Book 8: Chapter 4
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 8: Chapter 4

The Mahabharata in Sanskrit

Book 8
Chapter 4

1 [वै]
एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः
अब्रवीत संजयं सूतं शॊकव्याकुल चेतनः
2 दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः
हतं वैकर्तनं शरुत्वा शॊकॊ मर्माणि कृन्तति
3 कृतास्त्र परमाः शल्ये दुःखपारं तितीर्षवः
कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः
4 [स]
हतः शांतनवॊ राजन दुराधर्षः परतापवान
हत्वा पाण्डव यॊधानाम अर्बुदं दशभिर दिनैः
5 ततॊ दरॊणॊ महेष्वासः पाञ्चालानां रथव्रजान
निहत्य युधि दुर्धर्षः पश्चाद रुक्मरथॊ हतः
6 हतशिष्टस्य भीष्मेण दरॊणेन च महात्मना
अर्धं निहत्य सैन्यस्य कर्णॊ वैकर्तनॊ हतः
7 विविंशतिर महाराज राजपुत्रॊ महाबलः
आनर्तयॊधाञ शतशॊ निहत्य निहतॊ रणे
8 अथ पुत्रॊ विकर्णस ते कषत्रव्रतम अनुस्मरन
कषीणवाहायुधः शूरः सथितॊ ऽभिमुखतः परान
9 घॊररूपान परिक्लेशान दुर्यॊधनकृतान बहून
परतिज्ञां समरता चैव भीमसेनेन पातितः
10 विन्दानुविन्दाव आवन्त्यौ राजपुत्रौ महाबलौ
कृत्वा न सुकरं कर्म गतौ वैवस्वतक्षयम
11 सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै
वशे तिष्ठन्ति वीरस्य यः सथितस तव शासने
12 अक्षौहिणीर दशैकां च निर्जित्य निशितैः शरैः
अर्जुनेन हतॊ राजन महावीर्यॊ जयद्रथः
13 तथा दुर्यॊधन सुतस तरस्वी युद्धदुर्मदः
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः
14 तथा दौःशासनिर वीरॊ बाहुशाली रणॊत्कटः
दरौपदेयेन विक्रम्य गमितॊ यमसादनम
15 किरातानाम अधिपतिः सागरानूपवासिनाम
देवराजस्य धर्मात्मा परियॊ बहुमतः सखा
16 भगदत्तॊ महीपालः कषत्रधर्मरतः सदा
धनंजयेन विक्रम्य गमितॊ यमसादनम
17 तथा कौरव दायादः सौमदत्तिर महायशाः
हतॊ भूरिश्रवा राजञ शूरः सात्यकिना युधि
18 शरुतायुर अपि चाम्बष्ठः कषत्रियाणां धनुर्धरः
चरन्न अभीतवत संख्ये निहतः सव्यसाचिना
19 तव पुत्रः सदा संख्ये कृतास्त्रॊ युद्धदुर्मदः
दुःशासनॊ महाराज भीमसेनेन पातितः
20 यस्य राजन गजानीकं बहुसाहस्रम अद्भुतम
सुदक्षिणः स संग्रामे निहतः सव्यसाचिना
21 कॊसलानाम अधिपतिर हत्वा बहुशतान परान
सौभद्रेण हि विक्रम्य गमितॊ यमसादनम
22 बहुशॊ यॊधयित्वा च भीमसेनं महारथः
चित्रसेनस तव सुतॊ भीमसेनेन पातितः
23 मद्रराजात्मजः शूरः परेषां भयवर्धनः
असि चर्म धरः शरीमान सौभद्रेण निपातितः
24 समः कर्णस्य समरे यः स कर्णस्य पश्यतः
वृषसेनॊ महातेजाः शीघ्रास्त्रः कृतनिश्चयः
25 अभिमन्यॊर वधं समृत्वा परतिज्ञाम अपि चात्मनः
धनंजयेन विक्रम्य गमितॊ यमसादनम
26 नित्यप्रसक्तवैरॊ यः पाण्डवैः पृथिवीपतिः
विश्राव्य वैरं पार्थेन शरुतायुः स निपातितः
27 शल्य पुत्रस तु विक्रान्तः सहदेवेन मारिष
हतॊ रुक्मरथॊ राजन भराता मातुलजॊ युधि
28 राजा भगीरथॊ वृद्धॊ बृहत कषत्रश च केकयः
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ
29 भगदत्तसुतॊ राजन कृतप्रज्ञॊ महाबलः
शयेनवच चरता संख्ये नकुलेन निपातितः
30 पितामहस तव तथा बाह्लिकः सह बाह्लिकैः
भीमसेनेन विक्रम्य गमितॊ यमसादनम
31 जयत्सेनस तथा राजञ जारासंधिर महाबलः
मागधॊ निहतः संख्ये सौभद्रेण महात्मना
