Book 12: Chapter 308
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 12: Chapter 308

The Mahabharata in Sanskrit

Book 12
Chapter 308

1 [य]
अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम
कः पराप्तॊ विनयं बुद्ध्या मॊक्षतत्त्वं वदस्व मे
2 संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः
परं मॊक्षस्य यच चापि तन मे बरूहि पितामह
3 [भी]
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
जनकस्य च संवादं सुलभायाश च भारत
4 संन्यासफलिकः कश चिद बभूव नृपतिः पुरा
मैथिलॊ जनकॊ नाम धर्मध्वज इति शरुतः
5 स वेदे मॊक्षशास्त्रे च सवे च शास्त्रे कृतागमः
इन्द्रियाणि समाधाय शशास वसुधाम इमाम
6 तस्य वेदविदः पराज्ञाः शरुत्वा तां सादु वृत्तताम
लॊकेषु सपृहयन्त्य अन्ये पुरुषाः पुरुषेश्वर
7 अथ धर्मयुगे तस्मिन यॊगधर्मम अनुष्ठिता
महीम अनुचचारैका सुलभा नाम भिक्षुकी
8 तया जगद इदं संवम अतन्त्या मिथिलेश्वरः
तत्र तत्र शरुतॊ मॊक्षे कथ्यमानस तरिदन्दिभिः
9 सा सुसूक्ष्मां कथां शरुत्वा तथ्यं नेति ससंशया
दर्शने जातसंकल्पा जनकस्य बभूव ह
10 ततः सा विप्रहायाथ पूर्वरूपं हि यॊगतः
अबिभ्रद अनवद्याङ्गी रूपम अन्यद अनुत्तमम
11 चक्षुर निमेष मात्रेण लघ्व अस्त्रगतिगामिनी
विदेहानां पुरीं सुभ्रूर जगाम कमलेक्षणा
12 सा पराप्य मिथिलां रम्यां समृद्धजनसंकुलाम
भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम
13 राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस तथा
केयं कस्य कुतॊ वेति बभूवागत विस्मयः
14 ततॊ ऽसयाः सवागतं कृत्वा वयादिश्य च वरासनम
पूजितां पादशौचेन वरान्नेनाप्य अतर्पयत
15 अथ भुक्तवती परीता राजानं मन्त्रिभिर वृतम
सर्वभाष्यविदां मध्ये चॊदयाम आस भिक्षुकी
16 सुलभा तव अस्य धर्मेषु मुक्तॊ नेति ससंशया
सत्त्वं सत्त्वेन यॊगज्ञा परविवेश महीपते
17 नेत्राभ्यां नेत्रयॊर अस्य रश्मीन संयॊज्य रश्मिभिः
सा सम संचॊदयिष्यन्तम्यॊग बन्धैर बबन्ध ह
18 जनकॊ ऽपय उत्स्मयन राजा भावम अस्या विशेषयन
परतिजग्राह भावेन भावम अस्या नृपॊत्तमः
19 तद एकस्मिन्न अधिष्ठाने संवादः शरूयताम अयम
छत्त्रादिषु विमुक्तस्य मुक्तायाश च तरिदण्डके
20 भगवत्याः कव चर्येयं कृता कव च गमिष्यसि
कस्य च तवं कुतॊ वेति पप्रच्छैनां महीपतिः
21 शरुते वयसि जातौ च सद्भावॊ नाधिगम्यते
एष्व अर्थेषूत्तरं तस्मात परवेद्यं तः समागमे
22 छत्त्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः
स तवां संमन्तुम इच्छामि माहार्हासि मता हि मे
23 यस्माच चैतन मया पराप्तं जञानं वैशेषिकं पुरा
यस्य नान्यः परवक्तास्ति मॊक्षे तम अपि मे शृणु
24 पाराशर्यस गॊत्रस्य वृद्धस्य सुमहात्मनः
भिक्षॊः पञ्चशिखस्याहं शिष्यः परमसंमतः
25 सांख्यज्ञाने तथा यॊगे महीपाल विधौ तथा
तरिविधे मॊक्षधर्मे ऽसमिन गताध्वा छिन्नसंशयः
26 स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन
वार्षिकांश चतुरॊ मासान पुरा मयि सुखॊषितः
27 तेनाहं सांक्य मुख्येन सुदृष्टार्थेन तत्त्वतः
शरावितस तरिविधं मॊक्षं न च राज्याद विचालिथ
28 सॊ ऽहं ताम अखिलां वृत्तिं तरिविधां मॊक्षसंहिताम
मुक्तरागश चराम्य एकः पदे परमके सथितः
29 वैराग्यं पुनर एतस्य मॊक्षस्य परमॊ विधिः
जञानाद एव च वैराग्यं जायते येन मुच्यते
30 जञानेन कुरुते यत्नं यत्नेन पराप्यते महत
महद दवन्द्वप्रमॊक्षाय सा सिद्धिर या वयॊ ऽतिगा
31 सेयं परमिका बुद्धिः पराप्ता निर्द्वन्द्वता मया
इहैव गतमॊहेन चरता मुक्तसङ्गिना
32 यथा कषेत्रं मृदू भूतम अद्भिर आप्लावितं तथा
जनयत्य अङ्कुरं कर्म नृणां तद्वत पुनर्भवम
33 यथा चॊत्तापितं बीजं कपाले यत्र यत्र वा
पराप्याप्य अङ्कुर हेतुत्वम अबीजत्वान न जायते
34 तद्वद भगवता तेन शिखा परॊक्तेन भिक्षुणा
जञानं कृतम अबीजं मे विषयेषु न जायते
35 नाभिषज्जति कस्मिंश चिन नानर्थे न परिग्रहे
नाभिरज्यति चैतेषु वयर्थत्वाद रागदॊषयॊः
36 यश च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत
सव्यं वास्या च यस तक्षेत समाव एताव उभौ मम
37 सुखी सॊ ऽहम अवाप्तार्थः समलॊक्षाश्म काञ्चनः
मुक्तसङ्गः सथितॊ राज्ये विशिष्टॊ ऽनयैस तरिदन्दिभिः
38 मॊक्षे हि तरिविधा निष्ठा दृष्टा पूर्वैर महर्षिभिः
जञानं लॊकॊत्तरं यच च सर्वत्यागश च कर्मणाम
39 जञाननिष्ठां वदन्त्य एके मॊक्षशास्त्रविदॊ जनाः
कर्म निष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः
40 परहायॊभयम अप्य एतज जञानं कर्म च केवलम
तृतीयेयं समाख्याता निष्ठा तेन महात्मना
41 यमे च नियमे चैव दवेषे कामे परिग्रहे
माने दम्भे तथा सनेहे सदृशास ते कुटुम्बिभिः
42 तरिदण्डादिषु यद्य अस्ति मॊक्षॊ जञानेन केन चित
छत्त्रादिषु कथं न सयात तुल्यहेतौ परिग्रहे
43 येन येन हि यस्यार्थः कारणेनेह कस्य चित
तत तद आलम्बते दरव्यं सर्वः सवे सवे परिग्रहे
44 दॊषदर्शी तु गार्हस्थ्ये यॊ वरजत्य आश्रमान्तरम
उत्सृजन परिगृह्नंश च सॊ ऽपि सङ्गान न मुच्यते
45 आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि
राजर्षिभिक्षुकाचार्या मुच्यन्ते केन केतुना
46 अथ सत्याधिपत्ये ऽपि जञानेनैवेह केवलम
मुच्यन्ते किं न मुच्यन्ते पदे परमके सथितः
47 कासाय धारणं मौन्द्यं तरिविष्टब्धः कमन्दलुः
लिङ्गान्य अत्यर्थम एतानि न मॊक्षायेति मे मतिः
48 यदि सत्य अपि लिङ्गे ऽसमिञ जञानम एवात्र कारणम
निर्मॊक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम
49 अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः
किं तद एवार्थसामान्य छत्त्रादिषु न लक्ष्यते
