To view the original Internet Sacred Text Archive, visit archive.sacred-texts.com
Book 13: Chapter 2
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 13: Chapter 2

The Mahabharata in Sanskrit

Book 13
Chapter 2

1 [य]
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
शरुतं मे महद आख्यानम इदं मतिमतां वर
2 भूयस तु शरॊतुम इच्छामि धर्मार्थसहितं नृप
कथ्यमानं तवया किं चित तन मे वयाख्यातुम अर्हसि
3 केन मृत्युर गृहस्थेन धर्मम आश्रित्य निर्जितः
इत्य एतत सर्वम आचक्ष्व तत्त्वेन मम पार्थिव
4 [भ]
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
यथा मृत्युर गृहस्थेन धर्मम आश्रित्य निर्जितः
5 मनॊः परजापते राजन्न इक्ष्वाकुर अभवत सुतः
तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः
6 दशमस तस्य पुत्रस तु दशाश्वॊ नाम भारत
माहिष्मत्याम अभूद राजा धर्म आत्मा सत्यविक्रमः
7 दशाश्वस्य सुतस तव आसीद राजा परमधार्मिकः
सत्ये तपसि दाने च यस्य नित्यं रतं मनः
8 मदिराश्व इति खयातः पृथिव्यां पृथिवीपतिः
धनुर्वेदे च वेदे च निरतॊ यॊ ऽभवत सदा
9 मरिदाश्वस्य पुत्रस तु दयुतिमान नाम पार्थिवः
महाभागॊ महातेजा महासत्त्वॊ महाबलः
10 पुत्रॊ दयुतिमतस तव आसीत सुवीरॊ नाम पार्थिवः
धर्मात्मा कॊशवांश चापि देवराज इवापरः
11 सुवीरस्य तु पुत्रॊ ऽभूत सर्वसंग्राम दुर्जयः
दुर्जयेत्य अभिविख्यातः सर्वशास्त्रविशारदः
12 दुर्जयस्येन्द्र वपुषः पुत्रॊ ऽगनिसदृशद्युतिः
दुर्यॊधनॊ नाम महान राजासीद राजसत्तम
13 तस्येन्द्र समवीर्यस्य संग्रामेष्व अनिवर्तिनः
विषयश च परभावश च तुल्यम एवाभ्यवर्तत
14 रत्नैर धनैश च पशुभिः सस्यैश चापि पृथग्विधैः
नगरं विषयश चास्य परतिपूर्णं तदाभवत
15 न तस्य विषये चाभूत कृपणॊ नापि दुर्गतः
वयाधितॊ वा कृशॊ वापि तस्मिन नाभून नरः कव चित
16 सुदक्षिणॊ मधुरवाग अनसूयुर जितेन्द्रियः
धर्मात्मा चानृशंसश च विक्रान्तॊ ऽथाविकत्थनः
17 यज्वा वदान्यॊ मेधावी बरह्मण्यः सत्यसंगरः
न चावमन्ता दाता च वेदवेदाङ्गपारगः
18 तं नर्मदा देव नदी पुण्या शीतजला शिवा
चकमे पुरुषश्रेष्ठं सवेन भावेन भारत
19 तस्य जज्ञे तदा नद्यां कन्या राजीवलॊचना
नाम्ना सुदर्शना राजन रूपेण च सुदर्शना
20 तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर
दुर्यॊधन सुता यादृग अभवद वरवर्णिनी
21 ताम अग्निश चकमे साक्षाद राजकन्यां सुदर्शनाम
भूत्वा च बराह्मणः साक्षाद वरयाम आस तं नृपम
22 दरिद्रश चासवर्णश च ममायम इति पार्थिवः
न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम
23 ततॊ ऽसय वितते यज्ञे नष्टॊ ऽभूद धव्यवाहनः
ततॊ दुर्यॊधनॊ राजा वाक्यम आहर्त्विजस तदा
24 दुष्कृतं मम किं नु सयाद भवतां वा दविजर्षभाः
येन नाशं जगामाग्निः कृतं कुपुरुषेष्व इव
25 न हय अल्पं दुष्कृतं नॊ ऽसति येनाग्निर नाशम आगतः
भवतां वाथ वा मह्यं तत्त्वेनैतद विमृश्यताम
26 एतद राज्ञॊ वचः शरुत्वा विप्रास ते भरतर्षभ
नियता वाग्यताश चैव पावकं शरणं ययुः
27 तान दर्शयाम आस तदा भगवान हव्यवाहनः