32 पुत्रस ते दुर्मुखॊ राजन दुःसहश च महारथः
गदया भीमसेनेन निहतौ शूरमानिनौ
33 दुर्मर्षणॊ दुर्विषहॊ दुर्जयश च महारथः
कृत्वा न सुकरं कर्म गता वैवस्वतक्षयम
34 सचिवॊ वृषवर्मा ते सूतः परमवीर्यवान
भीमसेनेन विक्रम्य गमितॊ यमसादनम
35 नागायुत बलॊ राजा नागायुत बलॊ महान
सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना
36 वसातयॊ महाराज दविसाहस्राः परहारिणः
शूरसेनाश च विक्रान्ताः सर्वे युधि निपातिताः
37 अभीषाहाः कवचिनः परहरन्तॊ महॊत्कटाः
शिबयश च रथॊदाराः कलिङ्ग सहिता हताः
38 गॊकुले नित्यसंवृद्धा युद्धे परमकॊविदाः
शरेणयॊ बहुसाहस्राः संशप्तक गणाश च ये
ते सर्वे पार्थम आसाद्य गता वैवस्वतक्षयम
39 सयालौ तव महाराज राजानौ वृषकाचलौ
तवदर्थे संपराक्रान्तौ निहतौ सव्यसाचिना
40 उग्रकर्मा महेष्वासॊ नामतः कर्मतस तथा
शाल्वराजॊ महाराज भीमसेनेन पातितः
41 ओघवांश च महाराज बृहन्तः सहितॊ रणे
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम
42 तथैव रथिनां शरेष्ठः कषेमधूर्तिर विशां पते
निहतॊ गदया राजन भीमसेनेन संयुगे
43 तथा राजा महेष्वासॊ जलसंधॊ महाबलः
सुमहत कदनं कृत्त्वा हतः सात्यकिना रणे
44 अलायुधॊ राक्षसेन्द्रः खरबन्धुर यानगः
घटॊत्कचेन विक्रम्य गमितॊ यमसादनम
45 राधेयाः सूतपुत्राश च भरातरश च महारथाः
केकयाः सर्वशश चापि निहताः सव्यसाचिना
46 मालवा मद्रकाश चैव दरविडाश चॊग्रविक्रमाः
यौधेयाश च ललित्थाश च कषुद्रकाश चाप्य उशीनराः
47 मावेल्लकास तुण्डिकेराः सावित्री पुत्र काञ्चलाह
पराच्यॊदीच्याः परतीच्याश च दाक्षिणात्याश च मारिष
48 पत्तीनां निहताः संघा हयानाम अयुतानि च
रथव्रजाश च निहता हताश च वरवारणाः
49 स धवजाः सायुधाः शूराः स वर्माम्बर भूषणाः
कालेन महता यत्ताः कुले ये च विवर्धिताः
50 ते हताः समरे राजन पार्थेनाक्लिष्ट कर्मणा
अन्ये तथामित बलाः परस्परवधैषिणः
51 एते चान्ये च बहवॊ राजानः सगणा रणे
हताः सहस्रशॊ राजन यन मां तवं परिपृच्छसि
एवम एष कषयॊ वृत्तः कर्णार्जुन समागमे
52 महेन्द्रेण यथा वृत्रॊ यथा रामेण रावणः
यथा कृष्णेन निहतॊ मुरॊ रणनिपातितः
कार्तवीर्यश च रामेण भार्गवेण हतॊ यथा
53 स जञातिबान्धवः शूरः समरे युद्धदुर्मदः
रणे कृत्वा महायुद्धं घॊरं तरैलॊक्यविश्रुतम
54 तथार्जुनेन निहतॊ दवैरथे युद्धदुर्मदः
सामात्यबान्धवॊ राजन कर्णः परहरतां वरः
55 जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः
तीर्णं तत पाण्डवै राजन यत पुरा नावबुध्यसे
56 उच्यमानॊ महाराज बन्धुभिर हितकाङ्क्षिभिः
तद इदं समनुप्राप्तं वयसनं तवां महात्ययम
57 पुत्राणां राज्यकामानां तवया राजन हितैषिणा
अहितानीव चीर्णानि तेषां ते फलम आगतम
58 [धृ]
आख्याता मामकास तात निहता युधि पाण्डवैः
निहतान पाण्डवेयानां मामकैर बरूहि संजय
59 [स]
कुन्तयॊ युधि विक्रान्ता महासत्त्वा महाबलाः
सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः
60 समः किरीटिना संख्ये वीर्येण च बलेन च
सत्यजित सत्यसंधेन दरॊणेन निहतॊ रणे
61 तथा विराटद्रुपदौ वृद्धौ सह सुतौ नृपौ
पराक्रमन्तौ मित्रार्थे दरॊणेन निहतौ रणे
62 यॊ बाल एव समरे संमितः सव्यसाचिना
केशवेन च दुर्धर्षॊ बलदेवेन चाभिभूः
