Book 3: Chapter 83
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 3: Chapter 83

The Mahabharata in Sanskrit

Book 3
Chapter 83

1 [पुलस्त्य]
अथ संध्यां समासाद्य संवेद्यं तीर्थम उत्तमम
उपस्पृश्य नरॊ विद्वान भवेन नास्त्य अत्र संशयः
2 रामस्य च परसादेन तीर्थं राजन कृतं पुरा
तल लॊहित्यं समासाद्य विन्द्याद बहुसुवर्णकम
3 करतॊयां समासाद्य तरिरात्रॊपॊषितॊ नरः
अश्वमेधम अवाप्नॊति कृते पैतामहे विधौ
4 गङ्गायास तव अथ राजेन्द्र सागरस्य च संगमे
अश्वमेधं दशगुणं परवदन्ति मनीषिणः
5 गङ्गायास तव अपरं दवीपं पराप्य यः सनाति भारत
तरिरात्रॊपॊषितॊ राजन सर्वकामान अवाप्नुयात
6 ततॊ वैतरणीं गत्वा नदीं पापप्रमॊचनीम
विरजं तीर्थम आसाद्य विराजति यथा शशी
7 परभवेच च कुले पुण्ये सर्वपापं वयपॊहति
गॊसहस्रफलं लब्ध्वा पुनाति च कुलं नरः
8 शॊणस्य जयॊतिरथ्याश च संगमे निवसञ शुचिः
तर्पयित्वा पितॄन देवान अग्निष्टॊम फलं लभेत
9 शॊणस्य नर्मदायाश च परभवे कुरुनन्दन
वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत
10 ऋषभं तीर्थम आसाद्य कॊशलायां नराधिप
वाजपेयम अवाप्नॊति तरिरात्रॊपॊषितॊ नरः
11 कॊशलायां समासाद्य कालतीर्थ उपस्पृशेत
वृशभैकादश फलं लभते नात्र संशयः
12 पुष्पवत्याम उपस्पृश्य तरिरात्रॊपॊषितॊ नरः
गॊसहस्रफलं विन्द्यात कुलं चैव समुद्धरेत
13 ततॊ बदरिका तीर्थे सनात्वा परयत मानसः
दीर्घम आयुर अवाप्नॊति सवर्गलॊकं च गच्छति
14 ततॊ महेन्द्रम आसाद्य जामदग्न्य निषेवितम
राम तीर्थे नरः सनात्वा वाजिमेधफलं लभेत
15 मतङ्गस्य तु केदारस तत्रैव कुरुनन्दन
तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत
16 शरीपर्वतं समासाद्य नदीतीर उपस्पृशेत
अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति
17 शरीपर्वते महादेवॊ देव्या सह महाद्युतिः
नयवसत परमप्रीतॊ बरह्मा च तरिदशैर वृतः
18 तत्र देव हरदे सनात्वा शुचिः परयत मानसः
अश्वमेधम अवाप्नॊति परां सिद्धिं च गच्छति
19 ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम
वाजपेयम अवाप्नॊति नाकपृष्ठे च मॊदते
20 ततॊ गच्छेत कावेरीं वृताम अप्सरसां गणैः
तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत
21 ततस तीरे समुद्रस्य कन्या तीर्थ उपस्पृशेत
तत्रॊपस्पृश्य राजेन्द्र सर्वपापैः परमुच्यते
22 अथ गॊकर्णम आसाद्य तरिषु लॊकेषु विश्रुतम
समुद्रमध्ये राजेन्द्र सर्वलॊकनमस्कृतम
23 यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः
भूतयक्षपिशाचाश च किंनराः स महॊरगाः
24 सिद्धचारणगन्धर्वा मानुषाः पन्नगास तथा
सरितः सागराः शैला उपासन्त उमा पतिम
25 तत्रेशानं समभ्यर्च्य तरिरात्रॊपॊषितॊ नरः
दशाश्वमेधम आप्नॊति गाणपत्यं च विन्दति
उष्य दवादश रात्रं तु कृतात्मा भवते नरः
26 तत एव तु गायत्र्याः सथानं तरैलॊक्यविश्रुतम
तरिरात्रम उषितस तत्र गॊसहस्रफलं लभेत
27 निदर्शनं च परत्यक्षं बराह्मणानां नराधिप
गायत्रीं पठते यस तु यॊनिसंकरजस तथा
गाथा वा गीतिका वापि तस्य संपद्यते नृप
28 संवर्तस्य तु विप्रर्षेर वापीम आसाद्य दुर्लभाम
रूपस्य भागी भवति सुभगश चैव जायते
29 ततॊ वेण्णां समासाद्य तर्पयेत पितृदेवताः
मयूरहंससंयुक्तं विमानं लभते नरः
