Book 1: Chapter 1
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 1: Chapter 1

The Mahabharata in Sanskrit

Book 1

Chapter 1

0 नारायणं नमस्कृत्य नरं चैव नरॊत्तमम
देवीं सरस्वतीं चैव ततॊ जयम उदीरयेत
1 लॊमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादशवार्षिके सत्रे
2 समासीनान अभ्यगच्छद बरह्मर्षीन संशितव्रतान
विनयावनतॊ भूत्वा कदा चित सूतनन्दनः
3 तम आश्रमम अनुप्राप्तं नैमिषारण्यवासिनः
चित्राः शरॊतुं कथास तत्र परिवव्रुस तपस्विनः
4 अभिवाद्य मुनींस तांस तु सर्वान एव कृताञ्जलिः
अपृच्छत स तपॊवृद्धिं सद्भिश चैवाभिनन्दितः
5 अथ तेषूपविष्टेषु सर्वेष्व एव तपस्विषु
निर्दिष्टम आसनं भेजे विनयाल लॊमहर्षणिः
6 सुखासीनं ततस तं तु विश्रान्तम उपलक्ष्य च
अथापृच्छद ऋषिस तत्र कश चित परस्तावयन कथाः
7 कृत आगम्यते सौते कव चायं विहृतस तवया
कालः कमलपत्राक्ष शंसैतत पृच्छतॊ मम
8 [सूत]
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः
समीपे पार्थिवेन्द्रस्य सम्यक पारिक्षितस्य च
9 कृष्णद्वैपायन परॊक्ताः सुपुण्या विविधाः कथाः
कथिताश चापि विधिवद या वैशम्पायनेन वै
10 शरुत्वाहं ता विचित्रार्था महाभारत संश्रिताः
बहूनि संपरिक्रम्य तीर्थान्य आयतनानि च
11 समन्तपञ्चकं नाम पुण्यं दविजनिषेवितम
गतवान अस्मि तं देशं युद्धं यत्राभवत पुरा
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम
12 दिदृक्षुर आगतस तस्मात समीपं भवताम इह
आयुष्मन्तः सर्व एव बरह्मभूता हि मे मताः
13 अस्मिन यज्ञे महाभागाः सूर्यपावक वर्चसः
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः
भवन्त आसते सवस्था बरवीमि किम अहं दविजाः
14 पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः
इतिवृत्तं नरेन्द्राणाम ऋषीणां च महात्मनाम
15 [रसयह]
दवैपायनेन यत परॊक्तं पुराणं परमर्षिणा
सुरैर बरह्मर्षिभिश चैव शरुत्वा यद अभिपूजितम
16 तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः
सूक्ष्मार्थ नयाययुक्तस्य वेदार्थैर भूषितस्य च
17 भारतस्येतिहासस्य पुण्यां गरन्थार्थ संयुताम
संस्कारॊपगतां बराह्मीं नानाशास्त्रॊपबृंहिताम
18 जनमेजयस्य यां राज्ञॊ वैशम्पायन उक्तवान
यथावत स ऋषिस तुष्ट्या सत्रे दवैपायनाज्ञया
19 वेदैश चतुर्भिः समितां वयासस्याद्भुत कर्मणः
संहितां शरॊतुम इच्छामॊ धर्म्यां पापभयापहाम
20 [सूत]
आद्यं पुरुषम ईशानं पुरुहूतं पुरु षटुतम
ऋतम एकाक्षरं बरह्म वयक्ताव्यक्तं सनातनम
21 असच च सच चैव च यद विश्वं सद असतः परम
परावराणां सरष्टारं पुराणं परम अव्ययम
22 मङ्गल्यं मङ्गलं विष्णुं वरेण्यम अनघं शुचिम
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम
23 महर्षेः पूजितस्येह सर्वलॊके महात्मनः
परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः
24 आचख्युः कवयः के चित संप्रत्याचक्षते परे
आख्यास्यन्ति तथैवान्ये इतिहासम इमं भुवि
25 इदं तु तरिषु लॊकेषु महज जञानं परतिष्ठितम
विस्तरैश च समासैश च धार्यते यद दविजातिभिः
26 अलंकृतं शुभैः शब्दैः समयैर दिव्यमानुषैः
छन्दॊ वृत्तैश च विविधैर अन्वितं विदुषां परियम
27 निष्प्रभे ऽसमिन निरालॊके सर्वतस तमसावृते
बृहद अण्डम अभूद एकं परजानां बीजम अक्षयम
28 युगस्यादौ निमित्तं तन महद दिव्यं परचक्षते
यस्मिंस तच छरूयते सत्यं जयॊतिर बरह्म सनातनम
29 अद्भुतं चाप्य अचिन्त्यं च सर्वत्र समतां गतम
अव्यक्तं कारणं सूक्ष्मं यत तत सदसद आत्मकम
30 यस्मात पितामहॊ जज्ञे परभुर एकः परजापतिः
बरह्मा सुरगुरुः सथाणुर मनुः कः परमेष्ठ्य अथ
31 पराचेतसस तथा दक्षॊ दष्क पुत्राश च सप्त ये
ततः परजानां पतयः पराभवन्न एकविंशतिः
32 पुरुषश चाप्रमेयात्मा यं सर्वम ऋषयॊ विदुः
विश्वे देवास तथादित्या वसवॊ ऽथाश्विनाव अपि
33 यक्षाः साध्याः पिशाचाश च गुह्यकाः पितरस तथा
ततः परसूता विद्वांसः शिष्टा बरह्मर्षयॊ ऽमलाः
34 राजर्षयश च बहवः सर्वैः समुदिता गुणैः
आपॊ दयौः पृथिवी वायुर अन्तरिक्षं दिशस तथा
35 संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रयः करमात
यच चान्यद अपि तत सर्वं संभूतं लॊकसाक्षिकम
36 यद इदं दृश्यते किं चिद भूतं सथावरजङ्गमम
पुनः संक्षिप्यते सर्वं जगत पराप्ते युगक्षये
37 यथर्ताव ऋतुलिङ्गानि नानारूपाणि पर्यये
दृश्यन्ते तानि तान्य एव तथा भावा युगादिषु
38 एवम एतद अनाद्य अन्तं भूतसंहार कारकम
अनादि निधनं लॊके चक्रं संपरिवर्तते
39 तरयस तरिंशत सहस्राणि तरयस तरिंशच छतानि च
तरयस तरिंशच च देवानां सृष्टिः संक्षेप लक्षणा
40 दिवः पुत्रॊ बृहद भानुश चक्षुर आत्मा विभावसुः
सविता च ऋचीकॊ ऽरकॊ भानुर आशा वहॊ रविः
41 पुत्रा विवस्वतः सर्वे मह्यस तेषां तथावरः
देव भराट तनयस तस्य तस्मात सुभ्राड इति समृतः
42 सुभ्राजस तु तरयः पुत्राः परजावन्तॊ बहुश्रुताः
दश जयॊतिः शतज्यॊतिः सहस्रज्यॊतिर आत्मवान
43 दश पुत्रसहस्राणि दश जयॊतेर महात्मनः
ततॊ दशगुणाश चान्ये शतज्यॊतेर इहात्मजाः
44 भूयस ततॊ दशगुणाः सहस्रज्यॊतिषः सुताः
तेभ्यॊ ऽयं कुरुवंशश च यदूनां भरतस्य च
45 ययातीक्ष्वाकु वंशश च राजर्षीणां च सर्वशः
संभूता बहवॊ वंशा भूतसर्गाः सविस्तराः
46 भूतस्थानानि सर्वाणि रहस्यं विविधं च यत
वेद यॊगं सविज्ञानं धर्मॊ ऽरथः काम एव च
47 धर्मकामार्थ शास्त्राणि शास्त्राणि विविधानि च
लॊकयात्रा विधानं च संभूतं दृष्टवान ऋषिः
48 इतिहासाः सवैयाख्या विविधाः शरुतयॊ ऽपि च
इह सर्वम अनुक्रान्तम उक्तं गरन्थस्य लक्षणम
49 विस्तीर्यैतन महज जञानम ऋषिः संक्षेपम अब्रवीत
इष्टं हि विदुषां लॊके समास वयास धारणम
50 मन्वादि भारतं के चिद आस्तीकादि तथापरे
तथॊपरिचराद्य अन्ये विप्राः सम्यग अधीयते
51 विविधं संहिता जञानं दीपयन्ति मनीषिणः
वयाख्यातुं कुशलाः के चिद गरन्थं धारयितुं परे
52 तपसा बरह्मचर्येण वयस्य वेदं सनातनम
इतिहासम इमं चक्रे पुण्यं सत्यवती सुतः
53 पराशरात्मजॊ विद्वान बरह्मर्षिः संशितव्रतः
मातुर नियॊगाद धर्मात्मा गाङ्गेयस्य च धीमतः
54 कषेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा
तरीन अग्नीन इव कौरव्याञ जनयाम आस वीर्यवान
55 उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरम एव च
जगाम तपसे धीमान पुनर एवाश्रमं परति
56 तेषु जातेषु वृद्धेषु गतेषु परमां गतिम
अब्रवीद भारतं लॊके मानुषे ऽसमिन महान ऋषिः
57 जनमेजयेन पृष्टः सन बराह्मणैश च सहस्रशः
शशास शिष्यम आसीनं वैशम्पायनम अन्तिके
58 स सदस्यैः सहासीनः शरावयाम आस भारतम
कर्मान्तरेषु यज्ञस्य चॊद्यमानः पुनः पुनः
59 विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम
कषत्तुः परज्ञां धृतिं कुन्त्याः सम्यग दवैपायनॊ ऽबरवीत
