Book 1: Chapter 2
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 1: Chapter 2

The Mahabharata in Sanskrit

Book 1
Chapter 2

1 [रसयग]
समन्तपञ्चकम इति यद उक्तं सूतनन्दन
एतत सर्वं यथान्यायं शरॊतुम इच्छामहे वयम
2 [स]
शुश्रूषा यदि वॊ विप्रा बरुवतश च कथाः शुभाः
समन्तपञ्चकाख्यं च शरॊतुम अर्हथ सत्तमाः
3 तरेता दवापरयॊः संधौ रामः शस्त्रभृतां वरः
असकृत पार्थिवं कषत्रं जघानामर्ष चॊदितः
4 स सर्वं कषत्रम उत्साद्य सववीर्येणानल दयुतिः
समन्तपञ्चके पञ्च चकार रुधिरह्रदान
5 स तेषु रुधिराम्भःसु हरदेषु करॊधमूर्च्छितः
पितॄन संतर्पयाम आस रुधिरेणेति नः शरुतम
6 अथर्चीकादयॊ ऽभयेत्य पितरॊ बराह्मणर्षभम
तं कषमस्वेति सिषिधुस ततः स विरराम ह
7 तेषां समीपे यॊ देशॊ हरदानां रुधिराम्भसाम
समन्तपञ्चकम इति पुण्यं तत्परिकीर्तितम
8 येन लिङ्गेन यॊ देशॊ युक्तः समुपलक्ष्यते
तेनैव नाम्ना तं देशं वाच्यम आहुर मनीषिणः
9 अन्तरे चैव संप्राप्ते कलिद्वापरयॊर अभूत
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयॊः
10 तस्मिन परमधर्मिष्ठे देशे भूदॊषवर्जिते
अष्टादश समाजग्मुर अक्षौहिण्यॊ युयुत्सया
11 एवं नामाभिनिर्वृत्तं तस्य देशस्य वै दविजाः
पुण्यश च रमणीयश च स देशॊ वः परकीर्तितः
12 तद एतत कथितं सर्वं मया वॊ मुनिसत्तमाः
यथा देशः स विख्यातस तरिषु लॊकेषु विश्रुतः
13 [रसयग]
अक्षौहिण्य इति परॊक्तं यत तवया सूतनन्दन
एतद इच्छामहे शरॊतुं सर्वम एव यथातथम
14 अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम
यथावच चैव नॊ बरूहि सर्वं हि विदितं तव
15 [स]
एकॊ रथॊ जगश चैकॊ नराः पञ्च पदातयः
तरयश च तुरगास तज्ज्ञैः पत्तिर इत्य अभिधीयते
16 पत्तिं तु तरिगुणाम एताम आहुः सेनामुखं बुधाः
तरीणि सेनामुखान्य एकॊ गुल्म इत्य अभिधीयते
17 तरयॊ गुल्मा गणॊ नाम वाहिनी तु गणास तरयः
समृतास तिस्रस तु वाहिन्यः पृतनेति विचक्षणैः
18 चमूस तु पृतनास तिस्रस तिस्रश चम्वस तव अनीकिनी
अनीकिनीं दशगुणां पराहुर अक्षौहिणीं बुधाः
19 अक्षौहिण्याः परसंख्यानं रथानां दविजसत्तमाः
संख्या गणित तत्त्वज्ञैः सहस्राण्य एकविंशतिः
20 शतान्य उपरि चैवाष्टौ तथा भूयश च सप्ततिः
गजानां तु परीमाणम एतद एवात्र निर्दिशेत
21 जञेयं शतसहस्रं तु सहस्राणि तथा नव
नराणाम अपि पञ्चाशच छतानि तरीणि चानघाः
22 पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च
दशॊत्तराणि षट पराहुर यथावद इह संख्यया
23 एताम अक्षौहिणीं पराहुः संख्या तत्त्वविदॊ जनाः
यां वः कथितवान अस्मि विस्तरेण दविजॊत्तमाः
24 एतया संख्यया हय आसन कुरुपाण्डवसेनयॊः
अक्षौहिण्यॊ दविजश्रेष्ठाः पिण्डेनाष्टादशैव ताः
25 समेतास तत्र वै देशे तत्रैव निधनं गताः
कौरवान कारणं कृत्वा कालेनाद्भुत कर्मणा
26 अहानि युयुधे भीष्मॊ दशैव परमास्त्रवित
अहानि पञ्च दरॊणस तु ररक्ष कुरु वाहिनीम
27 अहनी युयुधे दवे तु कर्णः परबलार्दनः
शल्यॊ ऽरधदिवसं तव आसीद गदायुद्धम अतः परम
28 तस्यैव तु दिनस्यान्ते हार्दिक्य दरौणिगौतमाः
परसुप्तं निशि विश्वस्तं जघ्नुर यौधिष्ठिरं बलम
29 यत तु शौनक सत्रे तु भारताख्यान विस्तरम
आख्यास्ये तत्र पौलॊमम आख्यानं चादितः परम
30 विचित्रार्थपदाख्यानम अनेकसमयान्वितम
अभिपन्नं नरैः पराज्ञैर वैराग्यम इव मॊक्षिभिः
31 आत्मेव वेदितव्येषु परियेष्व इव च जीवितम
इतिहासः परधानार्थः शरेष्ठः सर्वागमेष्व अयम
32 इतिहासॊत्तमे हय अस्मिन्न अर्पिता बुद्धिर उत्तमा
खरव्यञ्जनयॊः कृत्स्ना लॊकवेदाश्रयेव वाक
33 अस्य परज्ञाभिपन्नस्य विचित्रपदपर्वणः
भारतस्येतिहासस्य शरूयतां पर्व संग्रहः
34 पर्वानुक्रमणी पूर्वं दवितीयं पर्व संग्रहः
पौष्यं पौलॊमम आस्तीकम आदिवंशावतारणम
35 ततः संभव पर्वॊक्तम अद्भुतं देवनिर्मितम
दाहॊ जतु गृहस्यात्र हैडिम्बं पर्व चॊच्यते
36 ततॊ बकवधः पर्व पर्व चैत्ररथं ततः
ततः सवयंवरं देव्याः पाञ्चाल्याः पर्व चॊच्यते
37 कषत्रधर्मेण निर्मित्य ततॊ वैवाहिकं समृतम
विदुरागमनं पर्व राज्यलम्भस तथैव च
38 अर्जुनस्य वनेवासः सुभद्राहरणं ततः
सुभद्राहरणाद ऊर्ध्वं जञेयं हरणहारिकम
39 ततः खाण्डव दाहाख्यं तत्रैव मय दर्शनम
सभा पर्व ततः परॊक्तं मन्त्रपर्व ततः परम
40 जरासंध वधः पर्व पर्व दिग विजयस तथा
पर्व दिग विजयाद ऊर्ध्वं राजसूयिकम उच्यते
41 ततश चार्घाभिहरणं शिशुपाल वधस ततः
दयूतपर्व ततः परॊक्तम अनुद्यूतम अतः परम
42 तत आरण्यकं पर्व किर्मीरवध एव च
ईश्वरार्जुनयॊर युद्धं पर्व कैरात संज्ञितम
43 इन्द्रलॊकाभिगमनं पर्व जञेयम अतः परम
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः
44 जटासुरवधः पर्व यक्षयुद्धम अतः परम
तथैवाजगरं पर्व विज्ञेयं तदनन्तरम
45 मार्कण्डेय समस्या च पर्वॊक्तं तदनन्तरम
संवादश च ततः पर्व दरौपदी सत्यभामयॊः
46 घॊषयात्रा ततः पर्व मृगस्वप्नभयं ततः
वरीहि दरौणिकम आख्यानं ततॊ ऽनन्तरम उच्यते
47 दरौपदी हरणं पर्व सैन्धवेन वनात ततः
कुण्डलाहरणं पर्व ततः परम इहॊच्यते
48 आरणेयं ततः पर्व वैराटं तदनन्तरम
कीचकानां वधः पर्व पर्व गॊग्रहणं ततः
49 अभिमन्युना च वैराट्याः पर्व वैवाहिकं समृतम
उद्यॊगपर्व विज्ञेयम अत ऊर्ध्वं महाद्भुतम
50 ततः संजय यानाख्यं पर्व जञेयम अतः परम
परजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया
51 पर्व सानत्सुजातं च गुह्यम अध्यात्मदर्शनम
यानसंधिस ततः पर्व भगवद यानम एव च
52 जञेयं विवाद पर्वात्र कर्णस्यापि महात्मनः
निर्याणं पर्व च ततः कुरुपाण्डवसेनयॊः
53 रथातिरथ संख्या च पर्वॊक्तं तदनन्तरम
उलूक दूतागमनं पर्वामर्ष विवर्धनम
54 अम्बॊपाख्यानम अपि च पर्व जञेयम अतः परम
भीष्माभिषेचनं पर्व जञेयम अद्भुतकारणम
55 जम्बू खण्ड विनिर्माणं पर्वॊक्तं तदनन्तरम
भूमिपर्व ततॊ जञेयं दवीपविस्तर कीर्तनम
56 पर्वॊक्तं भगवद गीता पर्व भीस्म वधस ततः
दरॊणाभिषेकः पर्वॊक्तं संशप्तक वधस ततः
57 अभिमन्युवधः पर्व परतिज्ञा पर्व चॊच्यते
जयद्रथवधः पर्व घटॊत्कच वधस ततः
58 ततॊ दरॊण वधः पर्व विज्ञेयं लॊमहर्षणम
मॊक्षॊ नारायणास्त्रस्य पर्वानन्तरम उच्यते
59 कर्ण पर्व ततॊ जञेयं शल्य पर्व ततः परम
हरद परवेशनं पर्व गदायुद्धम अतः परम
60 सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम
अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकम उच्यते
61 ऐषीकं पर्व निर्दिष्टम अत ऊर्ध्वं सुदारुणम
जलप्रदानिकं पर्व सत्री पर्व च ततः परम
62 शराद्धपर्व ततॊ जञेयं कुरूणाम और्ध्वदेहिकम
आभिषेचनिकं पर्व धर्मराजस्य धीमतः
63 चार्वाक निग्रहः पर्व रक्षसॊ बरह्मरूपिणः
परविभागॊ गृहाणां च पर्वॊक्तं तदनन्तरम
64 शान्ति पर्व ततॊ यत्र राजधर्मानुकीर्तनम
आपद धर्मश च पर्वॊक्तं मॊक्षधर्मस ततः परम
65 ततः पर्व परिज्ञेयम आनुशासनिकं परम
सवर्गारॊहणिकं पर्व ततॊ भीष्मस्य धीमतः
66 तत आश्वमेधिकं पर्व सर्वपापप्रणाशनम
अनुगीता ततः पर्व जञेयम अध्यात्मवाचकम
67 पर्व चाश्रमवासाख्यं पुत्रदर्शनम एव च
नारदागमनं पर्व ततः परम इहॊच्यते
68 मौसलं पर्व च ततॊ घॊरं समनुवर्ण्यते
महाप्रस्थानिकं पर्व सवर्गारॊहणिकं ततः
69 हरि वंशस ततः पर्व पुराणं खिल संज्ञितम
भविष्यत पर्व चाप्य उक्तं खिलेष्व एवाद्भुतं महत
70 एतत पर्व शतं पूर्णं वयासेनॊक्तं महात्मना
यथावत सूतपुत्रेण लॊमहर्षणिना पुनः
71 कथितं नैमिषारण्ये पर्वाण्य अष्टादशैव तु
समासॊ भारतस्यायं तत्रॊक्तः पर्व संग्रहः
72 पौष्ये पर्वणि माहात्म्यम उत्तङ्कस्यॊपवर्णितम
पौलॊमे भृगुवंशस्य विस्तारः परिकीर्तितः
73 आस्तीके सर्वनागानां गरुडस्य च संभवः