30 ततॊ गॊदावरीं पराप्य नित्यं सिद्धनिषेविताम
गवाम अयम अवाप्नॊति वासुकेर लॊकम आप्नुयात
31 वेण्णायाः संगमे सनात्वा वाजपेयफलं लभेत
वरदा संगमे सनात्वा गॊसहस्रफलं लभेत
32 बरह्म सथानं समासाद्य तरिरात्रम उषितॊ नरः
गॊसहस्रफलं विन्देत सवर्गलॊकं च गच्छति
33 कुशप्लवनम आसाद्य बरह्म चारी समाहितः
तरिरात्रम उषितः सनात्वा अश्वमेध फलं लभेत
34 ततॊ देव हरदे रम्ये कृष्ण वेण्णा जलॊद्भवे
जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप
35 यत्र करतुशतैर इष्ट्वा देवराजॊ दिवं गतः
अग्निष्टॊम शतं विन्देद गमनाद एव भारत
36 सर्वदेव हरदे सनात्वा गॊसहस्रफलं लभेत
जातिमात्रह्रदे सनात्वा भवेज जातिस्मरॊ नरः
37 ततॊ ऽवाप्य महापुण्यां पयॊष्णीं सरितां वराम
पितृदेवार्चन रतॊ गॊसहस्रफलं लभेत
38 दण्डकारण्यम आसाद्य महाराज उपस्पृशेत
गॊसहस्रफलं तत्र सनातमात्रस्य भारत
39 शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनाः
न दुर्गतिम अवाप्नॊति पुनाति च कुलं नरः
40 ततः शूर्पारकं गच्छेज जामदग्न्य निषेवितम
राम तीर्थे नरः सनात्वा विन्द्याद बहुसुवर्णकम
41 सप्त गॊदावरे सनात्वा नियतॊ नियताशनः
महत पुण्यम अवाप्नॊति देवलॊकं च गच्छति
42 ततॊ देवपथं गच्छेन नियतॊ नियताशनः
देव सत्रस्य यत पुण्यं तद अवाप्नॊति मानवः
43 तुङ्गकारण्यम आसाद्य बरह्म चारी जितेन्द्रियः
वेदान अध्यापयत तत्र ऋषिः सारस्वतः पुरा
44 तत्र वेदान परनष्टांस तु मुनेर अङ्गिरसः सुतः
उपविष्टॊ महर्षीणाम उत्तरीयेषु भारत
45 ओंकारेण यथान्यायं सम्यग उच्चारितेन च
येन यत पूर्वम अभ्यस्तं तत तस्य समुपस्थितम
46 ऋषयस तत्र देवाश च वरुणॊ ऽगनिः परजापतिः
हरिर नारायणॊ देवॊ महादेवस तथैव च
47 पिता महश च भगवान देवैः सह महाद्युतिः
भृगुं नियॊजयाम आस याजनार्थे महाद्युतिम
48 ततः सचक्रे भगवान ऋषीणां विधिवत तदा
सर्वेषां पुनर आधानं विधिदृष्टेन कर्मणा
49 आज्यभागेन वै तत्र तर्पितास तु यथाविधि
देवास तरिभुवणं याता ऋषयश च यथासुखम
50 तद अरण्यं परविष्टस्य तुङ्गकं राजसत्तम
पापं परणश्यते सर्वं सत्रियॊ वा पुरुषस्य वा
51 तत्र मासं वसेद धीरॊ नियतॊ नियताशनः
बरह्मलॊकं वरजेद राजन पुनीते च कुलं नरः
52 मेधाविकं समासाद्य पितॄन देवांश च तर्पयेत
अग्निष्टॊमम अवाप्नॊति समृतिं मेधां च विन्दति
53 ततः कालंजरं गत्वा पर्वतं लॊकविश्रुतम
तत्र देव हरदे सनात्वा गॊसहस्रफलं लभेत
54 आत्मानं साधयेत तत्र गिरौ कालंजरे नृप
सवर्गलॊके महीयेत नरॊ नास्त्य अत्र संशयः
55 ततॊ गिरिवरश्रेष्ठे चित्रकूटे विशां पते
मन्दाकिनीं समासाद्य नदीं पापप्रमॊचिनीम
56 तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः
अश्वमेधम अवाप्नॊति गतिं च परमां वरजेत
57 ततॊ गच्छेत राजेन्द्र भर्तृस्थानम अनुत्तमम
यत्र देवॊ महासेनॊ नित्यं संनिहितॊ नृपः
58 पुमांस तत्र नरश्रेष्ठ गमनाद एव सिध्यति
कॊटितीर्थे नरः सनात्वा गॊसहस्रफलं लभेत
59 परदक्षिणम उपावृत्य जयेष्ठस्थानं वरजेन नरः
अभिगम्य महादेवं विराजति यथा शशी
60 तत्र कूपॊ महाराज विश्रुतॊ भरतर्षभ
समुद्रास तत्र चत्वारॊ निवसन्ति युधिष्ठिर
61 तत्रॊपस्पृश्य राजेन्द्र कृत्वा चापि परदक्षिणम
नियतात्मा नरः पूतॊ गच्छेत परमां गतिम
62 ततॊ गच्छेत कुरुश्रेष्ठ शृङ्गवेर पुरं महत