63 स एष कदनं कृत्वा महद रणविशारदः
परिवार्य महामात्रैः षड्भिः परमकै रथैः
अशक्नुवद्भिर बीभत्सुम अभिमन्युर निपातितः
64 तं कृतं विरथं वीरं कषत्रधर्मे वयवस्थितम
दौःशासनिर महाराज सौभद्रं हतवान रणे
65 बृहन्तस तु महेष्वासः कृतास्त्रॊ युद्धदुर्मदः
दुःशासनेन विक्रम्य गमितॊ यमसादनम
66 मणिमान दण्डधारश च राजानौ युद्धदुर्मदौ
पराक्रमन्तौ मित्रार्थे दरॊणेन विनिपातितौ
67 अंशुमान भॊजराजस तु सह सैन्यॊ महारथः
भारद्वाजेन विक्रम्य गमितॊ यमसादनम
68 चित्रायुधश चित्रयॊधी कृत्वा तौ कदनं महत
चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि
69 वृकॊदर समॊ युद्धे दृढः केकयजॊ युधि
केकयेनैव विक्रम्य भरात्रा भराता निपातितः
70 जनमेजयॊ गदायुधी पार्वतीयः परतापवान
दुर्मुखेन महाराज तव पुत्रेण पातितः
71 रॊचमानौ नरव्याघ्रौ रॊचमानौ गरहाव इव
दरॊणेन युगपद राजन दिवं संप्रेषितौ शरैः
72 नृपाश च परतियुध्यन्तः पराक्रान्ता विशां पते
कृत्वा न सुकरं कर्म गता वैवस्वतक्षयम
73 पुरुजित कुन्तिभॊजश च मातुलः सव्यसाचिनः
संग्रामनिर्जिताँल लॊकान गमितॊ दरॊण सायकैः
74 अभिभूः काशिराजश च काशिकैर बहुभिर वृतः
वसु दानस्य पुत्रेण नयासितॊ देहम आहवे
75 अमितौजा युधामन्युर उत्तमौजाश च वीर्यवान
निहत्य शतशः शूरान परैर विनिहतौ रणे
76 कषत्रधर्मा च पाञ्चाल्यः कषत्रवर्मा च मारिष
दरॊणेन परमेष्वासौ गमितौ यमसादनम
77 शिखण्डितनयॊ युद्धे कषत्रदेवॊ युधां पतिः
लक्ष्मणेन हतॊ राजंस तव पौत्रेण भारत
78 सुचित्रश चित्रधर्मा च पिता पुत्रौ महारथौ
परचरन्तौ महावीर्यौ दरॊणेन निहतौ रणे
79 वार्धक्षेमिर महाराज कृत्वा कदनम आहवे
बाह्लिकेन महाराज कौरवेण निपातितः
80 धृष्टकेतुर महाराज चेदीनां परवरॊ रथः
कृत्वा न सुकरं कर्म गतॊ वैवस्वतक्षयम
81 तथा सत्यधृतिस तात कृत्वा कदनम आहवे
पाण्डवार्थे पराक्रान्तॊ गमितॊ यमसादनम
82 पुत्रस तु शिशुपालस्य सुकेतुः पृथिवीपते
निहत्य शात्रवान संख्ये दरॊणेन निहतॊ युधि
83 तथा सत्यधृतिर वीरॊ मदिराश्वश च वीर्यवान
सूर्यदत्तश च विक्रान्तॊ निहतॊ दरॊण सायकैः
84 शरेणिमांश च महाराज युध्यमानः पराक्रमी
कृत्वा न सुकरं कर्म गतॊ वैवस्वतक्षयम
85 तथैव युधि विक्रान्तॊ मागधः परवीरहा
भीष्मेण निहतॊ राजन्युध्यमानः पराक्रमी
86 वसु दानश च कदनं कुर्वाणॊ ऽतीव संयुगे
भारद्वाजेन विक्रम्य गमितॊ यमसादनम
87 एते चान्ये च बहवः पाण्डवानां महारथाः
हता दरॊणेन विक्रम्य यन मां तवं परिपृच्छसि
88 [धृ]
हतप्रवीरे सैन्ये ऽसमिन मामके वदतां वर
अहताञ शंस मे सूत ये ऽतर जीवन्ति के चन
89 एतेषु निहतेष्व अद्य ये तवया परिकीर्तिताः
अहतान मन्यसे यांस तवं ते ऽपि सवर्गजितॊ मताः
90 [स]
यस्मिन महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि
दिव्यानि राजन निहितानि चैव; दरॊणेन वीर दविजसत्तमेन
91 महारथः कृतिमान कषिप्रहस्तॊ; दृढायुधॊ दृढमुष्टिर दृढेषुः
स वीर्यवान दरॊणपुत्रस तरस्वी; वयवस्थितॊ यॊद्धुकामस तवदर्थे
92 आनर्तवासी हृदिकात्मजॊ ऽसौ; महारथः सात्वतानां वरिष्ठः
सवयं भॊजः कृतवर्मा कृतास्त्रॊ; वयवस्थितॊ यॊद्धुकामस तवदर्थे
93 शारद्वतॊ गौतमश चापि राजन; महाबलॊ बहु चित्रास्त्र यॊधी
धनुश चित्रं सुमहद भारसाहं; वयवस्थितॊ यॊत्स्यमानः परगृह्य