50 आकिंचन्ये च मॊक्षॊ ऽसति कैंचन्ये नास्ति बन्धनम
कैंचन्ये चेतरे चैव जन्तुर जञानेन मुच्यते
51 तस्माद धर्मार्थकामेषु तथा राज्यपरिग्रहे
बन्धनायतनेष्व एषु विद्ध्य अबन्धे पदे सथितम
52 राज्यैश्वर्यमयः पाशः सनेहायतन बन्धनः
मॊक्षाश्म निशितेनेह छिन्नस तयागासिना मया
53 सॊ ऽहम एवंगतॊ मुक्तॊ जातास्थस तवयि भिक्षुकि
अयथार्थॊ हि ते वर्णॊ वक्ष्यामि शृणु तन मम
54 सौकुमार्यं तथारूपं वपुर अग्र्यं तथा वयः
तवैतानि समस्तानि नियमश चेति संशयः
55 यच चाप्य अननुरूपं ते लिङ्गस्यास्य विचेष्टितम
मुक्तॊ ऽयं सयान न वेत्य अस्माद धर्षितॊ मत्परिग्रहः
56 न च कामसमायुक्ते मुक्ते ऽपय अस्ति तरिदण्डकम
न रक्ष्यते तवया चेदं न मुक्तस्यास्ति गॊपना
57 मत पक्षसंश्रयाच चायं शृणु यस ते वयतिक्रमः
आश्रयन्त्याः सवभावेन मम पूर्वपरिग्रहम
58 परवेशस ते कृतः केन मम रास्त्रे पुरे तथा
कस्य वा संनिसर्गात तवं परविष्टा हृदयं मम
59 वर्णप्रवर मुख्यासि बराह्मणी कषत्रियॊ हय अहम
नावयॊर एकयॊगॊ ऽसति मा कृथा वर्णसंकरम
60 वर्तसे मॊक्षधर्मेषु गार्हस्थ्ये तव अहम आश्रमे
अयं चापि सुकस्तस ते दवितीयॊ ऽऽशरमसंकरः
61 सगॊत्रां वासगॊत्रां वा न वेद तवां न वेत्थ माम
सगॊत्रम आविशन्त्यास ते तृतीयॊ गॊत्र संकरः
62 अथ जीवति ते भर्ता परॊषितॊ ऽपय अथ वा कव चित
अगम्या परभार्येति चतुर्थॊ धर्मसंकरः
63 सा तवम एतान्य अकार्याणि कार्यापेक्षा वयवस्यसि
अविज्ञानेन वा युक्ता मिथ्या जञानेन वा पुनः
64 अथ वापि सवतन्त्रास्ति सवदॊषेणेह केन चित
यदि किं चिच छरुतं ते ऽसि सर्वं कृतम अनर्थकम
65 इदम अन्यत तृतीयं ते भावस्पर्श विघातकम
दुष्टाया लक्ष्यते लिङ्गं परवक्तव्यं परकाशितम
66 न मय्य एवाभिसंधिस ते जयैषिण्या जये कृतः
येयं मत्परिषत कृत्स्ना जेतुम इच्छसि ताम अपि
67 तथा हय एवं पुनश च तवं दृष्टिं सवां परतिमुञ्चसि
मत पक्षप्रतिघाताय सवपक्षॊद्भावनाय च
68 सा सवेनामर्षजेन तवम ऋद्धिमॊहेन मॊहिता
भूयः सृजसि यॊगास्त्रं विषामृतम इवैकधा
69 इच्छतॊर हि दवयॊर लाभः सत्रीपुंसॊर अमृतॊपमः
अलाभश चाप्य अरक्तस्य सॊ ऽतर दॊषॊ विषॊपमः
70 मा सप्रक्षीः सधु जानीस्व सवशास्त्रम अनुपालय
कृतेयं हि विजिज्ञासा मुक्तॊ नेति तवया मम
एतत सर्वं परतिच्छन्नं मयि नार्हसि गूहितुम
71 सा यदि तवं सवकार्येण यद्य अन्यस्य महीपतेः
तत्त्वं सत्त्र परतिच्छन्ना मयि नार्हसि गूहितुम
72 न राजानं मृषा गच्छेन न दविजातिं कथंचनन
न सत्रियं सत्री गुणॊपेतां हन्युर हय एते मृषा गताः
73 राज्ञां हि बलम ऐश्वर्यं बरह्म बरह्मविदां बलम
रूपयौवन सौभाग्यं सत्रीणां बलम अनुत्तमम
74 अत एतैर बलैर एत बलिनः सवार्थम इच्छता
आर्जवेनाभिगन्तव्या विनाशाय हय अनार्जवम
75 सा तवं जातिं शरुतं वृत्तं भावं परकृतिम आत्मनः
कृत्यम आगमने चैव वक्तुम अर्हसि तत्त्वतः
76 इत्य एतैर असुखैर वाक्यैर अयुक्तैर असमञ्जसैः
परत्यादिष्टा नरेन्द्रेण सुलभा न वयकम्पत
77 उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना
ततश चारुतरं वाक्यं परचक्रामाथ भासितुम
78 नवभिर नवभिश चैव दॊषैर वाग्बुद्धिदूसनैः
अपेतम उपपन्नार्थम अस्ता दशगुणान्वितम
79 सौक्ष्म्यं संख्या करमौ चॊभौ निर्नयः सप्रयॊजनः
पञ्चैतान्य अर्थजातानि वाक्यम इत्य उच्यते नृप
80 एषाम एकैकशॊ ऽरथानां सौक्ष्म्यादीनां सुलक्षणम
शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः
81 जञानं जञेयेषु भिन्नेषु यथा भेदेन वर्तते
तत्रातिशयिनी बुद्धिस तत सौक्ष्म्यम इति वर्तते
82 दॊषाणां च गुणानां च परमाणं परैविभागशः
कं चिद अर्थम अभिप्रेत्य सा संख्येत्य उपधार्यताम
83 इदं पूर्वम इदं पश्चाद वक्तव्यं यद विवक्षितम
करमयॊगं तम अप्य आहुर वाक्यं वाक्यविदॊ जनाः
84 धर्मार्थकाममॊक्षेषु परतिज्ञाय विशेषतः
इदं तद इति वाक्यान्ते परॊच्यते स विनिर्नयः
85 इच्छा दवेषभवैर दुःखैः परकर्षॊ यत्र जायते
तत्र या नृपते वृत्तिस तत परयॊजनम इष्यते
86 तान्य एतानि यथॊक्तानि सैक्ष्म्यादीनि जनाधिप
एकार्थसमवेतानि वाक्यं मम निशामय
87 उपेतार्थम अभिन्नार्थं नापवृत्तं न चाधिकम
नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव
88 न गुर्व अक्षरसंबद्धं पराङ्मुख मुखं न च
नानृतं न तरिवर्गेण विरुद्धं नाप्य असंक्षृतम
89 न नयूनं कस्त शब्दं वा वयुत्क्रमाभिहितं न च
न शेषं नानुकल्पेन निष्कारणम अहेतुकम
90 कामात करॊधाद भयाल लॊभाद दैन्याद आनार्यकात तथा
हरीतॊ ऽनुक्रॊशतॊ मानान न वक्ष्यामि कथं चन
91 वक्ता शरॊता च वाक्यं च यदा तवाविकलं नृप
समम एति विवक्षायां तदा सॊ ऽरथः परकाशते
92 वक्तव्ये तु यदा वक्ता शरॊतारम अवमन्यते
सवार्थम आह परार्थं वा तदा वाक्यं न रॊहति
93 अथ यः सवार्थम उत्सृज्य परार्थं पराह मानवः
विशङ्का जायते तस्मिन वाक्यं तद अपि दॊषवत
94 यस तु वक्ता दवयॊर अर्थम अविरुद्धं परभासते
शरॊतुश चैवात्मनश चैव स वक्ता नेतरॊ नृप
95 तदर्थवद इदं वाक्यम उपेतं वाक्यसंपदा
अविक्षिप्त मना राजन्न एकाग्रः शरॊतुम अर्हसि
96 कासि कस्य कुतॊ वेति तवयाहम अभिचॊदिता
तत्रॊत्तरम इदं वाक्यं राजन्न एकमनाः शृणु
97 यथा जतु च काष्ठं च पांसवश चॊद बिन्दुभिः
सुश्लिष्टानि तथा राजन परानिनाम इह संभवः
98 शब्दः सपर्शॊ रसॊ रूपं गन्धः पञ्चेन्द्रियाणि च
पृथग आत्मा दशात्मानः संश्लिष्टा जतु काष्ठवत
99 न चैषां चॊदना का चिद अस्तीत्य एष विनिश्चयः
एकैकस्येह विज्ञानं नास्त्य आत्मनि तथा परे
100 न वेद चक्षुश चक्षुस तवं शरॊत्रं नात्मनि वर्तते
तथैव वयभिचारेण न वर्तन्ते परस्परम
संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः
101 बाह्यान अन्यान अपेक्षन्ते गुणांस तान अपि मे शृणु
रूपं चक्षुः परकाशश च दर्शने हेतवस तरयः
यथैवात्र तथान्येषु जञानज्ञेयेषु हेतवः
102 जञानज्ञेयान्तरे तस्मिन मनॊ नामापरॊ गुणः
विचारयति येनायं निश्चये साध्वसाधुनी
103 दवादशस तव अपरस तत्र बुद्धिर नाम गुणः समृतः
येन संशय पूर्वेषु बॊद्धव्येषु वयवस्यति
104 अथ दवादशके तस्मिन सत्त्वं नामापरॊ गुणः
महासत्त्वॊ ऽलपसत्त्वॊ वा जन्तुर येनानुमीयते
105 कषेत्रज्ञ इति चाप्य अन्यॊ गुणस तत्र चतुर्दशः
ममायम इति येनायं मन्यते न च मन्यते
106 अथ पञ्चदशॊ राजन गुणस तत्रापरः समृतः
पृथक कला समूहस्य सामग्र्यं तद इहॊच्यते
107 गुणस तव एवापरस तत्र संघात इति सॊदशः
आकृतिर वयक्तिर इत्य एतौ गुणौ यस्मिन समाश्रितौ
108 सुखदुःखे जरामृत्यू लाभालाभौ परियाप्रिये
इति चैकॊनविंशॊ ऽयं दवन्द्वयॊग इति समृतः
109 ऊर्ध्वम एकॊनविंशत्याः कालॊ नामापरॊ गुणः
इतीमं विद्धि विंशत्या भूतानां परभवाप्ययम
110 विश्मकश चैष संघातॊ महाभूतानि पञ्च च
सदसद भावयॊगौ च गुणाव अन्यौ परकाशकौ
111 इत्य एवं विंशतिश चैव गुणाः सप्त च ये समृताः
विधिः शुक्रं बलं चेति तरय एते गुणाः परे
112 एकविंशश च दश च कलाः संख्यानतः समृताः
समग्रा यत्र वर्तन्ते तच छरीरम इति समृतम
113 अव्यक्तं परकृतिं तव आसां कलानां कश चिद इच्छति
वयक्तं चासां तथैवान्यः सथूलदर्शी परपश्यति
114 अव्यक्तं यदि वा वयक्तं दवयीम अथ चतुष्टयीम
परकृतिं सर्वभूतानां पश्यन्त्य अध्यात्मचिन्तकाः
115 सेयं परकृतिर अव्यक्ता कलाभिर वयक्ततां गता
अहं च तवं च राजेन्द्र ये चाप्य अन्ये शरीरिणः
116 बिन्दुन्यासादयॊ ऽवस्थाः शुक्रशॊनित संभवाः
यासाम एव निपातेन कललं नाम जायते
117 कललाद अर्बुदॊत्पत्तिः पेशी चाप्य अर्बुदॊद्भवा
पेश्यास तव अङ्गाभिनिर्वृत्तिर नखरॊमाणि चाङ्गतः
118 संपूर्णे नवमे मासे जन्तॊर जातस्य मैथिल
जायते नाम रूपत्वं सत्री पुमान वेति लिङ्गतः
119 जातमात्रं तु तद रूपं दृष्ट्वा ताम्रनखाङ्गुलि
कौमार रूपम आपन्नं रूपतॊ न पलभ्यते
120 कौमाराद यौवनं चापि सथाविर्यं चापि यौवनात
अनेन करमयॊगेन पूर्वं पूर्वं न लभ्यते
121 कलानां पृथग अर्थानां परतिभेदः कषणे कषणे
वर्तते सर्वभूतेषु सौक्ष्म्यात तु न विभाव्यते
122 न चैषाम अप्ययॊ राजँल लक्ष्यते परभवॊ न च
अवस्थायाम अवस्थायां दीपस्येवार्चिषॊ गतिः
123 तस्याप्य एवं परभावस्य सदश्वस्येव धावतः
अजस्रं सर्वलॊकस्य कः कुतॊ वा न वा कुतः
124 कस्येदं कस्य वा नेदं कुतॊ वेदं न वा कुतः
संबन्धः कॊ ऽसति भूतानां सवैर अप्य अवयवैर इह
125 यथादित्यान मणेश चैव वीरुद्भ्यश चैव पावकः
भवेत्य एवं समुदयात कलानाम अपि जन्तवः
126 आत्मन्य एवात्मनात्मानं यथा तवम अनुपश्यसि
एवम एवात्मनात्मानम अन्यस्मिन किं न पश्यसि
यद्य आत्मनि परस्मिंश च समताम अध्यवस्यसि
127 अथ मां कासि कस्येति किमर्थम अनुपृच्छसि
इदं मे सयाद इदं नेति दवन्द्वैर मुक्तस्य मैथिल
कासि कस्य कुतॊ वेति वचने किं परयॊजनम
128 रिपौ मित्रे ऽथ मध्यस्थे विजये संधिविग्रहे
कृतवान यॊ महीपाल किं तस्मिन मुक्तलक्षणम
129 तरिवर्गे सप्तधा वयक्तं यॊ न वेदेह कर्मसु
सङ्गवान यस तरिवर्गे च किं तस्मिन मुक्तलक्षणम
130 परिये चैवाप्रिये चैव दुर्बले बलवत्य अपि
यस्य नास्ति समं चक्षुः किं तस्मिन मुक्तलक्षणम
131 तद अमुक्तस्य ते मॊक्षे यॊ ऽभिमानॊ भवेन नृप
सुहृद्भिः स निवार्यस ते विचित्तस्येव भेषजैः
132 तानि तान्य अनुसंदृश्य सङ्गस्थानान्य अरिंदम
आत्मनात्मनि संपश्येत किं तस्मिन मुक्तलक्षणम
133 इमान्य अन्यानि सूक्ष्माणि मॊक्षम आश्रित्य कानि चित
चतुरङ्ग परवृत्तानि सङ्गस्थानानि मे शृणु
134 य इमां पृथिवीं कृत्स्नाम एकछत्त्रां परशास्ति ह
एकम एव स वै राजा पुरम अध्यावसत्य उत
135 तत पुरे चैकम एवास्य गृहं यद अधितिष्ठति
गृहे शयनम अप्य एकं निशायां यत्र लीयते
136 शय्यार्धं तस्य चाप्य अत्र सत्रीपूर्वम अधितिष्ठति
तद अनेन परसङ्गेन फलेनैवेह युज्यते
137 एवम एवॊपभॊगेषु भॊजनाच छादनेषु च
गुणेषु परिमेयेषु निग्रहानुग्रहौ परति
138 परतन्त्रः सदा राजा सवल्पे सॊ ऽपि परसज्यते
संधिविग्रहयॊगे च कुतॊ राज्ञः सवतन्त्रता
139 सत्रीषु करीदा विहारेषु नित्यम अस्यास्वतन्त्रता
मन्त्रे चामात्य समितौ कुत एव सवतन्त्रता
140 यदा तव आज्ञापयत्य अन्यांस तदास्यॊक्ता सवतन्त्रता
अवशः कार्यते तत्र तस्मिंस तस्मिन गुणे सथितः
141 सवप्तु कामॊ न लभते सवप्तुं कार्यार्थिभिर जनैः
शयने चाप्य अनुज्ञातः सुप्त उत्थाप्यते ऽवशः
142 सनाह्य आलभ पिब पराश जुहुध्य अग्नीन यजेति च
वदस्य शृणु चापीति विवशः कार्यते परैः
143 अभिगम्याभिगम्यैनं याचन्ते सततं नराः
न चाप्य उत्सहते दातुं वित्तरक्षी महाजनात
144 दाने कॊशक्षयॊ हय अस्य वैरं चाप्य अरयच्छतः
कषणेनास्यॊपवर्तन्ते दॊषा वैराग्य कारकाः
145 पराज्ञाञ शूरांस तथैवाध्यान एकस्थाने ऽपि शङ्कते
भयम अप्य अभये राज्ञॊ यैश च नित्यम उपास्यते
146 यदा चैते परदुष्यन्ति राजन ये कीर्तिता मया
तदैवास्य भयं तेभ्यॊ जायते पश्य यादृशम
147 सर्वः सवे सवे गृहे राजा सर्वः सवे सवे गृहे गृही
निग्रहानुग्रहौ कुर्वंस तुल्यॊ जनकराजभिः
148 पुत्रा दारास तथैवात्मा कॊशॊ मित्राणि संचयः
परैः साधारणा हय एते तैस तैर एवास्य हेतुभिः
149 हतॊ देशः पुरं दग्धं परधानः कुञ्जरॊ मृतः
लॊकसाधारणेष्व एषु मिथ्या जञानेन तप्यते
150 अमुक्तॊ मानसैर दुःखैर इछा दवेषप्रियॊद्भवैः
शिरॊ रॊगादिभी रॊगैस तथैव विनिपातिभिः
151 दवन्द्वैस तैस तैर उपहतः सर्वतः परिशङ्कितः
बहु परत्यर्थिकं राज्यम उपास्ते गणयन निशाः