यत्र तीर्णॊ महाराज रामॊ दाशरथिः पुरा
63 गङ्गायां तु नरः सनात्वा बरह्म चारी समाहितः
विधूतपाप्मा भवति वाजपेयं च विन्दति
64 अभिगम्य महादेवम अभ्यर्च्य च नराधिप
परदक्षिणम उपावृत्य गाणपत्यम अवाप्नुयात
65 ततॊ गच्छेत राजेन्द्र परयागम ऋषिसंस्तुतम
यत्र बरह्मादयॊ देवा दिशश च स दिग ईश्वराः
66 लॊकपालाश च साध्याश च नैरृताः पितरस तथा
सनत कुमार परमुखास तथैव परमर्षयः
67 अङ्गिरः परमुखाश चैव तथा बरह्मर्षयॊ ऽपरे
तथा नागाः सुपर्णाश च सिद्धाश चक्रचरास तथा
68 सरितः सागराश चैव गन्धर्वाप्सरसस तथा
हरिश च भगवान आस्ते परजापतिपुरस्कृतः
69 तत्र तरीण्य अग्निकुण्डानि येषां मध्ये च जाह्नवी
परयागाद अभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता
70 तपनस्य सुता तत्र तरिषु लॊकेषु विश्रुता
यमुना गङ्गया सार्धं संगता लॊकपावनी
71 गङ्गायमुनयॊर मद्यं पृथिव्या जघनं समृतम
परयागं जघनस्यान्तम उपस्थम ऋषयॊ विदुः
72 परयागं स परतिष्ठानं कम्बलाश्वतरौ तथा
तीर्थं भॊगवती चैव वेदी परॊक्ता परजापतेः
73 तत्र वेदाश च यज्ञाश च मूर्तिमन्तॊ युधिष्ठिर
परजापतिम उपासन्ते ऋषयश च महाव्रताः
यजन्ते करतुभिर देवास तथा चक्रचरा नृप
74 ततः पुण्यतमं नास्ति तरिषु लॊकेषु भारत
परयागः सर्वतीर्थेभ्यः परभवत्य अधिकं विभॊ
75 शरवणात तस्य तीर्थस्य नाम संकीर्तनाद अपि
मृत्तिका लम्भनाद वापि नरः पापात परमुच्यते
76 तत्राभिषेकं यः कुर्यात संगमे संशितव्रतः
पुण्यं सफलम आप्नॊति राजसूयाश्वमेधयॊः
77 एषा यजन भूमिर हि देवानाम अपि सत्कृता
तत्र दत्तं सूक्ष्मम अपि महद भवति भारत
78 न वेद वचनात तात न लॊकवचनाद अपि
मतिर उत्क्रमणीया ते परयागमरणं परति
79 दश तीर्थसहस्राणि षष्टिकॊट्त्यस तथापराः
येषां सांनिध्यम अत्रैव कीर्तितं कुरुनन्दन
80 चातुर्वेदे च यत पुण्यं सत्यवादिषु चैव यत
सनात एव तदाप्नॊति गङ्गा यमुन संगमे
81 तत्र भॊगवती नाम वासुकेस तीर्थम उत्तमम
तत्राभिषेकं यः कुर्यात सॊ ऽशवमेधम अवाप्नुयात
82 तत्र हंसप्रपतनं तीर्थं तरैलॊक्यविश्रुतम
दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन
83 यत्र गङ्गा महाराज स देशस तत तपॊवनम
सिद्धक्षेत्रं तु तज जञेयं गङ्गातीरसमाश्रितम
84 इदं सत्यं दविजातीनां साधूनाम आत्मजस्य च
सुहृदां च जपेत कर्णे शिष्यस्यानुगतस्य च
85 इदं धर्म्यम इदं पुण्यम इदं मेध्यम इदं सुखम
इदं सवर्ग्यम इदं रम्यम इदं पावनम उत्तमम
86 महर्षीणाम इदं गुह्यं सर्पपापप्रमॊचनम
अधीत्य दविजमध्ये च निर्मलत्वम अवाप्नुयात
87 यश चेदं शृणुयान नित्यं तीर्थपुण्यं सदा शुचिः
जातीः स समरते बह्वीर नाकपृष्ठे च मॊदते
88 गम्यान्य अपि च तीर्थानि कीर्तितान्य अगमानि च
मनसा तानि गच्छेत सर्वतीर्थसमीक्षया
89 एतानि वसुभिः साध्यैर आदित्यैर मरुद अश्विभिः
ऋषिभिर देवकल्पैश च शरितानि सुकृतैषिभिः
90 एवं तवम अपि कौरव्य विधिनानेन सुव्रत
वरज तीर्थानि नियतः पुण्यं पुण्येन वर्धते
91 भावितैः कारणैः पूर्वम आस्तिक्याच छरुति दर्शनात
पराप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः
92 नाव्रतॊ नाकृतात्मा च नाशुचिर न च तस्करः
सनाति तीर्थेषु कौरव्य न च वक्रमतिर नरः
93 तवया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना
पितरस तारितास तात सर्वे च परपिता महाः
