Book 8: Chapter 5
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 8: Chapter 5

The Mahabharata in Sanskrit

Book 8
Chapter 5

1 [ज]
शरुत्वा कर्णं हतं युद्धे पुत्रांश चैवापलायिनः
नरेन्द्रः किं चिद आश्वस्तॊ दविजश्रेष्ठ किम अब्रवीत
2 पराप्तवान परमं दुःखं पुत्रव्यसनजं महत
तस्मिन यद उक्तवान काले तन ममाचक्ष्व पृच्छतः
3 [वै]
शरुत्वा कर्णस्य निधनम अश्रद्धेयम इवाद्भुतम
भूतसंमॊहनं भीमं मेरॊः पर्यसनं यथा
4 चित्तमॊहम इवायुक्तं भार्गवस्य महामतेः
पराजयम इवेन्द्रस्य दविषद्भ्यॊ भीमकर्मणः
5 दिवः परपतनं भानॊर उर्व्याम इव महाद्युतेः
संशॊषणम इवाचिन्त्यं समुद्रस्याक्षयाम्भसः
6 मही वियद दिग ईशानां सर्वनाशम इवाद्भुतम
कर्मणॊर इव वैफल्यम उभयॊः पुण्यपापयॊः
7 संचिन्त्य निपुणं बुद्ध्या धृतराष्ट्रॊ जनेश्वरः
नेदम अस्तीति संचिन्त्य कर्णस्य निधनं परति
8 पराणिनाम एतद आत्मत्वात सयाद अपीति विनाशनम
शॊकाग्निना दह्यमानॊ धम्यमान इवाशयः
9 विध्वस्तात्मा शवसन दीनॊ हाहेत्य उक्त्वा सुदुःखितः
विललाप महाराज धृतराष्ट्रॊ ऽमबिका सुतः
10 [धृ]
संजयाधिरथॊ वीरः सिंहद्विरदविक्रमः
वृषम अप्रतिमस्कन्धॊ वृषभाक्ष गतिस्वनः
11 वृषभॊ वृषभस्येव यॊ युद्धे न निवर्तते
शत्रॊर अपि महेन्द्रस्य वज्रसंहननॊ युवा
12 यस्य जयातलशब्देन शरवृष्टिरवेण च
रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे
13 यम आश्रित्य महाबाहुं दविषत संघघ्नम अच्युतम
दुर्यॊधनॊ ऽकरॊद वैरं पाण्डुपुत्रैर महाबलैः
14 स कथं रथिनां शरेष्ठः कर्णः पार्थेन संयुगे
निहतः पुरुषव्याघ्रः परसह्यासह्य विक्रमः
15 यॊ नामन्यत वै नित्यम अच्युतं न धनंजयम
न वृष्णीन अपि तान अन्यान सवबाहुबलम आश्रितः
16 शार्ङ्गगाण्डीवधन्वानौ सहिताव अपराजितौ
अहं दिव्याद रथाद एकः पातयिष्यामि संयुगे
17 इति यः सततं मन्दम अवॊचल लॊभमॊहितम
दुर्यॊधनम अपादीनं राज्यकामुकम आतुलम
18 यश चाजैषीद अतिबलान अमित्रान अपि दुर्जयान
गान्धारान मद्रकान मत्स्यांस तरिगर्तांस तङ्गणाञ शकान
19 पाञ्चालांश च विदेहांश च कुणिन्दान काशिकॊसलान
सुह्यान अङ्गांश च पुण्ड्रांश च निषादान वङ्ग कीचकान
20 वत्सान कलिङ्गांस तरलान अश्मकान ऋषिकांस तथा
यॊ जित्वा समरे वीरश चक्रे बलिभृतः पुरा
21 उच्चैःश्रवा वरॊ ऽशवानां राज्ञां वैश्रवणॊ वरः
वरॊ महेन्द्रॊ देवानां कर्णः परहरतां वरः
22 यं लब्ध्वा मागधॊ राजा सान्त्वमानार्थ गौरवैः
अरौत्सीत पार्थिवं कषत्रम ऋते कौरव यादवान
23 तं शरुत्वा निहतं कर्णं दवैरथे सव्यसाचिना
शॊकार्णवे निमग्नॊ ऽहम अप्लवः सागरे यथा
24 ईदृशैर यद्य अहं दुःखैर न विनश्यामि संजय
वज्राद दृढतरं मन्ये हृदयं मम दुर्भिदम
25 जञातिसंबन्धिमित्राणाम इमं शरुत्वा पराजयम
कॊ मद अन्यः पुमाँल लॊके न जह्यात सूत जीवितम
26 विषम अग्निं परपातं वा पर्वताग्राद अहं वृणे
न हि शक्ष्यामि दुःखानि सॊढुं कष्टानि संजय
27 [स]
शरिया कुलेन यशसा तपसा च शरुतेन च
तवाम अद्य सन्तॊ मन्यन्ते ययातिम इव नाहुषम
28 शरुते महर्षिप्रतिमः कृतकृत्यॊ ऽसि पार्थिव
पर्यवस्थापयात्मानं मा विषादे मनः कृथाः
29 [धृ]
दैवम एव परं मन्ये धिक पौरुषम अनर्थकम
यत्र राम परतीकाशः कर्णॊ ऽहन्यत संयुगे
30 हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान
परताप्य शरवर्षेण दिशः सर्वा महारथः
31 मॊहयित्वा रणे पार्थान वज्रहस्त इवासुरान
स कथं निहतः शेते वातरुग्ण इव दरुमः
32 शॊकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः
चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते
33 कर्णस्य निधनं शरुत्वा विजयं फल्गुनस्य च
अश्रद्धेयम अहं मन्ये वधं कर्णस्य संजय
34 वज्रसार मयं नूनं हृदयं सुदृढं मम
यच छरुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते
35 आयुर नूनं सुदीर्घं मे विहितं दैवतैः पुरा
यत्र कर्णं हतं शरुत्वा जीवामीह सुदुःखितः
36 धिग जीवितम इदं मे ऽदय सुहृद धीनस्य संजय
अद्य चाहं दशाम एतां गतः संजय गर्हिताम
कृपणं वर्तयिष्यामि शॊच्यः सर्वस्य मन्दधीः
37 अहम एव पुरा भूत्वा सर्वलॊकस्य सत्कृतः
परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम
दुःखात सुदुःखं वयसनं पराप्तवान अस्मि संजय
38 तस्माद भीष्म वधे चैव दरॊणस्य च महात्मनः
नात्र शेषं परपश्यामि सूतपुत्रे हते युधि
39 स हि पारं महान आसीत पुत्राणां मम संजय
युद्धे विनिहतः शूरॊ विसृजन सायकान बहून
40 कॊ हि मे जीवितेनार्थस तम ऋते पुरुषर्षभम
रथाद अतिरथॊ नूनम अपतत सायकार्दितः
41 पर्वतस्येव शिखरं वज्रपात विदारितम
शयीत पृथिवीं नूनं शॊभयन रुधिरॊक्षितः
मातङ्ग इव मत्तेन मातङ्गेन निपातितः
42 यद बलं धार्तराष्ट्राणां पाण्डवानां यतॊ भयम
सॊ ऽरजुनेन हतः कर्णः परतिमानं धनुष्मताम
43 स हि वीरॊ महेष्वासः पुत्राणाम अभयंकरः
शेते विनिहतॊ वीरः शक्रेणेव यथाबलः
44 पङ्गॊर इवाध्व गमनं दरिद्रस्येव कामितम
दुर्यॊधनस्य चाकूतं तृषितस्येव पिप्लुकाः
45 अन्यथा चिन्तितं कार्यम अन्यथा तत तु जायते
अहॊ नु बलवद दैवं कालश च दुरतिक्रमः
46 पलायमानः कृपणं दीनात्मा दीनपौरुषः
कच चिन न निहतः सूतपुत्रॊ दुःशासनॊ मम
47 कच चिन न नीचाचरितं कृतवांस तात संयुगे
कच चिन न निहतः शूरॊ यथा न कषत्रिया हताः
48 युधिष्ठिरस्य वचनं मा युद्धम इति सर्वदा
दुर्यॊधनॊ नाभ्यगृह्णान मूढः पथ्यम इवौषधम
49 शरतल्पे शयानेन भीष्मेण सुमहात्मना
पानीयं याचितः पार्थः सॊ ऽविध्यन मेदिनी तलम
50 जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह
अब्रवीत स महाबाहुस तात संशाम्य पाण्डवैः
51 परशमाद धि भवेच छान्तिर मदन्तं युद्धम अस्तु च
भरातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह
52 अकुर्वन वचनं तस्य नूनं शॊचति मे सुतः
तद इदं समनुप्राप्तं वचनं दीर्घदर्शिनः
53 अहं तु निहतामात्यॊ हतपुत्रश च संजय
दयूततः कृच्छ्रम आपन्नॊ लूनपक्ष इव दविजः
54 यथा हि शकुनिं गृह्य छित्वा पक्षौ च संजय
विसर्जयन्ति संहृष्टाः करीडमानाः कुमारकाः
55 छिन्नपक्षतया तस्य गमनं नॊपपद्यते
तथाहम अपि संप्राप्तॊ लूनपक्ष इव दविजः
56 कषीणः सर्वार्थहीनश च निर्बन्धुर जञातिवर्जितः
कां दिशं परतिपत्स्यामि दीनः शत्रुवशं गतः
57 दुर्यॊधनस्य वृद्ध्यर्थं पृथिवीं यॊ ऽजयत परभुः
स जितः पाण्डवैः शूरैः समर्थैर वीर्यशालिभिः
58 तस्मिन हते महेष्वासे कर्णे युधि किरीटिना
के वीराः पर्यवर्तन्त तन ममाचक्ष्व संजय
59 कच चिन नैकः परित्यक्तः पाण्डवैर निहतॊ रणे
उक्तं तवया पुरा वीर यथा वीरा निपातिताः