94 आर्तायनिः समरे दुष्प्रकम्प्यः; सेनाग्रणीः परथमस तावकानाम
सवस्रेयांस तान पाण्डवेयान विसृज्य; सत्यां वाचं तां चिकीर्षुस तरस्वी
95 तेजॊवधं सूतपुत्रस्य संख्ये; परतिश्रुत्वाजात शत्रॊः पुरस्तात
दुराधर्षः शक्रसमानवीर्यः; शल्यः सथितॊ युद्दु कामस तवदर्थे
96 आजानेयैः सैन्धवैः पार्वतीयैर; नदीज काम्बॊजवनायु बाह्लिकैः
गान्धारराजः सवबलेन युक्तॊ; वयवस्थितॊ यॊद्धुकामस तवदर्थे
97 तथा सुतस ते जवलनार्कवर्णं; रथं समास्थाय कुरुप्रवीर
वयवस्थितः कुरु मित्रॊ नरेन्द्र; वयभ्रे सूर्यॊ भराजमानॊ यथा वै
98 दुर्यॊधनॊ नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः
रथेन जाम्बूनदभूषणेन; वयवस्थितः समरे यॊद्धुकामः
99 स राजमध्ये पुरुषप्रवीरॊ; रराज जाम्बूनदचित्रवर्मा
पद्मप्रभॊ वह्निर इवाल्पधूमॊ; मेघान्तरे सूर्य इव परकाशः
100 तथा सुषेणॊ ऽपय असि चर्म पाणिस; तवात्मजः सत्यसेनश च वीरः
वयवस्थितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे यॊद्धुकामौ
101 हरीनिषेधा भरता राजपुत्राश; चित्रायुधः शरुतकर्मा जयश च
शलश च सत्यव्रतदुःशलौ च; वयवस्थिता बलिनॊ यॊद्धुकामाः
102 कैतव्यानाम अधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः
पत्री हयी नागरथप्रयायी; वयवस्थितॊ यॊद्धुकामस तवदर्थे
103 वीरः शरुतायुश च शरुतायुधश च; चित्राङ्गदश चित्रवर्मा स वीरः
वयवस्थिता ये तु सैन्ये नराग्र्याः; परहारिणॊ मानिनः सत्यसंधाः
104 कर्णात्मजः सत्यसेनॊ महात्मा; वयवस्थितः समरे यॊद्धुकामः
अथापरौ कर्णसुतौ वरार्हौ; वयवस्थितौ लघुहस्तौ नरेन्द्र
बलं महद दुर्भिदम अल्पधैर्यैः; समाश्रितौ यॊत्स्यमानौ तवदर्थे
105 एतैश च मुख्यैर अपरैश च राजन; यॊधप्रवीरैर अमितप्रभावैः
वयवस्थितॊ नागकुलस्य मध्ये; यथा महेन्द्रः कुरुराजॊ जयाय
106 [धृ]
आख्याता जीवमाना ये परेभ्यॊ ऽनये यथातथम
इतीदम अभिगच्छामि वयक्तम अर्थाभिपत्तितः
107 [वै]
एवं बरुवन्न एव तदा धृतराष्ट्रॊ ऽबमिका सुतः
हतप्रवीरं विध्वस्तं किं चिच छेषं सवकं बलम
शरुत्वा वयामॊहम अगमच छॊकव्याकुलितेन्द्रियः
108 मुह्यमानॊ ऽबरवीच चापि मुहूर्तं तिष्ठ संजय
वयाकुलं मे मनस तात शरुत्वा सुमहद अप्रियम
नष्टचित्तस ततः सॊ ऽथ बभूव जगतीपतिः
1 [vai]
etac chrutvā mahārāja dhṛtarāṣṭro 'mbikā sutaḥ
abravīt saṃjayaṃ sūtaṃ śokavyākula cetanaḥ
2 duṣpraṇītena me tāta manasābhiplutātmanaḥ
hataṃ vaikartanaṃ śrutvā śoko marmāṇi kṛntati
3 kṛtāstra paramāḥ śalye duḥkhapāraṃ titīrṣavaḥ
kurūṇāṃ sṛñjayānāṃ ca ke nu jīvanti ke mṛtāḥ
4 [s]
hataḥ śāṃtanavo rājan durādharṣaḥ pratāpavān
hatvā pāṇḍava yodhānām arbudaṃ daśabhir dinaiḥ
5 tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān
nihatya yudhi durdharṣaḥ paścād rukmaratho hataḥ
6 hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā
ardhaṃ nihatya sainyasya karṇo vaikartano hataḥ
7 viviṃśatir mahārāja rājaputro mahābalaḥ
ānartayodhāñ śataśo nihatya nihato raṇe
8 atha putro vikarṇas te kṣatravratam anusmaran
kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān
9 ghorarūpān parikleśān duryodhanakṛtān bahūn
pratijñāṃ smaratā caiva bhīmasenena pātitaḥ
10 vindānuvindāv āvantyau rājaputrau mahābalau
kṛtvā na sukaraṃ karma gatau vaivasvatakṣayam
11 sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai
vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane
12 akṣauhiṇīr daśaikāṃ ca nirjitya niśitaiḥ śaraiḥ
arjunena hato rājan mahāvīryo jayadrathaḥ
13 tathā duryodhana sutas tarasvī yuddhadurmadaḥ
vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ
14 tathā dauḥśāsanir vīro bāhuśālī raṇotkaṭaḥ
draupadeyena vikramya gamito yamasādanam
15 kirātānām adhipatiḥ sāgarānūpavāsinām
devarājasya dharmātmā priyo bahumataḥ sakhā
16 bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā
dhanaṃjayena vikramya gamito yamasādanam
17 tathā kaurava dāyādaḥ saumadattir mahāyaśāḥ
hato bhūriśravā rājañ śūraḥ sātyakinā yudhi
18 śrutāyur api cāmbaṣṭhaḥ kṣatriyāṇāṃ dhanurdharaḥ
carann abhītavat saṃkhye nihataḥ savyasācinā
19 tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ
duḥśāsano mahārāja bhīmasenena pātitaḥ
20 yasya rājan gajānīkaṃ bahusāhasram adbhutam
sudakṣiṇaḥ sa saṃgrāme nihataḥ savyasācinā
21 kosalānām adhipatir hatvā bahuśatān parān
saubhadreṇa hi vikramya gamito yamasādanam
22 bahuśo yodhayitvā ca bhīmasenaṃ mahārathaḥ
citrasenas tava suto bhīmasenena pātitaḥ
23 madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ
asi carma dharaḥ śrīmān saubhadreṇa nipātitaḥ
24 samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ
vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ
25 abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ
dhanaṃjayena vikramya gamito yamasādanam
26 nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ
viśrāvya vairaṃ pārthena śrutāyuḥ sa nipātitaḥ
27 śalya putras tu vikrāntaḥ sahadevena māriṣa
hato rukmaratho rājan bhrātā mātulajo yudhi
28 rājā bhagīratho vṛddho bṛhat kṣatraś ca kekayaḥ
parākramantau vikrāntau nihatau vīryavattarau
29 bhagadattasuto rājan kṛtaprajño mahābalaḥ
śyenavac caratā saṃkhye nakulena nipātitaḥ
30 pitāmahas tava tathā bāhlikaḥ saha bāhlikaiḥ
bhīmasenena vikramya gamito yamasādanam
31 jayatsenas tathā rājañ jārāsaṃdhir mahābalaḥ
māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā
32 putras te durmukho rājan duḥsahaś ca mahārathaḥ
gadayā bhīmasenena nihatau śūramāninau
33 durmarṣaṇo durviṣaho durjayaś ca mahārathaḥ
kṛtvā na sukaraṃ karma gatā vaivasvatakṣayam
34 sacivo vṛṣavarmā te sūtaḥ paramavīryavān
bhīmasenena vikramya gamito yamasādanam
35 nāgāyuta balo rājā nāgāyuta balo mahān
sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā
36 vasātayo mahārāja dvisāhasrāḥ prahāriṇaḥ
śūrasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ
37 abhīṣāhāḥ kavacinaḥ praharanto mahotkaṭāḥ
śibayaś ca rathodārāḥ kaliṅga sahitā hatāḥ
38 gokule nityasaṃvṛddhā yuddhe paramakovidāḥ
śreṇayo bahusāhasrāḥ saṃśaptaka gaṇāś ca ye
te sarve pārtham āsādya gatā vaivasvatakṣayam
39 syālau tava mahārāja rājānau vṛṣakācalau
tvadarthe saṃparākrāntau nihatau savyasācinā
40 ugrakarmā maheṣvāso nāmataḥ karmatas tathā
śālvarājo mahārāja bhīmasenena pātitaḥ
41 oghavāṃś ca mahārāja bṛhantaḥ sahito raṇe
parākramantau mitrārthe gatau vaivasvatakṣayam
42 tathaiva rathināṃ śreṣṭhaḥ kṣemadhūrtir viśāṃ pate
nihato gadayā rājan bhīmasenena saṃyuge
43 tathā rājā maheṣvāso jalasaṃdho mahābalaḥ
sumahat kadanaṃ kṛttvā hataḥ sātyakinā raṇe
44 alāyudho rākṣasendraḥ kharabandhura yānagaḥ
ghaṭotkacena vikramya gamito yamasādanam
45 rādheyāḥ sūtaputrāś ca bhrātaraś ca mahārathāḥ
kekayāḥ sarvaśaś cāpi nihatāḥ savyasācinā
46 mālavā madrakāś caiva draviḍāś cogravikramāḥ
yaudheyāś ca lalitthāś ca kṣudrakāś cāpy uśīnarāḥ
47 māvellakās tuṇḍikerāḥ sāvitrī putra kāñcalāh
prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca māriṣa
48 pattīnāṃ nihatāḥ saṃghā hayānām ayutāni ca
rathavrajāś ca nihatā hatāś ca varavāraṇāḥ
49 sa dhvajāḥ sāyudhāḥ śūrāḥ sa varmāmbara bhūṣaṇāḥ
kālena mahatā yattāḥ kule ye ca vivardhitāḥ
50 te hatāḥ samare rājan pārthenākliṣṭa karmaṇā
anye tathāmita balāḥ parasparavadhaiṣiṇaḥ
51 ete cānye ca bahavo rājānaḥ sagaṇā raṇe
hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi
evam eṣa kṣayo vṛttaḥ karṇārjuna samāgame
52 mahendreṇa yathā vṛtro yathā rāmeṇa rāvaṇaḥ
yathā kṛṣṇena nihato muro raṇanipātitaḥ
kārtavīryaś ca rāmeṇa bhārgaveṇa hato yathā
53 sa jñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ
raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam
54 tathārjunena nihato dvairathe yuddhadurmadaḥ
sāmātyabāndhavo rājan karṇaḥ praharatāṃ varaḥ
55 jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ
tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase
56 ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ
tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam
57 putrāṇāṃ rājyakāmānāṃ tvayā rājan hitaiṣiṇā
ahitānīva cīrṇāni teṣāṃ te phalam āgatam
58 [dhṛ]
ākhyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ
nihatān pāṇḍaveyānāṃ māmakair brūhi saṃjaya
59 [s]
kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ
sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ
60 samaḥ kirīṭinā saṃkhye vīryeṇa ca balena ca
satyajit satyasaṃdhena droṇena nihato raṇe
61 tathā virāṭadrupadau vṛddhau saha sutau nṛpau
parākramantau mitrārthe droṇena nihatau raṇe
62 yo bāla eva samare saṃmitaḥ savyasācinā
keśavena ca durdharṣo baladevena cābhibhūḥ