60 वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम
दुर्वृत्तं धार्तराष्ट्राणाम उक्तवान भगवान ऋषिः
61 चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम
उपाख्यानैर विना तावद भारतं परॊच्यते बुधैः
62 ततॊ ऽधयर्धशतं भूयः संक्षेपं कृतवान ऋषिः
अनुक्रमणिम अध्यायं वृत्तान्तानां सपर्वणाम
63 इदं दवैपायनः पूर्वं पुत्रम अध्यापयच छुकम
ततॊ ऽनयेभ्यॊ ऽनुरूपेभ्यः शिष्येभ्यः परददौ परभुः
64 नारदॊ ऽशरावयद देवान असितॊ देवलः पितॄन
गन्धर्वयक्षरक्षांसि शरावयाम आस वै शुकः
65 दुर्यॊधनॊ मन्युमयॊ महाद्रुमः; सकन्धः कर्णः शकुनिस तस्य शाखाः
दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रॊ ऽमनीषी
66 युधिष्ठिरॊ धर्ममयॊ महाद्रुमः; सकन्धॊ ऽरजुनॊ भीमसेनॊ ऽसय शाखाः
माद्री सुतौ पुष्पफले समृद्धे; मूलं कृष्णॊ बरह्म च बराह्मणाश च
67 पाण्डुर जित्वा बहून देशान युधा विक्रमणेन च
अरण्ये मृगया शीलॊ नयवसत सजनस तदा
68 मृगव्यवाय निधने कृच्छ्रां पराप स आपदम
जन्मप्रभृति पार्थानां तत्राचार विधिक्रमः
69 मात्रॊर अभ्युपपत्तिश च धर्मॊपनिषदं परति
धर्मस्य वायॊः शक्रस्य देवयॊश च तथाश्विनॊः
70 तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः
मेध्यारण्येषु पुण्येषु महताम आश्रमेषु च
71 ऋषिभिश च तदानीता धार्तराष्ट्रान परति सवयम
शिशवश चाभिरूपाश च जटिला बरह्मचारिणः
72 पुत्राश च भरातरश चेमे शिष्याश च सुहृदश च वः
पाण्डवा एत इत्य उक्त्वा मुनयॊ ऽनतर्हितास ततः
73 तांस तैर निवेदितान दृष्ट्वा पाण्डवान कौरवास तदा
शिष्टाश च वर्णाः पौरा ये ते हर्षाच चुक्रुशुर भृशम
74 आहुः के चिन न तस्यैते तस्यैत इति चापरे
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे
75 सवागतं सर्वथा दिष्ट्या पाण्डॊः पश्याम संततिम
उच्यतां सवागतम इति वाचॊ ऽशरूयन्त सर्वशः
76 तस्मिन्न उपरते शब्दे दिशः सर्वा विनादयन
अन्तर्हितानां भूतानां निस्वनस तुमुलॊ ऽभवत
77 पुष्पवृष्टिं शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः
आसन परवेशे पार्थानां तद अद्भुतम इवाभवत
78 तत परीत्या चैव सर्वेषां पौराणां हर्षसंभवः
शब्द आसीन महांस तत्र दिवस्पृक कीर्तिवर्धनः
79 ते ऽपय अधीत्याखिलान वेदाञ शास्त्राणि विविधानि च
नयवसन पाण्डवास तत्र पूजिता अकुतॊभयाः
80 युधिष्ठिरस्य शौचेन परीताः परकृतयॊ ऽभवन
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च
81 गुरुशुश्रूषया कुन्त्या यमयॊर विनयेन च
तुतॊष लॊकः सकलस तेषां शौर्यगुणेन च
82 समवाये ततॊ राज्ञां कन्यां भर्तृस्वयंवराम
पराप्तवान अर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम
83 ततः परभृति लॊके ऽसमिन पूज्यः सर्वधनुष्मताम
आदित्य इव दुष्प्रेक्ष्यः समरेष्व अपि चाभवत
84 स सर्वान पार्थिवाञ जित्वा सर्वांश च महतॊ गणान
आजहारार्जुनॊ राज्ञे राजसूयं महाक्रतुम
85 अन्नवान दक्षिणावांश च सर्वैः समुदितॊ गुणैः
युधिष्ठिरेण संप्राप्तॊ राजसूयॊ महाक्रतुः
86 सुनयाद वासुदेवस्य भीमार्जुनबलेन च
घातयित्वा जरासंधं चैद्यं च बलगर्वितम
87 दुर्यॊधनम उपागच्छन्न अर्हणानि ततस ततः
मणिकाञ्चनरत्नानि गॊहस्त्यश्वधनानि च
88 समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा शरियम
ईर्ष्या समुत्थः सुमहांस तस्य मन्युर अजायत
89 विमानप्रतिमां चापि मयेन सुकृतां सभाम
पाण्डवानाम उपहृतां स दृष्ट्वा पर्यतप्यत
90 यत्रावहसितश चासीत परस्कन्दन्न इव संभ्रमात
परत्यक्षं वासुदेवस्य भीमेनानभिजातवत
91 स भॊगान विविधान भुञ्जन रत्नानि विविधानि च
कथितॊ धृतराष्ट्रस्य विवर्णॊ हरिणः कृशः
92 अन्वजानाद अतॊ दयूतं धृतराष्ट्रः सुतप्रियः
तच छरुत्वा वासुदेवस्य कॊपः समभवन महान
93 नातिप्रीति मनाश चासीद विवादांश चान्वमॊदत
दयूतादीन अनयान घॊरान परवृद्धांश चाप्य उपैक्षत
94 निरस्य विदुरं दरॊणं भीष्मं शारद्वतं कृपम
विग्रहे तुमुले तस्मिन्न अहन कषत्रं परस्परम
95 जयत्सु पाण्डुपुत्रेषु शरुत्वा सुमहद अप्रियम
दुर्यॊधन मतं जञात्वा कर्णस्य शकुनेस तथा
धृतराष्ट्रश चिरं धयात्वा संजयं वाक्यम अब्रवीत
96 शृणु संजय मे सर्वं न मे ऽसूयितुम अर्हसि
शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः
97 न विग्रहे मम मतिर न च परीये कुरु कषये
न मे विशेषः पुत्रेषु सवेषु पाण्डुसुतेषु च
98 वृद्धं माम अभ्यसूयन्ति पुत्रा मन्युपरायणाः
अहं तव अचक्षुः कार्पण्यात पुत्र परीत्या सहामि तत
मुह्यन्तं चानुमुह्यामि दुर्यॊधनम अचेतनम
99 राजसूये शरियं दृष्ट्वा पाण्डवस्य महौजसः
तच चावहसनं पराप्य सभारॊहण दर्शने
100 अमर्षितः सवयं जेतुम अशक्तः पाण्डवान रणे
निरुत्साहश च संप्राप्तुं शरियम अक्षत्रियॊ यथा
गान्धारराजसहितश छद्म दयूतम अमन्त्रयत
101 तत्र यद यद यथा जञातं मया संजय तच छृणु
शरुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः
ततॊ जञास्यसि मां सौते परज्ञा चक्षुषम इत्य उत
102 यदाश्रौषं धनुर आयम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम
कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय
103 यदाश्रौषं दवारकायां सुभद्रां; परसह्यॊढां माधवीम अर्जुनेन
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय संजय
104 यदाश्रौषं देवराजं परवृष्टं; शरैर दिव्यैर वारितं चार्जुनेन
अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय
105 यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम
अन्वागतं भरातृभिर अप्रमेयैस; तदा नाशंसे विजयाय संजय
106 यदाश्रौषं दरौपदीम अश्रुकण्ठीं; सभां नीतां दुःखिताम एकवस्त्राम
रजस्वलां नाथवतीम अनाथवत; तदा नाशंसे विजयाय संजय
107 यदाश्रौषं विविधास तात चेष्टा; धर्मात्मनां परस्थितानां वनाय
जयेष्ठप्रीत्या कलिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय
108 यदाश्रौषं सनातकानां सहस्रैर; अन्वागतं धर्मराजं वनस्थम
भिक्षाभुजां बराह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय
109 यदाश्रौषम अर्जुनॊ देवदेवं; किरात रूपं तर्यम्बकं तॊष्य युद्धे
अवाप तत पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय
110 यदाश्रौषं तरिदिवस्थं धनंजयं; शक्रात साक्षाद दिव्यम अस्त्रं यथावत
अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय
111 यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीमम अन्यांश च पार्थान
तस्मिन देशे मानुषाणाम अगम्ये; तदा नाशंसे विजयाय संजय
112 यदाश्रौषं घॊषयात्रा गतानां; बन्धं गन्धर्वैर मॊक्षणं चार्जुनेन
सवेषां सुतानां कर्ण बुद्धौ रतानां; तदा नाशंसे विजयाय संजय
113 यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत
परश्नान उक्तान विब्रुवन्तं च सम्यक; तदा नाशंसे विजयाय संजय
