To view the original Internet Sacred Text Archive, visit archive.sacred-texts.com
Book 13: Chapter 1
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 13: Chapter 1

The Mahabharata in Sanskrit

Book 13

Chapter 1

1 [य]
शमॊ बहुविधाकारः सूक्ष्म उक्तः पितामह
न च मे हृदये शान्तिर अस्ति कृत्वेदम ईदृशम
2 अस्मिन अर्थे बहुविधा शान्तिर उक्ता तवयानघ
सवकृते का नु शान्तिः सयाच छमाद बहुविधाद अपि
3 शराचित शरीरं हि तीव्रव्रणम उदीक्ष्य च
शमं नॊपलभे वीर दुष्कृतान्य एव चिन्तयन
4 रुधिरेणावसिक्ताङ्गं परस्रवन्तं यथाचलम
तवां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्व इवाम्बुजम
5 अतः कष्टतरं किं नु मत्कृते यत पितामहः
इमाम अवस्थां गमितः परत्यमित्रै रणाजिरे
तथैवान्ये नृपतयः सह पुत्राः स बान्धवाः
6 वयं हि धार्तराष्ट्राश च कालमन्युवशानुगाः
कृत्वेदं निन्दितं कर्म पराप्स्यामः कां गतिं नृप
7 अहं तव हय अन्तकरः सुहृद वधकरस तथा
न शान्तिम अधिगच्छामि पश्यंस तवां दुःखितं कषितौ
8 [ब]
परतन्त्रं कथं हेतुम आत्मानम अनुपश्यसि
कर्मण्य अस्मिन महाभाग सूक्ष्मं हय एतद अतीन्द्रियम
9 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
संवादं मृत्युगौतम्यॊः काललुब्धक पन्नगैः
10 गौतमी नाम कौन्तेय सथविरा शम संयुता
सर्पेण दष्टं सवं पुत्रम अपश्यद गतचेतनम
11 अथ तं सनायु पाशेन बद्ध्वा सर्पम अमर्षितः
लुब्धकॊ ऽरजुनकॊ नाम गौतम्याः समुपानयत
12 तां चाब्रवीद अयं ते सपुत्रहा पन्नगाधमः
बरूहि कषिप्रं महाभागे वध्यतां केन हेतुना
13 अग्नौ परक्षिप्यताम एष चछिद्यतां खण्डशॊ ऽपि वा
न हय अयं बालहा पापश चिरं जीवितुम अर्हति
14 [गौतमी]
विसृजैनम अबुद्धिस तवं न वध्यॊ ऽरजुनक तवया
कॊ हय आत्मानं गुरुं कुर्यात पराप्तव्ये सति चिन्तयन
15 पलवन्ते धर्मलघवॊ लॊके ऽमभसि यथा परलाः
मज्जन्ति पापगुरवः शस्त्रं सकन्नम इवॊदके
16 न चामृत्युर भविता वै हते ऽसमिन; कॊ वात्ययः सयाद अहते ऽसमिञ जनस्य
अस्यॊत्सर्गे पराणयुक्तस्य जन्तॊर; मृत्यॊर लॊकं कॊ नु गच्छेद अनन्तम
17 [लुब्धक]
जानाम्य एवं नेह गुणाणुन जञाः; सर्वे नियुक्ता गुरवॊ वै भवन्ति
सवस्थस्यैते तूपदेशा भवन्ति; तस्मात कषुद्रं सर्पम एनं हनिष्ये
18 समीप्सन्तः कालयॊगं तयजन्ति; सद्यः शुचं तव अर्थविदस तयजन्ति
शरेयः कषयः शॊचतां नित्यशॊ हि; तस्मात तयाज्यं जहि शॊकं हते ऽसमिन
19 [ग]
न चैवार्तिर विद्यते ऽसमद्विधानां; धर्मारामः सततं सज्जनॊ हि
नित्यायस्तॊ बाल जनॊ न चास्ति; धर्मॊ हय एष परभवाम्य अस्य नाहम
20 न बराह्मणानां कॊपॊ ऽसति कुतः कॊपाच च यातना
मार्दवात कषम्यतां साधॊ मुच्यताम एष पन्नगः
21 [ल]