63 sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ
parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ
aśaknuvadbhir bībhatsum abhimanyur nipātitaḥ
64 taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam
dauḥśāsanir mahārāja saubhadraṃ hatavān raṇe
65 bṛhantas tu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ
duḥśāsanena vikramya gamito yamasādanam
66 maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau
parākramantau mitrārthe droṇena vinipātitau
67 aṃśumān bhojarājas tu saha sainyo mahārathaḥ
bhāradvājena vikramya gamito yamasādanam
68 citrāyudhaś citrayodhī kṛtvā tau kadanaṃ mahat
citramārgeṇa vikramya karṇena nihatau yudhi
69 vṛkodara samo yuddhe dṛḍhaḥ kekayajo yudhi
kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ
70 janamejayo gadāyudhī pārvatīyaḥ pratāpavān
durmukhena mahārāja tava putreṇa pātitaḥ
71 rocamānau naravyāghrau rocamānau grahāv iva
droṇena yugapad rājan divaṃ saṃpreṣitau śaraiḥ
72 nṛpāś ca pratiyudhyantaḥ parākrāntā viśāṃ pate
kṛtvā na sukaraṃ karma gatā vaivasvatakṣayam
73 purujit kuntibhojaś ca mātulaḥ savyasācinaḥ
saṃgrāmanirjitāṁl lokān gamito droṇa sāyakaiḥ
74 abhibhūḥ kāśirājaś ca kāśikair bahubhir vṛtaḥ
vasu dānasya putreṇa nyāsito deham āhave
75 amitaujā yudhāmanyur uttamaujāś ca vīryavān
nihatya śataśaḥ śūrān parair vinihatau raṇe
76 kṣatradharmā ca pāñcālyaḥ kṣatravarmā ca māriṣa
droṇena parameṣvāsau gamitau yamasādanam
77 śikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ
lakṣmaṇena hato rājaṃs tava pautreṇa bhārata
78 sucitraś citradharmā ca pitā putrau mahārathau
pracarantau mahāvīryau droṇena nihatau raṇe
79 vārdhakṣemir mahārāja kṛtvā kadanam āhave
bāhlikena mahārāja kauraveṇa nipātitaḥ
80 dhṛṣṭaketur mahārāja cedīnāṃ pravaro rathaḥ
kṛtvā na sukaraṃ karma gato vaivasvatakṣayam
81 tathā satyadhṛtis tāta kṛtvā kadanam āhave
pāṇḍavārthe parākrānto gamito yamasādanam
82 putras tu śiśupālasya suketuḥ pṛthivīpate
nihatya śātravān saṃkhye droṇena nihato yudhi
83 tathā satyadhṛtir vīro madirāśvaś ca vīryavān
sūryadattaś ca vikrānto nihato droṇa sāyakaiḥ
84 śreṇimāṃś ca mahārāja yudhyamānaḥ parākramī
kṛtvā na sukaraṃ karma gato vaivasvatakṣayam
85 tathaiva yudhi vikrānto māgadhaḥ paravīrahā
bhīṣmeṇa nihato rājanyudhyamānaḥ parākramī
86 vasu dānaś ca kadanaṃ kurvāṇo 'tīva saṃyuge
bhāradvājena vikramya gamito yamasādanam
87 ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ
hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi
88 [dhṛ]
hatapravīre sainye 'smin māmake vadatāṃ vara
ahatāñ śaṃsa me sūta ye 'tra jīvanti ke cana
89 eteṣu nihateṣv adya ye tvayā parikīrtitāḥ
ahatān manyase yāṃs tvaṃ te 'pi svargajito matāḥ