94 पिता मह पुरॊगाश च देवाः सर्षिगणा नृप
तव धर्मेण धर्मज्ञ नित्यम एवाभितॊषिताः
95 अवाप्स्यसि च लॊकान वै वसूनां वासवॊपम
कीर्तिं च महतीं भीष्म पराप्स्यसे भुवि शाश्वतीम
96 [नारद]
एवम उक्त्वाभ्यनुज्ञाप्य पुलस्त्यॊ भगवान ऋषिः
परीतः परीतेन मनसा तत्रैवान्तरधीयते
97 भीष्मश च कुरुशार्दूल शास्त्रतत्त्वार्थ दर्शिवान
पुलस्त्यवचनाच चैव पृथिवीम अनुचक्रमे
98 अनेन विधिना यस तु पृथिवीं संचरिष्यति
अश्वमेध शतस्याग्र्यं फलं परेत्य स भॊक्ष्यते
99 अतश चाष्ट गुणं पार्थ पराप्स्यसे धर्मम उत्तमम
नेता च तवम ऋषीन यस्मात तेन ते ऽषट गुणं फलम
100 रक्षॊगणावकीर्णानि तीर्थान्य एतानि भारत
न गतिर विद्यते ऽनयस्य तवाम ऋते कुरुनन्दन
101 इदं देवर्षिचरितं सर्वतीर्थार्थ संश्रितम
यः पठेत कल्यम उत्थाय सर्वपापैः परमुच्यते
102 ऋषिमुख्याः सदा यत्र वाल्मीकिस तव अथ काश्यपः
आत्रेयस तव अथ कौण्डिन्यॊ विश्वा मित्रॊ ऽथ गौतमः
103 असितॊ देवलश चैव मार्कण्डेयॊ ऽथ गालवः
भरद वाजॊ वसिष्ठश च मुनिर उद्दालकस तथा
104 शौनकः सह पुत्रेण वयासश च जपतां वरः
दुर्वासाश च मुनिश्रेष्ठॊ गालवश च महातपः
105 एते ऋषिवराः सर्वे तवत्प्रतीक्षास तपॊधनाः
एभिः सह महाराज तीर्थान्य एतान्य अनुव्रज
106 एष वै लॊमशॊ नाम देवर्षिर अमितद्युतिः
समेष्यति तवया चैव तेन सार्धम अनुव्रज
107 मया च सहधर्मज्ञ तीर्थान्य एतान्य अनुव्रज
पराप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः
108 यथा ययातिर धर्मात्मा यथा राजा पुरूरवः
तथा तवं कुरुशार्दूल सवेन धर्मेण शॊभसे
109 यथा भगीरथॊ राजा यथा रामश च विश्रुतः
तथा तवं सर्वराजभ्यॊ भराजसे रश्मिवान इव
110 यथा मनुर यथेक्ष्वाकुर यथा पूरुर महायशाः
यथा वैन्यॊ महातेजास तथा तवम अपि विश्रुतः
111 यथा च वृत्रहा सर्वान सपत्नान निर्दहत पुरा
तथा शत्रुक्षयं कृत्वा परजास तवं पालयिष्यसि
112 सवधर्मविजिताम उर्वीं पराप्य राजीवलॊचन
खयातिं यास्यसि धर्मेण कार्तवीर्यार्जुनॊ यथा
113 [व]
एवम आश्वास्य राजानं नारदॊ भगवान ऋषिः
अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत
114 युधिष्ठिरॊ ऽपि धर्मात्मा तम एवार्थं विचिन्तयन
तीर्थयात्राश्रयं पुण्यम ऋषीणां परत्यवेदयत
1 [pulastya]
atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam
upaspṛśya naro vidvān bhaven nāsty atra saṃśayaḥ
2 rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā
tal lohityaṃ samāsādya vindyād bahusuvarṇakam
3 karatoyāṃ samāsādya trirātropoṣito naraḥ
aśvamedham avāpnoti kṛte paitāmahe vidhau
4 gaṅgāyās tv atha rājendra sāgarasya ca saṃgame
aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ
5 gaṅgāyās tv aparaṃ dvīpaṃ prāpya yaḥ snāti bhārata
trirātropoṣito rājan sarvakāmān avāpnuyāt
6 tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm
virajaṃ tīrtham āsādya virājati yathā śaśī
7 prabhavec ca kule puṇye sarvapāpaṃ vyapohati
gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ
8 śoṇasya jyotirathyāś ca saṃgame nivasañ śuciḥ
tarpayitvā pitṝn devān agniṣṭoma phalaṃ labhet
9 śoṇasya narmadāyāś ca prabhave kurunandana