हत्वा लाभः शरेय एवाव्ययं सयात; सद्यॊ लाभॊ बलवद्भिः परशस्तः
कालाल लाभॊ यस तु सद्यॊ भवेत; हते शरेयः कुत्सिते तवेदृशे सयात
22 [ग]
कार्थ पराप्तिर गृह्य शत्रुं निहत्य; का वा शान्तिः पराप्य शत्रुं नम उक्त्वा
कस्मात सौम्य भुजगे न कषमेयं; मॊक्षं वा किं कारणं नास्य कुर्याम
23 [ल]
अस्माद एकस्माद बहवॊ रक्षितव्या; नैकॊ बहुभ्यॊ गौतमि रक्षितव्यः
कृतागसं धर्मविदस तयजन्ति; सरीसृपं पापम इमं जहि तवम
24 [ज]
नास्मिन हते पन्नगे पुत्रकॊ मे; संप्राप्स्यते लुब्धक जीवितं वै
गुणं चान्यं नास्य वधे परपश्ये; तस्मात सर्पं लुब्धक मुञ्च जीवम
25 [ल]
वृत्रं हत्वा देवराट शरेष्ठ भाग्भाग वै; यज्ञं हत्वा भागम अवाप चैव
शूली देवॊ देव वृत्तं कुरु तवं; कषिप्रं सर्पं जहि मा भूद विशङ्का
26 [भ]
असकृत परॊच्यमानापि गौतमी भुजगं परति
लुब्धकेन महाभागा पापे नैवाकरॊन मतिम
27 ईषद उच्छ्वसमानस तु कृच्छ्रात संस्तभ्य पन्नगः
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः
28 कॊ नव अर्जुनक दॊषॊ ऽतर विद्यते मम बालिश
अस्वतन्त्रं हि मां मृत्युर विवशं यद अचूचुदत
29 तस्यायं वचनाद दष्टॊ न कॊपेन न काम्यया
तस्य तक किल्बिषं लुब्ध विद्यते यदि किल्बिषम
30 [ल]
यद्य अन्यवशगेनेदं कृतं ते पन्नगाशुभम
कारणं वै तवम अप्य अत्र तस्मात तवम अपि किल्बिषी
31 मृत पात्रस्य करियायां हि दण्डचक्रादयॊ यथा
कारणत्वे परकल्प्यन्ते तथा तवम अपि पन्नग
32 किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग
आत्मानं कारणं हय अत्र तवम आख्यासि भुजंगम
33 [सर्प]
सर्व एते हय अस्ववशा दण्डचक्रादयॊ यथा
तथाहम अपि तस्मान मे नैष हेतुर मतस तव
34 अथ वा मतम एतत ते ते ऽपय अन्यॊन्यप्रयॊजकाः
कार्यकारण संदेहॊ भवत्य अन्यॊन्यचॊदनात
35 एवं सति न दॊषॊ मे नास्मि वध्यॊ न किल्बिषी
किल्बिषं समवाये सयान मन्यसे यदि किल्बिषम
36 [ल]
कारणं यदि न सयाद वै न कर्ता सयास तवम अप्य उत
विनाशे कारणं तवं च तस्माद वध्यॊ ऽसि मे मतः
37 असत्य अपि कृते कार्ये नेह पन्नगलिप्यते
तस्मान नात्रैव हेतुः सयाद वध्यः किं बहु भाषसे
38 [सर्प]
कार्याभावे करिया न सयात सत्य असत्य अपि कारणे
तस्मात तवम अस्मिन हेतौ मे वाच्यॊ हेतुर विशेषतः
39 यद्य अहं कारणत्वेन मतॊ लुब्धक तत्त्वतः
अन्यः परयॊगे सयाद अत्र किल्बिषी जन्तु नाशने
40 [ल]
वध्यस तवं मम दुर्बुद्धे बाल घाती नृशंसकृत
भाषसे किं बहु पुनर वध्यः सन पन्नगाधम
41 [सर्प]
यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः
न फलं पराप्नुवन्त्य अत्र परलॊके तथा हय अहम
42 [भ]
तथा बरुवति तस्मिंस तु पन्नगे मृत्युचॊदिते
आजगाम ततॊ मृत्युः पन्नगं चाब्रवीद इदम
43 कालेनाहं परणुदितः पन्नगत्वाम अचूचुदम
