Book 12: Chapter 309
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 12: Chapter 309

The Mahabharata in Sanskrit

Book 12
Chapter 309

1 [य]
कथं निर्वेदम आपन्नः शुकॊ वैयासकिः पुरा
एतद इच्छामि कौरव्य शरॊतुं कौतूहलं हि मे
2 [भी]
पराकृतेन सुवृत्तेन चरन्तम अकुतॊभयम
अध्याप्य कृत्स्नं सवाध्यायम अन्वशाद वै पिता सुतम
3 धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ
कषुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः
4 सत्यम आर्जवम अक्रॊधम अनसूयां दमं तपः
अहिंसां चानृशंस्यं च विधिवत परिपालय
5 सत्ये तिष्ठ रतॊ धर्मे हित्वा सर्वम अनार्जवम
देवतातिथिशेषेण यात्रां पराणस्य संश्रय
6 फेनपात्रॊपमे देहे जीवे शकुनिवत सथिते
अनित्ये परिय संवासे कथं सवपिषि पुत्रक
7 अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु
अन्तरं लिप्समानेषु बालस तवं नावबुध्यसे
8 गण्यमानेषु वर्षेषु कषीयमाणे तथायुषि
जीविते शिष्यमाणे च किम उत्थाय न धावसि
9 ऐहालौकिकम ईहन्ते मांसशॊनितवर्धनम
पारलौकिककार्येषु परसुप्ता भृशनास्तिकाः
10 धर्माय ये ऽभयसूयन्ति बुद्धिमॊहान्विता नराः
अपथा गच्छतां तेषाम अनुयातापि पीड्यते
11 ये तु तुष्टाः सुनियताः सत्यागम परायनाः
धर्म्यं पन्थानम आरूढास तान उपास्स्व च पृच्छ च
12 उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम
नियच्छ परया बुद्ध्या चित्तम उत्पथगामि वै
13 अद्य कालिकया बुद्ध्या दूरे शव इति निर्भयाः
सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः
14 धर्मनिःश्रेणिम आस्थाय किं चित किं चित समारुह
कॊशकारवद आत्मानं वेष्टयन नावबुध्यसे
15 नास्तिकं भिन्नमर्यादं कूलपातम इवास्थिरम
वामतः कुरु विस्रब्धॊ नरं वेनुम इवॊद्धतम
16 कामं करॊधं च मृत्युं च पञ्चेन्द्रिय जलां नदीम
नावं धृतिमयीं कृत्वा जन्म दुर्गानि संतर
17 मृत्युनाभ्याहते लॊके जरया परिपीदिते
अमॊघासु पतन्तीषु धर्मयानेन संतर
18 तिष्ठन्तं च शयानं च मृत्युर अन्वेषते यदा
निर्वृतिं लभसे कस्माद अकस्मान मृत्युनाशितः
19 संचिन्वानकम एवैनं कामानाम अवितृप्तकम
वृकीवॊरणम आसाद्य मृत्युर आदाय गच्छति
20 करमशः संचितशिखॊ धर्मबुद्धिमयॊ महान
अन्धकारे परवेष्टव्ये दिपॊ यत्नेन धार्यते
21 संपतन देहजालानि कदा चिद इह मानुषे
बराह्मण्यं लभते जन्तुस तत पुत्र परिपालय
22 बराह्मणस्य हि देहॊ ऽयं न कामार्थाय जायते
इह कलेशाय तपसे परेत्य तव अनुपमं सुखम
23 बराह्मण्यं बहुभिर अवाप्यते तपॊभिस; तल लब्ध्वा न परिपनेन हेदितव्यम
सवाध्याये तपसि दमे च नित्ययुक्तः; कषेमार्थी कुशलपरः सदा यतस्व
24 अव्यक्तप्रकृतिर अयं कला शरीरः; सूक्ष्मात्मा कषणत्रुतिशॊ निमेष रॊमा
ऋत्वास्यः समबलशुक्लकृष्णनेत्रॊ; मानाङ्गॊ दरवति वयॊ हयॊ नराणाम
25 तं दृष्ट्वा परसृतम अजस्रम उग्रवेगं; गच्छन्तं सततम इहाव्यपेक्षमाणम
चक्षुस ते यदिन परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य
26 ये ऽमी तु परचलित धर्मकामवृत्ताः; करॊशन्तः सततम अनिष्ट संप्रयॊगाः
कलिश्यन्ते परिगत वेदनाशरीरा; बह्वीभिः सुभृशम अधर्मवासनाभिः