कषीरॊदमथनं चैव जन्मॊच्छैः शरवसस तथा
74 यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च
कथेयम अभिनिर्वृत्ता भारतानां महात्मनाम
75 विविधाः संभवा राज्ञाम उक्ताः संभव पर्वणि
अन्येषां चैव विप्राणाम ऋषेर दवैपायनस्य च
76 अंशावतरणं चात्र देवानां परिकीर्तितम
दैत्यानां दानवानां च यक्षाणां च महौजसाम
77 नागानाम अथ सर्पाणां गन्धर्वाणां पतत्रिणाम
अन्येषां चैव भूतानां विविधानां समुद्भवः
78 वसूनां पुनर उत्पत्तिर भागीरथ्यां महात्मनाम
शंतनॊर वेश्मनि पुनस तेषां चारॊहणं दिवि
79 तेजॊ ऽंशानां च संघाताद भीष्मस्याप्य अत्र संभवः
राज्यान निवर्तनं चैव बरह्मचर्य वरते सथितिः
80 परतिज्ञा पालनं चैव रक्षा चित्राङ्गदस्य च
हते चित्राङ्गदे चैव रक्षा भरातुर यवीयसः
81 विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम
धर्मस्य नृषु संभूतिर अणी माण्डव्य शापजा
82 कृष्णद्वैपायनाच चैव परसूतिर वरदानजा
धृतराष्ट्रस्य पाण्डॊश च पाण्डवानां च संभवः
83 वारणावत यात्रा च मन्त्रॊ दुर्यॊधनस्य च
विदुरस्य च वाक्येन सुरुङ्गॊपक्रम करिया
84 पाण्डवानां वने घॊरे हिडिम्बायाश च दर्शनम
घटॊत्कचस्य चॊत्पत्तिर अत्रैव परिकीर्तिता
85 अज्ञातचर्या पाण्डूनां वासॊ बराह्मण वेश्मनि
बकस्य निधनं चैव नागराणां च विस्मयः
86 अङ्गारपर्णं निर्जित्य गङ्गाकूले ऽरजुनस तदा
भरातृभिः सहितः सर्वैः पाञ्चालान अभितॊ ययौ
87 तापत्यम अथ वासिष्ठम और्वं चाख्यानम उत्तमम
पञ्चेन्द्राणाम उपाख्यानम अत्रैवाद्भुतम उच्यते
88 पञ्चानाम एकपत्नीत्वे विमर्शॊ दरुपदस्य च
दरौपद्या देव विहितॊ विवाहश चाप्य अमानुषः
89 विदुरस्य च संप्राप्तिर दर्शनं केशवस्य च
खाण्डव परस्थवासश च तथा राज्यार्ध शासनम
90 नारदस्याज्ञया चैव दरौपद्याः समयक्रिया
सुन्दॊपसुन्दयॊस तत्र उपाख्यानं परकीर्तितम
91 पार्थस्य वनवासश च उलूप्या पथि संगमः
पुण्यतीर्थानुसंयानं बभ्रु वाहन जन्म च
92 दवारकायां सुभद्रा च कामयानेन कामिनी
वासुदेवस्यानुमते पराप्ता चैव किरीटिना
93 हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने
संप्राप्तिश चक्रधनुषॊः खाण्डवस्य च दाहनम
94 अभिमन्यॊः सुभद्रायां जन्म चॊत्तमतेजसः
मयस्य मॊक्षॊ जवलनाद भुजंगस्य च मॊक्षणम
महर्षेर मन्दपालस्य शार्ङ्ग्यं तनयसंभवः
95 इत्य एतद आधि पर्वॊक्तं परथमं बहुविस्तरम
अध्यायानां शते दवे तु संखाते परमर्षिणा
अष्टादशैव चाध्याया वयासेनॊत्तम तेजसा
96 सप्त शलॊकसहस्राणि तथा नव शतानि च
शलॊकाश च चतुराशीतिर दृष्टॊ गरन्थॊ महात्मना
97 दवितीयं तु सभा पर्व बहु वृत्तान्तम उच्यते
सभा करिया पाण्डवानां किंकराणां च दर्शनम
98 लॊकपाल सभाख्यानं नारदाद देव दर्शनात
राजसूयस्य चारम्भॊ जरासंध वधस तथा
99 गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मॊक्षणम
राजसूये ऽरघ संवादे शिशुपाल वधस तथा
100 यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च
दुर्यॊधनस्यावहासॊ भीमेन च सभा तले
101 यत्रास्य मन्युर उद्भूतॊ येन दयूतम अकारयत
यत्र धर्मसुतं दयूते शकुनिः कितवॊ ऽजयत
102 यत्र दयूतार्णवे मग्नान दरौपदी नौर इवार्णवात
तारयाम आस तांस तीर्णाञ जञात्वा दुर्यॊधनॊ नृपः
पुनर एव ततॊ दयूते समाह्वयत पाण्डवान
103 एतत सर्वं सभा पर्व समाख्यातं महात्मना
अध्यायाः सप्ततिर जञेयास तथा दवौ चात्र संख्यया
104 शलॊकानां दवे सहस्रे तु पञ्च शलॊकशतानि च
शलॊकाश चैकादश जञेयाः पर्वण्य अस्मिन परकीर्तिताः
105 अतः परं तृतीयं तु जञेयम आरण्यकं महत
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः
106 वृष्णीनाम आगमॊ यत्र पाञ्चालानां च सर्वशः
यत्र सौभवधाख्यानं किर्मीरवध एव च
अस्त्रहेतॊर विवासश च पार्थस्यामित तेजसः
107 महादेवेन युद्धं च किरात वपुषा सह
दर्शनं लॊकपालानां सवर्गारॊहणम एव च
108 दर्शनं बृहदश्वस्य महर्षेर भावितात्मनः
युधिष्ठिरस्य चार्तस्य वयसने परिदेवनम
109 नलॊपाख्यानम अत्रैव धर्मिष्ठं करुणॊदयम
दमयन्त्याः सथितिर यत्र नलस्य वयसनागमे
110 वनवास गतानां च पाण्डवानां महात्मनाम
सवर्गे परवृत्तिर आख्याता लॊमशेनार्जुनस्य वै
111 तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम
जटासुरस्य तत्रैव वधः समुपवर्ण्यते
112 नियुक्तॊ भीमसेनश च दरौपद्या गन्धमादने
यत्र मन्दारपुष्पार्थं नलिनीं ताम अधर्षयत
113 यत्रास्य सुमहद युद्धम अभवत सह राक्षसैः
यक्षैश चापि महावीर्यैर मणिमत परमुखैस तथा
114 आगस्त्यम अपि चाख्यानं यत्र वातापि भक्षणम
लॊपामुद्राभिगमनम अपत्यार्थम ऋषेर अपि
115 ततः शयेनकपॊतीयम उपाख्यानम अनन्तरम
इन्द्रॊ ऽगनिर यत्र धर्मश च अजिज्ञासञ शिबिं नृपम
116 ऋश्य शृङ्गस्य चरितं कौमार बरह्मचारिणः
जामदग्न्यस्य रामस्य चरितं भूरि तेजसः
117 कार्तवीर्य वधॊ यत्र हैहयानां च वर्ण्यते
सौकन्यम अपि चाख्यानं चयवनॊ यत्र भार्गवः
118 शर्याति यज्ञे नासत्यौ कृतवान सॊमपीथिनौ
ताभ्यां च यत्र स मुनिर यौवनं परतिपादितः
119 जन्तूपाख्यानम अत्रैव यत्र पुत्रेण सॊमकः
पुत्रार्थम अयजद राजा लेभे पुत्रशतं च सः
120 अष्टावक्रीयम अत्रैव विवादे यत्र बन्दिनम
विजित्य सागरं पराप्तं पितरं लब्धवान ऋषिः
121 अवाप्य दिव्यान्य अस्त्राणि गुर्वर्थे सव्यसाचिना
निवातकवचैर युद्धं हिरण्यपुरवासिभिः
122 समागमश च पार्थस्य भरातृभिर गन्धमादने
घॊषयात्रा च गन्धर्वैर यत्र युद्धं किरीटिनः
123 पुनरागमनं चैव तेषां दवैतवनं सरः
जयद्रथेनापहारॊ दरौपद्याश चाश्रमान्तरात
124 यत्रैनम अन्वयाद भीमॊ वायुवेगसमॊ जवे
मार्कण्डेय समस्यायाम उपाख्यानानि भागशः
125 संदर्शनं च कृष्णस्य संवादश चैव सत्यया
वरीहि दरौणिकम आख्यानम ऐन्द्रद्युम्नं तथैव च
126 सावित्र्य औद्दालकीयं च वैन्यॊपाख्यानम एव च
रामायणम उपाख्यानम अत्रैव बहुविस्तरम
127 कर्णस्य परिमॊषॊ ऽतर कुण्डलाभ्यां पुरंदरात
आरणेयम उपाख्यानं यत्र धर्मॊ ऽनवशात सुतम
जग्मुर लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम
128 एतद आरण्यकं पर्व तृतीयं परिकीर्तितम
अत्राध्याय शते दवे तु संख्याते परमर्षिणा
एकॊन सप्ततिश चैव तथाध्यायाः परकीर्तिताः
129 एकादश सहस्राणि शलॊकानां षट्शतानि च
चतुःषष्टिस तथा शलॊकाः पर्वैतत परिकीर्तितम
130 अतः परं निबॊधेदं वैराटं पर्व विस्तरम
विराटनगरं गत्वा शमशाने विपुलां शमीम
दृष्ट्वा संनिदधुस तत्र पाण्डवा आयुधान्य उत
131 यत्र परविश्य नगरं छद्मभिर नयवसन्त ते
दुरात्मनॊ वधॊ यत्र कीचकस्य वृकॊदरात
132 गॊग्रहे यत्र पार्थेन निर्जिताः कुरवॊ युधि
गॊधनं च विराटस्य मॊक्षितं यत्र पाण्डवैः
133 विराटेनॊत्तरा दत्ता सनुषा यत्र किरीटिनः
अभिमन्युं समुद्दिश्य सौभद्रम अरिघातिनम
134 चतुर्थम एतद विपुलं वैराटं पर्व वर्णितम
अत्रापि परिसंख्यातम अध्यायानां महात्मना
135 सप्तषष्टिरथॊ पूर्णा शलॊकाग्रम अपि मे शृणु
शलॊकानां दवे सहस्रे तु शलॊकाः पञ्चाशद एव तु
पर्वण्य अस्मिन समाख्याताः संख्यया परमर्षिणा
136 उद्यॊगपर्व विज्ञेयं पञ्चमं शृण्वतः परम
उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया
दुर्यॊधनॊ ऽरजुनश चैव वासुदेवम उपस्थितौ
137 साहाय्यम अस्मिन समरे भवान नौ कर्तुम अर्हति
इत्य उक्ते वचने कृष्णॊ यत्रॊवाच महामतिः
138 अयुध्यमानम आत्मानं मन्त्रिणं पुरुषर्षभौ
अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्य अहम
139 वव्रे दुर्यॊधनः सैन्यं मन्दात्मा यत्र दुर्मतिः
अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः
140 संजयं परेषयाम आस शमार्थं पाण्डवान परति
यत्र दूतं महाराजॊ धृतराष्ट्रः परतापवान