vaṃśagulma upaspṛśya vājimedhaphalaṃ labhet
10 ṛṣabhaṃ tīrtham āsādya kośalāyāṃ narādhipa
vājapeyam avāpnoti trirātropoṣito naraḥ
11 kośalāyāṃ samāsādya kālatīrtha upaspṛśet
vṛśabhaikādaśa phalaṃ labhate nātra saṃśayaḥ
12 puṣpavatyām upaspṛśya trirātropoṣito naraḥ
gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet
13 tato badarikā tīrthe snātvā prayata mānasaḥ
dīrgham āyur avāpnoti svargalokaṃ ca gacchati
14 tato mahendram āsādya jāmadagnya niṣevitam
rāma tīrthe naraḥ snātvā vājimedhaphalaṃ labhet
15 mataṅgasya tu kedāras tatraiva kurunandana
tatra snātvā naro rājan gosahasraphalaṃ labhet
16 śrīparvataṃ samāsādya nadītīra upaspṛśet
aśvamedham avāpnoti svargalokaṃ ca gacchati
17 śrīparvate mahādevo devyā saha mahādyutiḥ
nyavasat paramaprīto brahmā ca tridaśair vṛtaḥ
18 tatra deva hrade snātvā śuciḥ prayata mānasaḥ
aśvamedham avāpnoti parāṃ siddhiṃ ca gacchati
19 ṛṣabhaṃ parvataṃ gatvā pāṇḍyeṣu surapūjitam
vājapeyam avāpnoti nākapṛṣṭhe ca modate
20 tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ
tatra snātvā naro rājan gosahasraphalaṃ labhet
21 tatas tīre samudrasya kanyā tīrtha upaspṛśet
tatropaspṛśya rājendra sarvapāpaiḥ pramucyate
22 atha gokarṇam āsādya triṣu lokeṣu viśrutam
samudramadhye rājendra sarvalokanamaskṛtam
23 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
bhūtayakṣapiśācāś ca kiṃnarāḥ sa mahoragāḥ
24 siddhacāraṇagandharvā mānuṣāḥ pannagās tathā
saritaḥ sāgarāḥ śailā upāsanta umā patim
25 tatreśānaṃ samabhyarcya trirātropoṣito naraḥ
daśāśvamedham āpnoti gāṇapatyaṃ ca vindati
uṣya dvādaśa rātraṃ tu kṛtātmā bhavate naraḥ
26 tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam
trirātram uṣitas tatra gosahasraphalaṃ labhet
27 nidarśanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa
gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā
gāthā vā gītikā vāpi tasya saṃpadyate nṛpa
28 saṃvartasya tu viprarṣer vāpīm āsādya durlabhām
rūpasya bhāgī bhavati subhagaś caiva jāyate
29 tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ
mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ
30 tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām
gavām ayam avāpnoti vāsuker lokam āpnuyāt
31 veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet
varadā saṃgame snātvā gosahasraphalaṃ labhet
32 brahma sthānaṃ samāsādya trirātram uṣito naraḥ
gosahasraphalaṃ vindet svargalokaṃ ca gacchati
33 kuśaplavanam āsādya brahma cārī samāhitaḥ
trirātram uṣitaḥ snātvā aśvamedha phalaṃ labhet
34 tato deva hrade ramye kṛṣṇa veṇṇā jalodbhave
jātimātrahrade caiva tathā kanyāśrame nṛpa
35 yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ
agniṣṭoma śataṃ vinded gamanād eva bhārata