152 तद अल्पसुखम अत्यर्थं बहुदुःखम असारवत
कॊ राज्यम अभिपद्येत पराप्य चॊपशमं लभेत
153 ममेदम इति यच चेदं पुरं रास्त्रं च मन्यसे
बलं कॊशम अमात्यांश च कस्यैतानि न वा नृप
154 मित्रामात्यं पुरं रास्त्रं दन्दः कॊशॊ महीपतिः
सप्ताङ्गश चक्रसंघातॊ राज्यम इत्य उच्यते नृप
155 सप्ताङ्गस्यास्य राज्यस्य तरिदण्डस्येव तिष्ठतः
अन्यॊन्यगुणयुक्तस्य कः केन गुणतॊ ऽधिकः
156 तेषु तेषु हि कालेषु तत तद अङ्गं विशिष्यते
येन यत सिध्यते कार्यं तत पराधान्याय कल्पते
157 सप्ताङ्गश चापि संघातस तरयश चान्ये नृपॊत्तम
संभूय दशवर्गॊ ऽयं भुङ्क्ते राज्यं हि राजवत
158 यश च राजा महॊत्साहः कषत्रधर्मरतॊ भवेत
स तुष्येद दश भागेन ततस तव अन्यॊ दशावरैः
159 नास्त्य असाधारणॊ राजा नास्ति राज्यम अराजकम
राज्ये ऽसति कुतॊ धर्मॊ धर्मे ऽसति कुतः परम
160 यॊ ऽपय अत्र परमॊ धर्मः पवित्रं राजराज्ययॊः
पृथिवी दक्षिणा यस्य सॊ ऽशवमेधॊ न विद्यते
161 साहम एतानि कर्माणि राज्यदुःखानि मैथिल
समर्था शतशॊ वक्तुम अथ वापि सहस्रशः
162 सवदेहे नाभिषङ्गॊ मे कुतः परपरिग्रहे
न माम एवंविधां मुक्ताम ईदृशं वक्तुम अर्हसि
163 ननु नाम तवया मॊक्षः कृत्स्नः पञ्च शिखाच छरुतः
सॊपायः सॊपनिषदः सॊपासङ्गः सनिश्चयः
164 तस्य ते मुक्तसङ्गस्य पाशान आक्रम्य तिष्ठतः
छत्त्रादिषु विशेषेषु कथं सङ्गः पुनर नृप
165 शरुतं ते न शरुतं मन्ये मिथ्या वापि शरुतं शरुतम
अथ वा शरुतसंकाशं शरुतम अन्यच छरुतं तवया
166 अथापीमासु संज्ञासु लौकिकीषु परतिष्ठसि
अभिषङ्गावरॊधाभ्यां बद्धस तवं पराकृतॊ मया
167 सत्त्वेनानुप्रवेशॊ हि यॊ ऽयं तवयि कृतॊ मया
किं तवापकृतं तत्र यदि मुक्तॊ ऽसि सर्वतः
168 नियमॊ हय एष धर्मेषु यतीनां शून्यवासिता
शून्यम आवासयन्त्या च मया किं कस्य दूसितम
169 न पानिभ्यां न बाहुभ्यां पादॊरुभ्यां न चानघ
न गात्रावयवैर अन्यैः सपृशामि तवा नराधिप
170 कुले महति जातेन हरीमता दीर्घदर्शिना
नैतत सदसि वक्तव्यं सद वासद वा मिथः कृतम
171 बराह्मणा गुरवश चेमे तथामात्या गुरूत्तमाः
तवं चाथ गुरुर अप्य एषाम एवम अन्यॊन्यगौरवम
172 तद एवम अनुसंदृश्य वाच्यावाच्यं परीक्षता
सत्रीपुंसॊ समवायॊ ऽयं तवया वाच्यॊ न संसदि
173 यथा पुष्कर पर्णस्थं जलं तत्पर्णसंस्थितम
तिष्ठत्य अस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल
174 यदि वाप्य अस्पृशन्त्या मे सपर्शं जानासि कं चन
जञानं कृतम अबीजं ते कथं तेनेह भिक्षुणा
175 स गार्हस्थ्याच चयुतश च तवं मॊक्षं नावाप्य दुर्विदम
उभयॊर अन्तराले च वर्तसे मॊक्षवातिकः
176 न हि मुक्तस्य मुक्तेन जञस्यैकत्व पृथक्त्वयॊः
भावाभाव समायॊगे जायते वर्णसंकरः
177 वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः
नान्यद अन्यद इति जञात्वा नान्यद अन्यत परवर्तते
178 पानौ कुन्दं तथा कुन्दे पयः पयसि मक्षिकाः
आश्रिताश्रय यॊगेन पृथक्त्वेनाश्रया वयम
179 न तु कुन्दे पयॊ भावः पयश चापि न मक्षिकाः
सवयम एवाश्रयन्त्य एते भावा न तु पराश्रयम
180 पृथक्त्वाद आश्रमाणां च वर्णान्यत्वे तथैव च
परस्परपृथक्त्वाच च कथं ते वर्णसंकरः
181 नास्मि वर्णॊत्तमा जात्या न वैश्या नावरा तथा
तव राजन सवर्णास्मि शुद्धयॊनिर अविप्लुता
182 परधानॊ नाम राजर्षिर वयक्तं ते शरॊत्रम आगतः
कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम
183 दरॊणश च शतशृङ्गश च वक्रद्वारश च पर्वतः
मम सत्त्रेषु पूर्वेषां चिता मघवता सह
184 साहं तस्मिन कुले जाता भर्तर्य असति मद्विधे
विनीता मॊक्षधर्मेषु चराम्य एका मुनिव्रतम
185 नास्मि सत्त्र परतिच्छन्ना न परस्वाभिमानिनी
न धर्मसंकरकरी सवधर्मे ऽसमि धृतव्रता
186 नास्थिरा सवप्रतिज्ञायां नासमीक्ष्य परवादिनी
नासमीक्ष्यागता चाहं तवत्सकाशं जनाधिप
187 मॊक्षे ते भवितां बुद्धिं शरुत्वाहं कुशलैषिणी
तव मॊक्षस्य चाप्य अस्य जिज्ञासार्थम इहागता
188 न वर्गस्था बरवीम्य एतत सवपक्ष परपक्षयॊः
मुक्तॊ न मुच्यते यश च शान्तॊ यश च न शाम्यति
189 यथा शून्ये पुरागारे भिक्षुर एकां निशां वसेत
तथा हि तवच छरीरे ऽसमिन्न इमां वत्स्यामि शर्वतीम
190 साहम आसनदानेन वाग आतिथ्येन चार्चिता
सुप्ता सुशरणा परीता शवॊ गमिष्यामिमैथिल
191 इत्य एतानि स वाक्यानि हेतुमन्त्य अर्थवन्ति च
शरुत्वा नाधिजगौ राजा किं चिद अन्यद अतः परम
1 [y]
aparityajya gārhasthyaṃ kururājarṣisattama
kaḥ prāpto vinayaṃ buddhyā mokṣatattvaṃ vadasva me
2 saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ
paraṃ mokṣasya yac cāpi tan me brūhi pitāmaha
3 [bhī]
atrāpy udāharantīmam itihāsaṃ purātanam
janakasya ca saṃvādaṃ sulabhāyāś ca bhārata
4 saṃnyāsaphalikaḥ kaś cid babhūva nṛpatiḥ purā
maithilo janako nāma dharmadhvaja iti śrutaḥ
5 sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ
indriyāṇi samādhāya śaśāsa vasudhām imām
6 tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādu vṛttatām
lokeṣu spṛhayanty anye puruṣāḥ puruṣeśvara
7 atha dharmayuge tasmin yogadharmam anuṣṭhitā
mahīm anucacāraikā sulabhā nāma bhikṣukī
8 tayā jagad idaṃ saṃvam atantyā mithileśvaraḥ
tatra tatra śruto mokṣe kathyamānas tridandibhiḥ
9 sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā
darśane jātasaṃkalpā janakasya babhūva ha
10 tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ
abibhrad anavadyāṅgī rūpam anyad anuttamam
11 cakṣur nimeṣa mātreṇa laghv astragatigāminī