114 यदाश्रौषं मामकानां वरिष्ठान; धनंजयेनैक रथेन भग्नान
विराट राष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय
115 यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम उत्तराम अर्जुनाय
तां चार्जुनः परत्यगृह्णात सुतार्थे; तदा नाशंसे विजयाय संजय
116 यदाश्रौषं निर्जितस्याधनस्य; परव्राजितस्य सवजनात परच्युतस्य
अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय
117 यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतॊ नारदस्य
अहं दरष्टा बरह्मलॊके सदेति; तदा नाशंसे विजयाय संजय
118 यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम
यस्येमां गां विक्रमम एकम आहुस; तदा नाशंसे विजयाय संजय
119 यदाश्रौषं कर्णदुर्यॊधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य
तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय
120 यदाश्रौषं वासुदेवे परयाते; रथस्यैकाम अग्रतस तिष्ठमानाम
आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय
121 यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शांतनवं च तेषाम
भारद्वाजं चाशिषॊ ऽनुब्रुवाणं; तदा नाशंसे विजयाय संजय
122 यदाश्रौषं कर्ण उवाच भीष्मं; नाहं यॊत्स्ये युध्यमाने तवयीति
हित्वा सेनाम अपचक्राम चैव; तदा नाशंसे विजयाय संजय
123 यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर गाण्डिवम अप्रमेयम
तरीण्य उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय
124 यदाश्रौषं कश्मलेनाभिपन्ने; रथॊपस्थे सीदमाने ऽरजुने वै
कृष्णं लॊकान दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय
125 यदाश्रौषं भीष्मम अमित्रकर्शनं; निघ्नन्तम आजाव अयुतं रथानाम
नैषां कश चिद वध्यते दृश्यरूपस; तदा नाशंसे विजयाय संजय
126 यदाश्रौषं भीष्मम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम
शिखण्डिनं पुरतः सथापयित्वा; तदा नाशंसे विजयाय संजय
127 यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः
भीष्मं कृत्वा सॊमकान अल्पशेषांस; तदा नाशंसे विजयाय संजय
128 यदाश्रौषं शांतनवे शयाने; पानीयार्थे चॊदितेनार्जुनेन
भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय
129 यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानाम अनुलॊमौ जयाय
नित्यं चास्माञ शवापदा वयाभषन्तस; तदा नाशंसे विजयाय संजय
130 यदा दरॊणॊ विविधान अस्त्रमार्गान; विदर्शयन समरे चित्रयॊधी
न पाण्डवाञ शरेष्ठतमान निहन्ति; तदा नाशंसे विजयाय संजय
131 यदाश्रौषं चास्मदीयान महारथान; वयवस्थितान अर्जुनस्यान्तकाय
संसप्तकान निहतान अर्जुनेन; तदा नाशंसे विजयाय संजय
132 यदाश्रौषं वयूहम अभेद्यम अन्यैर; भारद्वाजेनात्त शस्त्रेण गुप्तम
भित्त्वा सौभद्रं वीरम एकं परविष्टं; तदा नाशंसे विजयाय संजय
133 यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः
महारथाः पार्थम अशक्नुवन्तस; तदा नाशंसे विजयाय संजय
134 यदाश्रौषम अभिमन्युं निहत्य; हर्षान मूढान करॊशतॊ धार्तराष्ट्रान
करॊधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय
135 यदाश्रौषं सैन्धवार्थे परतिज्ञां; परतिज्ञातां तद वधायार्जुनेन
सत्यां निस्तीर्णां शत्रुमध्ये च; तेन तदा नाशंसे विजयाय संजय
136 यदाश्रौषं शरान्तहये धनंजये; मुक्त्वा हयान पाययित्वॊपवृत्तान
पुनर युक्त्वा वासुदेवं परयातं; तदा नाशंसे विजयाय संजय
137 यदाश्रौषं वाहनेष्व आश्वसत्सु; रथॊपस्थे तिष्ठता गाण्डिवेन
सर्वान यॊधान वारितान अर्जुनेन; तदा नाशंसे विजयाय संजय
138 यदाश्रौषं नागबलैर दुरुत्सहं; दरॊणानीकं युयुधानं परमथ्य
यातं वार्ष्णेयं यत्र तौ कृष्ण पार्थौ; तदा नाशंसे विजयाय संजय
139 यदाश्रौषं कर्णम आसाद्य मुक्तं; वधाद भीमं कुत्सयित्वा वचॊभिः
धनुष्कॊट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय
140 यदा दरॊणः कृतवर्मा कृपश च; कर्णॊ दरौणिर मद्रराजश च शूरः
अमर्षयन सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय
141 यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं वयंसितां माधवेन
घटॊत्कचे राक्षसे घॊररूपे; तदा नाशंसे विजयाय संजय
142 यदाश्रौषं कर्ण घटॊत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम
यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय
143 यदाश्रौषं दरॊणम आचार्यम एकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम
रथॊपस्थे परायगतं विशस्तं; तदा नाशंसे विजयाय संजय
144 यदाश्रौषं दरौणिना दवैरथस्थं; माद्रीपुत्रं नकुलं लॊकमध्ये
समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय
145 यदा दरॊणे निहते दरॊणपुत्रॊ; नारायणं दिव्यम अस्त्रं विकुर्वन
नैषाम अन्तं गतवान पाण्डवानां; तदा नाशंसे विजयाय संजय
146 यदाश्रौषं कर्णम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम
तस्मिन भरातॄणां विग्रहे देव गुह्ये; तदा नाशंसे विजयाय संजय
147 यदाश्रौषं दरॊणपुत्रं कृपं च; दुःशासनं कृतवर्माणम उग्रम
युधिष्ठिरं शून्यम अधर्षयन्तं; तदा नाशंसे विजयाय संजय
148 यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत
सदा संग्रामे सपर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय
149 यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन
हतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय
150 यदाश्रौषं शरान्तम एकं शयानं; हरदं गत्वा सतम्भयित्वा तद अम्भः
दुर्यॊधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय
151 यदाश्रौषं पाण्डवांस तिष्ठमानान; गङ्गा हरदे वासुदेवेन सार्धम
अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय
152 यदाश्रौषं विविधांस तात मार्गान; गदायुद्धे मण्डलं संचरन्तम
मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय
153 यदाश्रौषं दरॊणपुत्रादिभिस तैर; हतान पाञ्चालान दरौपदेयांश च सुप्तान
कृतं बीभत्समय शस्यं च कर्म; तदा नाशंसे विजयाय संजय
154 यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं परयुक्तम
करुद्धेनैषीकम अवधीद येन गर्भं; तदा नाशंसे विजयाय संजय
155 यदाश्रौषं बरह्मशिरॊ ऽरजुनेन मुक्तं; सवस्तीत्य अस्त्रम अस्त्रेण शान्तम
अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय
156 यदाश्रौषं दरॊणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे
दवैपायनः केशवॊ दरॊणपुत्रं; परस्परेणाभिशापैः शशाप
157 शॊच्या गान्धारी पुत्रपौत्रैर विहीना; तथा वध्वः पितृभिर भरातृभिश च
कृतं कार्यं दुष्करं पाण्डवेयैः; पराप्तं राज्यम असपत्नं पुनस तैः