27 राजा धर्मपरः सदा शुभगॊप्ता; समीक्ष्य सुकृतिनां दधाति लॊकान
बहुविधम अपि चरतः परदिशति; सुखम अनुपगतं निरवद्यम
28 शवानॊ भीसनायॊ मुखानि वयांसि; वद गृध्रकुलपक्षिणां च संघाः
नरां कदने रुधिरपा गुरुवचन;नुदम उपरतं विशसन्ति
29 मर्यादा नियताः सवयम्भुवा य इहेमाः; परभिनत्ति दशगुणा मनॊऽनुगत्वात
निवसति भृशम असुखं पितृविषय;विपिनम अवगाह्य स पापः
30 यॊ लुब्धः सुभृशं परियानृतश च मनुष्यः; सततनिकृतिवञ्चनारतिः सयात
उपनिधिभिर असुखकृत स परमनिरयगॊ; भृशम असुखम अनुभवति दुष्कृत कर्मा
31 उष्मां वैतरणीं महानदीम; अवगाधॊ ऽसि पत्रवनभिन्न गात्रः
परशु वनशयॊ निपतितॊ; वसति च महानिरये भृशार्तः
32 महापदानि कत्थसे न चाप्य अवेक्षसे परम
चिरस्य मृत्युकारिकाम अनागतां न बुध्यसे
33 परयास्यतां किम आस्यते समुत्थितं महद भयम
अतिप्रमाथि दारुणं सुखस्य संविधीयताम
34 पुरा मृतः परनीयसे यमस्य मृत्युशासनात
तद अन्तिकाय दारुणैः परयत्नम आर्जवे कुरु
35 पुरा समूल बान्धवं परभुर हरत्य अदुःखवित
तवेह जीवितं यमॊ न चास्ति तस्य वारकः
36 पुरा विवाति मारुतॊ यमस्य यः पुरःसरः
पुरैक एव नीयसे कुरुष्व साम्परायिकम
37 पुरा सहिक्क एव ते परवाति मारुतॊ ऽनतकः
पुरा च विभ्रमन्ति ते दिशॊ महाभयागमे
38 समृतिश च संनिरुध्यते पुरा तवेह पुत्रक
समाकुलस्य गच्छतः समाधिम उत्तमं कुरु
39 कृताकृते शुभाशुभे परमादकर्म विप्लुते
समरन पुरा न तप्यसे निधत्स्व केवलं निधिम
40 पुरा जरा कलेवरं विजर्जरी करॊति ते
बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम
41 पुरा शरीरम अन्तकॊ भिनत्ति रॊगसायकैः
परसह्य जीवितक्षये तपॊ महत समाचर
42 पुरा वृका भयंकरा मनुष्यदेहगॊचराः
अभिद्रवन्ति सर्वतॊ यतस्व पुण्यशीलने
43 पुरान्धकारम एककॊ ऽनुपश्यसि तवरस्व वै
पुरा हिरन मयान नगान निरीक्षसे ऽदरिमूर्धनि
44 पुरा कुसंगतानि ते सुहृन मुखाश च शत्रवः
विचालयन्ति दर्शनाद घतस्व पुत्र यत परम
45 धनस्य यस्य राजतॊ भयं न चास्ति चौरतः
मृतं च यन न मुञ्चति समर्जयस्व तद धनम
46 न तत्र संविभज्यते सवकर्मभिः परस्परम
यद एव यस्य यौतकं तद एव तत्र सॊ ऽशनुते
47 परत्र येन जीव्यते तद एव पुत्र दीयताम
धनं यद अक्षयं धरुवं समर्जयस्व तत सवयम
48 न यावद एव पच्यते महाजनस्य यावकम
अपक्व एव यावके पुरा परनीयसे तवर
49 न मातृपितृबान्धवा न संस्तुतः परियॊ जनः
अनुव्रजन्ति संकते वरजन्तम एकपातिनाम
50 यद एव कर्म केवलं सवयं कृतं शुभाशुभम
तद एव तस्य यौतकं भवत्य अमुत्र गच्छतः
51 हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः
न तस्य देहसंक्षये भवन्ति कार्यसाधकाः
52 परत्र गामिकस्य ते कृताकृतस्य कर्मणः
न साक्षिर आत्मना समॊ नृणाम इहास्ति कश चन
53 मनुष्यदेहशून्यकं भवत्य अमुत्र गच्छतः
परपश्य बुद्धिचक्षुषा परदृश्यते हि सर्वतः
54 इहाग्निसूर्यवायवः शरीरम आश्रितास तरयः
त एव तस्य साक्षिणॊ भवन्ति धर्मदर्शिनः
55 यथानिशेषु सर्वतः सपृशत्सु सर्वदारिषु
परकाशगूढ वृत्तिषु सवधर्मम एव पालय
56 अनेकपारिपन्थिके विरूपरौद्ररक्षिते
सवम एव कर्म रक्ष्यतां सवकर्म तत्र गच्छति