सवं रूपं दीप्तिमत कृत्वा शरदर्कसमद्युतिः
28 ततॊ महात्मा तान आह दहनॊ बराह्मणर्षभान
वरयाम्य आत्मनॊ ऽरथाय दुर्यॊधन सुताम इति
29 ततस ते काल्यम उत्थाय तस्मै राज्ञे नयवेदयन
बराह्मणा विस्मिताः सर्वे यद उक्तं चित्रभानुना
30 ततः स राजा तच छरुत्वा वचनं बरह्मवादिनाम
अवाप्य परमं हर्षं तथेति पराह बुद्धिमान
31 परायाचत नृपः शुल्कं भगवन्तं विभावसुम
नित्यं सांनिध्यम इह ते चित्रभानॊ भवेद इति
तम आह भगवान अग्निर एवम अस्त्व इति पार्थिवम
32 ततः सांनिध्यम अध्यापि माहिष्मत्यां विभावसॊः
दृष्टं हि सहदेवेन दिशॊ विजयता तदा
33 ततस तां समलंकृत्य कन्याम अहत वाससम
ददौ दुर्यॊधनॊ राजा पावकाय महात्मने
34 परतिजग्राह चाग्निस तां राजपुत्रीं सुदर्शनाम
विधिना वेद दृष्टेन वसॊर धाराम इवाध्वरे
35 तस्या रूपेण शीलेन कुलेन वपुषा शरिया
अभवत परीतिमान अग्निर गर्भं तस्यां समादधे
36 तस्यां समभवत पुत्रॊ नाम्नाग्नेयः सुदर्शनः
शिशुर एवाध्यगात सर्वं स च बरह्म सनातनम
37 अथौघवान नाम नृपॊ नृगस्यासीत पितामहः
तस्याप्य ओघवती कन्या पुत्रश चौघरथॊ ऽभवत
38 ताम ओघवान ददौ तस्मै सवयम ओघवतीं सुताम
सुदर्शनाय विदुषे भार्यार्थं देवरूपिणाम
39 स गृहस्थाश्रमरतस तया सह सुदर्शनः
कुरुक्षेत्रे ऽवसद राजन्न ओघवत्या समन्वितः
40 गृहस्थश चावजेष्यामि मृत्युम इत्य एव स परभॊ
परतिज्ञाम अकरॊद धीमान दीप्ततेजा विशां पते
41 ताम अथौघवतीं राजन स पावकसुतॊ ऽबरवीत
अतिथेः परतिकूलं ते न कर्तव्यं कथं चन
42 येन येन च तुष्येत नित्यम एव तवयातिथिः
अप्य आत्मनः परदानेन न ते कार्या विचारणा
43 एतद वरतं मम सदा हृदि संपरिवर्तते
गृहस्थानां हि सुश्रॊणि नातिथेर विद्यते परम
44 परमाणं यदि वामॊरु वचस ते मम शॊभने
इदं वचनम अव्यग्रा हृदि तवं धारयेः सदा
45 निष्क्रान्ते मयि कल्याणि तथा संनिहिते ऽनघे
नातिथिस ते ऽवमन्तव्यः परमाणं यद्य अहं तव
46 तम अब्रवीद ओघवती यता मूर्ध्नि कृताञ्जलिः
न मे तवद वचनात किं चिद अकर्तव्यं कथं चन
47 जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम
पृष्ठतॊ ऽनवगमद राजन रन्धान्वेषी तदा सदा
48 इध्मार्थं तु गते तस्मिन्न अग्निपुत्रे सुदर्शने
अतिथिर बराह्मणः शरीमांस ताम आहौघवतीं तदा
49 आतिथ्यं दत्तम इच्छामि तवयाद्य वरवर्णिनि
परमाणं यदि धर्मस ते गृहस्थाश्रमसंमतः
50 इत्य उक्ता तेन विप्रेण राजपुत्री यशस्विनी
विधिना परतिजग्राह वेदॊक्तेन विशां पते
51 आसनं चैव पाद्यं च तस्मै दत्त्वा दविजातये
परॊवाचौघवती विप्रं केनार्थः किं ददामि ते
52 ताम अब्रवीत ततॊ विप्रॊ राजपुत्रीं सुदर्शनाम
तवया ममार्थः कल्याणि निर्विशङ्के तद आचर
53 यदि परमाणं धर्मस ते गृहस्थाश्रमसंमतः
परदानेनात्मनॊ राज्ञि कर्तुम अर्हसि मे परियम
54 तथा संछन्द्यमानॊ ऽनयैर ईप्सितैर नृप कन्यया
नान्यम आत्मप्रदानात स तस्या वव्रे वरं दविजः
55 सा तु राजसुता समृत्वा हर्तुर वचनम आदितः
तथेति लज्जमाना सा तम उवाच दविजर्षभम
56 ततॊ रहः स विप्रर्षिः सा चैवॊपविवेश ह
संस्मृत्य भर्तुर वचनं गृहस्थाश्रमकाङ्क्षिणः
57 अथेध्मान समुपादाय स पावकिर उपागमत