141 शरुत्वा च पाण्डवान यत्र वासुदेव पुरॊगमान
परजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया
142 विदुरॊ यत्र वाक्यानि विचित्राणि हितानि च
शरावयाम आस राजानं धृतराष्ट्रं मनीषिणम
143 तथा सनत्सुजातेन यत्राध्यात्मम अनुत्तमम
मनस्तापान्वितॊ राजा शरावितः शॊकलालसः
144 परभाते राजसमितौ संजयॊ यत्र चाभिभॊः
ऐकात्म्यं वासुदेवस्य परॊक्तवान अर्जुनस्य च
145 यत्र कृष्णॊ दयापन्नः संधिम इच्छन महायशाः
सवयम आगाच छमं कर्तुं नगरं नागसाह्वयम
146 परत्याख्यानं च कृष्णस्य राज्ञा दुर्यॊधनेन वै
शमार्थं याचमानस्य पक्षयॊर उभयॊर हितम
147 कर्णदुर्यॊधनादीनां दुष्टं विज्ञाय मन्त्रितम
यॊगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम
148 रथम आरॊप्य कृष्णेन यत्र कर्णॊ ऽनुमन्त्रितः
उपायपूर्वं शौण्डीर्यात परत्याख्यातश च तेन सः
149 ततश चाप्य अभिनिर्यात्रा रथाश्वनरदन्तिनाम
नगराद धास्तिन पुराद बलसंख्यानम एव च
150 यत्र राज्ञा उलूकस्य परेषणं पाण्डवान परति
शवॊ भाविनि महायुद्धे दूत्येन करूर वादिना
रथातिरथ संख्यानम अम्बॊपाख्यानम एव च
151 एतत सुबहु वृत्तान्तं पञ्चमं पर्व भारते
उद्यॊगपर्व निर्दिष्टं संधिविग्रहसंश्रितम
152 अध्यायाः संख्यया तव अत्र षड अशीति शतं समृतम
शलॊकानां षट सहस्राणि तावन्त्य एव शतानि च
153 शलॊकाश च नवतिः परॊक्तास तथैवाष्टौ महात्मना
वयासेनॊदार मतिना पर्वण्य अस्मिंस तपॊधनाः
154 अत ऊर्ध्वं विचित्रार्थं भीष्म पर्व परचक्षते
जम्बू खण्ड विनिर्माणं यत्रॊक्तं संजयेन ह
155 यत्र युद्धम अभूद घॊरं दशाहान्य अतिदारुणम
यत्र यौधिष्ठिरं सैन्यं विषादम अगमत परम
156 कश्मलं यत्र पार्थस्य वासुदेवॊ महामतिः
मॊहजं नाशयाम आस हेतुभिर मॊक्षदर्शनैः
157 शिखण्डिनं पुरस्कृत्य यत्र पार्थॊ महाधनुः
विनिघ्नन निशितैर बाणै रथाद भीष्मम अपातयत
158 षष्ठम एतन महापर्व भारते परिकीर्तितम
अध्यायानां शतं परॊक्तं सप्त दश तथापरे
159 पञ्च शलॊकसहस्राणि संख्ययाष्टौ शतानि च
शलॊकाश च चतुराशीतिः पर्वण्य अस्मिन परकीर्तिताः
वयासेन वेदविदुषा संख्याता भीष्म पर्वणि
160 दरॊण पर्व ततश चित्रं बहु वृत्तान्तम उच्यते
यत्र संशप्तकाः पार्थम अपनिन्यू रणाजिरात
161 भगदत्तॊ महाराजॊ यत्र शक्रसमॊ युधि
सुप्रतीकेन नागेन सह शस्तः किरीटिना
162 यत्राभिमन्युं बहवॊ जघ्नुर लॊकमहारथाः
जयद्रथमुखा बालं शूरम अप्राप्तयौवनम
163 हते ऽभिमन्यौ करुद्धेन यत्र पार्थेन संयुगे
अक्षौहिणीः सप्त हत्वा हतॊ राजा जयद्रथः
संशप्तकावशेषं च कृतं निःशेषम आहवे
164 अलम्बुसः शरुतायुश च जलसंधश च वीर्यवान
सौमदत्तिर विराटश च दरुपदश च महारथः
घटॊत्कचादयश चान्ये निहता दरॊण पर्वणि
165 अश्वत्थामापि चात्रैव दरॊणे युधि निपातिते
अस्त्रं परादुश्चकारॊग्रं नारायणम अमर्षितः
166 सप्तमं भारते पर्व महद एतद उदाहृतम
अत्र ते पृथिवीपालाः परायशॊ निधनं गताः
दरॊण पर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः
167 अध्यायानां शतं परॊक्तम अध्यायाः सप्ततिस तथा
अष्टौ शलॊकसहस्राणि तथा नव शतानि च
168 शलॊका नव तथैवात्र संख्यातास तत्त्वदर्शिना
पाराशर्येण मुनिना संचिन्त्य दरॊण पर्वणि
169 अतः परं कर्ण पर्व परॊच्यते परमाद्भुतम
सारथ्ये विनियॊगश च मद्रराजस्य धीमतः
आख्यातं यत्र पौराणं तरिपुरस्य निपातनम
170 परयाणे परुषश चात्र संवादः कर्ण शल्ययॊः
हंसकाकीयम आख्यानम अत्रैवाक्षेप संहितम
171 अन्यॊन्यं परति च करॊधॊ युधिष्ठिर किरीटिनॊः
दवैरथे यत्र पार्थेन हतः कर्णॊ महारथः
172 अष्टमं पर्व निर्दिष्टम एतद भारत चिन्तकैः
एकॊन सप्ततिः परॊक्ता अध्यायाः कर्ण पर्वणि
चत्वार्य एव सहस्राणि नव शलॊकशतानि च
173 अतः परं विचित्रार्थं शक्य पर्व परकीर्तितम
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरॊ ऽभवत
174 वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः
विनाशः कुरुमुख्यानां शल्य पर्वणि कीर्त्यते
175 शल्यस्य निधनं चात्र धर्मराजान महारथात
गदायुद्धं तु तुमुलम अत्रैव परिकीर्तितम
सरस्वत्याश च तीर्थानां पुण्यता परिकीर्तिता
176 नवमं पर्व निर्दिष्टम एतद अद्भुतम अर्थवत
एकॊन षष्टिर अध्यायास तत्र संख्या विशारदैः
177 संख्याता बहु वृत्तान्ताः शलॊकाग्रं चात्र शस्यते
तरीणि शलॊकसहस्राणि दवे शते विंशतिस तथा
मुनिना संप्रणीतानि कौरवाणां यशॊ भृताम
178 अतः परं परवक्ष्यामि सौप्तिकं पर्व दारुणम
भग्नॊरुं यत्र राजानं दुर्यॊधनम अमर्षणम
179 वयपयातेषु पार्थेषु तरयस ते ऽभयाययू रथाः
कृतवर्मा कृपॊ दरौणिः सायाह्ने रुधिरॊक्षिताः
180 परतिजज्ञे दृढक्रॊधॊ दरौणिर यत्र महारथः
अहत्वा सर्वपाञ्चालान धृष्टद्युम्नपुरॊगमान
पाण्डवांश च सहामात्यान न विमॊक्ष्यामि दंशनम
181 परसुप्तान निशि विश्वस्तान यत्र ते पुरुषर्षभाः
पाञ्चालान सपरीवाराञ जघ्नुर दरौणिपुरॊगमाः
182 यत्रामुच्यन्त पार्थास ते पञ्च कृष्ण बलाश्रयात
सात्यकिश च महेष्वासः शेषाश च निधनं गताः
183 दरौपदी पुत्रशॊकार्ता पितृभ्रातृवधार्दिता
कृतानशन संकल्पा यत्र भर्तॄन उपाविशत
184 दरौपदी वचनाद यत्र भीमॊ भीमपराक्रमः
अन्वधावत संक्रुद्धॊ भरद्वाजं गुरॊः सुतम
185 भीमसेन भयाद यत्र दैवेनाभिप्रचॊदितः
अपाण्डवायेति रुषा दरौणिर अस्त्रम अवासृजत
186 मैवम इत्य अब्रवीत कृष्णः शमयंस तस्य तद वचः
यत्रास्त्रम अस्त्रेण च तच छमयाम आस फाल्गुनः
187 दरौणिद्वैपायनादीनां शापाश चान्यॊन्य कारिताः
तॊयकर्मणि सर्वेषां राज्ञाम उदकदानिके
188 गूढॊत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः
सुतस्यैतद इह परॊक्तं दशमं पर्व सौप्तिकम
189 अष्टादशास्मिन्न अध्यायाः पर्वण्य उक्ता महात्मना
शलॊकाग्रम अत्र कथितं शतान्य अष्टौ तथैव च
190 शलॊकाश च सप्ततिः परॊक्ता यथावद अभिसंख्यया
सौप्तिकैषीक संबन्धे पर्वण्य अमितबुद्धिना
191 अत ऊर्ध्वम इदं पराहुः सत्री पर्व करुणॊदयम
विलापॊ वीर पत्नीनां यत्रातिकरुणः समृतः
करॊधावेशः परसादश च गान्धारी धृतराष्ट्रयॊः
192 यत्र तान कषत्रियाञ शूरान दिष्टान्तान अनिवर्तिनः
पुत्रान भरातॄन पितॄंश चैव ददृशुर निहतान रणे
193 यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः
राज्ञां तानि शरीराणि दाहयाम आस शास्त्रतः
194 एतद एकादशं परॊक्तं पर्वातिकरुणं महत
सप्त विंशतिर अध्यायाः पर्वण्य अस्मिन्न उदाहृताः
195 शलॊकाः सप्तशतं चात्र पञ्च सप्ततिर उच्यते
संखया भारताख्यानं कर्त्रा हय अत्र महात्मना
परणीतं सज्जन मनॊ वैक्लव्याश्रु परवर्तकम
196 अतः परं शान्ति पर्व दवादशं बुद्धिवर्धनम
यत्र निर्वेदम आपन्नॊ धर्मराजॊ युधिष्ठिरः
घातयित्वा पितॄन भरातॄन पुत्रान संबन्धिबान्धवान
197 शान्ति पर्वणि धर्माश च वयाख्याताः शरतल्पिकाः
राजभिर वेदितव्या ये सम्यङ नयबुभुत्सुभिः
198 आपद धर्माश च तत्रैव कालहेतु परदर्शकाः
यान बुद्ध्वा पुरुषः सम्यक सर्वज्ञत्वम अवाप्नुयात
मॊक्षधर्माश च कथिता विचित्रा बहुविस्तराः
199 दवादशं पर्व निर्दिष्टम एतत पराज्ञजनप्रियम
पर्वण्य अत्र परिज्ञेयम अध्यायानां शतत्रयम
तरिंशच चैव तथाध्याया नव चैव तपॊधनाः
200 शलॊकानां तु सहस्राणि कीर्तितानि चतुर्दश
पञ्च चैव शतान्य आहुः पञ्चविंशतिसंख्यया
201 अत ऊर्ध्वं तु विज्ञेयम आनुशासनम उत्तमम
यत्र परकृतिम आपन्नः शरुत्वा धर्मविनिश्चयम
भीष्माद भागीरथी पुत्रात कुरुराजॊ युधिष्ठिरः
202 वयवहारॊ ऽतर कार्त्स्न्येन धर्मार्थीयॊ निदर्शितः
विविधानां च दानानां फलयॊगाः पृथग्विधाः
203 तथा पात्रविशेषाश च दानानां च परॊ विधिः
आचार विधियॊगश च सत्यस्य च परा गतिः