विनाशहेतुर नास्य तवम अहं वा पराणिनः शिशॊः
44 यथा वायुर जलधरान विकर्षति ततस ततः
तद्वज जलदवत सर्पकालस्याहं वशानुगः
45 सात्त्विका राजसाश चैव तामसा ये च के चन
भावाः कालात्मकाः सर्वे परवर्तन्ते हि जन्तुषु
46 जङ्गमाः सथावराश चैव दिवि वा यदि वा भुवि
सर्वे कालात्मकाः सर्पकालात्मकम इदं जगत
47 परवृत्तयश च या लॊके तथैव च निवृत्तयः
तासां विकृतयॊ याश च सर्वं कालात्मकं समृतम
48 आदित्यश चन्द्रमा विष्णुर आपॊ वायुः शतक्रतुः
अग्निः खं पृथिवी मित्र ओषध्यॊ वसवस तथा
49 सरितः सगराश चैव भावाभावौ च पन्नग
सर्वे कालेन सृज्यन्ते हरियन्ते च तथा पुनः
50 एवं जञात्वा कथं मां तवं स दॊषं सर्पमन्यसे
अथ चैवं गते दॊषॊ मयि तवम अपि दॊषवान
51 [सर्प]
निर्दॊषं दॊषवन्तं वा न तवा मृत्यॊर बरवीम्य अहम
तवयाहं चॊदित इति बरवीम्य एतावद एव तु
52 यदि काले तु दॊषॊ ऽसति यदि तत्रापि नेष्यते
दॊषॊ नैव परीक्ष्यॊ मे न हय अत्राधिकृता वयम
53 निर्मॊक्षस तव अस्य दॊषस्य मया कार्यॊ यथातथा
मृत्यॊ विदॊषः सयाम एव यथा तन मे परयॊजनम
54 [भ]
सर्पॊ ऽथार्जुनकं पराह शरुतं ते मृत्युभाषितम
नानागसं मां पाशेन संतापयितुम अर्हसि
55 [ल]
मृत्यॊः शरुतं मे वचनं तव चैव भुजंगम
नैव तावद विदॊषत्वं भवति तवयि पन्नग
56 मृत्युस तवं चैव हेतुर हि जन्तॊर अस्य विनाशने
उभयं कारणं मन्ये न कारणम अकारणम
57 धिन मृत्युं च दुरात्मानं करूरं दुःखकरं सताम
सवां चैवाहं वधिष्यामि पापं पापस्य कारणम
58 [मृत्यु]
विवशौ कालवशगाव आवां तद दिष्ट कारिणौ
नावां दॊषेण गन्तव्यौ यदि सम्यक परपश्यसि
59 [ल]
युवाम उभौ कालवशौ यदि वै मृत्युपन्नगौ
हर्षक्रॊधौ कथं सयाताम एतद इच्छामि वेदितुम
60 [मृत्यु]
याः काश चिद इह चेष्टाः सयुः सर्वाः कालप्रचॊदिताः
पूर्वम एवैतद उक्तं हि मया लुब्धक कालतः
61 तस्माद उभौ कालवशाव आवां तद दिष्ट कारिणौ
नावां दॊषेण गन्तव्यौ तवया लुब्धक कर्हि चित
62 [भ]
अथॊपगम्य कालस तु तस्मिन धर्मार्थसंशये
अब्रवीत पन्नगं मृत्युं लुब्धम अर्जुनकं च तम
63 [काल]
नैवाहं नाप्य अयं मृत्युर नायं लुब्धक पन्नगः
किल्बिषी जन्तु मरणे न वयं हि परयॊजकाः
64 अकरॊद यद अयं कर्म तन नॊ ऽरजुनक चॊदकम
परणाश हेतुर नान्यॊ ऽसय वध्यते ऽयं सवकर्मणा
65 यद अनेन कृतं कर्म तेनायं निधनं गतः
विनाशहेतुः कर्मास्य सर्वे कर्म वशा वयम
66 कर्म दायादवाँल लॊकः कर्म संबन्ध लक्षणः
कर्माणि चॊदयन्तीह यथान्यायं तथा वयम
67 यथा मृत पिण्डतः कर्ता कुरुते यद यद इच्छति
एवम आत्मकृतं कर्म मानवः परतिपद्यते
68 यथा छायातपौ नित्यं सुसंबद्धौ निरन्तरम
तथा कर्म च कर्ता च संबद्धाव आत्मकर्मभिः
69 एवं नाहं न वै मृत्युर न सर्पॊ न तथा भवान