60 भीष्मम अप्रतियुध्यन्तं शिखण्डी सायकॊत्तमैः
पातयाम आस समरे सर्वशस्त्रभृतां वरम
61 तथा दरौपदिना दरॊणॊ नयस्तसर्वायुधॊ युधि
युक्तयॊगॊ महेष्वासः शरैर बहुभिर आचितः
निहतः खड्गम उद्यम्य धृष्टद्युम्नेन संजय
62 अन्तरेण हताव एतौ छलेन च विशेषतः
अश्रौषम अहम एतद वै भीष्मद्रॊणौ निपातितौ
63 भीष्मद्रॊणौ हि समरे न हन्याद वज्रभृत सवयम
नयायेन युध्यमानौ हि तद वै सत्यं बरवीमि ते
64 कर्णं तव अस्यन्तम अस्त्राणि दिव्यानि च बहूनि च
कथम इन्द्रॊपमं वीरं मृत्युर युद्धे समस्पृशत
65 यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम
परायच्छद दविषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः
66 यस्य सर्पमुखॊ दिव्यः शरः कनकभूषणः
अशेत निहतः पत्री चन्दनेष्व अरिसूदनः
67 भीष्मद्रॊणमुखान वीरान यॊ ऽवमन्य महारथान
जामदग्न्यान महाघॊरं बराह्मम अस्त्रम अशिक्षत
68 यश च दरॊण मुखान दृष्ट्वा विमुखान अर्दिताञ शरैः
सौभद्रस्य महाबाहुर वयधमत कार्मुकं शरैः
69 यश च नागायुत पराणं वातरंहसम अच्युतम
विरथं भरातरं कृत्वा भीमसेनम उपाहसत
70 सहदेवं च निर्जित्य शरैः संनतपर्वभिः
कृपया विरथं कृत्वा नाहनद धर्मवित्तया
71 यश च माया सहस्राणि धवंसयित्वा रणॊत्कटम
घटॊत्कचं राक्षसेन्द्रं शक्र शक्त्याभिजघ्निवान
72 एतानि दिवसान्य अस्य युद्धे भीतॊ धनंजयः
नागमद दवैरथं वीरः स कथं निहतॊ रणे
73 रथसङ्गॊ न चेत तस्य धनुर वा न वयशीर्यत
न चेद अस्त्राणि निर्णेशुः स कथं निहतः परैः
74 कॊ हि शक्तॊ रणे कर्णं विधुन्वानं महद धनुः
विमुञ्चन्तं शरान घॊरान दिव्यान्य अस्त्राणि चाहवे
जेतुं पुरुषशार्दूलं शार्दूलम इव वेगितम
75 धरुवं तस्य धनुश छिन्नं रथॊ वापि गतॊ महीम
अस्त्राणि वा परनष्टानि यथा शंससि मे हतम
न हय अन्यद अनुपश्यामि कारणं तस्य नाशने
76 न हन्याम अर्जुनं यावत तावत पादौ न धावये
इति यस्य महाघॊरं वरतम आसीन महात्मनः
77 यस्य भीतॊ वने नित्यं धर्मराजॊ युधिष्ठिरः
तरयॊदश समा निद्रां न लेभे पुरुषर्षभः
78 यस्य वीर्यवतॊ वीर्यं समाश्रित्य महात्मनः
मम पुत्रः सभां भार्यां पाण्डूनां नीतवान बलात
79 तत्र चापि सभामध्ये पाण्डवानां च पश्यताम
दासभार्येति पाञ्चालीम अब्रवीत कुरुसंसदि
80 यश च गाण्डीवमुक्तानां सपर्शम उग्रम अचिन्तयन
अपतिर हय असि कृष्णेति बरुवन पार्थान अवैक्षत
81 यस्य नासीद भयं पार्थैः सपुत्रैः सजनार्दनैः
सवबाहुबलम आश्रित्य मुहूर्तम अपि संजय
82 तस्य नाहं वधं मन्ये देवैर अपि स वासवैः
परतीपम उपधावद्भिः किं पुनस तात पाण्डवैः
83 न हि जयां सपृशमानस्य तलत्रे चापि गृह्णतः
पुमान आधिरथेः कश चित परमुखे सथातुम अर्हति
84 अपि सयान मेदिनी हीना सॊमसूर्यप्रभांशुभिः
न वधः पुरुषेन्द्रस्य समरेष्व अपलायिनः
85 यदि मन्दः सहायेन भरात्रा दुःशासनेन च
वासुदेवस्य दुर्बुद्धिः परत्याख्यानम अरॊचयत
86 स नूनम ऋषभस्कन्धं दृष्ट्वा कर्णं निपातितम
दुःशासनं च निहतं मन्ये शॊचति पुत्रकः
87 हतं वैकर्तनं शरुत्वा दवैरथे सव्यसाचिना
जयतः पाण्डवान दृष्ट्वा किंस्विद दुर्यॊधनॊ ऽबरवीत
88 दुर्मर्षणं हतं शरुत्वा वृषसेनं च संयुगे
परभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः
89 पराङ्मुखांस तथा राज्ञः पलायनपरायणान
विद्रुतान रथिनॊ दृष्ट्वा मन्ये शॊचति पुत्रकः