मृत्युना रौद्रभावेन नित्यं बन्धुर इवान्वितः
58 ततस तव आश्रमम आगम्य स पावकसुतस तदा
ताम आजुहावौघवतीं कवासि यातेति चासकृत
59 तस्मै परतिवचः सा तु भर्त्रे न परददौ तदा
कराभ्यां तेन विप्रेण सपृष्टा भर्तृव्रता सती
60 उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुर एव च
तूष्णींभूताभवत साध्वी न चॊवाचाथ किं चन
61 अथ तां पुनर एवेदं परॊवाच स सुदर्शनः
कव सा साध्वी कव सा याता गरीयः किम अतॊ मम
62 पतिव्रता सत्यशीला नित्यं चैवार्जवे रता
कथं न परत्युदेत्य अद्य समयमाना यथा पुरा
63 उटजस्थस तु तं विप्रः परत्युवाच सुदर्शनम
अतिथिं विद्धि संप्राप्तं पावके बराह्मणं च माम
64 अनया छन्द्यमानॊ ऽहं भार्यया तव सत्तम
तैस तैर अतिथि सत्कारैर आर्जवे ऽसया दृढं मनः
65 अनेन विधिना सेयं माम अर्चति शुभानना
अनुरूपं यद अत्राद्य तद भवान वक्तुम अर्हति
66 कूटमुद्गर हस्तस तु मृत्युस तं वै समन्वयात
हीनप्रतिज्ञम अत्रैनं वधिष्यामीति चिन्तयन
67 सुदर्शनस तु मनसा कर्मणा चक्षुषा गिरा
तयक्तेर्ष्यस तयक्तमन्युश च समयमानॊ ऽबरवीद इदम
68 सुरतं ते ऽसतु विप्राग्र्य परीतिर हि परमा मम
गृहस्थस्य हि धर्मॊ ऽगर्यः संप्राप्तातिथि पूजनम
69 अतिथिः पूजितॊ यस्य गृहस्थस्य तु गच्छति
नान्यस तस्मात परॊ धर्म इति पराहुर मनीषिणः
70 पराणा हि मम दाराश च यच चान्यद विद्यते वसु
अतिथिभ्यॊ मया देयम इति मे वरतम आहितम
71 निःसंदिग्धं मया वाक्यम एतत ते समुदाहृतम
तेनाहं विप्र सत्येन सवयम आत्मानम आलभे
72 पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम
बुद्धिर आत्मा मनः कालॊ दिशश चैव गुणा दश
73 नित्यम एते हि पश्यन्ति देहिनां देहसंश्रिताः
सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर
74 यथैषा नानृता वाणी मयाद्य समुदाहृता
तेन सत्येन मां देवाः पालयन्तु दहन्तु वा
75 ततॊ नादः समभवद दिक्षु सर्वासु भारत
असकृत सत्यम इत्य एव नैतन मिथ्येति सर्वशः
76 उटजात तु ततस तस्मान निश्चक्राम स वै दविजः
वपुषा खं च भूमिं च वयाप्य वायुर इवॊद्यतः
77 सवरेण विप्रः शैक्षेण तरीँल लॊकान अनुनादयन
उवाच चैनं धर्मज्ञं पूर्वम आमन्त्र्य नामतः
78 धर्मॊ ऽहम अस्मि भद्रं ते जिज्ञासार्थं तवानघ
पराप्तः सत्यं च ते जञात्वा परीतिर मे परमा तवयि
79 विजितश च तवया मृत्युर यॊ ऽयं तवाम अनुगच्छति
रन्ध्रान्वेषी तव सदा तवया धृत्या वशीकृतः
80 न चास्ति शक्तिस तरैलॊक्ये कस्य चित पुरुषॊत्तम
पतिव्रताम इमां साध्वीं तवॊद्वीक्षितुम अप्य उत
81 रक्षिता तवद गुणैर एषा पतिव्रतगुणैस तथा
अधृष्या यद इयं बरूयात तथा तन नान्यथा भवेत
82 एषा हि तपसा सवेन संयुक्ता बरह्मवादिनी
पावनार्थं च लॊकस्य सरिच्छ्रेष्ठा भविष्यति
83 अर्धेनौघवती नाम तवाम अर्थेनानुयास्यति
शरीरेण महाभागा यॊगॊ हय अस्या वशे सथितः
84 अनया सह लॊकांश च गन्तासि तपसार्जितान
यत्र नावृत्तिम अभ्येति शाश्वतांस तान सनातनान
85 अनेन चैव देहेन लॊकांस तवम अभिपत्स्यसे
निर्जितश च तवया मृत्युर ऐश्वर्यं च तवॊत्तमम
86 पञ्च भूतान्य अतिक्रान्तः सववीर्याच च मनॊ भवः
गृहस्थ धर्मेणानेन कामक्रॊधौ च ते जितौ