158 कष्टं युद्धे दश शेषाः शरुता मे; तरयॊ ऽसमाकं पाण्डवानां च सप्त
दव्यूना विंशतिर आहताक्षौहिणीनां; तस्मिन संग्रामे विग्रहे कषत्रियाणाम
159 तमसा तव अभ्यवस्तीर्णॊ मॊह आविशतीव माम
संज्ञां नॊपलभे सूत मनॊ विह्वलतीव मे
160 इत्य उक्त्वा धृतराष्ट्रॊ ऽथ विलप्य बहुदुःखितः
मूर्च्छितः पुनर आश्वस्तः संजयं वाक्यम अब्रवीत
161 संजयैवं गते पराणांस तयक्तुम इच्छामि माचिरम
सतॊकं हय अपि न पश्यामि फलं जीवितधारणे
162 तं तथा वादिनं दीनं विलपन्तं महीपतिम
गावल्गणिर इदं धीमान महार्थं वाक्यम अब्रवीत
163 शरुतवान असि वै राज्ञॊ महॊत्साहान महाबलान
दवैपायनस्य वदतॊ नारदस्य च धीमतः
164 महत्सु राजवंशेषु गुणैः समुदितेषु च
जातान दिव्यास्त्रविदुषः शक्र परतिमतेजसः
165 धर्मेण पृथिवीं जित्वा यज्ञैर इष्ट्वाप्त दक्षिणैः
अस्मिँल लॊके यशः पराप्य ततः कालवशं गताः
166 वैन्यं महारथं वीरं सृञ्जयं जयतां वरम
सुहॊत्रं रन्ति देवं च कक्षीवन्तं तथौशिजम
167 बाह्लीकं दमनं शैब्यं शर्यातिम अजितं जितम
विश्वामित्रम अमित्रघ्नम अम्बरीषं महाबलम
168 मरुत्तं मनुम इक्ष्वाकुं गयं भरतम एव च
रामं दाशरथिं चैव शशबिन्दुं भगीरथम
169 ययातिं शुभकर्माणं देवैर यॊ याजितः सवयम
चैत्ययूपाङ्किता भूमिर यस्येयं सवनाकरा
170 इति राज्ञां चतुर्विंशन नारदेन सुरर्षिणा
पुत्रशॊकाभितप्ताय पुरा शैब्याय कीर्तिताः
171 तेभ्यश चान्ये गताः पूर्वं राजानॊ बलवत्तराः
महारथा महात्मानः सर्वैः समुदिता गुणैः
172 पूरुः कुरुर यदुः शूरॊ विष्वग अश्वॊ महाधृतिः
अनेना युवनाश्वश च ककुत्स्थॊ विक्रमी रघुः
173 विजिती वीति हॊत्रश च भवः शवेतॊ बृहद गुरुः
उशीनरः शतरथः कङ्कॊ दुलिदुहॊ दरुमः
174 दम्भॊद्भवः परॊ वेनः सगरः संकृतिर निमिः
अजेयः परशुः पुण्ड्रः शम्भुर देवावृधॊ ऽनघः
175 देवाह्वयः सुप्रतिमः सुप्रतीकॊ बृहद्रथः
महॊत्साहॊ विनीतात्मा सुक्रतुर नैषधॊ नलः
176 सत्यव्रतः शान्तभयः सुमित्रः सुबलः परभुः
जानु जङ्घॊ ऽनरण्यॊ ऽरकः परिय भृत्यः शुभव्रतः
177 बलबन्धुर निरामर्दः केतुशृङ्गॊ बृहद्बलः
धृष्टकेतुर बृहत केतुर दीप्तकेतुर निरामयः
178 अविक्षित परबलॊ धूर्तः कृतबन्धुर दृढेषुधिः
महापुराणः संभाव्यः परत्यङ्गः परहा शरुतिः
179 एते चान्ये च बहवः शतशॊ ऽथ सहस्रशः
शरूयन्ते ऽयुतशश चान्ये संख्याताश चापि पद्मशः
180 हित्वा सुविपुलान भॊगान बुद्धिमन्तॊ महाबलाः
राजानॊ निधनं पराप्तास तव पुत्रैर महत्तमाः
181 येषां दिव्यानि कर्माणि विक्रमस तयाग एव च
माहात्म्यम अपि चास्तिक्यं सत्यता शौचम आर्जवम
182 विद्वद्भिः कथ्यते लॊके पुराणैः कवि सत्तमैः
सर्वर्द्धि गुणसंपन्नास ते चापि निधनं गताः
183 तव पुत्रा दुरात्मानः परतप्ताश चैव मन्युना
लुब्धा दुर्वृत्त भूयिष्ठा न ताञ शॊचितुम अर्हसि
184 शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः
येषां शास्त्रानुगा बुद्धिर न ते मुह्यन्ति भारत
185 निग्रहानुग्रहौ चापि विदितौ ते नराधिप
नात्यन्तम एवानुवृत्तिः शरूयते पुत्र रक्षणे
186 भवितव्यं तथा तच च नातः शॊचितुम अर्हसि
दैवं परज्ञा विशेषेण कॊ निवर्तितुम अर्हति
187 विधातृविहितं मार्गं न कश चिद अतिवर्तते
कालमूलम इदं सर्वं भावाभावौ सुखासुखे
188 कालः पचति भूतानि कालः संहरति परजाः
निर्दहन्तं परजाः कालं कालः शमयते पुनः
189 कालॊ विकुरुते भावान सर्वाँल लॊके शुभाशुभान
कालः संक्षिपते सर्वाः परजा विसृजते पुनः
कालः सर्वेषु भूतेषु चरत्य अविधृतः समः
190 अतीतानागता भावा ये च वर्तन्ति सांप्रतम
तान कालनिर्मितान बुद्ध्वा न संज्ञां हातुम अर्हसि
191 [स]
अत्रॊपनिषदं पुण्यां कृष्णद्वैपायनॊ ऽबरवीत
भारताध्ययनात पुण्याद अपि पादम अधीयतः
शरद्दधानस्य पूयन्ते सर्वपापान्य अशेषतः
192 देवर्षयॊ हय अत्र पुण्या बरह्म राजर्षयस तथा
कीर्त्यन्ते शुभकर्माणस तथा यक्षमहॊरगाः
193 भगवान वासुदेवश च कीर्त्यते ऽतर सनातनः
स हि सत्यम ऋतं चैव पवित्रं पुण्यम एव च
194 शाश्वतं बरह्म परमं धरुवं जयॊतिः सनातनम
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः
195 असत सत सद असच चैव यस्माद देवात परवर्तते
संततिश च परवृत्तिश च जन्ममृत्युः पुनर्भवः
196 अध्यात्मं शरूयते यच च पञ्च भूतगुणात्मकम
अव्यक्तादि परं यच च स एव परिगीयते
197 यत तद यति वरा युक्ता धयानयॊगबलान्विताः
परतिबिम्बम इवादर्शे पश्यन्त्य आत्मन्य अवस्थितम
198 शरद्दधानः सदॊद्युक्तः सत्यधर्मपरायणः
आसेवन्न इमम अध्यायं नरः पापात परमुच्यते
199 अनुक्रमणिम अध्यायं भारतस्येमम आदितः
आस्तिकः सततं शृण्वन न कृच्छ्रेष्व अवसीदति
200 उभे संध्ये जपन किं चित सद्यॊ मुच्येत किल्बिषात
अनुक्रमण्या यावत सयाद अह्ना रात्र्या च संचितम
201 भारतस्य वपुर हय एतत सत्यं चामृतम एव च
नव नीतं यथा दध्नॊ दविपदां बराह्मणॊ यथा
202 हरदानाम उदधिः शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम
यथैतानि वरिष्ठानि तथा भरतम उच्यते
203 यश चैनं शरावयेच छराद्धे बराह्मणान पादम अन्ततः
अक्षय्यम अन्नपानं तत पितॄंस तस्यॊपतिष्ठति
204 इतिहास पुराणाभ्यां वेदं समुपबृंहयेत
बिभेत्य अल्पश्रुताद वेदॊ माम अयं परतरिष्यति
205 कार्ष्णं वेदम इमं विद्वाञ शरावयित्वार्थम अश्नुते
भरूण हत्या कृतं चापि पापं जह्यान न संशयः
206 य इमं शुचिर अध्यायं पठेत पर्वणि पर्वणि
अधीतं भारतं तेन कृत्स्नं सयाद इति मे मतिः
207 यश चेमं शृणुयान नित्यम आर्षं शरद्धासमन्वितः
स दीर्घम आयुः कीर्तिं च सवर्गतिं चाप्नुयान नरः
208 चत्वार एकतॊ वेदा भारतं चैकम एकतः
समागतैः सुरर्षिभिस तुलाम आरॊपितं पुरा
महत्त्वे च गुरुत्वे च धरियमाणं ततॊ ऽधिकम
209 महत्त्वाद भारवत्त्वाच च महाभारतम उच्यते
निरुक्तम अस्य यॊ वेद सर्वपापैः परमुच्यते
210 तपॊ न कल्कॊ ऽधययनं न कल्कः; सवाभाविकॊ वेद विधिर न कल्कः
परसह्य वित्ताहरणं न कल्कस; तान्य एव भावॊपहतानि कल्कः
0 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
devīṃ sarasvatīṃ caiva tato jayam udīrayet
1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre
2 samāsīnān abhyagacchad brahmarṣīn saṃśitavratān
vinayāvanato bhūtvā kadā cit sūtanandanaḥ
3 tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ
citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ
4 abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ
apṛcchat sa tapovṛddhiṃ sadbhiś caivābhinanditaḥ
5 atha teṣūpaviṣṭeṣu sarveṣv eva tapasviṣu
nirdiṣṭam āsanaṃ bheje vinayāl lomaharṣaṇiḥ
6 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca
athāpṛcchad ṛṣis tatra kaś cit prastāvayan kathāḥ
7 kṛta āgamyate saute kva cāyaṃ vihṛtas tvayā