57 न तत्र संविभज्यते सवकर्मणा परस्परम
यथा कृतं सवकर्मजं तद एव भुज्यते फलम
58 यथाप्सरॊ गणाः फलं सुखं महर्षिभिः सह
तथाप्नुवन्ति कर्मतॊ विमानकामगानिमः
59 यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः
तद आप्नुवन्ति मानवास तथा विशुद्धयॊनयः
60 परजापतेः सलॊकतां बृहस्पतेः शतक्रतॊः
वरजन्ति ते परां गतिं गृहस्थ धर्मसेतुभिः
61 सहस्रशॊ ऽपय अनेकशः परवक्तुम उत्सहामहे
अबुद्धि मॊहनं पुनः परभुर विना न यावकम
62 गता दविर अस्तवर्षता धरुवॊ ऽसि पञ्चविंशकः
कुरुष्व धर्मसंचयं वयॊ हि ते ऽतिवर्तते
63 पुरा करॊति सॊ ऽनतकः परमादगॊमुखं दमम
यथागृहीतम उत्थितं तवरस्व धर्मपालने
64 यदा तवम एव पृष्ठतस तवम अग्रतॊ गमिष्यसि
तथागतिं गमिष्यतः किम आत्मना परेण वा
65 यद एकपातिनां सतां भवत्य अमुत्र गच्छताम
भयेषु साम्परायिकं निधत्स्व तं महानिधिम
66 सकूल मूलबान्धवं परभुर हरत्य असङ्गवान
न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम
67 इदं निदर्शनं मया तवेह पुत्र संमतम
सवधर्शनानुमानतः परवर्नितं कुरुष्व तत
68 दधाति यः सवकर्मणा धनानि यस्य कस्य चित
अबुद्धि मॊहजैर गुणैः शतैक एव युज्यते
69 शरुतं समर्थम अस्तु ते परकुर्वतः शुभाः करियाः
तद एव तत्र दर्शनं कृतज्ञम अर्थसंहितम
70 निबन्धनी रज्जुर एषा या गरामे वसतॊ रतिः
छित्त्वैनां सुकृतॊ यान्ति नैनां छिन्दन्ति दुष्कृतः
71 किं ते धनेन किं बन्धुभिस ते; किं ते पुत्रैः पुत्रक यॊ मरिष्यसि
आत्मानम अन्विच्छ गुहां परविष्टं; पितामहास ते कव गताश च सर्वे
72 शवः कार्यम अद्य कुर्वीत पूर्वाह्ने चापराह्निकम
कॊ हि तद वेद कस्याद्य मृत्युसेना निवेक्ष्यते
73 अनुगम्य शमशानान्तं निवर्तन्तीह बान्धवाः
अग्नौ परक्षिप्य पुरुषं जञातयः सुहृदस तथा
74 नास्तिकान निरनुक्रॊशान नरान पापमतौ सथितान
वामतः कुरु विश्रब्धं परं परेप्सुर अतन्द्रितः
75 एवम अभ्याहते लॊके कालेनॊपनिपीदिते
सुमहद धैर्यम आलम्ब्य धर्मं सर्वात्मना कुरु
76 अथेमं दर्शनॊपायं सम्यग यॊ वेत्ति मानवः
सम्यक स धर्मं कृत्वेह परत्र सुखम एधते
77 न देहभेदे मरणं विजानतां; न च परनाशः सवनुपालिते पथि
धर्मं हि यॊ वर्धयते स पण्डितॊ; य एव धर्माच चयवते स मुह्यति
78 परयुक्तयॊः कर्म पथि सवकर्मणॊः; फलं परयॊक्ता लभते यथाविधि
निहीन कर्मा निरयं परपद्यते; तरिविष्टपं गच्छति धर्मपारगः
79 सॊपानभूतं सवर्गस्य मानुष्यं पराप्य दुर्लभम
तथात्मानं समादध्याद भरश्येत न पुनर यथा
80 यस्य नॊत्क्रामति मतिः सवर्गमार्गानुसारिणी
तम आहुः पुण्यकर्माणम अशॊच्यं मित्र बान्धवैः
81 यस्य नॊपहता बुद्धिर निश्चयेष्व अवलम्बते
सवर्गे कृतावकाशस्य तस्य नास्ति महद भयम
82 तपॊवनेषु ये जातास तत्रैव निधनं गताः
तेषाम अल्पतरॊ धर्मः कामभॊगम अजानताम
83 यस तु भॊगान परित्यज्य शरीरेण तपश चरेत
न तेन किं चिन न पराप्तं तन मे बहुमतं फलम
84 माता पितृसहस्राणि पुत्रदारशतानि च
अनागतान्य अतीतानि कस्य ते कस्य वा वयम
85 न तेषां भवता कार्यं न कार्यं तव तैर अपि
सवकृतैस तानि यातानि भवांश चैव गमिष्यति