90 अनेयश चाभिमानेन बाल बुद्धिर अमर्षणः
हतॊत्साहं बलं दृष्ट्वा किंस्विद दुर्यॊधनॊ ऽबरवीत
91 भरातरं निहतं दृष्ट्वा भीमसेनेन संयुगे
रुधिरं पीयमानेन किंस्विद दुर्यॊधनॊ ऽबरवीत
92 सह गान्धारराजेन सभायां यद अभाषत
कर्णॊ ऽरजुनं रणे हन्ता हते तस्मिन किम अब्रवीत
93 दयूतं कृत्वा पुरा हृष्टॊ वञ्चयित्वा च पाण्डवान
शकुनिः सौबलस तात हते कर्णे किम अब्रवीत
94 कृतवर्मा महेष्वासः सात्वतानां महारथः
कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किम अभाषत
95 बराह्मणाः कषत्रिया वैश्या यस्य शिक्षाम उपासते
धनुर्वेदं चिकीर्षन्तॊ दरॊणपुत्रस्य धीमतः
96 युवा रूपेण संपन्नॊ दर्शनीयॊ महायशाः
अश्वत्थामा हते कर्णे किम अभाषत संजय
97 आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित
कृपः शारद्वतस तात हते कर्णे किम अब्रवीत
98 मद्रराजॊ महेष्वासः शल्यः समितिशॊभनः
दिष्टं तेन हि तत सर्वं यथा कर्णॊ निपातितः
99 ये च के चन राजानः पृथिव्यां यॊद्धुम आगताः
वैकर्तनं हतं दृष्ट्वा किम अभाषन्त संजय
100 कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे
किं वॊ मुखम अनीकानाम आसीत संजय भागशः
101 मद्रराजः कथं शल्यॊ नियुक्तॊ रथिनां वरः
वैकर्तनस्य सारथ्ये तन ममाचक्ष्व संजय
102 के ऽरक्षन दक्षिणं चक्रं सूतपुत्रस्य संयुगे
वामं चक्रं ररक्षुर वा के वा वीरस्य पृष्ठतः
103 के कर्णं वाजहुः शूराः के कषुद्राः पराद्रवन भयात
कथं च वः समेतानां हतः कर्णॊ महारथः
104 पाण्डवाश च कथं शूराः परत्युदीयुर महारथम
सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम
105 स च सर्पमुखॊ दिव्यॊ महेषु परवरस तदा
वयर्थः कथं समभवत तन ममाचक्ष्व संजय
106 मामकस्यास्य सैन्यस्य हृतॊत्सेधस्य संजय
अवशेषं न पश्यामि ककुदे मृदिते सति
107 तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ
भीष्मद्रॊणौ हतौ शरुत्वा कॊ नव अर्थॊ जीवितेन मे
108 न मृष्यामि च राधेयं हतम आहवशॊभिनम
यस्य बाह्वॊर बलं तुल्यं कुञ्जराणां शतं शतम
109 दरॊणे हते च यद्वृत्तं कौरवाणां परैः सह
संग्रामे नरवीराणां तन ममाचक्ष्व संजय
110 यथा च कर्णः कौन्तेयैः सह युद्धम अयॊजयत
यथा च दविषतां हन्ता रणे शान्तस तद उच्यताम
1 [j]
śrutvā karṇaṃ hataṃ yuddhe putrāṃś caivāpalāyinaḥ
narendraḥ kiṃ cid āśvasto dvijaśreṣṭha kim abravīt
2 prāptavān paramaṃ duḥkhaṃ putravyasanajaṃ mahat
tasmin yad uktavān kāle tan mamācakṣva pṛcchataḥ
3 [vai]
śrutvā karṇasya nidhanam aśraddheyam ivādbhutam
bhūtasaṃmohanaṃ bhīmaṃ meroḥ paryasanaṃ yathā
4 cittamoham ivāyuktaṃ bhārgavasya mahāmateḥ
parājayam ivendrasya dviṣadbhyo bhīmakarmaṇaḥ
5 divaḥ prapatanaṃ bhānor urvyām iva mahādyuteḥ
saṃśoṣaṇam ivācintyaṃ samudrasyākṣayāmbhasaḥ
6 mahī viyad dig īśānāṃ sarvanāśam ivādbhutam
karmaṇor iva vaiphalyam ubhayoḥ puṇyapāpayoḥ
7 saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ
nedam astīti saṃcintya karṇasya nidhanaṃ prati
8 prāṇinām etad ātmatvāt syād apīti vināśanam
śokāgninā dahyamāno dhamyamāna ivāśayaḥ
9 vidhvastātmā śvasan dīno hāhety uktvā suduḥkhitaḥ