kālaḥ kamalapatrākṣa śaṃsaitat pṛcchato mama
8 [sūta]
janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ
samīpe pārthivendrasya samyak pārikṣitasya ca
9 kṛṣṇadvaipāyana proktāḥ supuṇyā vividhāḥ kathāḥ
kathitāś cāpi vidhivad yā vaiśampāyanena vai
10 śrutvāhaṃ tā vicitrārthā mahābhārata saṃśritāḥ
bahūni saṃparikramya tīrthāny āyatanāni ca
11 samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam
gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā
pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām
12 didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha
āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ
13 asmin yajñe mahābhāgāḥ sūryapāvaka varcasaḥ
kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ
bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ
14 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ
itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām
15 [rsayah]
dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā
surair brahmarṣibhiś caiva śrutvā yad abhipūjitam
16 tasyākhyāna variṣṭhasya vicitrapadaparvaṇaḥ
sūkṣmārtha nyāyayuktasya vedārthair bhūṣitasya ca
17 bhāratasyetihāsasya puṇyāṃ granthārtha saṃyutām
saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām
18 janamejayasya yāṃ rājño vaiśampāyana uktavān
yathāvat sa ṛṣis tuṣṭyā satre dvaipāyanājñayā
19 vedaiś caturbhiḥ samitāṃ vyāsasyādbhuta karmaṇaḥ
saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām
20 [sūta]
ādyaṃ puruṣam īśānaṃ puruhūtaṃ puru ṣṭutam
ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam
21 asac ca sac caiva ca yad viśvaṃ sad asataḥ param
parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam
22 maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim
namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim
23 maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmita tejasaḥ
24 ācakhyuḥ kavayaḥ ke cit saṃpratyācakṣate pare
ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi
25 idaṃ tu triṣu lokeṣu mahaj jñānaṃ pratiṣṭhitam
vistaraiś ca samāsaiś ca dhāryate yad dvijātibhiḥ
26 alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ
chando vṛttaiś ca vividhair anvitaṃ viduṣāṃ priyam
27 niṣprabhe 'smin nirāloke sarvatas tamasāvṛte
bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam
28 yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate
yasmiṃs tac chrūyate satyaṃ jyotir brahma sanātanam
29 adbhutaṃ cāpy acintyaṃ ca sarvatra samatāṃ gatam
avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasad ātmakam
30 yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ
brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhy atha
31 prācetasas tathā dakṣo daṣka putrāś ca sapta ye
tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ
32 puruṣaś cāprameyātmā yaṃ sarvam ṛṣayo viduḥ
viśve devās tathādityā vasavo 'thāśvināv api
33 yakṣāḥ sādhyāḥ piśācāś ca guhyakāḥ pitaras tathā
tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ
34 rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ
āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā
35 saṃvatsarartavo māsāḥ pakṣāho rātrayaḥ kramāt
yac cānyad api tat sarvaṃ saṃbhūtaṃ lokasākṣikam
36 yad idaṃ dṛśyate kiṃ cid bhūtaṃ sthāvarajaṅgamam
punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye
37 yathartāv ṛtuliṅgāni nānārūpāṇi paryaye
dṛśyante tāni tāny eva tathā bhāvā yugādiṣu
38 evam etad anādy antaṃ bhūtasaṃhāra kārakam
anādi nidhanaṃ loke cakraṃ saṃparivartate
39 trayas triṃśat sahasrāṇi trayas triṃśac chatāni ca
trayas triṃśac ca devānāṃ sṛṣṭiḥ saṃkṣepa lakṣaṇā
40 divaḥ putro bṛhad bhānuś cakṣur ātmā vibhāvasuḥ
savitā ca ṛcīko 'rko bhānur āśā vaho raviḥ
41 putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ
deva bhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ
42 subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ
daśa jyotiḥ śatajyotiḥ sahasrajyotir ātmavān
43 daśa putrasahasrāṇi daśa jyoter mahātmanaḥ
tato daśaguṇāś cānye śatajyoter ihātmajāḥ
44 bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ
tebhyo 'yaṃ kuruvaṃśaś ca yadūnāṃ bharatasya ca
45 yayātīkṣvāku vaṃśaś ca rājarṣīṇāṃ ca sarvaśaḥ
saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ
46 bhūtasthānāni sarvāṇi rahasyaṃ vividhaṃ ca yat
veda yogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca
47 dharmakāmārtha śāstrāṇi śāstrāṇi vividhāni ca
lokayātrā vidhānaṃ ca saṃbhūtaṃ dṛṣṭavān ṛṣiḥ
48 itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca
iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam
49 vistīryaitan mahaj jñānam ṛṣiḥ saṃkṣepam abravīt
iṣṭaṃ hi viduṣāṃ loke samāsa vyāsa dhāraṇam
50 manvādi bhārataṃ ke cid āstīkādi tathāpare
tathoparicarādy anye viprāḥ samyag adhīyate
51 vividhaṃ saṃhitā jñānaṃ dīpayanti manīṣiṇaḥ
vyākhyātuṃ kuśalāḥ ke cid granthaṃ dhārayituṃ pare
52 tapasā brahmacaryeṇa vyasya vedaṃ sanātanam
itihāsam imaṃ cakre puṇyaṃ satyavatī sutaḥ
53 parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ
mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ
54 kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā
trīn agnīn iva kauravyāñ janayām āsa vīryavān
55 utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca
jagāma tapase dhīmān punar evāśramaṃ prati
56 teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim
abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ
57 janamejayena pṛṣṭaḥ san brāhmaṇaiś ca sahasraśaḥ
śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike
58 sa sadasyaiḥ sahāsīnaḥ śrāvayām āsa bhāratam
karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ
59 vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām
kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt
60 vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām
durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ
61 caturviṃśatisāhasrīṃ cakre bhārata saṃhitām
upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ
62 tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ
anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām
63 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayac chukam
tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ
64 nārado 'śrāvayad devān asito devalaḥ pitṝn
gandharvayakṣarakṣāṃsi śrāvayām āsa vai śukaḥ
65 duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ
duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī
66 yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ
mādrī sutau puṣpaphale samṛddhe; mūlaṃ kṛṣṇo brahma ca brāhmaṇāś ca
67 pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca
araṇye mṛgayā śīlo nyavasat sajanas tadā
68 mṛgavyavāya nidhane kṛcchrāṃ prāpa sa āpadam
janmaprabhṛti pārthānāṃ tatrācāra vidhikramaḥ
69 mātror abhyupapattiś ca dharmopaniṣadaṃ prati
dharmasya vāyoḥ śakrasya devayoś ca tathāśvinoḥ
70 tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ
medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca
71 ṛṣibhiś ca tadānītā dhārtarāṣṭrān prati svayam
śiśavaś cābhirūpāś ca jaṭilā brahmacāriṇaḥ
72 putrāś ca bhrātaraś ceme śiṣyāś ca suhṛdaś ca vaḥ
pāṇḍavā eta ity uktvā munayo 'ntarhitās tataḥ
73 tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā
śiṣṭāś ca varṇāḥ paurā ye te harṣāc cukruśur bhṛśam
74 āhuḥ ke cin na tasyaite tasyaita iti cāpare
yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare
75 svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim
ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ
76 tasminn uparate śabde diśaḥ sarvā vinādayan
antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat
77 puṣpavṛṣṭiṃ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ
āsan praveśe pārthānāṃ tad adbhutam ivābhavat
78 tat prītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ
śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ
79 te 'py adhītyākhilān vedāñ śāstrāṇi vividhāni ca
nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ
80 yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan
dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca
81 guruśuśrūṣayā kuntyā yamayor vinayena ca
tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca
82 samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām
prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram
83 tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām
āditya iva duṣprekṣyaḥ samareṣv api cābhavat
84 sa sarvān pārthivāñ jitvā sarvāṃś ca mahato gaṇān
ājahārārjuno rājñe rājasūyaṃ mahākratum
85 annavān dakṣiṇāvāṃś ca sarvaiḥ samudito guṇaiḥ
yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ
86 sunayād vāsudevasya bhīmārjunabalena ca
ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam
87 duryodhanam upāgacchann arhaṇāni tatas tataḥ
maṇikāñcanaratnāni gohastyaśvadhanāni ca
88 samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam
īrṣyā samutthaḥ sumahāṃs tasya manyur ajāyata
89 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām
pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata
90 yatrāvahasitaś cāsīt praskandann iva saṃbhramāt
pratyakṣaṃ vāsudevasya bhīmenānabhijātavat
91 sa bhogān vividhān bhuñjan ratnāni vividhāni ca
kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ
92 anvajānād ato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ
tac chrutvā vāsudevasya kopaḥ samabhavan mahān
93 nātiprīti manāś cāsīd vivādāṃś cānvamodata
dyūtādīn anayān ghorān pravṛddhāṃś cāpy upaikṣata
94 nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam
vigrahe tumule tasminn ahan kṣatraṃ parasparam
95 jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam
duryodhana mataṃ jñātvā karṇasya śakunes tathā
dhṛtarāṣṭraś ciraṃ dhyātvā saṃjayaṃ vākyam abravīt
96 śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi
śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
97 na vigrahe mama matir na ca prīye kuru kṣaye
na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca
98 vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ
ahaṃ tv acakṣuḥ kārpaṇyāt putra prītyā sahāmi tat
muhyantaṃ cānumuhyāmi duryodhanam acetanam
99 rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ
tac cāvahasanaṃ prāpya sabhārohaṇa darśane
100 amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe
nirutsāhaś ca saṃprāptuṃ śriyam akṣatriyo yathā
gāndhārarājasahitaś chadma dyūtam amantrayat
101 tatra yad yad yathā jñātaṃ mayā saṃjaya tac chṛṇu
śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ
tato jñāsyasi māṃ saute prajñā cakṣuṣam ity uta
102 yadāśrauṣaṃ dhanur āyamya citraṃ; viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām
kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ; tadā nāśaṃse vijayāya saṃjaya
103 yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ; prasahyoḍhāṃ mādhavīm arjunena
indraprasthaṃ vṛṣṇivīrau ca yātau; tadā nāśaṃse vijayāya saṃjaya
104 yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ; śarair divyair vāritaṃ cārjunena
agniṃ tathā tarpitaṃ khāṇḍave ca; tadā nāśaṃse vijayāya saṃjaya
105 yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ; parājitaṃ saubalenākṣavatyām
anvāgataṃ bhrātṛbhir aprameyais; tadā nāśaṃse vijayāya saṃjaya