87 सनेहॊ रागश च तन्द्री च मॊहॊ दरॊहश च केवलः
तव शुश्रूषया राजन राजपुत्र्या विनिर्जिताः
88 [भ]
शुक्लानां तु सहस्रेण वाजिनां रथम उत्तमम
युक्तं परगृह्य भगवान वयवसायॊ जगाम तम
89 मृत्युर आत्मा च लॊकाश च जिता भूतानि पञ्च च
बुद्धिः कालॊ मनॊ वयॊम कामक्रॊधौ तथैव च
90 तस्माद गृहाश्रमस्थस्य नान्यद दैवतम अस्ति वै
ऋते ऽतिथिं नरव्याघ्र मनसैतद विचारय
91 अतिथिः पूजितॊ यस्य धयायते मनसा शुभम
न तत करतुशतेनापि तुल्यम आहुर मनीषिणः
92 पात्रं तव अतिथिम आसाद्य शीलाढ्यं यॊ न पूजयेत
स दत्त्वा सुकृतं तस्य कषपयेत हय अनर्चितः
93 एतत ते कथितं पुत्र मयाख्यानम अनुत्तमम
यथा हि विजितॊ मृत्युर गृहस्थेन पुराभवत
94 धन्यं यशस्यम आयुष्मद इदम आख्यानम उत्तमम
बुभूषिताभिमन्तव्यं सर्वदुश्चरितापहम
95 य इदं कथयेद विद्वान अहन्य अहनि भारत
सुदर्शनस्य चरितं पुण्याँल लॊकान अवाप्नुयात
1 [y]
pitāmaha mahāprājña sarvaśāstraviśārada
śrutaṃ me mahad ākhyānam idaṃ matimatāṃ vara
2 bhūyas tu śrotum icchāmi dharmārthasahitaṃ nṛpa
kathyamānaṃ tvayā kiṃ cit tan me vyākhyātum arhasi
3 kena mṛtyur gṛhasthena dharmam āśritya nirjitaḥ
ity etat sarvam ācakṣva tattvena mama pārthiva
4 [bh]
atrāpy udāharantīmam itihāsaṃ purātanam
yathā mṛtyur gṛhasthena dharmam āśritya nirjitaḥ
5 manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ
tasya putraśataṃ jajñe nṛpateḥ sūryavarcasaḥ
6 daśamas tasya putras tu daśāśvo nāma bhārata
māhiṣmatyām abhūd rājā dharm ātmā satyavikramaḥ
7 daśāśvasya sutas tv āsīd rājā paramadhārmikaḥ
satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ
8 madirāśva iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ
dhanurvede ca vede ca nirato yo 'bhavat sadā
9 maridāśvasya putras tu dyutimān nāma pārthivaḥ
mahābhāgo mahātejā mahāsattvo mahābalaḥ
10 putro dyutimatas tv āsīt suvīro nāma pārthivaḥ
dharmātmā kośavāṃś cāpi devarāja ivāparaḥ
11 suvīrasya tu putro 'bhūt sarvasaṃgrāma durjayaḥ
durjayety abhivikhyātaḥ sarvaśāstraviśāradaḥ
12 durjayasyendra vapuṣaḥ putro 'gnisadṛśadyutiḥ
duryodhano nāma mahān rājāsīd rājasattama
13 tasyendra samavīryasya saṃgrāmeṣv anivartinaḥ
viṣayaś ca prabhāvaś ca tulyam evābhyavartata
14 ratnair dhanaiś ca paśubhiḥ sasyaiś cāpi pṛthagvidhaiḥ
nagaraṃ viṣayaś cāsya pratipūrṇaṃ tadābhavat
15 na tasya viṣaye cābhūt kṛpaṇo nāpi durgataḥ
vyādhito vā kṛśo vāpi tasmin nābhūn naraḥ kva cit
16 sudakṣiṇo madhuravāg anasūyur jitendriyaḥ
dharmātmā cānṛśaṃsaś ca vikrānto 'thāvikatthanaḥ
17 yajvā vadānyo medhāvī brahmaṇyaḥ satyasaṃgaraḥ
na cāvamantā dātā ca vedavedāṅgapāragaḥ
18 taṃ narmadā deva nadī puṇyā śītajalā śivā
cakame puruṣaśreṣṭhaṃ svena bhāvena bhārata
19 tasya jajñe tadā nadyāṃ kanyā rājīvalocanā