vilalāpa mahārāja dhṛtarāṣṭro 'mbikā sutaḥ
10 [dhṛ]
saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ
vṛṣam apratimaskandho vṛṣabhākṣa gatisvanaḥ
11 vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate
śatror api mahendrasya vajrasaṃhanano yuvā
12 yasya jyātalaśabdena śaravṛṣṭiraveṇa ca
rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge
13 yam āśritya mahābāhuṃ dviṣat saṃghaghnam acyutam
duryodhano 'karod vairaṃ pāṇḍuputrair mahābalaiḥ
14 sa kathaṃ rathināṃ śreṣṭhaḥ karṇaḥ pārthena saṃyuge
nihataḥ puruṣavyāghraḥ prasahyāsahya vikramaḥ
15 yo nāmanyata vai nityam acyutaṃ na dhanaṃjayam
na vṛṣṇīn api tān anyān svabāhubalam āśritaḥ
16 śārṅgagāṇḍīvadhanvānau sahitāv aparājitau
ahaṃ divyād rathād ekaḥ pātayiṣyāmi saṃyuge
17 iti yaḥ satataṃ mandam avocal lobhamohitam
duryodhanam apādīnaṃ rājyakāmukam ātulam
18 yaś cājaiṣīd atibalān amitrān api durjayān
gāndhārān madrakān matsyāṃs trigartāṃs taṅgaṇāñ śakān
19 pāñcālāṃś ca videhāṃś ca kuṇindān kāśikosalān
suhyān aṅgāṃś ca puṇḍrāṃś ca niṣādān vaṅga kīcakān
20 vatsān kaliṅgāṃs taralān aśmakān ṛṣikāṃs tathā
yo jitvā samare vīraś cakre balibhṛtaḥ purā
21 uccaiḥśravā varo 'śvānāṃ rājñāṃ vaiśravaṇo varaḥ
varo mahendro devānāṃ karṇaḥ praharatāṃ varaḥ
22 yaṃ labdhvā māgadho rājā sāntvamānārtha gauravaiḥ
arautsīt pārthivaṃ kṣatram ṛte kaurava yādavān
23 taṃ śrutvā nihataṃ karṇaṃ dvairathe savyasācinā
śokārṇave nimagno 'ham aplavaḥ sāgare yathā
24 īdṛśair yady ahaṃ duḥkhair na vinaśyāmi saṃjaya
vajrād dṛḍhataraṃ manye hṛdayaṃ mama durbhidam
25 jñātisaṃbandhimitrāṇām imaṃ śrutvā parājayam
ko mad anyaḥ pumāṁl loke na jahyāt sūta jīvitam
26 viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe
na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya
27 [s]
śriyā kulena yaśasā tapasā ca śrutena ca
tvām adya santo manyante yayātim iva nāhuṣam
28 śrute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva
paryavasthāpayātmānaṃ mā viṣāde manaḥ kṛthāḥ
29 [dhṛ]
daivam eva paraṃ manye dhik pauruṣam anarthakam
yatra rāma pratīkāśaḥ karṇo 'hanyata saṃyuge
30 hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān
pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ
31 mohayitvā raṇe pārthān vajrahasta ivāsurān
sa kathaṃ nihataḥ śete vātarugṇa iva drumaḥ
32 śokasyāntaṃ na paśyāmi samudrasyeva viplukāḥ
cintā me vardhate tīvrā mumūrṣā cāpi jāyate
33 karṇasya nidhanaṃ śrutvā vijayaṃ phalgunasya ca
aśraddheyam ahaṃ manye vadhaṃ karṇasya saṃjaya
34 vajrasāra mayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama
yac chrutvā puruṣavyāghraṃ hataṃ karṇaṃ na dīryate
35 āyur nūnaṃ sudīrghaṃ me vihitaṃ daivataiḥ purā
yatra karṇaṃ hataṃ śrutvā jīvāmīha suduḥkhitaḥ