36 sarvadeva hrade snātvā gosahasraphalaṃ labhet
jātimātrahrade snātvā bhavej jātismaro naraḥ
37 tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām
pitṛdevārcana rato gosahasraphalaṃ labhet
38 daṇḍakāraṇyam āsādya mahārāja upaspṛśet
gosahasraphalaṃ tatra snātamātrasya bhārata
39 śarabhaṅgāśramaṃ gatvā śukasya ca mahātmanāḥ
na durgatim avāpnoti punāti ca kulaṃ naraḥ
40 tataḥ śūrpārakaṃ gacchej jāmadagnya niṣevitam
rāma tīrthe naraḥ snātvā vindyād bahusuvarṇakam
41 sapta godāvare snātvā niyato niyatāśanaḥ
mahat puṇyam avāpnoti devalokaṃ ca gacchati
42 tato devapathaṃ gacchen niyato niyatāśanaḥ
deva satrasya yat puṇyaṃ tad avāpnoti mānavaḥ
43 tuṅgakāraṇyam āsādya brahma cārī jitendriyaḥ
vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā
44 tatra vedān pranaṣṭāṃs tu muner aṅgirasaḥ sutaḥ
upaviṣṭo maharṣīṇām uttarīyeṣu bhārata
45 oṃkāreṇa yathānyāyaṃ samyag uccāritena ca
yena yat pūrvam abhyastaṃ tat tasya samupasthitam
46 ṛṣayas tatra devāś ca varuṇo 'gniḥ prajāpatiḥ
harir nārāyaṇo devo mahādevas tathaiva ca
47 pitā mahaś ca bhagavān devaiḥ saha mahādyutiḥ
bhṛguṃ niyojayām āsa yājanārthe mahādyutim
48 tataḥ sacakre bhagavān ṛṣīṇāṃ vidhivat tadā
sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā
49 ājyabhāgena vai tatra tarpitās tu yathāvidhi
devās tribhuvaṇaṃ yātā ṛṣayaś ca yathāsukham
50 tad araṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama
pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya vā
51 tatra māsaṃ vased dhīro niyato niyatāśanaḥ
brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ
52 medhāvikaṃ samāsādya pitṝn devāṃś ca tarpayet
agniṣṭomam avāpnoti smṛtiṃ medhāṃ ca vindati
53 tataḥ kālaṃjaraṃ gatvā parvataṃ lokaviśrutam
tatra deva hrade snātvā gosahasraphalaṃ labhet
54 ātmānaṃ sādhayet tatra girau kālaṃjare nṛpa
svargaloke mahīyeta naro nāsty atra saṃśayaḥ
55 tato girivaraśreṣṭhe citrakūṭe viśāṃ pate
mandākinīṃ samāsādya nadīṃ pāpapramocinīm
56 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ
aśvamedham avāpnoti gatiṃ ca paramāṃ vrajet
57 tato gaccheta rājendra bhartṛsthānam anuttamam
yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ
58 pumāṃs tatra naraśreṣṭha gamanād eva sidhyati
koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet
59 pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ
abhigamya mahādevaṃ virājati yathā śaśī
60 tatra kūpo mahārāja viśruto bharatarṣabha
samudrās tatra catvāro nivasanti yudhiṣṭhira
61 tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam
niyatātmā naraḥ pūto gaccheta paramāṃ gatim
62 tato gacchet kuruśreṣṭha śṛṅgavera puraṃ mahat
yatra tīrṇo mahārāja rāmo dāśarathiḥ purā
63 gaṅgāyāṃ tu naraḥ snātvā brahma cārī samāhitaḥ