videhānāṃ purīṃ subhrūr jagāma kamalekṣaṇā
12 sā prāpya mithilāṃ ramyāṃ samṛddhajanasaṃkulām
bhaikṣacaryāpadeśena dadarśa mithileśvaram
13 rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapus tathā
keyaṃ kasya kuto veti babhūvāgata vismayaḥ
14 tato 'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam
pūjitāṃ pādaśaucena varānnenāpy atarpayat
15 atha bhuktavatī prītā rājānaṃ mantribhir vṛtam
sarvabhāṣyavidāṃ madhye codayām āsa bhikṣukī
16 sulabhā tv asya dharmeṣu mukto neti sasaṃśayā
sattvaṃ sattvena yogajñā praviveśa mahīpate
17 netrābhyāṃ netrayor asya raśmīn saṃyojya raśmibhiḥ
sā sma saṃcodayiṣyantamyoga bandhair babandha ha
18 janako 'py utsmayan rājā bhāvam asyā viśeṣayan
pratijagrāha bhāvena bhāvam asyā nṛpottamaḥ
19 tad ekasminn adhiṣṭhāne saṃvādaḥ śrūyatām ayam
chattrādiṣu vimuktasya muktāyāś ca tridaṇḍake
20 bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi
kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ
21 śrute vayasi jātau ca sadbhāvo nādhigamyate
eṣv artheṣūttaraṃ tasmāt pravedyaṃ taḥ samāgame
22 chattrādiṣu viśeṣeṣu muktaṃ māṃ viddhi sarvaśaḥ
sa tvāṃ saṃmantum icchāmi māhārhāsi matā hi me
23 yasmāc caitan mayā prāptaṃ jñānaṃ vaiśeṣikaṃ purā
yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu
24 pārāśaryasa gotrasya vṛddhasya sumahātmanaḥ
bhikṣoḥ pañcaśikhasyāhaṃ śiṣyaḥ paramasaṃmataḥ
25 sāṃkhyajñāne tathā yoge mahīpāla vidhau tathā
trividhe mokṣadharme 'smin gatādhvā chinnasaṃśayaḥ
26 sa yathāśāstradṛṣṭena mārgeṇeha parivrajan
vārṣikāṃś caturo māsān purā mayi sukhoṣitaḥ
27 tenāhaṃ sāṃkya mukhyena sudṛṣṭārthena tattvataḥ
śrāvitas trividhaṃ mokṣaṃ na ca rājyād vicālitha
28 so 'haṃ tām akhilāṃ vṛttiṃ trividhāṃ mokṣasaṃhitām
muktarāgaś carāmy ekaḥ pade paramake sthitaḥ
29 vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ
jñānād eva ca vairāgyaṃ jāyate yena mucyate
30 jñānena kurute yatnaṃ yatnena prāpyate mahat
mahad dvandvapramokṣāya sā siddhir yā vayo 'tigā
31 seyaṃ paramikā buddhiḥ prāptā nirdvandvatā mayā
ihaiva gatamohena caratā muktasaṅginā
32 yathā kṣetraṃ mṛdū bhūtam adbhir āplāvitaṃ tathā
janayaty aṅkuraṃ karma nṛṇāṃ tadvat punarbhavam
33 yathā cottāpitaṃ bījaṃ kapāle yatra yatra vā
prāpyāpy aṅkura hetutvam abījatvān na jāyate
34 tadvad bhagavatā tena śikhā proktena bhikṣuṇā
jñānaṃ kṛtam abījaṃ me viṣayeṣu na jāyate
35 nābhiṣajjati kasmiṃś cin nānarthe na parigrahe
nābhirajyati caiteṣu vyarthatvād rāgadoṣayoḥ
36 yaś ca me dakṣiṇaṃ bāhuṃ candanena samukṣayet
savyaṃ vāsyā ca yas takṣet samāv etāv ubhau mama
37 sukhī so 'ham avāptārthaḥ samalokṣāśma kāñcanaḥ
muktasaṅgaḥ sthito rājye viśiṣṭo 'nyais tridandibhiḥ
38 mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ
jñānaṃ lokottaraṃ yac ca sarvatyāgaś ca karmaṇām
39 jñānaniṣṭhāṃ vadanty eke mokṣaśāstravido janāḥ
karma niṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ
40 prahāyobhayam apy etaj jñānaṃ karma ca kevalam
tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā
41 yame ca niyame caiva dveṣe kāme parigrahe
māne dambhe tathā snehe sadṛśās te kuṭumbibhiḥ
42 tridaṇḍādiṣu yady asti mokṣo jñānena kena cit
chattrādiṣu kathaṃ na syāt tulyahetau parigrahe
43 yena yena hi yasyārthaḥ kāraṇeneha kasya cit
tat tad ālambate dravyaṃ sarvaḥ sve sve parigrahe
44 doṣadarśī tu gārhasthye yo vrajaty āśramāntaram
utsṛjan parigṛhnaṃś ca so 'pi saṅgān na mucyate
45 ādhipatye tathā tulye nigrahānugrahātmani
rājarṣibhikṣukācāryā mucyante kena ketunā
46 atha satyādhipatye 'pi jñānenaiveha kevalam
mucyante kiṃ na mucyante pade paramake sthitaḥ
47 kāsāya dhāraṇaṃ maundyaṃ triviṣṭabdhaḥ kamandaluḥ
liṅgāny atyartham etāni na mokṣāyeti me matiḥ
48 yadi saty api liṅge 'smiñ jñānam evātra kāraṇam
nirmokṣāyeha duḥkhasya liṅgamātraṃ nirarthakam
49 atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ
kiṃ tad evārthasāmānya chattrādiṣu na lakṣyate
50 ākiṃcanye ca mokṣo 'sti kaiṃcanye nāsti bandhanam
kaiṃcanye cetare caiva jantur jñānena mucyate
51 tasmād dharmārthakāmeṣu tathā rājyaparigrahe
bandhanāyataneṣv eṣu viddhy abandhe pade sthitam
52 rājyaiśvaryamayaḥ pāśaḥ snehāyatana bandhanaḥ
mokṣāśma niśiteneha chinnas tyāgāsinā mayā
53 so 'ham evaṃgato mukto jātāsthas tvayi bhikṣuki
ayathārtho hi te varṇo vakṣyāmi śṛṇu tan mama
54 saukumāryaṃ tathārūpaṃ vapur agryaṃ tathā vayaḥ
tavaitāni samastāni niyamaś ceti saṃśayaḥ
55 yac cāpy ananurūpaṃ te liṅgasyāsya viceṣṭitam
mukto 'yaṃ syān na vety asmād dharṣito matparigrahaḥ
56 na ca kāmasamāyukte mukte 'py asti tridaṇḍakam
na rakṣyate tvayā cedaṃ na muktasyāsti gopanā
57 mat pakṣasaṃśrayāc cāyaṃ śṛṇu yas te vyatikramaḥ
āśrayantyāḥ svabhāvena mama pūrvaparigraham