न चेयं बराह्मणी वृद्धा शिशुर एवात्र कारणम
70 तस्मिंस तथा बरुवाणे तु बराह्मणी गौतमी नृप
सवकर्म परत्ययाँल लॊकान मत्वार्जुनकम अब्रवीत
71 नैव कालॊ न भुजगॊ न मृत्युर इह कारणम
सवकर्मभिर अयं बालः कालेन निधनं गतः
72 मया च तत कृतं कर्म येनायं मे मृतः सुतः
यातु कालस तथा मृत्युर मुञ्चार्जुनक पन्नगम
73 [भ]
ततॊ यथागतं जग्मुर मृत्युः कालॊ ऽथ पन्नगः
अभूद विरॊषॊ ऽरजुनकॊ विशॊका चैव गौतमी
74 एतच छरुत्वा शमं गच्छ मा भूश चिन्तापरॊ नृप
सवकर्म परत्ययाँल लॊकांस तरीन विद्धि मनुजर्षभ
75 न तु तवया कृतं पार्थ नापि दुर्यॊधनेन वै
कालेन तत कृतं विद्धि विहिता येन पार्थिवाः
76 [व]
इत्य एतद वचनं शरुत्वा बभूव विगतज्वरः
युधिष्ठिरॊ महातेजाः पप्रच्छेदं च धर्मवित
1 [y]
śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha
na ca me hṛdaye śāntir asti kṛtvedam īdṛśam
2 asmin arthe bahuvidhā śāntir uktā tvayānagha
svakṛte kā nu śāntiḥ syāc chamād bahuvidhād api
3 śarācita śarīraṃ hi tīvravraṇam udīkṣya ca
śamaṃ nopalabhe vīra duṣkṛtāny eva cintayan
4 rudhireṇāvasiktāṅgaṃ prasravantaṃ yathācalam
tvāṃ dṛṣṭvā puruṣavyāghra sīde varṣāsv ivāmbujam
5 ataḥ kaṣṭataraṃ kiṃ nu matkṛte yat pitāmahaḥ
imām avasthāṃ gamitaḥ pratyamitrai raṇājire
tathaivānye nṛpatayaḥ saha putrāḥ sa bāndhavāḥ
6 vayaṃ hi dhārtarāṣṭrāś ca kālamanyuvaśānugāḥ
kṛtvedaṃ ninditaṃ karma prāpsyāmaḥ kāṃ gatiṃ nṛpa
7 ahaṃ tava hy antakaraḥ suhṛd vadhakaras tathā
na śāntim adhigacchāmi paśyaṃs tvāṃ duḥkhitaṃ kṣitau
8 [b]
paratantraṃ kathaṃ hetum ātmānam anupaśyasi
karmaṇy asmin mahābhāga sūkṣmaṃ hy etad atīndriyam
9 atrāpy udāharantīmam itihāsaṃ purātanam
saṃvādaṃ mṛtyugautamyoḥ kālalubdhaka pannagaiḥ
10 gautamī nāma kaunteya sthavirā śama saṃyutā
sarpeṇa daṣṭaṃ svaṃ putram apaśyad gatacetanam
11 atha taṃ snāyu pāśena baddhvā sarpam amarṣitaḥ
lubdhako 'rjunako nāma gautamyāḥ samupānayat
12 tāṃ cābravīd ayaṃ te saputrahā pannagādhamaḥ
brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā
13 agnau prakṣipyatām eṣa cchidyatāṃ khaṇḍaśo 'pi vā
na hy ayaṃ bālahā pāpaś ciraṃ jīvitum arhati
14 [gautamī]
visṛjainam abuddhis tvaṃ na vadhyo 'rjunaka tvayā
ko hy ātmānaṃ guruṃ kuryāt prāptavye sati cintayan
15 plavante dharmalaghavo loke 'mbhasi yathā pralāḥ
majjanti pāpaguravaḥ śastraṃ skannam ivodake
16 na cāmṛtyur bhavitā vai hate 'smin; ko vātyayaḥ syād ahate 'smiñ janasya