vidhūtapāpmā bhavati vājapeyaṃ ca vindati
64 abhigamya mahādevam abhyarcya ca narādhipa
pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt
65 tato gaccheta rājendra prayāgam ṛṣisaṃstutam
yatra brahmādayo devā diśaś ca sa dig īśvarāḥ
66 lokapālāś ca sādhyāś ca nairṛtāḥ pitaras tathā
sanat kumāra pramukhās tathaiva paramarṣayaḥ
67 aṅgiraḥ pramukhāś caiva tathā brahmarṣayo 'pare
tathā nāgāḥ suparṇāś ca siddhāś cakracarās tathā
68 saritaḥ sāgarāś caiva gandharvāpsarasas tathā
hariś ca bhagavān āste prajāpatipuraskṛtaḥ
69 tatra trīṇy agnikuṇḍāni yeṣāṃ madhye ca jāhnavī
prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā
70 tapanasya sutā tatra triṣu lokeṣu viśrutā
yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī
71 gaṅgāyamunayor madyaṃ pṛthivyā jaghanaṃ smṛtam
prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ
72 prayāgaṃ sa pratiṣṭhānaṃ kambalāśvatarau tathā
tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ
73 tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira
prajāpatim upāsante ṛṣayaś ca mahāvratāḥ
yajante kratubhir devās tathā cakracarā nṛpa
74 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata
prayāgaḥ sarvatīrthebhyaḥ prabhavaty adhikaṃ vibho
75 śravaṇāt tasya tīrthasya nāma saṃkīrtanād api
mṛttikā lambhanād vāpi naraḥ pāpāt pramucyate
76 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ
puṇyaṃ saphalam āpnoti rājasūyāśvamedhayoḥ
77 eṣā yajana bhūmir hi devānām api satkṛtā
tatra dattaṃ sūkṣmam api mahad bhavati bhārata
78 na veda vacanāt tāta na lokavacanād api
matir utkramaṇīyā te prayāgamaraṇaṃ prati
79 daśa tīrthasahasrāṇi ṣaṣṭikoṭtyas tathāparāḥ
yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana
80 cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat
snāta eva tadāpnoti gaṅgā yamuna saṃgame
81 tatra bhogavatī nāma vāsukes tīrtham uttamam
tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt
82 tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviśrutam
daśāśvamedhikaṃ caiva gaṅgāyāṃ kurunandana
83 yatra gaṅgā mahārāja sa deśas tat tapovanam
siddhakṣetraṃ tu taj jñeyaṃ gaṅgātīrasamāśritam
84 idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca
suhṛdāṃ ca japet karṇe śiṣyasyānugatasya ca
85 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham
idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam
86 maharṣīṇām idaṃ guhyaṃ sarpapāpapramocanam
adhītya dvijamadhye ca nirmalatvam avāpnuyāt
87 yaś cedaṃ śṛṇuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ
jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate
88 gamyāny api ca tīrthāni kīrtitāny agamāni ca
manasā tāni gaccheta sarvatīrthasamīkṣayā
89 etāni vasubhiḥ sādhyair ādityair marud aśvibhiḥ