204 एतत सुबहु वृत्तान्तम उत्तमं चानुशासनम
भीष्मस्यात्रैव संप्राप्तिः सवर्गस्य परिकीर्तिता
205 एतत तरयॊदशं पर्व धर्मनिश्चय कारकम
अध्यायानां शतं चात्र षट चत्वारिंशद एव च
शलॊकानां तु सहस्राणि षट सप्तैव शतानि च
206 तत आश्वमेधिकं नाम पर्व परॊक्तं चतुर्दशम
तत संवर्तमरुत्तीयं यत्राख्यानम अनुत्तमम
207 सुवर्णकॊशसंप्राप्तिर जन्म चॊक्तं परिक्षितः
दग्धस्यास्त्राग्निना पूर्वं कृष्णात संजीवनं पुनः
208 चर्यायां हयम उत्सृष्टं पाण्डवस्यानुगच्छतः
तत्र तत्र च युद्धानि राजपुत्रैर अमर्षणैः
209 चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः
संग्रामे बभ्रु वाहेन संशयं चात्र दर्शितः
अश्वमेधे महायज्ञे नकुलाख्यानम एव च
210 इत्य आश्वमेधिकं पर्व परॊक्तम एतन महाद्भुतम
अत्राध्याय शतं तरिंशत तरयॊ ऽधयायाश च शब्दिताः
211 तरीणि शलॊकसहस्राणि तावन्त्य एव शतानि च
विंशतिश च तथा शलॊकाः संख्यातास तत्त्वदर्शिना
212 तत आश्रमवासाक्यं पर्व पञ्चदशं समृतम
यत्र राज्यं परित्यज्य गान्धारी सहितॊ नृपः
धृतराष्ट्राश्रमपदं विदुरश च जगाम ह
213 यं दृष्ट्वा परस्थितं साध्वी पृथाप्य अनुययौ तदा
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता
214 यत्र राजा हतान पुत्रान पौत्रान अन्यांश च पार्थिवान
लॊकान्तर गतान वीरान अपश्यत पुनरागतान
215 ऋषेः परसादात कृष्णस्य दृष्ट्वाश्चर्यम अनुत्तमम
तयक्त्वा शॊकं सदारश च सिद्धिं परमिकां गतः
216 यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः
संजयश च महामात्रॊ विद्वान गावल्गणिर वशी
217 ददर्श नारदं यत्र धर्मराजॊ युधिष्ठिरः
नारदाच चैव शुश्राव वृष्णीनां कदनं महत
218 एतद आश्रमवासाख्यं पूर्वॊक्तं सुमहाद्भुतम
दविचत्वारिंशद अध्यायाः पर्वैतद अभिसंख्यया
219 सहस्रम एकं शलॊकानां पञ्च शलॊकशतानि च
षड एव च तथा शलॊकाः संख्यातास तत्त्वदर्शिना
220 अतः परं निबॊधेदं मौसलं पर्व दारुणम
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्श सहा युधि
बरह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः
221 आपाने पानगलिता दैवेनाभिप्रचॊदिताः
एरका रूपिभिर वज्रैर निजघ्नुर इतरेतरम
222 यत्र सर्वक्षयं कृत्वा ताव उभौ राम केशवौ
नातिचक्रमतुः कालं पराप्तं सर्वहरं समम
223 यत्रार्जुनॊ दवारवतीम एत्य वृष्णिविनाकृताम
दृष्ट्वा विषादम अगमत परां चार्तिं नरर्षभः
224 स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिम आत्मनः
ददर्श यदुवीराणाम आपने वैशसं महत
225 शरीरं वासुदेवस्य रामस्य च महात्मनः
संस्कारं लम्भयाम आस वृष्णीनां च परधानतः
226 स वृद्धबालम आदाय दवारवत्यास ततॊ जनम
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम
227 सर्वेषां चैव दिव्यानाम अस्त्राणाम अप्रसन्नताम
नाशं वृष्णिकलत्राणां परभावानाम अनित्यताम
228 दृष्ट्वा निवेदम आपन्नॊ वयास वाक्यप्रचॊदितः
धर्मराजं समासाद्य संन्यासं समरॊचयत
229 इत्य एतन मौसलं पर्व षॊडशं परिकीर्तितम
अध्यायाष्टौ समाख्याताः शलॊकानां च शतत्रयम
230 महाप्रस्थानिकं तस्माद ऊर्ध्वं सप्त दशं समृतम
यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः
दरौपद्या सहिता देव्या सिद्धिं परमिकां गताः
231 अत्राध्यायास तरयः परॊक्ताः शलॊकानां च शतं तथा
विंशतिश च तथा शलॊकाः संख्यातास तत्त्वदर्शिना
232 सवर्गपर्व ततॊ जञेयं दिव्यं यत तद अमानुषम
अध्यायाः पञ्च संख्याता पर्वैतद अभिसंख्यया
शलॊकानां दवे शते चैव परसंख्याते तपॊधनाः
233 अष्टादशैवम एतानि पर्वाण्य उक्तान्य अशेषतः
खिलेषु हरिवंशश च भविष्यच च परकीर्तितम
234 एतद अखिलम आख्यातं भारतं पर्व संग्रहात
अष्टादश समाजग्मुर अक्षौहिण्यॊ युयुत्सया
तन महद दारुणं युद्धम अहान्य अष्टादशाभवत
235 यॊ विद्याच चतुरॊ वेदान साङ्गॊपनिषदान दविजः
न चाख्यानम इदं विद्यान नैव स सयाद विचक्षणः
236 शरुत्वा तव इदम उपाख्यानं शराव्यम अन्यन न रॊचते
पुंः कॊकिलरुतं शरुत्वा रूक्षा धवाङ्क्षस्य वाग इव
237 इतिहासॊत्तमाद अस्माज जायन्ते कवि बुद्धयः
पञ्चभ्य इव भूतेभ्यॊ लॊकसंविधयस तरयः
238 अस्याख्यानस्य विषये पुराणं वर्तते दविजाः
अन्तरिक्षस्य विषये परजा इव चतुर्विधाः
239 करिया गुणानां सर्वेषाम इदम आख्यानम आश्रयः
इन्द्रियाणां समस्तानां चित्रा इव मनः करियाः
240 अनाश्रित्यैतद आख्यानं कथा भुवि न विद्यते
आहारम अनपाश्रित्य शरीरस्येव धारणम
241 इदं सर्वैः कवि वरैर आख्यानम उपजीव्यते
उदयप्रेप्सुभिर भृत्यैर अभिजात इवेश्वरः
242 दवैपायनौष्ठ पुटनिःसृतम अप्रमेयं; पुण्यं पवित्रम अथ पापहरं शिवं च
यॊ भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्कर जलैर अभिषेचनेन
243 आख्यानं तद इदम अनुत्तमं महार्थं; विन्यस्तं महद इह पर्व संग्रहेण
शरुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा पलवेन
1 [rsayag]
samantapañcakam iti yad uktaṃ sūtanandana
etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam
2 [s]
śuśrūṣā yadi vo viprā bruvataś ca kathāḥ śubhāḥ
samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ
3 tretā dvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ
asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣa coditaḥ
4 sa sarvaṃ kṣatram utsādya svavīryeṇānala dyutiḥ
samantapañcake pañca cakāra rudhirahradān
5 sa teṣu rudhirāmbhaḥsu hradeṣu krodhamūrcchitaḥ
pitṝn saṃtarpayām āsa rudhireṇeti naḥ śrutam
6 atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham
taṃ kṣamasveti siṣidhus tataḥ sa virarāma ha
7 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām
samantapañcakam iti puṇyaṃ tatparikīrtitam
8 yena liṅgena yo deśo yuktaḥ samupalakṣyate
tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ
9 antare caiva saṃprāpte kalidvāparayor abhūt
samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ
10 tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite
aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā
11 evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ
puṇyaś ca ramaṇīyaś ca sa deśo vaḥ prakīrtitaḥ
12 tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ
yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ
13 [rsayag]
akṣauhiṇya iti proktaṃ yat tvayā sūtanandana
etad icchāmahe śrotuṃ sarvam eva yathātatham
14 akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām
yathāvac caiva no brūhi sarvaṃ hi viditaṃ tava
15 [s]
eko ratho jagaś caiko narāḥ pañca padātayaḥ
trayaś ca turagās tajjñaiḥ pattir ity abhidhīyate
16 pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ
trīṇi senāmukhāny eko gulma ity abhidhīyate
17 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ
smṛtās tisras tu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ
18 camūs tu pṛtanās tisras tisraś camvas tv anīkinī
anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ
19 akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ
saṃkhyā gaṇita tattvajñaiḥ sahasrāṇy ekaviṃśatiḥ
20 śatāny upari caivāṣṭau tathā bhūyaś ca saptatiḥ
gajānāṃ tu parīmāṇam etad evātra nirdiśet
21 jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava
narāṇām api pañcāśac chatāni trīṇi cānaghāḥ
22 pañca ṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca
daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā
23 etām akṣauhiṇīṃ prāhuḥ saṃkhyā tattvavido janāḥ
yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ
24 etayā saṃkhyayā hy āsan kurupāṇḍavasenayoḥ
akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ
25 sametās tatra vai deśe tatraiva nidhanaṃ gatāḥ
kauravān kāraṇaṃ kṛtvā kālenādbhuta karmaṇā
26 ahāni yuyudhe bhīṣmo daśaiva paramāstravit
ahāni pañca droṇas tu rarakṣa kuru vāhinīm
27 ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ
śalyo 'rdhadivasaṃ tv āsīd gadāyuddham ataḥ param
28 tasyaiva tu dinasyānte hārdikya drauṇigautamāḥ
prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam
29 yat tu śaunaka satre tu bhāratākhyāna vistaram
ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param
30 vicitrārthapadākhyānam anekasamayānvitam
abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ
31 ātmeva veditavyeṣu priyeṣv iva ca jīvitam
itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣv ayam
32 itihāsottame hy asminn arpitā buddhir uttamā
kharavyañjanayoḥ kṛtsnā lokavedāśrayeva vāk
33 asya prajñābhipannasya vicitrapadaparvaṇaḥ
bhāratasyetihāsasya śrūyatāṃ parva saṃgrahaḥ
34 parvānukramaṇī pūrvaṃ dvitīyaṃ parva saṃgrahaḥ
pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam
35 tataḥ saṃbhava parvoktam adbhutaṃ devanirmitam
dāho jatu gṛhasyātra haiḍimbaṃ parva cocyate
36 tato bakavadhaḥ parva parva caitrarathaṃ tataḥ
tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate
37 kṣatradharmeṇa nirmitya tato vaivāhikaṃ smṛtam
vidurāgamanaṃ parva rājyalambhas tathaiva ca
38 arjunasya vanevāsaḥ subhadrāharaṇaṃ tataḥ
subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam
39 tataḥ khāṇḍava dāhākhyaṃ tatraiva maya darśanam
sabhā parva tataḥ proktaṃ mantraparva tataḥ param
40 jarāsaṃdha vadhaḥ parva parva dig vijayas tathā
parva dig vijayād ūrdhvaṃ rājasūyikam ucyate
41 tataś cārghābhiharaṇaṃ śiśupāla vadhas tataḥ
dyūtaparva tataḥ proktam anudyūtam ataḥ param
42 tata āraṇyakaṃ parva kirmīravadha eva ca
īśvarārjunayor yuddhaṃ parva kairāta saṃjñitam
43 indralokābhigamanaṃ parva jñeyam ataḥ param
tīrthayātrā tataḥ parva kururājasya dhīmataḥ
44 jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param
tathaivājagaraṃ parva vijñeyaṃ tadanantaram
45 mārkaṇḍeya samasyā ca parvoktaṃ tadanantaram
saṃvādaś ca tataḥ parva draupadī satyabhāmayoḥ
46 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ
vrīhi drauṇikam ākhyānaṃ tato 'nantaram ucyate
47 draupadī haraṇaṃ parva saindhavena vanāt tataḥ
kuṇḍalāharaṇaṃ parva tataḥ param ihocyate
48 āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram
kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ
49 abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam
udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam
50 tataḥ saṃjaya yānākhyaṃ parva jñeyam ataḥ param
prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā
51 parva sānatsujātaṃ ca guhyam adhyātmadarśanam
yānasaṃdhis tataḥ parva bhagavad yānam eva ca
52 jñeyaṃ vivāda parvātra karṇasyāpi mahātmanaḥ
niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ
53 rathātiratha saṃkhyā ca parvoktaṃ tadanantaram
ulūka dūtāgamanaṃ parvāmarṣa vivardhanam
54 ambopākhyānam api ca parva jñeyam ataḥ param
bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam
55 jambū khaṇḍa vinirmāṇaṃ parvoktaṃ tadanantaram
bhūmiparva tato jñeyaṃ dvīpavistara kīrtanam
56 parvoktaṃ bhagavad gītā parva bhīsma vadhas tataḥ
droṇābhiṣekaḥ parvoktaṃ saṃśaptaka vadhas tataḥ
57 abhimanyuvadhaḥ parva pratijñā parva cocyate
jayadrathavadhaḥ parva ghaṭotkaca vadhas tataḥ
58 tato droṇa vadhaḥ parva vijñeyaṃ lomaharṣaṇam
mokṣo nārāyaṇāstrasya parvānantaram ucyate
59 karṇa parva tato jñeyaṃ śalya parva tataḥ param
hrada praveśanaṃ parva gadāyuddham ataḥ param
60 sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam
ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate
61 aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam
jalapradānikaṃ parva strī parva ca tataḥ param
62 śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam
ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ
63 cārvāka nigrahaḥ parva rakṣaso brahmarūpiṇaḥ
pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram
64 śānti parva tato yatra rājadharmānukīrtanam
āpad dharmaś ca parvoktaṃ mokṣadharmas tataḥ param
65 tataḥ parva parijñeyam ānuśāsanikaṃ param
svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ
66 tata āśvamedhikaṃ parva sarvapāpapraṇāśanam
anugītā tataḥ parva jñeyam adhyātmavācakam
67 parva cāśramavāsākhyaṃ putradarśanam eva ca
nāradāgamanaṃ parva tataḥ param ihocyate
68 mausalaṃ parva ca tato ghoraṃ samanuvarṇyate
mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ
69 hari vaṃśas tataḥ parva purāṇaṃ khila saṃjñitam
bhaviṣyat parva cāpy uktaṃ khileṣv evādbhutaṃ mahat
70 etat parva śataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā
yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ
71 kathitaṃ naimiṣāraṇye parvāṇy aṣṭādaśaiva tu
samāso bhāratasyāyaṃ tatroktaḥ parva saṃgrahaḥ
72 pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam
paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ
73 āstīke sarvanāgānāṃ garuḍasya ca saṃbhavaḥ
kṣīrodamathanaṃ caiva janmocchaiḥ śravasas tathā
74 yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca
katheyam abhinirvṛttā bhāratānāṃ mahātmanām
75 vividhāḥ saṃbhavā rājñām uktāḥ saṃbhava parvaṇi
anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca
76 aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam
daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām
77 nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām
anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ
78 vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām
śaṃtanor veśmani punas teṣāṃ cārohaṇaṃ divi
79 tejo 'ṃśānāṃ ca saṃghātād bhīṣmasyāpy atra saṃbhavaḥ
rājyān nivartanaṃ caiva brahmacarya vrate sthitiḥ
80 pratijñā pālanaṃ caiva rakṣā citrāṅgadasya ca
hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ
81 vicitravīryasya tathā rājye saṃpratipādanam