86 इह लॊके हि धनिनः परॊ ऽपि सवजनायते
सवजनस तु दरिद्राणां जीवताम एव नश्यति
87 संचिनॊत्य अशुभं कर्म कलत्रापेक्षया नरः
ततः कलेशम अवाप्नॊति परत्रेह तथैव च
88 पश्य तवं छिद्रभूतं हि जीवलॊकं सवकर्मणा
तत कुरुष्व तथा पुत्रकृत्स्नं यत समुदाहृतम
89 तद एतत संप्रदृश्यैव कर्मभूमिं परविश्य ताम
शुभान्य आचरितव्यानि परलॊकम अभीप्सता
90 मासर्तु संज्ञा परिवर्तकेन; सूर्याङ्गिना रात्रिदिवेन्धनेन
सवकर्म निष्ठा फलसाक्षिकेण; भूतानि कालः पचति परसह्य
91 धनेन किं यन न ददाति नाश्नुते; बलेन किं येन रिपून न बाधते
शरुतेन किं येन न धर्मम आचरेत; किम आत्मना यॊ न जितेन्द्रियॊ वशी
92 इदं दवैपायन वचॊ हितम उक्तं निशम्य तु
शुकॊ गतः परित्यज्य पितरं मॊक्षदेशिकम
1 [y]
kathaṃ nirvedam āpannaḥ śuko vaiyāsakiḥ purā
etad icchāmi kauravya śrotuṃ kautūhalaṃ hi me
2 [bhī]
prākṛtena suvṛttena carantam akutobhayam
adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam
3 dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau
kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ
4 satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ
ahiṃsāṃ cānṛśaṃsyaṃ ca vidhivat paripālaya
5 satye tiṣṭha rato dharme hitvā sarvam anārjavam
devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya
6 phenapātropame dehe jīve śakunivat sthite
anitye priya saṃvāse kathaṃ svapiṣi putraka
7 apramatteṣu jāgratsu nityayukteṣu śatruṣu
antaraṃ lipsamāneṣu bālas tvaṃ nāvabudhyase
8 gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi
jīvite śiṣyamāṇe ca kim utthāya na dhāvasi
9 aihālaukikam īhante māṃsaśonitavardhanam
pāralaukikakāryeṣu prasuptā bhṛśanāstikāḥ
10 dharmāya ye 'bhyasūyanti buddhimohānvitā narāḥ
apathā gacchatāṃ teṣām anuyātāpi pīḍyate
11 ye tu tuṣṭāḥ suniyatāḥ satyāgama parāyanāḥ
dharmyaṃ panthānam ārūḍhās tān upāssva ca pṛccha ca
12 upadhārya mataṃ teṣāṃ vṛddhānāṃ dharmadarśinām
niyaccha parayā buddhyā cittam utpathagāmi vai
13 adya kālikayā buddhyā dūre śva iti nirbhayāḥ
sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ
14 dharmaniḥśreṇim āsthāya kiṃ cit kiṃ cit samāruha
kośakāravad ātmānaṃ veṣṭayan nāvabudhyase
15 nāstikaṃ bhinnamaryādaṃ kūlapātam ivāsthiram
vāmataḥ kuru visrabdho naraṃ venum ivoddhatam
16 kāmaṃ krodhaṃ ca mṛtyuṃ ca pañcendriya jalāṃ nadīm
nāvaṃ dhṛtimayīṃ kṛtvā janma durgāni saṃtara
17 mṛtyunābhyāhate loke jarayā paripīdite
amoghāsu patantīṣu dharmayānena saṃtara
18 tiṣṭhantaṃ ca śayānaṃ ca mṛtyur anveṣate yadā
nirvṛtiṃ labhase kasmād akasmān mṛtyunāśitaḥ
19 saṃcinvānakam evainaṃ kāmānām avitṛptakam
vṛkīvoraṇam āsādya mṛtyur ādāya gacchati
20 kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān
andhakāre praveṣṭavye dipo yatnena dhāryate
21 saṃpatan dehajālāni kadā cid iha mānuṣe
brāhmaṇyaṃ labhate jantus tat putra paripālaya
22 brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate
iha kleśāya tapase pretya tv anupamaṃ sukham
23 brāhmaṇyaṃ bahubhir avāpyate tapobhis; tal labdhvā na paripanena heditavyam
svādhyāye tapasi dame ca nityayuktaḥ; kṣemārthī kuśalaparaḥ sadā yatasva
24 avyaktaprakṛtir ayaṃ kalā śarīraḥ; sūkṣmātmā kṣaṇatrutiśo nimeṣa romā
ṛtvāsyaḥ samabalaśuklakṛṣṇanetro; mānāṅgo dravati vayo hayo narāṇām
25 taṃ dṛṣṭvā prasṛtam ajasram ugravegaṃ; gacchantaṃ satatam ihāvyapekṣamāṇam
cakṣus te yadina parapraṇetṛneyaṃ; dharme te bhavatu manaḥ paraṃ niśamya
26 ye 'mī tu pracalita dharmakāmavṛttāḥ; krośantaḥ satatam aniṣṭa saṃprayogāḥ
kliśyante parigata vedanāśarīrā; bahvībhiḥ subhṛśam adharmavāsanābhiḥ
27 rājā dharmaparaḥ sadā śubhagoptā; samīkṣya sukṛtināṃ dadhāti lokān
bahuvidham api carataḥ pradiśati; sukham anupagataṃ niravadyam
28 śvāno bhīsanāyo mukhāni vayāṃsi; vada gṛdhrakulapakṣiṇāṃ ca saṃghāḥ
narāṃ kadane rudhirapā guruvacana;nudam uparataṃ viśasanti
29 maryādā niyatāḥ svayambhuvā ya ihemāḥ; prabhinatti daśaguṇā mano'nugatvāt
nivasati bhṛśam asukhaṃ pitṛviṣaya;vipinam avagāhya sa pāpaḥ
30 yo lubdhaḥ subhṛśaṃ priyānṛtaś ca manuṣyaḥ; satatanikṛtivañcanāratiḥ syāt
upanidhibhir asukhakṛt sa paramanirayago; bhṛśam asukham anubhavati duṣkṛta karmā
31 uṣmāṃ vaitaraṇīṃ mahānadīm; avagādho 'si patravanabhinna gātraḥ
paraśu vanaśayo nipatito; vasati ca mahāniraye bhṛśārtaḥ
32 mahāpadāni katthase na cāpy avekṣase param
cirasya mṛtyukārikām anāgatāṃ na budhyase
33 prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam
atipramāthi dāruṇaṃ sukhasya saṃvidhīyatām
34 purā mṛtaḥ pranīyase yamasya mṛtyuśāsanāt
tad antikāya dāruṇaiḥ prayatnam ārjave kuru
35 purā samūla bāndhavaṃ prabhur haraty aduḥkhavit
taveha jīvitaṃ yamo na cāsti tasya vārakaḥ
36 purā vivāti māruto yamasya yaḥ puraḥsaraḥ
puraika eva nīyase kuruṣva sāmparāyikam
37 purā sahikka eva te pravāti māruto 'ntakaḥ
purā ca vibhramanti te diśo mahābhayāgame
38 smṛtiś ca saṃnirudhyate purā taveha putraka
samākulasya gacchataḥ samādhim uttamaṃ kuru
39 kṛtākṛte śubhāśubhe pramādakarma viplute
smaran purā na tapyase nidhatsva kevalaṃ nidhim
40 purā jarā kalevaraṃ vijarjarī karoti te
balāṅgarūpahāriṇī nidhatsva kevalaṃ nidhim
41 purā śarīram antako bhinatti rogasāyakaiḥ
prasahya jīvitakṣaye tapo mahat samācara
42 purā vṛkā bhayaṃkarā manuṣyadehagocarāḥ
abhidravanti sarvato yatasva puṇyaśīlane
43 purāndhakāram ekako 'nupaśyasi tvarasva vai