ṛṣibhir devakalpaiś ca śritāni sukṛtaiṣibhiḥ
90 evaṃ tvam api kauravya vidhinānena suvrata
vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate
91 bhāvitaiḥ kāraṇaiḥ pūrvam āstikyāc chruti darśanāt
prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ
92 nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ
snāti tīrtheṣu kauravya na ca vakramatir naraḥ
93 tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā
pitaras tāritās tāta sarve ca prapitā mahāḥ
94 pitā maha purogāś ca devāḥ sarṣigaṇā nṛpa
tava dharmeṇa dharmajña nityam evābhitoṣitāḥ
95 avāpsyasi ca lokān vai vasūnāṃ vāsavopama
kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi śāśvatīm
96 [nārada]
evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ
prītaḥ prītena manasā tatraivāntaradhīyate
97 bhīṣmaś ca kuruśārdūla śāstratattvārtha darśivān
pulastyavacanāc caiva pṛthivīm anucakrame
98 anena vidhinā yas tu pṛthivīṃ saṃcariṣyati
aśvamedha śatasyāgryaṃ phalaṃ pretya sa bhokṣyate
99 ataś cāṣṭa guṇaṃ pārtha prāpsyase dharmam uttamam
netā ca tvam ṛṣīn yasmāt tena te 'ṣṭa guṇaṃ phalam
100 rakṣogaṇāvakīrṇāni tīrthāny etāni bhārata
na gatir vidyate 'nyasya tvām ṛte kurunandana
101 idaṃ devarṣicaritaṃ sarvatīrthārtha saṃśritam
yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate
102 ṛṣimukhyāḥ sadā yatra vālmīkis tv atha kāśyapaḥ
ātreyas tv atha kauṇḍinyo viśvā mitro 'tha gautamaḥ
103 asito devalaś caiva mārkaṇḍeyo 'tha gālavaḥ
bharad vājo vasiṣṭhaś ca munir uddālakas tathā
104 śaunakaḥ saha putreṇa vyāsaś ca japatāṃ varaḥ
durvāsāś ca muniśreṣṭho gālavaś ca mahātapaḥ
105 ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ
ebhiḥ saha mahārāja tīrthāny etāny anuvraja
106 eṣa vai lomaśo nāma devarṣir amitadyutiḥ
sameṣyati tvayā caiva tena sārdham anuvraja
107 mayā ca sahadharmajña tīrthāny etāny anuvraja
prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ
108 yathā yayātir dharmātmā yathā rājā purūravaḥ
tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase
109 yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ
tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva
110 yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ
yathā vainyo mahātejās tathā tvam api viśrutaḥ
111 yathā ca vṛtrahā sarvān sapatnān nirdahat purā
tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi
112 svadharmavijitām urvīṃ prāpya rājīvalocana
khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā
113 [v]
evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ
anujñāpya mahātmānaṃ tatraivāntaradhīyata
114 yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan
tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

383 of 2013 Book 19% ~12 min left