nāmnā sudarśanā rājan rūpeṇa ca sudarśanā
20 tādṛgrūpā na nārīṣu bhūtapūrvā yudhiṣṭhira
duryodhana sutā yādṛg abhavad varavarṇinī
21 tām agniś cakame sākṣād rājakanyāṃ sudarśanām
bhūtvā ca brāhmaṇaḥ sākṣād varayām āsa taṃ nṛpam
22 daridraś cāsavarṇaś ca mamāyam iti pārthivaḥ
na ditsati sutāṃ tasmai tāṃ viprāya sudarśanām
23 tato 'sya vitate yajñe naṣṭo 'bhūd dhavyavāhanaḥ
tato duryodhano rājā vākyam āhartvijas tadā
24 duṣkṛtaṃ mama kiṃ nu syād bhavatāṃ vā dvijarṣabhāḥ
yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣv iva
25 na hy alpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ
bhavatāṃ vātha vā mahyaṃ tattvenaitad vimṛśyatām
26 etad rājño vacaḥ śrutvā viprās te bharatarṣabha
niyatā vāgyatāś caiva pāvakaṃ śaraṇaṃ yayuḥ
27 tān darśayām āsa tadā bhagavān havyavāhanaḥ
svaṃ rūpaṃ dīptimat kṛtvā śaradarkasamadyutiḥ
28 tato mahātmā tān āha dahano brāhmaṇarṣabhān
varayāmy ātmano 'rthāya duryodhana sutām iti
29 tatas te kālyam utthāya tasmai rājñe nyavedayan
brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā
30 tataḥ sa rājā tac chrutvā vacanaṃ brahmavādinām
avāpya paramaṃ harṣaṃ tatheti prāha buddhimān
31 prāyācata nṛpaḥ śulkaṃ bhagavantaṃ vibhāvasum
nityaṃ sāṃnidhyam iha te citrabhāno bhaved iti
tam āha bhagavān agnir evam astv iti pārthivam
32 tataḥ sāṃnidhyam adhyāpi māhiṣmatyāṃ vibhāvasoḥ
dṛṣṭaṃ hi sahadevena diśo vijayatā tadā
33 tatas tāṃ samalaṃkṛtya kanyām ahata vāsasam
dadau duryodhano rājā pāvakāya mahātmane
34 pratijagrāha cāgnis tāṃ rājaputrīṃ sudarśanām
vidhinā veda dṛṣṭena vasor dhārām ivādhvare
35 tasyā rūpeṇa śīlena kulena vapuṣā śriyā
abhavat prītimān agnir garbhaṃ tasyāṃ samādadhe
36 tasyāṃ samabhavat putro nāmnāgneyaḥ sudarśanaḥ
śiśur evādhyagāt sarvaṃ sa ca brahma sanātanam
37 athaughavān nāma nṛpo nṛgasyāsīt pitāmahaḥ
tasyāpy oghavatī kanyā putraś caugharatho 'bhavat
38 tām oghavān dadau tasmai svayam oghavatīṃ sutām
sudarśanāya viduṣe bhāryārthaṃ devarūpiṇām
39 sa gṛhasthāśramaratas tayā saha sudarśanaḥ
kurukṣetre 'vasad rājann oghavatyā samanvitaḥ
40 gṛhasthaś cāvajeṣyāmi mṛtyum ity eva sa prabho
pratijñām akarod dhīmān dīptatejā viśāṃ pate
41 tām athaughavatīṃ rājan sa pāvakasuto 'bravīt
atitheḥ pratikūlaṃ te na kartavyaṃ kathaṃ cana
42 yena yena ca tuṣyeta nityam eva tvayātithiḥ
apy ātmanaḥ pradānena na te kāryā vicāraṇā
43 etad vrataṃ mama sadā hṛdi saṃparivartate
gṛhasthānāṃ hi suśroṇi nātither vidyate param
44 pramāṇaṃ yadi vāmoru vacas te mama śobhane
idaṃ vacanam avyagrā hṛdi tvaṃ dhārayeḥ sadā
45 niṣkrānte mayi kalyāṇi tathā saṃnihite 'naghe