purā hiran mayān nagān nirīkṣase 'drimūrdhani
44 purā kusaṃgatāni te suhṛn mukhāś ca śatravaḥ
vicālayanti darśanād ghatasva putra yat param
45 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ
mṛtaṃ ca yan na muñcati samarjayasva tad dhanam
46 na tatra saṃvibhajyate svakarmabhiḥ parasparam
yad eva yasya yautakaṃ tad eva tatra so 'śnute
47 paratra yena jīvyate tad eva putra dīyatām
dhanaṃ yad akṣayaṃ dhruvaṃ samarjayasva tat svayam
48 na yāvad eva pacyate mahājanasya yāvakam
apakva eva yāvake purā pranīyase tvara
49 na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ
anuvrajanti saṃkate vrajantam ekapātinām
50 yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham
tad eva tasya yautakaṃ bhavaty amutra gacchataḥ
51 hiraṇyaratnasaṃcayāḥ śubhāśubhena saṃcitāḥ
na tasya dehasaṃkṣaye bhavanti kāryasādhakāḥ
52 paratra gāmikasya te kṛtākṛtasya karmaṇaḥ
na sākṣir ātmanā samo nṛṇām ihāsti kaś cana
53 manuṣyadehaśūnyakaṃ bhavaty amutra gacchataḥ
prapaśya buddhicakṣuṣā pradṛśyate hi sarvataḥ
54 ihāgnisūryavāyavaḥ śarīram āśritās trayaḥ
ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ
55 yathāniśeṣu sarvataḥ spṛśatsu sarvadāriṣu
prakāśagūḍha vṛttiṣu svadharmam eva pālaya
56 anekapāripanthike virūparaudrarakṣite
svam eva karma rakṣyatāṃ svakarma tatra gacchati
57 na tatra saṃvibhajyate svakarmaṇā parasparam
yathā kṛtaṃ svakarmajaṃ tad eva bhujyate phalam
58 yathāpsaro gaṇāḥ phalaṃ sukhaṃ maharṣibhiḥ saha
tathāpnuvanti karmato vimānakāmagānimaḥ
59 yatheha yatkṛtaṃ śubhaṃ vipāpmabhiḥ kṛtātmabhiḥ
tad āpnuvanti mānavās tathā viśuddhayonayaḥ
60 prajāpateḥ salokatāṃ bṛhaspateḥ śatakratoḥ
vrajanti te parāṃ gatiṃ gṛhastha dharmasetubhiḥ
61 sahasraśo 'py anekaśaḥ pravaktum utsahāmahe
abuddhi mohanaṃ punaḥ prabhur vinā na yāvakam
62 gatā dvir astavarṣatā dhruvo 'si pañcaviṃśakaḥ
kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate
63 purā karoti so 'ntakaḥ pramādagomukhaṃ damam
yathāgṛhītam utthitaṃ tvarasva dharmapālane
64 yadā tvam eva pṛṣṭhatas tvam agrato gamiṣyasi
tathāgatiṃ gamiṣyataḥ kim ātmanā pareṇa vā
65 yad ekapātināṃ satāṃ bhavaty amutra gacchatām
bhayeṣu sāmparāyikaṃ nidhatsva taṃ mahānidhim
66 sakūla mūlabāndhavaṃ prabhur haraty asaṅgavān
na santi yasya vārakāḥ kuruṣva dharmasaṃnidhim
67 idaṃ nidarśanaṃ mayā taveha putra saṃmatam
svadharśanānumānataḥ pravarnitaṃ kuruṣva tat
68 dadhāti yaḥ svakarmaṇā dhanāni yasya kasya cit
abuddhi mohajair guṇaiḥ śataika eva yujyate
69 śrutaṃ samartham astu te prakurvataḥ śubhāḥ kriyāḥ
tad eva tatra darśanaṃ kṛtajñam arthasaṃhitam