36 dhig jīvitam idaṃ me 'dya suhṛd dhīnasya saṃjaya
adya cāhaṃ daśām etāṃ gataḥ saṃjaya garhitām
kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ
37 aham eva purā bhūtvā sarvalokasya satkṛtaḥ
paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum
duḥkhāt suduḥkhaṃ vyasanaṃ prāptavān asmi saṃjaya
38 tasmād bhīṣma vadhe caiva droṇasya ca mahātmanaḥ
nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi
39 sa hi pāraṃ mahān āsīt putrāṇāṃ mama saṃjaya
yuddhe vinihataḥ śūro visṛjan sāyakān bahūn
40 ko hi me jīvitenārthas tam ṛte puruṣarṣabham
rathād atiratho nūnam apatat sāyakārditaḥ
41 parvatasyeva śikharaṃ vajrapāta vidāritam
śayīta pṛthivīṃ nūnaṃ śobhayan rudhirokṣitaḥ
mātaṅga iva mattena mātaṅgena nipātitaḥ
42 yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam
so 'rjunena hataḥ karṇaḥ pratimānaṃ dhanuṣmatām
43 sa hi vīro maheṣvāsaḥ putrāṇām abhayaṃkaraḥ
śete vinihato vīraḥ śakreṇeva yathābalaḥ
44 paṅgor ivādhva gamanaṃ daridrasyeva kāmitam
duryodhanasya cākūtaṃ tṛṣitasyeva piplukāḥ
45 anyathā cintitaṃ kāryam anyathā tat tu jāyate
aho nu balavad daivaṃ kālaś ca duratikramaḥ
46 palāyamānaḥ kṛpaṇaṃ dīnātmā dīnapauruṣaḥ
kac cin na nihataḥ sūtaputro duḥśāsano mama
47 kac cin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge
kac cin na nihataḥ śūro yathā na kṣatriyā hatāḥ
48 yudhiṣṭhirasya vacanaṃ mā yuddham iti sarvadā
duryodhano nābhyagṛhṇān mūḍhaḥ pathyam ivauṣadham
49 śaratalpe śayānena bhīṣmeṇa sumahātmanā
pānīyaṃ yācitaḥ pārthaḥ so 'vidhyan medinī talam
50 jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha
abravīt sa mahābāhus tāta saṃśāmya pāṇḍavaiḥ
51 praśamād dhi bhavec chāntir madantaṃ yuddham astu ca
bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha
52 akurvan vacanaṃ tasya nūnaṃ śocati me sutaḥ
tad idaṃ samanuprāptaṃ vacanaṃ dīrghadarśinaḥ
53 ahaṃ tu nihatāmātyo hataputraś ca saṃjaya
dyūtataḥ kṛcchram āpanno lūnapakṣa iva dvijaḥ
54 yathā hi śakuniṃ gṛhya chitvā pakṣau ca saṃjaya
visarjayanti saṃhṛṣṭāḥ krīḍamānāḥ kumārakāḥ
55 chinnapakṣatayā tasya gamanaṃ nopapadyate
tathāham api saṃprāpto lūnapakṣa iva dvijaḥ
56 kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ
kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gataḥ
57 duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo 'jayat prabhuḥ
sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ
58 tasmin hate maheṣvāse karṇe yudhi kirīṭinā
ke vīrāḥ paryavartanta tan mamācakṣva saṃjaya
59 kac cin naikaḥ parityaktaḥ pāṇḍavair nihato raṇe
uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ
60 bhīṣmam apratiyudhyantaṃ śikhaṇḍī sāyakottamaiḥ
pātayām āsa samare sarvaśastrabhṛtāṃ varam