asyotsarge prāṇayuktasya jantor; mṛtyor lokaṃ ko nu gacched anantam
17 [lubdhaka]
jānāmy evaṃ neha guṇāṇuna jñāḥ; sarve niyuktā guravo vai bhavanti
svasthasyaite tūpadeśā bhavanti; tasmāt kṣudraṃ sarpam enaṃ haniṣye
18 samīpsantaḥ kālayogaṃ tyajanti; sadyaḥ śucaṃ tv arthavidas tyajanti
śreyaḥ kṣayaḥ śocatāṃ nityaśo hi; tasmāt tyājyaṃ jahi śokaṃ hate 'smin
19 [g]
na caivārtir vidyate 'smadvidhānāṃ; dharmārāmaḥ satataṃ sajjano hi
nityāyasto bāla jano na cāsti; dharmo hy eṣa prabhavāmy asya nāham
20 na brāhmaṇānāṃ kopo 'sti kutaḥ kopāc ca yātanā
mārdavāt kṣamyatāṃ sādho mucyatām eṣa pannagaḥ
21 [l]
hatvā lābhaḥ śreya evāvyayaṃ syāt; sadyo lābho balavadbhiḥ praśastaḥ
kālāl lābho yas tu sadyo bhaveta; hate śreyaḥ kutsite tvedṛśe syāt
22 [g]
kārtha prāptir gṛhya śatruṃ nihatya; kā vā śāntiḥ prāpya śatruṃ nam uktvā
kasmāt saumya bhujage na kṣameyaṃ; mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām
23 [l]
asmād ekasmād bahavo rakṣitavyā; naiko bahubhyo gautami rakṣitavyaḥ
kṛtāgasaṃ dharmavidas tyajanti; sarīsṛpaṃ pāpam imaṃ jahi tvam
24 [j]
nāsmin hate pannage putrako me; saṃprāpsyate lubdhaka jīvitaṃ vai
guṇaṃ cānyaṃ nāsya vadhe prapaśye; tasmāt sarpaṃ lubdhaka muñca jīvam
25 [l]
vṛtraṃ hatvā devarāṭ śreṣṭha bhāgbhāg vai; yajñaṃ hatvā bhāgam avāpa caiva
śūlī devo deva vṛttaṃ kuru tvaṃ; kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā
26 [bh]
asakṛt procyamānāpi gautamī bhujagaṃ prati
lubdhakena mahābhāgā pāpe naivākaron matim
27 īṣad ucchvasamānas tu kṛcchrāt saṃstabhya pannagaḥ
utsasarja giraṃ mandāṃ mānuṣīṃ pāśapīḍitaḥ
28 ko nv arjunaka doṣo 'tra vidyate mama bāliśa
asvatantraṃ hi māṃ mṛtyur vivaśaṃ yad acūcudat
29 tasyāyaṃ vacanād daṣṭo na kopena na kāmyayā
tasya tak kilbiṣaṃ lubdha vidyate yadi kilbiṣam
30 [l]
yady anyavaśagenedaṃ kṛtaṃ te pannagāśubham
kāraṇaṃ vai tvam apy atra tasmāt tvam api kilbiṣī
31 mṛt pātrasya kriyāyāṃ hi daṇḍacakrādayo yathā
kāraṇatve prakalpyante tathā tvam api pannaga
32 kilbiṣī cāpi me vadhyaḥ kilbiṣī cāsi pannaga
ātmānaṃ kāraṇaṃ hy atra tvam ākhyāsi bhujaṃgama
33 [sarpa]
sarva ete hy asvavaśā daṇḍacakrādayo yathā
tathāham api tasmān me naiṣa hetur matas tava
34 atha vā matam etat te te 'py anyonyaprayojakāḥ