70 nibandhanī rajjur eṣā yā grāme vasato ratiḥ
chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ
71 kiṃ te dhanena kiṃ bandhubhis te; kiṃ te putraiḥ putraka yo mariṣyasi
ātmānam anviccha guhāṃ praviṣṭaṃ; pitāmahās te kva gatāś ca sarve
72 śvaḥ kāryam adya kurvīta pūrvāhne cāparāhnikam
ko hi tad veda kasyādya mṛtyusenā nivekṣyate
73 anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ
agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdas tathā
74 nāstikān niranukrośān narān pāpamatau sthitān
vāmataḥ kuru viśrabdhaṃ paraṃ prepsur atandritaḥ
75 evam abhyāhate loke kālenopanipīdite
sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru
76 athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ
samyak sa dharmaṃ kṛtveha paratra sukham edhate
77 na dehabhede maraṇaṃ vijānatāṃ; na ca pranāśaḥ svanupālite pathi
dharmaṃ hi yo vardhayate sa paṇḍito; ya eva dharmāc cyavate sa muhyati
78 prayuktayoḥ karma pathi svakarmaṇoḥ; phalaṃ prayoktā labhate yathāvidhi
nihīna karmā nirayaṃ prapadyate; triviṣṭapaṃ gacchati dharmapāragaḥ
79 sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham
tathātmānaṃ samādadhyād bhraśyeta na punar yathā
80 yasya notkrāmati matiḥ svargamārgānusāriṇī
tam āhuḥ puṇyakarmāṇam aśocyaṃ mitra bāndhavaiḥ
81 yasya nopahatā buddhir niścayeṣv avalambate
svarge kṛtāvakāśasya tasya nāsti mahad bhayam
82 tapovaneṣu ye jātās tatraiva nidhanaṃ gatāḥ
teṣām alpataro dharmaḥ kāmabhogam ajānatām
83 yas tu bhogān parityajya śarīreṇa tapaś caret
na tena kiṃ cin na prāptaṃ tan me bahumataṃ phalam
84 mātā pitṛsahasrāṇi putradāraśatāni ca
anāgatāny atītāni kasya te kasya vā vayam
85 na teṣāṃ bhavatā kāryaṃ na kāryaṃ tava tair api
svakṛtais tāni yātāni bhavāṃś caiva gamiṣyati
86 iha loke hi dhaninaḥ paro 'pi svajanāyate
svajanas tu daridrāṇāṃ jīvatām eva naśyati
87 saṃcinoty aśubhaṃ karma kalatrāpekṣayā naraḥ
tataḥ kleśam avāpnoti paratreha tathaiva ca
88 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā
tat kuruṣva tathā putrakṛtsnaṃ yat samudāhṛtam
89 tad etat saṃpradṛśyaiva karmabhūmiṃ praviśya tām
śubhāny ācaritavyāni paralokam abhīpsatā
90 māsartu saṃjñā parivartakena; sūryāṅginā rātridivendhanena
svakarma niṣṭhā phalasākṣikeṇa; bhūtāni kālaḥ pacati prasahya
91 dhanena kiṃ yan na dadāti nāśnute; balena kiṃ yena ripūn na bādhate
śrutena kiṃ yena na dharmam ācaret; kim ātmanā yo na jitendriyo vaśī
92 idaṃ dvaipāyana vaco hitam uktaṃ niśamya tu
śuko gataḥ parityajya pitaraṃ mokṣadeśikam

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1649 of 2013 Book 82% ~11 min left