90 [s]
yasmin mahāstrāṇi samarpitāni; citrāṇi śubhrāṇi caturvidhāni
divyāni rājan nihitāni caiva; droṇena vīra dvijasattamena
91 mahārathaḥ kṛtimān kṣiprahasto; dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ
sa vīryavān droṇaputras tarasvī; vyavasthito yoddhukāmas tvadarthe
92 ānartavāsī hṛdikātmajo 'sau; mahārathaḥ sātvatānāṃ variṣṭhaḥ
svayaṃ bhojaḥ kṛtavarmā kṛtāstro; vyavasthito yoddhukāmas tvadarthe
93 śāradvato gautamaś cāpi rājan; mahābalo bahu citrāstra yodhī
dhanuś citraṃ sumahad bhārasāhaṃ; vyavasthito yotsyamānaḥ pragṛhya
94 ārtāyaniḥ samare duṣprakampyaḥ; senāgraṇīḥ prathamas tāvakānām
svasreyāṃs tān pāṇḍaveyān visṛjya; satyāṃ vācaṃ tāṃ cikīrṣus tarasvī
95 tejovadhaṃ sūtaputrasya saṃkhye; pratiśrutvājāta śatroḥ purastāt
durādharṣaḥ śakrasamānavīryaḥ; śalyaḥ sthito yuddu kāmas tvadarthe
96 ājāneyaiḥ saindhavaiḥ pārvatīyair; nadīja kāmbojavanāyu bāhlikaiḥ
gāndhārarājaḥ svabalena yukto; vyavasthito yoddhukāmas tvadarthe
97 tathā sutas te jvalanārkavarṇaṃ; rathaṃ samāsthāya kurupravīra
vyavasthitaḥ kuru mitro narendra; vyabhre sūryo bhrājamāno yathā vai
98 duryodhano nāgakulasya madhye; mahāvīryaḥ saha sainyapravīraiḥ
rathena jāmbūnadabhūṣaṇena; vyavasthitaḥ samare yoddhukāmaḥ
99 sa rājamadhye puruṣapravīro; rarāja jāmbūnadacitravarmā
padmaprabho vahnir ivālpadhūmo; meghāntare sūrya iva prakāśaḥ
100 tathā suṣeṇo 'py asi carma pāṇis; tavātmajaḥ satyasenaś ca vīraḥ
vyavasthitau citrasenena sārdhaṃ; hṛṣṭātmānau samare yoddhukāmau
101 hrīniṣedhā bharatā rājaputrāś; citrāyudhaḥ śrutakarmā jayaś ca
śalaś ca satyavrataduḥśalau ca; vyavasthitā balino yoddhukāmāḥ
102 kaitavyānām adhipaḥ śūramānī; raṇe raṇe śatruhā rājaputraḥ
patrī hayī nāgarathaprayāyī; vyavasthito yoddhukāmas tvadarthe
103 vīraḥ śrutāyuś ca śrutāyudhaś ca; citrāṅgadaś citravarmā sa vīraḥ
vyavasthitā ye tu sainye narāgryāḥ; prahāriṇo māninaḥ satyasaṃdhāḥ
104 karṇātmajaḥ satyaseno mahātmā; vyavasthitaḥ samare yoddhukāmaḥ
athāparau karṇasutau varārhau; vyavasthitau laghuhastau narendra
balaṃ mahad durbhidam alpadhairyaiḥ; samāśritau yotsyamānau tvadarthe
105 etaiś ca mukhyair aparaiś ca rājan; yodhapravīrair amitaprabhāvaiḥ
vyavasthito nāgakulasya madhye; yathā mahendraḥ kururājo jayāya
106 [dhṛ]
ākhyātā jīvamānā ye parebhyo 'nye yathātatham
itīdam abhigacchāmi vyaktam arthābhipattitaḥ
107 [vai]
evaṃ bruvann eva tadā dhṛtarāṣṭro 'bmikā sutaḥ
hatapravīraṃ vidhvastaṃ kiṃ cic cheṣaṃ svakaṃ balam
śrutvā vyāmoham agamac chokavyākulitendriyaḥ
108 muhyamāno 'bravīc cāpi muhūrtaṃ tiṣṭha saṃjaya
vyākulaṃ me manas tāta śrutvā sumahad apriyam
naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1162 of 2013 Book 58% ~12 min left