dharmasya nṛṣu saṃbhūtir aṇī māṇḍavya śāpajā
82 kṛṣṇadvaipāyanāc caiva prasūtir varadānajā
dhṛtarāṣṭrasya pāṇḍoś ca pāṇḍavānāṃ ca saṃbhavaḥ
83 vāraṇāvata yātrā ca mantro duryodhanasya ca
vidurasya ca vākyena suruṅgopakrama kriyā
84 pāṇḍavānāṃ vane ghore hiḍimbāyāś ca darśanam
ghaṭotkacasya cotpattir atraiva parikīrtitā
85 ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇa veśmani
bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ
86 aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunas tadā
bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau
87 tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam
pañcendrāṇām upākhyānam atraivādbhutam ucyate
88 pañcānām ekapatnītve vimarśo drupadasya ca
draupadyā deva vihito vivāhaś cāpy amānuṣaḥ
89 vidurasya ca saṃprāptir darśanaṃ keśavasya ca
khāṇḍava prasthavāsaś ca tathā rājyārdha śāsanam
90 nāradasyājñayā caiva draupadyāḥ samayakriyā
sundopasundayos tatra upākhyānaṃ prakīrtitam
91 pārthasya vanavāsaś ca ulūpyā pathi saṃgamaḥ
puṇyatīrthānusaṃyānaṃ babhru vāhana janma ca
92 dvārakāyāṃ subhadrā ca kāmayānena kāminī
vāsudevasyānumate prāptā caiva kirīṭinā
93 haraṇaṃ gṛhya saṃprāpte kṛṣṇe devakinandane
saṃprāptiś cakradhanuṣoḥ khāṇḍavasya ca dāhanam
94 abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ
mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam
maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ
95 ity etad ādhi parvoktaṃ prathamaṃ bahuvistaram
adhyāyānāṃ śate dve tu saṃkhāte paramarṣiṇā
aṣṭādaśaiva cādhyāyā vyāsenottama tejasā
96 sapta ślokasahasrāṇi tathā nava śatāni ca
ślokāś ca caturāśītir dṛṣṭo grantho mahātmanā
97 dvitīyaṃ tu sabhā parva bahu vṛttāntam ucyate
sabhā kriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam
98 lokapāla sabhākhyānaṃ nāradād deva darśanāt
rājasūyasya cārambho jarāsaṃdha vadhas tathā
99 girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam
rājasūye 'rgha saṃvāde śiśupāla vadhas tathā
100 yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca
duryodhanasyāvahāso bhīmena ca sabhā tale
101 yatrāsya manyur udbhūto yena dyūtam akārayat
yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat
102 yatra dyūtārṇave magnān draupadī naur ivārṇavāt
tārayām āsa tāṃs tīrṇāñ jñātvā duryodhano nṛpaḥ
punar eva tato dyūte samāhvayata pāṇḍavān
103 etat sarvaṃ sabhā parva samākhyātaṃ mahātmanā
adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā
104 ślokānāṃ dve sahasre tu pañca ślokaśatāni ca
ślokāś caikādaśa jñeyāḥ parvaṇy asmin prakīrtitāḥ
105 ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat
paurānugamanaṃ caiva dharmaputrasya dhīmataḥ
106 vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ
yatra saubhavadhākhyānaṃ kirmīravadha eva ca
astrahetor vivāsaś ca pārthasyāmita tejasaḥ
107 mahādevena yuddhaṃ ca kirāta vapuṣā saha
darśanaṃ lokapālānāṃ svargārohaṇam eva ca
108 darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ
yudhiṣṭhirasya cārtasya vyasane paridevanam
109 nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam
damayantyāḥ sthitir yatra nalasya vyasanāgame
110 vanavāsa gatānāṃ ca pāṇḍavānāṃ mahātmanām
svarge pravṛttir ākhyātā lomaśenārjunasya vai
111 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām
jaṭāsurasya tatraiva vadhaḥ samupavarṇyate
112 niyukto bhīmasenaś ca draupadyā gandhamādane
yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat
113 yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ
yakṣaiś cāpi mahāvīryair maṇimat pramukhais tathā
114 āgastyam api cākhyānaṃ yatra vātāpi bhakṣaṇam
lopāmudrābhigamanam apatyārtham ṛṣer api
115 tataḥ śyenakapotīyam upākhyānam anantaram
indro 'gnir yatra dharmaś ca ajijñāsañ śibiṃ nṛpam
116 ṛśya śṛṅgasya caritaṃ kaumāra brahmacāriṇaḥ
jāmadagnyasya rāmasya caritaṃ bhūri tejasaḥ
117 kārtavīrya vadho yatra haihayānāṃ ca varṇyate
saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ
118 śaryāti yajñe nāsatyau kṛtavān somapīthinau
tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ
119 jantūpākhyānam atraiva yatra putreṇa somakaḥ
putrārtham ayajad rājā lebhe putraśataṃ ca saḥ
120 aṣṭāvakrīyam atraiva vivāde yatra bandinam
vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ
121 avāpya divyāny astrāṇi gurvarthe savyasācinā
nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ
122 samāgamaś ca pārthasya bhrātṛbhir gandhamādane
ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ
123 punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ
jayadrathenāpahāro draupadyāś cāśramāntarāt
124 yatrainam anvayād bhīmo vāyuvegasamo jave
mārkaṇḍeya samasyāyām upākhyānāni bhāgaśaḥ
125 saṃdarśanaṃ ca kṛṣṇasya saṃvādaś caiva satyayā
vrīhi drauṇikam ākhyānam aindradyumnaṃ tathaiva ca
126 sāvitry auddālakīyaṃ ca vainyopākhyānam eva ca
rāmāyaṇam upākhyānam atraiva bahuvistaram
127 karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt
āraṇeyam upākhyānaṃ yatra dharmo 'nvaśāt sutam
jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam
128 etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam
atrādhyāya śate dve tu saṃkhyāte paramarṣiṇā
ekona saptatiś caiva tathādhyāyāḥ prakīrtitāḥ
129 ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca
catuḥṣaṣṭis tathā ślokāḥ parvaitat parikīrtitam
130 ataḥ paraṃ nibodhedaṃ vairāṭaṃ parva vistaram
virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm
dṛṣṭvā saṃnidadhus tatra pāṇḍavā āyudhāny uta
131 yatra praviśya nagaraṃ chadmabhir nyavasanta te
durātmano vadho yatra kīcakasya vṛkodarāt
132 gograhe yatra pārthena nirjitāḥ kuravo yudhi
godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ
133 virāṭenottarā dattā snuṣā yatra kirīṭinaḥ
abhimanyuṃ samuddiśya saubhadram arighātinam
134 caturtham etad vipulaṃ vairāṭaṃ parva varṇitam
atrāpi parisaṃkhyātam adhyāyānāṃ mahātmanā
135 saptaṣaṣṭiratho pūrṇā ślokāgram api me śṛṇu
ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu
parvaṇy asmin samākhyātāḥ saṃkhyayā paramarṣiṇā
136 udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param
upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā
duryodhano 'rjunaś caiva vāsudevam upasthitau
137 sāhāyyam asmin samare bhavān nau kartum arhati
ity ukte vacane kṛṣṇo yatrovāca mahāmatiḥ