61 tathā draupadinā droṇo nyastasarvāyudho yudhi
yuktayogo maheṣvāsaḥ śarair bahubhir ācitaḥ
nihataḥ khaḍgam udyamya dhṛṣṭadyumnena saṃjaya
62 antareṇa hatāv etau chalena ca viśeṣataḥ
aśrauṣam aham etad vai bhīṣmadroṇau nipātitau
63 bhīṣmadroṇau hi samare na hanyād vajrabhṛt svayam
nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te
64 karṇaṃ tv asyantam astrāṇi divyāni ca bahūni ca
katham indropamaṃ vīraṃ mṛtyur yuddhe samaspṛśat
65 yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām
prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ
66 yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ
aśeta nihataḥ patrī candaneṣv arisūdanaḥ
67 bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān
jāmadagnyān mahāghoraṃ brāhmam astram aśikṣata
68 yaś ca droṇa mukhān dṛṣṭvā vimukhān arditāñ śaraiḥ
saubhadrasya mahābāhur vyadhamat kārmukaṃ śaraiḥ
69 yaś ca nāgāyuta prāṇaṃ vātaraṃhasam acyutam
virathaṃ bhrātaraṃ kṛtvā bhīmasenam upāhasat
70 sahadevaṃ ca nirjitya śaraiḥ saṃnataparvabhiḥ
kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā
71 yaś ca māyā sahasrāṇi dhvaṃsayitvā raṇotkaṭam
ghaṭotkacaṃ rākṣasendraṃ śakra śaktyābhijaghnivān
72 etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ
nāgamad dvairathaṃ vīraḥ sa kathaṃ nihato raṇe
73 rathasaṅgo na cet tasya dhanur vā na vyaśīryata
na ced astrāṇi nirṇeśuḥ sa kathaṃ nihataḥ paraiḥ
74 ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ
vimuñcantaṃ śarān ghorān divyāny astrāṇi cāhave
jetuṃ puruṣaśārdūlaṃ śārdūlam iva vegitam
75 dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm
astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam
na hy anyad anupaśyāmi kāraṇaṃ tasya nāśane
76 na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye
iti yasya mahāghoraṃ vratam āsīn mahātmanaḥ
77 yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ
trayodaśa samā nidrāṃ na lebhe puruṣarṣabhaḥ
78 yasya vīryavato vīryaṃ samāśritya mahātmanaḥ
mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavān balāt
79 tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām
dāsabhāryeti pāñcālīm abravīt kurusaṃsadi
80 yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan
apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata
81 yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ
svabāhubalam āśritya muhūrtam api saṃjaya
82 tasya nāhaṃ vadhaṃ manye devair api sa vāsavaiḥ
pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavaiḥ
83 na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ
pumān ādhiratheḥ kaś cit pramukhe sthātum arhati
84 api syān medinī hīnā somasūryaprabhāṃśubhiḥ
na vadhaḥ puruṣendrasya samareṣv apalāyinaḥ
85 yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca
vāsudevasya durbuddhiḥ pratyākhyānam arocayat
86 sa nūnam ṛṣabhaskandhaṃ dṛṣṭvā karṇaṃ nipātitam
duḥśāsanaṃ ca nihataṃ manye śocati putrakaḥ
87 hataṃ vaikartanaṃ śrutvā dvairathe savyasācinā
jayataḥ pāṇḍavān dṛṣṭvā kiṃsvid duryodhano 'bravīt
88 durmarṣaṇaṃ hataṃ śrutvā vṛṣasenaṃ ca saṃyuge
prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ
89 parāṅmukhāṃs tathā rājñaḥ palāyanaparāyaṇān
vidrutān rathino dṛṣṭvā manye śocati putrakaḥ
90 aneyaś cābhimānena bāla buddhir amarṣaṇaḥ
hatotsāhaṃ balaṃ dṛṣṭvā kiṃsvid duryodhano 'bravīt
91 bhrātaraṃ nihataṃ dṛṣṭvā bhīmasenena saṃyuge
rudhiraṃ pīyamānena kiṃsvid duryodhano 'bravīt
92 saha gāndhārarājena sabhāyāṃ yad abhāṣata
karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt
93 dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān
śakuniḥ saubalas tāta hate karṇe kim abravīt
94 kṛtavarmā maheṣvāsaḥ sātvatānāṃ mahārathaḥ
karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kim abhāṣata
95 brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate
dhanurvedaṃ cikīrṣanto droṇaputrasya dhīmataḥ
96 yuvā rūpeṇa saṃpanno darśanīyo mahāyaśāḥ
aśvatthāmā hate karṇe kim abhāṣata saṃjaya
97 ācāryatvaṃ dhanurvede gataḥ paramatattvavit
kṛpaḥ śāradvatas tāta hate karṇe kim abravīt
98 madrarājo maheṣvāsaḥ śalyaḥ samitiśobhanaḥ
diṣṭaṃ tena hi tat sarvaṃ yathā karṇo nipātitaḥ
99 ye ca ke cana rājānaḥ pṛthivyāṃ yoddhum āgatāḥ
vaikartanaṃ hataṃ dṛṣṭvā kim abhāṣanta saṃjaya
100 karṇe tu nihate vīre rathavyāghre nararṣabhe
kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ
101 madrarājaḥ kathaṃ śalyo niyukto rathināṃ varaḥ
vaikartanasya sārathye tan mamācakṣva saṃjaya
102 ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge
vāmaṃ cakraṃ rarakṣur vā ke vā vīrasya pṛṣṭhataḥ
103 ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt
kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahārathaḥ
104 pāṇḍavāś ca kathaṃ śūrāḥ pratyudīyur mahāratham
sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam
105 sa ca sarpamukho divyo maheṣu pravaras tadā
vyarthaḥ kathaṃ samabhavat tan mamācakṣva saṃjaya
106 māmakasyāsya sainyasya hṛtotsedhasya saṃjaya
avaśeṣaṃ na paśyāmi kakude mṛdite sati
107 tau hi vīrau maheṣvāsau madarthe kurusattamau
bhīṣmadroṇau hatau śrutvā ko nv artho jīvitena me
108 na mṛṣyāmi ca rādheyaṃ hatam āhavaśobhinam
yasya bāhvor balaṃ tulyaṃ kuñjarāṇāṃ śataṃ śatam
109 droṇe hate ca yadvṛttaṃ kauravāṇāṃ paraiḥ saha
saṃgrāme naravīrāṇāṃ tan mamācakṣva saṃjaya
110 yathā ca karṇaḥ kaunteyaiḥ saha yuddham ayojayat
yathā ca dviṣatāṃ hantā raṇe śāntas tad ucyatām

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1163 of 2013 Book 58% ~13 min left