106 yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ; sabhāṃ nītāṃ duḥkhitām ekavastrām
rajasvalāṃ nāthavatīm anāthavat; tadā nāśaṃse vijayāya saṃjaya
107 yadāśrauṣaṃ vividhās tāta ceṣṭā; dharmātmanāṃ prasthitānāṃ vanāya
jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
108 yadāśrauṣaṃ snātakānāṃ sahasrair; anvāgataṃ dharmarājaṃ vanastham
bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāśaṃse vijayāya saṃjaya
109 yadāśrauṣam arjuno devadevaṃ; kirāta rūpaṃ tryambakaṃ toṣya yuddhe
avāpa tat pāśupataṃ mahāstraṃ; tadā nāśaṃse vijayāya saṃjaya
110 yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ; śakrāt sākṣād divyam astraṃ yathāvat
adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ; tadā nāśaṃse vijayāya saṃjaya
111 yadāśrauṣaṃ vaiśravaṇena sārdhaṃ; samāgataṃ bhīmam anyāṃś ca pārthān
tasmin deśe mānuṣāṇām agamye; tadā nāśaṃse vijayāya saṃjaya
112 yadāśrauṣaṃ ghoṣayātrā gatānāṃ; bandhaṃ gandharvair mokṣaṇaṃ cārjunena
sveṣāṃ sutānāṃ karṇa buddhau ratānāṃ; tadā nāśaṃse vijayāya saṃjaya
113 yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ; samāgataṃ dharmarājena sūta
praśnān uktān vibruvantaṃ ca samyak; tadā nāśaṃse vijayāya saṃjaya
114 yadāśrauṣaṃ māmakānāṃ variṣṭhān; dhanaṃjayenaika rathena bhagnān
virāṭa rāṣṭre vasatā mahātmanā; tadā nāśaṃse vijayāya saṃjaya
115 yadāśrauṣaṃ satkṛtāṃ matsyarājñā; sutāṃ dattām uttarām arjunāya
tāṃ cārjunaḥ pratyagṛhṇāt sutārthe; tadā nāśaṃse vijayāya saṃjaya
116 yadāśrauṣaṃ nirjitasyādhanasya; pravrājitasya svajanāt pracyutasya
akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṃse vijayāya saṃjaya
117 yadāśrauṣaṃ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya
ahaṃ draṣṭā brahmaloke sadeti; tadā nāśaṃse vijayāya saṃjaya
118 yadāśrauṣaṃ mādhavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārthe niviṣṭam
yasyemāṃ gāṃ vikramam ekam āhus; tadā nāśaṃse vijayāya saṃjaya
119 yadāśrauṣaṃ karṇaduryodhanābhyāṃ; buddhiṃ kṛtāṃ nigrahe keśavasya
taṃ cātmānaṃ bahudhā darśayānaṃ; tadā nāśaṃse vijayāya saṃjaya
120 yadāśrauṣaṃ vāsudeve prayāte; rathasyaikām agratas tiṣṭhamānām
ārtāṃ pṛthāṃ sāntvitāṃ keśavena; tadā nāśaṃse vijayāya saṃjaya
121 yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ; tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām
bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ; tadā nāśaṃse vijayāya saṃjaya
122 yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ; nāhaṃ yotsye yudhyamāne tvayīti
hitvā senām apacakrāma caiva; tadā nāśaṃse vijayāya saṃjaya
123 yadāśrauṣaṃ vāsudevārjunau tau; tathā dhanur gāṇḍivam aprameyam
trīṇy ugravīryāṇi samāgatāni; tadā nāśaṃse vijayāya saṃjaya
124 yadāśrauṣaṃ kaśmalenābhipanne; rathopasthe sīdamāne 'rjune vai
kṛṣṇaṃ lokān darśayānaṃ śarīre; tadā nāśaṃse vijayāya saṃjaya
125 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ; nighnantam ājāv ayutaṃ rathānām
naiṣāṃ kaś cid vadhyate dṛśyarūpas; tadā nāśaṃse vijayāya saṃjaya
126 yadāśrauṣaṃ bhīṣmam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
śikhaṇḍinaṃ purataḥ sthāpayitvā; tadā nāśaṃse vijayāya saṃjaya
127 yadāśrauṣaṃ śaratalpe śayānaṃ; vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ
bhīṣmaṃ kṛtvā somakān alpaśeṣāṃs; tadā nāśaṃse vijayāya saṃjaya
128 yadāśrauṣaṃ śāṃtanave śayāne; pānīyārthe coditenārjunena
bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ; tadā nāśaṃse vijayāya saṃjaya
129 yadāśrauṣaṃ śukrasūryau ca yuktau; kaunteyānām anulomau jayāya
nityaṃ cāsmāñ śvāpadā vyābhaṣantas; tadā nāśaṃse vijayāya saṃjaya
130 yadā droṇo vividhān astramārgān; vidarśayan samare citrayodhī
na pāṇḍavāñ śreṣṭhatamān nihanti; tadā nāśaṃse vijayāya saṃjaya
131 yadāśrauṣaṃ cāsmadīyān mahārathān; vyavasthitān arjunasyāntakāya
saṃsaptakān nihatān arjunena; tadā nāśaṃse vijayāya saṃjaya
132 yadāśrauṣaṃ vyūham abhedyam anyair; bhāradvājenātta śastreṇa guptam
bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ; tadā nāśaṃse vijayāya saṃjaya
133 yadābhimanyuṃ parivārya bālaṃ; sarve hatvā hṛṣṭarūpā babhūvuḥ
mahārathāḥ pārtham aśaknuvantas; tadā nāśaṃse vijayāya saṃjaya
134 yadāśrauṣam abhimanyuṃ nihatya; harṣān mūḍhān krośato dhārtarāṣṭrān
krodhaṃ muktaṃ saindhave cārjunena; tadā nāśaṃse vijayāya saṃjaya
135 yadāśrauṣaṃ saindhavārthe pratijñāṃ; pratijñātāṃ tad vadhāyārjunena
satyāṃ nistīrṇāṃ śatrumadhye ca; tena tadā nāśaṃse vijayāya saṃjaya
136 yadāśrauṣaṃ śrāntahaye dhanaṃjaye; muktvā hayān pāyayitvopavṛttān
punar yuktvā vāsudevaṃ prayātaṃ; tadā nāśaṃse vijayāya saṃjaya
137 yadāśrauṣaṃ vāhaneṣv āśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena
sarvān yodhān vāritān arjunena; tadā nāśaṃse vijayāya saṃjaya
138 yadāśrauṣaṃ nāgabalair durutsahaṃ; droṇānīkaṃ yuyudhānaṃ pramathya
yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇa pārthau; tadā nāśaṃse vijayāya saṃjaya
139 yadāśrauṣaṃ karṇam āsādya muktaṃ; vadhād bhīmaṃ kutsayitvā vacobhiḥ
dhanuṣkoṭyā tudya karṇena vīraṃ; tadā nāśaṃse vijayāya saṃjaya
140 yadā droṇaḥ kṛtavarmā kṛpaś ca; karṇo drauṇir madrarājaś ca śūraḥ
amarṣayan saindhavaṃ vadhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
141 yadāśrauṣaṃ devarājena dattāṃ; divyāṃ śaktiṃ vyaṃsitāṃ mādhavena
ghaṭotkace rākṣase ghorarūpe; tadā nāśaṃse vijayāya saṃjaya
142 yadāśrauṣaṃ karṇa ghaṭotkacābhyāṃ; yuddhe muktāṃ sūtaputreṇa śaktim
yayā vadhyaḥ samare savyasācī; tadā nāśaṃse vijayāya saṃjaya
143 yadāśrauṣaṃ droṇam ācāryam ekaṃ; dhṛṣṭadyumnenābhyatikramya dharmam
rathopasthe prāyagataṃ viśastaṃ; tadā nāśaṃse vijayāya saṃjaya