kāryakāraṇa saṃdeho bhavaty anyonyacodanāt
35 evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī
kilbiṣaṃ samavāye syān manyase yadi kilbiṣam
36 [l]
kāraṇaṃ yadi na syād vai na kartā syās tvam apy uta
vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mataḥ
37 asaty api kṛte kārye neha pannagalipyate
tasmān nātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase
38 [sarpa]
kāryābhāve kriyā na syāt saty asaty api kāraṇe
tasmāt tvam asmin hetau me vācyo hetur viśeṣataḥ
39 yady ahaṃ kāraṇatvena mato lubdhaka tattvataḥ
anyaḥ prayoge syād atra kilbiṣī jantu nāśane
40 [l]
vadhyas tvaṃ mama durbuddhe bāla ghātī nṛśaṃsakṛt
bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama
41 [sarpa]
yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ
na phalaṃ prāpnuvanty atra paraloke tathā hy aham
42 [bh]
tathā bruvati tasmiṃs tu pannage mṛtyucodite
ājagāma tato mṛtyuḥ pannagaṃ cābravīd idam
43 kālenāhaṃ praṇuditaḥ pannagatvām acūcudam
vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśoḥ
44 yathā vāyur jaladharān vikarṣati tatas tataḥ
tadvaj jaladavat sarpakālasyāhaṃ vaśānugaḥ
45 sāttvikā rājasāś caiva tāmasā ye ca ke cana
bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu
46 jaṅgamāḥ sthāvarāś caiva divi vā yadi vā bhuvi
sarve kālātmakāḥ sarpakālātmakam idaṃ jagat
47 pravṛttayaś ca yā loke tathaiva ca nivṛttayaḥ
tāsāṃ vikṛtayo yāś ca sarvaṃ kālātmakaṃ smṛtam
48 ādityaś candramā viṣṇur āpo vāyuḥ śatakratuḥ
agniḥ khaṃ pṛthivī mitra oṣadhyo vasavas tathā
49 saritaḥ sagarāś caiva bhāvābhāvau ca pannaga
sarve kālena sṛjyante hriyante ca tathā punaḥ
50 evaṃ jñātvā kathaṃ māṃ tvaṃ sa doṣaṃ sarpamanyase
atha caivaṃ gate doṣo mayi tvam api doṣavān
51 [sarpa]
nirdoṣaṃ doṣavantaṃ vā na tvā mṛtyor bravīmy aham
tvayāhaṃ codita iti bravīmy etāvad eva tu
52 yadi kāle tu doṣo 'sti yadi tatrāpi neṣyate
doṣo naiva parīkṣyo me na hy atrādhikṛtā vayam
53 nirmokṣas tv asya doṣasya mayā kāryo yathātathā
mṛtyo vidoṣaḥ syām eva yathā tan me prayojanam
54 [bh]
sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam
nānāgasaṃ māṃ pāśena saṃtāpayitum arhasi
55 [l]
mṛtyoḥ śrutaṃ me vacanaṃ tava caiva bhujaṃgama
naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga
56 mṛtyus tvaṃ caiva hetur hi jantor asya vināśane
ubhayaṃ kāraṇaṃ manye na kāraṇam akāraṇam
57 dhin mṛtyuṃ ca durātmānaṃ krūraṃ duḥkhakaraṃ satām
svāṃ caivāhaṃ vadhiṣyāmi pāpaṃ pāpasya kāraṇam
58 [mṛtyu]
vivaśau kālavaśagāv āvāṃ tad diṣṭa kāriṇau
nāvāṃ doṣeṇa gantavyau yadi samyak prapaśyasi
59 [l]
yuvām ubhau kālavaśau yadi vai mṛtyupannagau
harṣakrodhau kathaṃ syātām etad icchāmi veditum
60 [mṛtyu]
yāḥ kāś cid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ
pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ
61 tasmād ubhau kālavaśāv āvāṃ tad diṣṭa kāriṇau
nāvāṃ doṣeṇa gantavyau tvayā lubdhaka karhi cit
62 [bh]
athopagamya kālas tu tasmin dharmārthasaṃśaye
abravīt pannagaṃ mṛtyuṃ lubdham arjunakaṃ ca tam
63 [kāla]
naivāhaṃ nāpy ayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ
kilbiṣī jantu maraṇe na vayaṃ hi prayojakāḥ
64 akarod yad ayaṃ karma tan no 'rjunaka codakam
praṇāśa hetur nānyo 'sya vadhyate 'yaṃ svakarmaṇā
65 yad anena kṛtaṃ karma tenāyaṃ nidhanaṃ gataḥ
vināśahetuḥ karmāsya sarve karma vaśā vayam
66 karma dāyādavāṁl lokaḥ karma saṃbandha lakṣaṇaḥ
karmāṇi codayantīha yathānyāyaṃ tathā vayam
67 yathā mṛt piṇḍataḥ kartā kurute yad yad icchati
evam ātmakṛtaṃ karma mānavaḥ pratipadyate
68 yathā chāyātapau nityaṃ susaṃbaddhau nirantaram
tathā karma ca kartā ca saṃbaddhāv ātmakarmabhiḥ
69 evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān
na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam
70 tasmiṃs tathā bruvāṇe tu brāhmaṇī gautamī nṛpa
svakarma pratyayāṁl lokān matvārjunakam abravīt
71 naiva kālo na bhujago na mṛtyur iha kāraṇam
svakarmabhir ayaṃ bālaḥ kālena nidhanaṃ gataḥ
72 mayā ca tat kṛtaṃ karma yenāyaṃ me mṛtaḥ sutaḥ
yātu kālas tathā mṛtyur muñcārjunaka pannagam
73 [bh]
tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ
abhūd viroṣo 'rjunako viśokā caiva gautamī
74 etac chrutvā śamaṃ gaccha mā bhūś cintāparo nṛpa
svakarma pratyayāṁl lokāṃs trīn viddhi manujarṣabha
75 na tu tvayā kṛtaṃ pārtha nāpi duryodhanena vai
kālena tat kṛtaṃ viddhi vihitā yena pārthivāḥ
76 [v]
ity etad vacanaṃ śrutvā babhūva vigatajvaraḥ
yudhiṣṭhiro mahātejāḥ papracchedaṃ ca dharmavit

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1695 of 2013 Book 84% ~10 min left