nātithis te 'vamantavyaḥ pramāṇaṃ yady ahaṃ tava
46 tam abravīd oghavatī yatā mūrdhni kṛtāñjaliḥ
na me tvad vacanāt kiṃ cid akartavyaṃ kathaṃ cana
47 jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam
pṛṣṭhato 'nvagamad rājan randhānveṣī tadā sadā
48 idhmārthaṃ tu gate tasminn agniputre sudarśane
atithir brāhmaṇaḥ śrīmāṃs tām āhaughavatīṃ tadā
49 ātithyaṃ dattam icchāmi tvayādya varavarṇini
pramāṇaṃ yadi dharmas te gṛhasthāśramasaṃmataḥ
50 ity uktā tena vipreṇa rājaputrī yaśasvinī
vidhinā pratijagrāha vedoktena viśāṃ pate
51 āsanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye
provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te
52 tām abravīt tato vipro rājaputrīṃ sudarśanām
tvayā mamārthaḥ kalyāṇi nirviśaṅke tad ācara
53 yadi pramāṇaṃ dharmas te gṛhasthāśramasaṃmataḥ
pradānenātmano rājñi kartum arhasi me priyam
54 tathā saṃchandyamāno 'nyair īpsitair nṛpa kanyayā
nānyam ātmapradānāt sa tasyā vavre varaṃ dvijaḥ
55 sā tu rājasutā smṛtvā hartur vacanam āditaḥ
tatheti lajjamānā sā tam uvāca dvijarṣabham
56 tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha
saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇaḥ
57 athedhmān samupādāya sa pāvakir upāgamat
mṛtyunā raudrabhāvena nityaṃ bandhur ivānvitaḥ
58 tatas tv āśramam āgamya sa pāvakasutas tadā
tām ājuhāvaughavatīṃ kvāsi yāteti cāsakṛt
59 tasmai prativacaḥ sā tu bhartre na pradadau tadā
karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī
60 ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca
tūṣṇīṃbhūtābhavat sādhvī na covācātha kiṃ cana
61 atha tāṃ punar evedaṃ provāca sa sudarśanaḥ
kva sā sādhvī kva sā yātā garīyaḥ kim ato mama
62 pativratā satyaśīlā nityaṃ caivārjave ratā
kathaṃ na pratyudety adya smayamānā yathā purā
63 uṭajasthas tu taṃ vipraḥ pratyuvāca sudarśanam
atithiṃ viddhi saṃprāptaṃ pāvake brāhmaṇaṃ ca mām
64 anayā chandyamāno 'haṃ bhāryayā tava sattama
tais tair atithi satkārair ārjave 'syā dṛḍhaṃ manaḥ
65 anena vidhinā seyaṃ mām arcati śubhānanā
anurūpaṃ yad atrādya tad bhavān vaktum arhati
66 kūṭamudgara hastas tu mṛtyus taṃ vai samanvayāt
hīnapratijñam atrainaṃ vadhiṣyāmīti cintayan
67 sudarśanas tu manasā karmaṇā cakṣuṣā girā
tyakterṣyas tyaktamanyuś ca smayamāno 'bravīd idam
68 surataṃ te 'stu viprāgrya prītir hi paramā mama
gṛhasthasya hi dharmo 'gryaḥ saṃprāptātithi pūjanam
69 atithiḥ pūjito yasya gṛhasthasya tu gacchati
nānyas tasmāt paro dharma iti prāhur manīṣiṇaḥ
70 prāṇā hi mama dārāś ca yac cānyad vidyate vasu
atithibhyo mayā deyam iti me vratam āhitam
71 niḥsaṃdigdhaṃ mayā vākyam etat te samudāhṛtam