58 praveśas te kṛtaḥ kena mama rāstre pure tathā
kasya vā saṃnisargāt tvaṃ praviṣṭā hṛdayaṃ mama
59 varṇapravara mukhyāsi brāhmaṇī kṣatriyo hy aham
nāvayor ekayogo 'sti mā kṛthā varṇasaṃkaram
60 vartase mokṣadharmeṣu gārhasthye tv aham āśrame
ayaṃ cāpi sukastas te dvitīyo ''śramasaṃkaraḥ
61 sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām
sagotram āviśantyās te tṛtīyo gotra saṃkaraḥ
62 atha jīvati te bhartā proṣito 'py atha vā kva cit
agamyā parabhāryeti caturtho dharmasaṃkaraḥ
63 sā tvam etāny akāryāṇi kāryāpekṣā vyavasyasi
avijñānena vā yuktā mithyā jñānena vā punaḥ
64 atha vāpi svatantrāsti svadoṣeṇeha kena cit
yadi kiṃ cic chrutaṃ te 'si sarvaṃ kṛtam anarthakam
65 idam anyat tṛtīyaṃ te bhāvasparśa vighātakam
duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam
66 na mayy evābhisaṃdhis te jayaiṣiṇyā jaye kṛtaḥ
yeyaṃ matpariṣat kṛtsnā jetum icchasi tām api
67 tathā hy evaṃ punaś ca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi
mat pakṣapratighātāya svapakṣodbhāvanāya ca
68 sā svenāmarṣajena tvam ṛddhimohena mohitā
bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā
69 icchator hi dvayor lābhaḥ strīpuṃsor amṛtopamaḥ
alābhaś cāpy araktasya so 'tra doṣo viṣopamaḥ
70 mā sprakṣīḥ sadhu jānīsva svaśāstram anupālaya
kṛteyaṃ hi vijijñāsā mukto neti tvayā mama
etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum
71 sā yadi tvaṃ svakāryeṇa yady anyasya mahīpateḥ
tattvaṃ sattra praticchannā mayi nārhasi gūhitum
72 na rājānaṃ mṛṣā gacchen na dvijātiṃ kathaṃcanan
na striyaṃ strī guṇopetāṃ hanyur hy ete mṛṣā gatāḥ
73 rājñāṃ hi balam aiśvaryaṃ brahma brahmavidāṃ balam
rūpayauvana saubhāgyaṃ strīṇāṃ balam anuttamam
74 ata etair balair eta balinaḥ svārtham icchatā
ārjavenābhigantavyā vināśāya hy anārjavam
75 sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ
kṛtyam āgamane caiva vaktum arhasi tattvataḥ
76 ity etair asukhair vākyair ayuktair asamañjasaiḥ
pratyādiṣṭā narendreṇa sulabhā na vyakampata
77 uktavākye tu nṛpatau sulabhā cārudarśanā
tataś cārutaraṃ vākyaṃ pracakrāmātha bhāsitum
78 navabhir navabhiś caiva doṣair vāgbuddhidūsanaiḥ
apetam upapannārtham astā daśaguṇānvitam
79 saukṣmyaṃ saṃkhyā kramau cobhau nirnayaḥ saprayojanaḥ
pañcaitāny arthajātāni vākyam ity ucyate nṛpa
80 eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam
śṛṇu saṃsāryamāṇānāṃ padārthaiḥ padavākyataḥ
81 jñānaṃ jñeyeṣu bhinneṣu yathā bhedena vartate
tatrātiśayinī buddhis tat saukṣmyam iti vartate
82 doṣāṇāṃ ca guṇānāṃ ca pramāṇaṃ praivibhāgaśaḥ
kaṃ cid artham abhipretya sā saṃkhyety upadhāryatām
83 idaṃ pūrvam idaṃ paścād vaktavyaṃ yad vivakṣitam
kramayogaṃ tam apy āhur vākyaṃ vākyavido janāḥ
84 dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ
idaṃ tad iti vākyānte procyate sa vinirnayaḥ
85 icchā dveṣabhavair duḥkhaiḥ prakarṣo yatra jāyate
tatra yā nṛpate vṛttis tat prayojanam iṣyate
86 tāny etāni yathoktāni saikṣmyādīni janādhipa
ekārthasamavetāni vākyaṃ mama niśāmaya
87 upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam
nāślakṣṇaṃ na ca saṃdigdhaṃ vakṣyāmi paramaṃ tava
88 na gurv akṣarasaṃbaddhaṃ parāṅmukha mukhaṃ na ca
nānṛtaṃ na trivargeṇa viruddhaṃ nāpy asaṃkṣṛtam
89 na nyūnaṃ kasta śabdaṃ vā vyutkramābhihitaṃ na ca
na śeṣaṃ nānukalpena niṣkāraṇam ahetukam
90 kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā
hrīto 'nukrośato mānān na vakṣyāmi kathaṃ cana
91 vaktā śrotā ca vākyaṃ ca yadā tvāvikalaṃ nṛpa
samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate
92 vaktavye tu yadā vaktā śrotāram avamanyate
svārtham āha parārthaṃ vā tadā vākyaṃ na rohati
93 atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ
viśaṅkā jāyate tasmin vākyaṃ tad api doṣavat
94 yas tu vaktā dvayor artham aviruddhaṃ prabhāsate
śrotuś caivātmanaś caiva sa vaktā netaro nṛpa
95 tadarthavad idaṃ vākyam upetaṃ vākyasaṃpadā
avikṣipta manā rājann ekāgraḥ śrotum arhasi
96 kāsi kasya kuto veti tvayāham abhicoditā
tatrottaram idaṃ vākyaṃ rājann ekamanāḥ śṛṇu
97 yathā jatu ca kāṣṭhaṃ ca pāṃsavaś coda bindubhiḥ
suśliṣṭāni tathā rājan prāninām iha saṃbhavaḥ
98 śabdaḥ sparśo raso rūpaṃ gandhaḥ pañcendriyāṇi ca
pṛthag ātmā daśātmānaḥ saṃśliṣṭā jatu kāṣṭhavat
99 na caiṣāṃ codanā kā cid astīty eṣa viniścayaḥ
ekaikasyeha vijñānaṃ nāsty ātmani tathā pare
100 na veda cakṣuś cakṣus tvaṃ śrotraṃ nātmani vartate
tathaiva vyabhicāreṇa na vartante parasparam
saṃśliṣṭā nābhijāyante yathāpa iha pāṃsavaḥ
101 bāhyān anyān apekṣante guṇāṃs tān api me śṛṇu
rūpaṃ cakṣuḥ prakāśaś ca darśane hetavas trayaḥ
yathaivātra tathānyeṣu jñānajñeyeṣu hetavaḥ
102 jñānajñeyāntare tasmin mano nāmāparo guṇaḥ