138 ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau
akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmy aham
139 vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ
ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ
140 saṃjayaṃ preṣayām āsa śamārthaṃ pāṇḍavān prati
yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān
141 śrutvā ca pāṇḍavān yatra vāsudeva purogamān
prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cintayā
142 viduro yatra vākyāni vicitrāṇi hitāni ca
śrāvayām āsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
143 tathā sanatsujātena yatrādhyātmam anuttamam
manastāpānvito rājā śrāvitaḥ śokalālasaḥ
144 prabhāte rājasamitau saṃjayo yatra cābhibhoḥ
aikātmyaṃ vāsudevasya proktavān arjunasya ca
145 yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ
svayam āgāc chamaṃ kartuṃ nagaraṃ nāgasāhvayam
146 pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai
śamārthaṃ yācamānasya pakṣayor ubhayor hitam
147 karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam
yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam
148 ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ
upāyapūrvaṃ śauṇḍīryāt pratyākhyātaś ca tena saḥ
149 tataś cāpy abhiniryātrā rathāśvanaradantinām
nagarād dhāstina purād balasaṃkhyānam eva ca
150 yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati
śvo bhāvini mahāyuddhe dūtyena krūra vādinā
rathātiratha saṃkhyānam ambopākhyānam eva ca
151 etat subahu vṛttāntaṃ pañcamaṃ parva bhārate
udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam
152 adhyāyāḥ saṃkhyayā tv atra ṣaḍ aśīti śataṃ smṛtam
ślokānāṃ ṣaṭ sahasrāṇi tāvanty eva śatāni ca
153 ślokāś ca navatiḥ proktās tathaivāṣṭau mahātmanā
vyāsenodāra matinā parvaṇy asmiṃs tapodhanāḥ
154 ata ūrdhvaṃ vicitrārthaṃ bhīṣma parva pracakṣate
jambū khaṇḍa vinirmāṇaṃ yatroktaṃ saṃjayena ha
155 yatra yuddham abhūd ghoraṃ daśāhāny atidāruṇam
yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param
156 kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ
mohajaṃ nāśayām āsa hetubhir mokṣadarśanaiḥ
157 śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ
vinighnan niśitair bāṇai rathād bhīṣmam apātayat
158 ṣaṣṭham etan mahāparva bhārate parikīrtitam
adhyāyānāṃ śataṃ proktaṃ sapta daśa tathāpare
159 pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca
ślokāś ca caturāśītiḥ parvaṇy asmin prakīrtitāḥ
vyāsena vedaviduṣā saṃkhyātā bhīṣma parvaṇi
160 droṇa parva tataś citraṃ bahu vṛttāntam ucyate
yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt
161 bhagadatto mahārājo yatra śakrasamo yudhi
supratīkena nāgena saha śastaḥ kirīṭinā
162 yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ
jayadrathamukhā bālaṃ śūram aprāptayauvanam
163 hate 'bhimanyau kruddhena yatra pārthena saṃyuge
akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ
saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave
164 alambusaḥ śrutāyuś ca jalasaṃdhaś ca vīryavān
saumadattir virāṭaś ca drupadaś ca mahārathaḥ
ghaṭotkacādayaś cānye nihatā droṇa parvaṇi
165 aśvatthāmāpi cātraiva droṇe yudhi nipātite
astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ
166 saptamaṃ bhārate parva mahad etad udāhṛtam
atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ
droṇa parvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ
167 adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatis tathā
aṣṭau ślokasahasrāṇi tathā nava śatāni ca
168 ślokā nava tathaivātra saṃkhyātās tattvadarśinā
pārāśaryeṇa muninā saṃcintya droṇa parvaṇi
169 ataḥ paraṃ karṇa parva procyate paramādbhutam
sārathye viniyogaś ca madrarājasya dhīmataḥ
ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam
170 prayāṇe paruṣaś cātra saṃvādaḥ karṇa śalyayoḥ
haṃsakākīyam ākhyānam atraivākṣepa saṃhitam
171 anyonyaṃ prati ca krodho yudhiṣṭhira kirīṭinoḥ
dvairathe yatra pārthena hataḥ karṇo mahārathaḥ
172 aṣṭamaṃ parva nirdiṣṭam etad bhārata cintakaiḥ
ekona saptatiḥ proktā adhyāyāḥ karṇa parvaṇi
catvāry eva sahasrāṇi nava ślokaśatāni ca
173 ataḥ paraṃ vicitrārthaṃ śakya parva prakīrtitam
hatapravīre sainye tu netā madreśvaro 'bhavat
174 vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ
vināśaḥ kurumukhyānāṃ śalya parvaṇi kīrtyate
175 śalyasya nidhanaṃ cātra dharmarājān mahārathāt
gadāyuddhaṃ tu tumulam atraiva parikīrtitam
sarasvatyāś ca tīrthānāṃ puṇyatā parikīrtitā
176 navamaṃ parva nirdiṣṭam etad adbhutam arthavat
ekona ṣaṣṭir adhyāyās tatra saṃkhyā viśāradaiḥ
177 saṃkhyātā bahu vṛttāntāḥ ślokāgraṃ cātra śasyate
trīṇi ślokasahasrāṇi dve śate viṃśatis tathā
muninā saṃpraṇītāni kauravāṇāṃ yaśo bhṛtām
178 ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam
bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam
179 vyapayāteṣu pārtheṣu trayas te 'bhyāyayū rathāḥ
kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ
180 pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ
ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān
pāṇḍavāṃś ca sahāmātyān na vimokṣyāmi daṃśanam
181 prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ
pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ
182 yatrāmucyanta pārthās te pañca kṛṣṇa balāśrayāt
sātyakiś ca maheṣvāsaḥ śeṣāś ca nidhanaṃ gatāḥ
183 draupadī putraśokārtā pitṛbhrātṛvadhārditā
kṛtānaśana saṃkalpā yatra bhartṝn upāviśat
184 draupadī vacanād yatra bhīmo bhīmaparākramaḥ
anvadhāvata saṃkruddho bharadvājaṃ guroḥ sutam
185 bhīmasena bhayād yatra daivenābhipracoditaḥ
apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat
186 maivam ity abravīt kṛṣṇaḥ śamayaṃs tasya tad vacaḥ
yatrāstram astreṇa ca tac chamayām āsa phālgunaḥ
187 drauṇidvaipāyanādīnāṃ śāpāś cānyonya kāritāḥ
toyakarmaṇi sarveṣāṃ rājñām udakadānike
188 gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ
sutasyaitad iha proktaṃ daśamaṃ parva sauptikam
189 aṣṭādaśāsminn adhyāyāḥ parvaṇy uktā mahātmanā
ślokāgram atra kathitaṃ śatāny aṣṭau tathaiva ca
190 ślokāś ca saptatiḥ proktā yathāvad abhisaṃkhyayā
sauptikaiṣīka saṃbandhe parvaṇy amitabuddhinā
191 ata ūrdhvam idaṃ prāhuḥ strī parva karuṇodayam
vilāpo vīra patnīnāṃ yatrātikaruṇaḥ smṛtaḥ
krodhāveśaḥ prasādaś ca gāndhārī dhṛtarāṣṭrayoḥ
192 yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ
putrān bhrātṝn pitṝṃś caiva dadṛśur nihatān raṇe
193 yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ
rājñāṃ tāni śarīrāṇi dāhayām āsa śāstrataḥ
194 etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat
sapta viṃśatir adhyāyāḥ parvaṇy asminn udāhṛtāḥ
195 ślokāḥ saptaśataṃ cātra pañca saptatir ucyate
saṃkhayā bhāratākhyānaṃ kartrā hy atra mahātmanā
praṇītaṃ sajjana mano vaiklavyāśru pravartakam
196 ataḥ paraṃ śānti parva dvādaśaṃ buddhivardhanam
yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ
ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān
197 śānti parvaṇi dharmāś ca vyākhyātāḥ śaratalpikāḥ
rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ
198 āpad dharmāś ca tatraiva kālahetu pradarśakāḥ
yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt
mokṣadharmāś ca kathitā vicitrā bahuvistarāḥ
199 dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam
parvaṇy atra parijñeyam adhyāyānāṃ śatatrayam
triṃśac caiva tathādhyāyā nava caiva tapodhanāḥ
200 ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa
pañca caiva śatāny āhuḥ pañcaviṃśatisaṃkhyayā
201 ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam
yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam
bhīṣmād bhāgīrathī putrāt kururājo yudhiṣṭhiraḥ
202 vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ
vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ
203 tathā pātraviśeṣāś ca dānānāṃ ca paro vidhiḥ
ācāra vidhiyogaś ca satyasya ca parā gatiḥ
204 etat subahu vṛttāntam uttamaṃ cānuśāsanam
bhīṣmasyātraiva saṃprāptiḥ svargasya parikīrtitā
205 etat trayodaśaṃ parva dharmaniścaya kārakam
adhyāyānāṃ śataṃ cātra ṣaṭ catvāriṃśad eva ca
ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca
206 tata āśvamedhikaṃ nāma parva proktaṃ caturdaśam
tat saṃvartamaruttīyaṃ yatrākhyānam anuttamam
207 suvarṇakośasaṃprāptir janma coktaṃ parikṣitaḥ
dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ
208 caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ
tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ
209 citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ
saṃgrāme babhru vāhena saṃśayaṃ cātra darśitaḥ
aśvamedhe mahāyajñe nakulākhyānam eva ca
210 ity āśvamedhikaṃ parva proktam etan mahādbhutam
atrādhyāya śataṃ triṃśat trayo 'dhyāyāś ca śabditāḥ
211 trīṇi ślokasahasrāṇi tāvanty eva śatāni ca
viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā
212 tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam
yatra rājyaṃ parityajya gāndhārī sahito nṛpaḥ
dhṛtarāṣṭrāśramapadaṃ viduraś ca jagāma ha
213 yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpy anuyayau tadā
putrarājyaṃ parityajya guruśuśrūṣaṇe ratā
214 yatra rājā hatān putrān pautrān anyāṃś ca pārthivān
lokāntara gatān vīrān apaśyat punarāgatān
215 ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam
tyaktvā śokaṃ sadāraś ca siddhiṃ paramikāṃ gataḥ
216 yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ
saṃjayaś ca mahāmātro vidvān gāvalgaṇir vaśī
217 dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ
nāradāc caiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat
218 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam
dvicatvāriṃśad adhyāyāḥ parvaitad abhisaṃkhyayā
219 sahasram ekaṃ ślokānāṃ pañca ślokaśatāni ca
ṣaḍ eva ca tathā ślokāḥ saṃkhyātās tattvadarśinā
220 ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam
yatra te puruṣavyāghrāḥ śastrasparśa sahā yudhi
brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ
221 āpāne pānagalitā daivenābhipracoditāḥ
erakā rūpibhir vajrair nijaghnur itaretaram
222 yatra sarvakṣayaṃ kṛtvā tāv ubhau rāma keśavau
nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam
223 yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām
dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ
224 sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ
dadarśa yaduvīrāṇām āpane vaiśasaṃ mahat
225 śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ
saṃskāraṃ lambhayām āsa vṛṣṇīnāṃ ca pradhānataḥ
226 sa vṛddhabālam ādāya dvāravatyās tato janam
dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam
227 sarveṣāṃ caiva divyānām astrāṇām aprasannatām
nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām
228 dṛṣṭvā nivedam āpanno vyāsa vākyapracoditaḥ
dharmarājaṃ samāsādya saṃnyāsaṃ samarocayat
229 ity etan mausalaṃ parva ṣoḍaśaṃ parikīrtitam
adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam
230 mahāprasthānikaṃ tasmād ūrdhvaṃ sapta daśaṃ smṛtam
yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ
draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ
231 atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā
viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā
232 svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam
adhyāyāḥ pañca saṃkhyātā parvaitad abhisaṃkhyayā
ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ
233 aṣṭādaśaivam etāni parvāṇy uktāny aśeṣataḥ
khileṣu harivaṃśaś ca bhaviṣyac ca prakīrtitam
234 etad akhilam ākhyātaṃ bhārataṃ parva saṃgrahāt
aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā
tan mahad dāruṇaṃ yuddham ahāny aṣṭādaśābhavat
235 yo vidyāc caturo vedān sāṅgopaniṣadān dvijaḥ
na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ
236 śrutvā tv idam upākhyānaṃ śrāvyam anyan na rocate
puṃḥ kokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva
237 itihāsottamād asmāj jāyante kavi buddhayaḥ
pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ
238 asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ
antarikṣasya viṣaye prajā iva caturvidhāḥ
239 kriyā guṇānāṃ sarveṣām idam ākhyānam āśrayaḥ
indriyāṇāṃ samastānāṃ citrā iva manaḥ kriyāḥ
240 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate
āhāram anapāśritya śarīrasyeva dhāraṇam
241 idaṃ sarvaiḥ kavi varair ākhyānam upajīvyate
udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ
242 dvaipāyanauṣṭha puṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca
yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkara jalair abhiṣecanena
243 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ; vinyastaṃ mahad iha parva saṃgraheṇa
śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

3 of 2013 Book 0% ~26 min left