ caiva prāpnuyād bharatarṣabha
123 kumāra koṭim āsādya niyataḥ kurunandana
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
gavāmayam avāpnoti kulaṃ caiva samuddharet
124 tato gaccheta dharmajña rudra koṭiṃ samāhitaḥ
purā yatra mahārāja ṛṣikoṭiḥ samāhitā
praharṣeṇa ca saṃviṣṭā deva darśanakāṅkṣayā
125 ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam
evaṃ saṃprasthitā rājann ṛṣayaḥ kila bhārata
126 tato yogeṣvareṇāpi yogam āsthāya bhūpate
teṣāṃ manyupraṇāśārtham ṛṣīṇāṃ bhāvitātmanām
127 sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā
mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak
128 teṣāṃ tuṣṭo mahādeva ṛṣīṇām ugratejasām
bhaktyā paramayā rājan varaṃ teṣāṃ pradiṣṭavān
adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati
129 tatra snātvā naravyāghra rudra koṭyāṃ naraḥ śuciḥ
aśvamedham avāpnoti kulaṃ caiva samuddharet
130 tato gaccheta rājendra saṃgamaṃ lokaviśrutam
sarasvatyā mahāpuṇyam upāsante janārdanam
131 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ
abhigacchanti rājendra caitraśuklacaturdaśīm
132 tatra snātvā naravyāghra vinded bahusuvarṇakam
sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati
133 ṛṣīṇāṃ yatra satrāṇi samāptāni narādhipa
satrāvasānam āsādya gosahasraphalaṃ labhet

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

380 of 2013 Book 19% ~15 min left