vicārayati yenāyaṃ niścaye sādhvasādhunī
103 dvādaśas tv aparas tatra buddhir nāma guṇaḥ smṛtaḥ
yena saṃśaya pūrveṣu boddhavyeṣu vyavasyati
104 atha dvādaśake tasmin sattvaṃ nāmāparo guṇaḥ
mahāsattvo 'lpasattvo vā jantur yenānumīyate
105 kṣetrajña iti cāpy anyo guṇas tatra caturdaśaḥ
mamāyam iti yenāyaṃ manyate na ca manyate
106 atha pañcadaśo rājan guṇas tatrāparaḥ smṛtaḥ
pṛthak kalā samūhasya sāmagryaṃ tad ihocyate
107 guṇas tv evāparas tatra saṃghāta iti sodaśaḥ
ākṛtir vyaktir ity etau guṇau yasmin samāśritau
108 sukhaduḥkhe jarāmṛtyū lābhālābhau priyāpriye
iti caikonaviṃśo 'yaṃ dvandvayoga iti smṛtaḥ
109 ūrdhvam ekonaviṃśatyāḥ kālo nāmāparo guṇaḥ
itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam
110 viśmakaś caiṣa saṃghāto mahābhūtāni pañca ca
sadasad bhāvayogau ca guṇāv anyau prakāśakau
111 ity evaṃ viṃśatiś caiva guṇāḥ sapta ca ye smṛtāḥ
vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare
112 ekaviṃśaś ca daśa ca kalāḥ saṃkhyānataḥ smṛtāḥ
samagrā yatra vartante tac charīram iti smṛtam
113 avyaktaṃ prakṛtiṃ tv āsāṃ kalānāṃ kaś cid icchati
vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati
114 avyaktaṃ yadi vā vyaktaṃ dvayīm atha catuṣṭayīm
prakṛtiṃ sarvabhūtānāṃ paśyanty adhyātmacintakāḥ
115 seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā
ahaṃ ca tvaṃ ca rājendra ye cāpy anye śarīriṇaḥ
116 bindunyāsādayo 'vasthāḥ śukraśonita saṃbhavāḥ
yāsām eva nipātena kalalaṃ nāma jāyate
117 kalalād arbudotpattiḥ peśī cāpy arbudodbhavā
peśyās tv aṅgābhinirvṛttir nakharomāṇi cāṅgataḥ
118 saṃpūrṇe navame māse jantor jātasya maithila
jāyate nāma rūpatvaṃ strī pumān veti liṅgataḥ
119 jātamātraṃ tu tad rūpaṃ dṛṣṭvā tāmranakhāṅguli
kaumāra rūpam āpannaṃ rūpato na palabhyate
120 kaumārād yauvanaṃ cāpi sthāviryaṃ cāpi yauvanāt
anena kramayogena pūrvaṃ pūrvaṃ na labhyate
121 kalānāṃ pṛthag arthānāṃ pratibhedaḥ kṣaṇe kṣaṇe
vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate
122 na caiṣām apyayo rājaṁl lakṣyate prabhavo na ca
avasthāyām avasthāyāṃ dīpasyevārciṣo gatiḥ
123 tasyāpy evaṃ prabhāvasya sadaśvasyeva dhāvataḥ
ajasraṃ sarvalokasya kaḥ kuto vā na vā kutaḥ
124 kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ
saṃbandhaḥ ko 'sti bhūtānāṃ svair apy avayavair iha
125 yathādityān maṇeś caiva vīrudbhyaś caiva pāvakaḥ
bhavety evaṃ samudayāt kalānām api jantavaḥ
126 ātmany evātmanātmānaṃ yathā tvam anupaśyasi
evam evātmanātmānam anyasmin kiṃ na paśyasi
yady ātmani parasmiṃś ca samatām adhyavasyasi
127 atha māṃ kāsi kasyeti kimartham anupṛcchasi
idaṃ me syād idaṃ neti dvandvair muktasya maithila
kāsi kasya kuto veti vacane kiṃ prayojanam
128 ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe
kṛtavān yo mahīpāla kiṃ tasmin muktalakṣaṇam
129 trivarge saptadhā vyaktaṃ yo na vedeha karmasu
saṅgavān yas trivarge ca kiṃ tasmin muktalakṣaṇam
130 priye caivāpriye caiva durbale balavaty api
yasya nāsti samaṃ cakṣuḥ kiṃ tasmin muktalakṣaṇam
131 tad amuktasya te mokṣe yo 'bhimāno bhaven nṛpa
suhṛdbhiḥ sa nivāryas te vicittasyeva bheṣajaiḥ
132 tāni tāny anusaṃdṛśya saṅgasthānāny ariṃdama
ātmanātmani saṃpaśyet kiṃ tasmin muktalakṣaṇam
133 imāny anyāni sūkṣmāṇi mokṣam āśritya kāni cit
caturaṅga pravṛttāni saṅgasthānāni me śṛṇu
134 ya imāṃ pṛthivīṃ kṛtsnām ekachattrāṃ praśāsti ha
ekam eva sa vai rājā puram adhyāvasaty uta
135 tat pure caikam evāsya gṛhaṃ yad adhitiṣṭhati
gṛhe śayanam apy ekaṃ niśāyāṃ yatra līyate
136 śayyārdhaṃ tasya cāpy atra strīpūrvam adhitiṣṭhati
tad anena prasaṅgena phalenaiveha yujyate
137 evam evopabhogeṣu bhojanāc chādaneṣu ca
guṇeṣu parimeyeṣu nigrahānugrahau prati
138 paratantraḥ sadā rājā svalpe so 'pi prasajyate
saṃdhivigrahayoge ca kuto rājñaḥ svatantratā
139 strīṣu krīdā vihāreṣu nityam asyāsvatantratā
mantre cāmātya samitau kuta eva svatantratā
140 yadā tv ājñāpayaty anyāṃs tadāsyoktā svatantratā
avaśaḥ kāryate tatra tasmiṃs tasmin guṇe sthitaḥ
141 svaptu kāmo na labhate svaptuṃ kāryārthibhir janaiḥ
śayane cāpy anujñātaḥ supta utthāpyate 'vaśaḥ
142 snāhy ālabha piba prāśa juhudhy agnīn yajeti ca
vadasya śṛṇu cāpīti vivaśaḥ kāryate paraiḥ
143 abhigamyābhigamyainaṃ yācante satataṃ narāḥ
na cāpy utsahate dātuṃ vittarakṣī mahājanāt
144 dāne kośakṣayo hy asya vairaṃ cāpy arayacchataḥ
kṣaṇenāsyopavartante doṣā vairāgya kārakāḥ
145 prājñāñ śūrāṃs tathaivādhyān ekasthāne 'pi śaṅkate
bhayam apy abhaye rājño yaiś ca nityam upāsyate
146 yadā caite praduṣyanti rājan ye kīrtitā mayā
tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam
147 sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī
nigrahānugrahau kurvaṃs tulyo janakarājabhiḥ
148 putrā dārās tathaivātmā kośo mitrāṇi saṃcayaḥ
paraiḥ sādhāraṇā hy ete tais tair evāsya hetubhiḥ
149 hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ
lokasādhāraṇeṣv eṣu mithyā jñānena tapyate
150 amukto mānasair duḥkhair ichā dveṣapriyodbhavaiḥ
śiro rogādibhī rogais tathaiva vinipātibhiḥ
151 dvandvais tais tair upahataḥ sarvataḥ pariśaṅkitaḥ
bahu pratyarthikaṃ rājyam upāste gaṇayan niśāḥ
152 tad alpasukham atyarthaṃ bahuduḥkham asāravat
ko rājyam abhipadyeta prāpya copaśamaṃ labhet
153 mamedam iti yac cedaṃ puraṃ rāstraṃ ca manyase
balaṃ kośam amātyāṃś ca kasyaitāni na vā nṛpa
154 mitrāmātyaṃ puraṃ rāstraṃ dandaḥ kośo mahīpatiḥ
saptāṅgaś cakrasaṃghāto rājyam ity ucyate nṛpa
155 saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ
anyonyaguṇayuktasya kaḥ kena guṇato 'dhikaḥ
156 teṣu teṣu hi kāleṣu tat tad aṅgaṃ viśiṣyate
yena yat sidhyate kāryaṃ tat prādhānyāya kalpate
157 saptāṅgaś cāpi saṃghātas trayaś cānye nṛpottama
saṃbhūya daśavargo 'yaṃ bhuṅkte rājyaṃ hi rājavat
158 yaś ca rājā mahotsāhaḥ kṣatradharmarato bhavet
sa tuṣyed daśa bhāgena tatas tv anyo daśāvaraiḥ
159 nāsty asādhāraṇo rājā nāsti rājyam arājakam
rājye 'sati kuto dharmo dharme 'sati kutaḥ param
160 yo 'py atra paramo dharmaḥ pavitraṃ rājarājyayoḥ
pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate
161 sāham etāni karmāṇi rājyaduḥkhāni maithila
samarthā śataśo vaktum atha vāpi sahasraśaḥ
162 svadehe nābhiṣaṅgo me kutaḥ paraparigrahe
na mām evaṃvidhāṃ muktām īdṛśaṃ vaktum arhasi
163 nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañca śikhāc chrutaḥ
sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ
164 tasya te muktasaṅgasya pāśān ākramya tiṣṭhataḥ
chattrādiṣu viśeṣeṣu kathaṃ saṅgaḥ punar nṛpa
165 śrutaṃ te na śrutaṃ manye mithyā vāpi śrutaṃ śrutam
atha vā śrutasaṃkāśaṃ śrutam anyac chrutaṃ tvayā
166 athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi
abhiṣaṅgāvarodhābhyāṃ baddhas tvaṃ prākṛto mayā
167 sattvenānupraveśo hi yo 'yaṃ tvayi kṛto mayā
kiṃ tavāpakṛtaṃ tatra yadi mukto 'si sarvataḥ
168 niyamo hy eṣa dharmeṣu yatīnāṃ śūnyavāsitā
śūnyam āvāsayantyā ca mayā kiṃ kasya dūsitam
169 na pānibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha
na gātrāvayavair anyaiḥ spṛśāmi tvā narādhipa
170 kule mahati jātena hrīmatā dīrghadarśinā
naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam
171 brāhmaṇā guravaś ceme tathāmātyā gurūttamāḥ
tvaṃ cātha gurur apy eṣām evam anyonyagauravam
172 tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā
strīpuṃso samavāyo 'yaṃ tvayā vācyo na saṃsadi
173 yathā puṣkara parṇasthaṃ jalaṃ tatparṇasaṃsthitam
tiṣṭhaty aspṛśatī tadvattvayi vatsyāmi maithila
174 yadi vāpy aspṛśantyā me sparśaṃ jānāsi kaṃ cana
jñānaṃ kṛtam abījaṃ te kathaṃ teneha bhikṣuṇā
175 sa gārhasthyāc cyutaś ca tvaṃ mokṣaṃ nāvāpya durvidam
ubhayor antarāle ca vartase mokṣavātikaḥ
176 na hi muktasya muktena jñasyaikatva pṛthaktvayoḥ
bhāvābhāva samāyoge jāyate varṇasaṃkaraḥ
177 varṇāśramapṛthaktve ca dṛṣṭārthasyāpṛthaktvinaḥ
nānyad anyad iti jñātvā nānyad anyat pravartate
178 pānau kundaṃ tathā kunde payaḥ payasi makṣikāḥ
āśritāśraya yogena pṛthaktvenāśrayā vayam
179 na tu kunde payo bhāvaḥ payaś cāpi na makṣikāḥ
svayam evāśrayanty ete bhāvā na tu parāśrayam
180 pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca
parasparapṛthaktvāc ca kathaṃ te varṇasaṃkaraḥ
181 nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā
tava rājan savarṇāsmi śuddhayonir aviplutā
182 pradhāno nāma rājarṣir vyaktaṃ te śrotram āgataḥ
kule tasya samutpannāṃ sulabhāṃ nāma viddhi mām
183 droṇaś ca śataśṛṅgaś ca vakradvāraś ca parvataḥ
mama sattreṣu pūrveṣāṃ citā maghavatā saha
184 sāhaṃ tasmin kule jātā bhartary asati madvidhe
vinītā mokṣadharmeṣu carāmy ekā munivratam
185 nāsmi sattra praticchannā na parasvābhimāninī
na dharmasaṃkarakarī svadharme 'smi dhṛtavratā
186 nāsthirā svapratijñāyāṃ nāsamīkṣya pravādinī
nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa
187 mokṣe te bhavitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī
tava mokṣasya cāpy asya jijñāsārtham ihāgatā
188 na vargasthā bravīmy etat svapakṣa parapakṣayoḥ
mukto na mucyate yaś ca śānto yaś ca na śāmyati
189 yathā śūnye purāgāre bhikṣur ekāṃ niśāṃ vaset
tathā hi tvac charīre 'sminn imāṃ vatsyāmi śarvatīm
190 sāham āsanadānena vāg ātithyena cārcitā
suptā suśaraṇā prītā śvo gamiṣyāmimaithila
191 ity etāni sa vākyāni hetumanty arthavanti ca
śrutvā nādhijagau rājā kiṃ cid anyad ataḥ param

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1648 of 2013 Book 82% ~22 min left