tenāhaṃ vipra satyena svayam ātmānam ālabhe
72 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
buddhir ātmā manaḥ kālo diśaś caiva guṇā daśa
73 nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ
sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara
74 yathaiṣā nānṛtā vāṇī mayādya samudāhṛtā
tena satyena māṃ devāḥ pālayantu dahantu vā
75 tato nādaḥ samabhavad dikṣu sarvāsu bhārata
asakṛt satyam ity eva naitan mithyeti sarvaśaḥ
76 uṭajāt tu tatas tasmān niścakrāma sa vai dvijaḥ
vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyur ivodyataḥ
77 svareṇa vipraḥ śaikṣeṇa trīṁl lokān anunādayan
uvāca cainaṃ dharmajñaṃ pūrvam āmantrya nāmataḥ
78 dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha
prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi
79 vijitaś ca tvayā mṛtyur yo 'yaṃ tvām anugacchati
randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛtaḥ
80 na cāsti śaktis trailokye kasya cit puruṣottama
pativratām imāṃ sādhvīṃ tavodvīkṣitum apy uta
81 rakṣitā tvad guṇair eṣā pativrataguṇais tathā
adhṛṣyā yad iyaṃ brūyāt tathā tan nānyathā bhavet
82 eṣā hi tapasā svena saṃyuktā brahmavādinī
pāvanārthaṃ ca lokasya saricchreṣṭhā bhaviṣyati
83 ardhenaughavatī nāma tvām arthenānuyāsyati
śarīreṇa mahābhāgā yogo hy asyā vaśe sthitaḥ
84 anayā saha lokāṃś ca gantāsi tapasārjitān
yatra nāvṛttim abhyeti śāśvatāṃs tān sanātanān
85 anena caiva dehena lokāṃs tvam abhipatsyase
nirjitaś ca tvayā mṛtyur aiśvaryaṃ ca tavottamam
86 pañca bhūtāny atikrāntaḥ svavīryāc ca mano bhavaḥ
gṛhastha dharmeṇānena kāmakrodhau ca te jitau
87 sneho rāgaś ca tandrī ca moho drohaś ca kevalaḥ
tava śuśrūṣayā rājan rājaputryā vinirjitāḥ
88 [bh]
śuklānāṃ tu sahasreṇa vājināṃ ratham uttamam
yuktaṃ pragṛhya bhagavān vyavasāyo jagāma tam
89 mṛtyur ātmā ca lokāś ca jitā bhūtāni pañca ca
buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca
90 tasmād gṛhāśramasthasya nānyad daivatam asti vai
ṛte 'tithiṃ naravyāghra manasaitad vicāraya
91 atithiḥ pūjito yasya dhyāyate manasā śubham
na tat kratuśatenāpi tulyam āhur manīṣiṇaḥ
92 pātraṃ tv atithim āsādya śīlāḍhyaṃ yo na pūjayet
sa dattvā sukṛtaṃ tasya kṣapayeta hy anarcitaḥ
93 etat te kathitaṃ putra mayākhyānam anuttamam
yathā hi vijito mṛtyur gṛhasthena purābhavat
94 dhanyaṃ yaśasyam āyuṣmad idam ākhyānam uttamam
bubhūṣitābhimantavyaṃ sarvaduścaritāpaham
95 ya idaṃ kathayed vidvān ahany ahani bhārata
sudarśanasya caritaṃ puṇyāṁl lokān avāpnuyāt

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1696 of 2013 Book 84% ~11 min left