144 yadāśrauṣaṃ drauṇinā dvairathasthaṃ; mādrīputraṃ nakulaṃ lokamadhye
samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
145 yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyam astraṃ vikurvan
naiṣām antaṃ gatavān pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
146 yadāśrauṣaṃ karṇam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
tasmin bhrātṝṇāṃ vigrahe deva guhye; tadā nāśaṃse vijayāya saṃjaya
147 yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca; duḥśāsanaṃ kṛtavarmāṇam ugram
yudhiṣṭhiraṃ śūnyam adharṣayantaṃ; tadā nāśaṃse vijayāya saṃjaya
148 yadāśrauṣaṃ nihataṃ madrarājaṃ; raṇe śūraṃ dharmarājena sūta
sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ; tadā nāśaṃse vijayāya saṃjaya
149 yadāśrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena
hataṃ saṃgrāme sahadevena pāpaṃ; tadā nāśaṃse vijayāya saṃjaya
150 yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ; hradaṃ gatvā stambhayitvā tad ambhaḥ
duryodhanaṃ virathaṃ bhagnadarpaṃ; tadā nāśaṃse vijayāya saṃjaya
151 yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān; gaṅgā hrade vāsudevena sārdham
amarṣaṇaṃ dharṣayataḥ sutaṃ me; tadā nāśaṃse vijayāya saṃjaya
152 yadāśrauṣaṃ vividhāṃs tāta mārgān; gadāyuddhe maṇḍalaṃ saṃcarantam
mithyā hataṃ vāsudevasya buddhyā; tadā nāśaṃse vijayāya saṃjaya
153 yadāśrauṣaṃ droṇaputrādibhis tair; hatān pāñcālān draupadeyāṃś ca suptān
kṛtaṃ bībhatsamaya śasyaṃ ca karma; tadā nāśaṃse vijayāya saṃjaya
154 yadāśrauṣaṃ bhīmasenānuyātena; aśvatthāmnā paramāstraṃ prayuktam
kruddhenaiṣīkam avadhīd yena garbhaṃ; tadā nāśaṃse vijayāya saṃjaya
155 yadāśrauṣaṃ brahmaśiro 'rjunena muktaṃ; svastīty astram astreṇa śāntam
aśvatthāmnā maṇiratnaṃ ca dattaṃ; tadā nāśaṃse vijayāya saṃjaya
156 yadāśrauṣaṃ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre
dvaipāyanaḥ keśavo droṇaputraṃ; paraspareṇābhiśāpaiḥ śaśāpa
157 śocyā gāndhārī putrapautrair vihīnā; tathā vadhvaḥ pitṛbhir bhrātṛbhiś ca
kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyam asapatnaṃ punas taiḥ
158 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me; trayo 'smākaṃ pāṇḍavānāṃ ca sapta
dvyūnā viṃśatir āhatākṣauhiṇīnāṃ; tasmin saṃgrāme vigrahe kṣatriyāṇām
159 tamasā tv abhyavastīrṇo moha āviśatīva mām
saṃjñāṃ nopalabhe sūta mano vihvalatīva me
160 ity uktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ
mūrcchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt
161 saṃjayaivaṃ gate prāṇāṃs tyaktum icchāmi māciram
stokaṃ hy api na paśyāmi phalaṃ jīvitadhāraṇe
162 taṃ tathā vādinaṃ dīnaṃ vilapantaṃ mahīpatim
gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt
163 śrutavān asi vai rājño mahotsāhān mahābalān
dvaipāyanasya vadato nāradasya ca dhīmataḥ
164 mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca
jātān divyāstraviduṣaḥ śakra pratimatejasaḥ
165 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāpta dakṣiṇaiḥ
asmiṁl loke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ
166 vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam
suhotraṃ ranti devaṃ ca kakṣīvantaṃ tathauśijam
167 bāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam
viśvāmitram amitraghnam ambarīṣaṃ mahābalam
168 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca
rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham
169 yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam
caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā
170 iti rājñāṃ caturviṃśan nāradena surarṣiṇā
putraśokābhitaptāya purā śaibyāya kīrtitāḥ
171 tebhyaś cānye gatāḥ pūrvaṃ rājāno balavattarāḥ
mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ
172 pūruḥ kurur yaduḥ śūro viṣvag aśvo mahādhṛtiḥ
anenā yuvanāśvaś ca kakutstho vikramī raghuḥ
173 vijitī vīti hotraś ca bhavaḥ śveto bṛhad guruḥ
uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ
174 dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ
ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ
175 devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ
mahotsāho vinītātmā sukratur naiṣadho nalaḥ
176 satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ
jānu jaṅgho 'naraṇyo 'rkaḥ priya bhṛtyaḥ śubhavrataḥ
177 balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ
dhṛṣṭaketur bṛhat ketur dīptaketur nirāmayaḥ
178 avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ
mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ
179 ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ
śrūyante 'yutaśaś cānye saṃkhyātāś cāpi padmaśaḥ
180 hitvā suvipulān bhogān buddhimanto mahābalāḥ
rājāno nidhanaṃ prāptās tava putrair mahattamāḥ
181 yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca
māhātmyam api cāstikyaṃ satyatā śaucam ārjavam
182 vidvadbhiḥ kathyate loke purāṇaiḥ kavi sattamaiḥ
sarvarddhi guṇasaṃpannās te cāpi nidhanaṃ gatāḥ
183 tava putrā durātmānaḥ prataptāś caiva manyunā
lubdhā durvṛtta bhūyiṣṭhā na tāñ śocitum arhasi
184 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata
185 nigrahānugrahau cāpi viditau te narādhipa
nātyantam evānuvṛttiḥ śrūyate putra rakṣaṇe
186 bhavitavyaṃ tathā tac ca nātaḥ śocitum arhasi
daivaṃ prajñā viśeṣeṇa ko nivartitum arhati
187 vidhātṛvihitaṃ mārgaṃ na kaś cid ativartate
kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe
188 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ
nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ
189 kālo vikurute bhāvān sarvāṁl loke śubhāśubhān
kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ
kālaḥ sarveṣu bhūteṣu caraty avidhṛtaḥ samaḥ
190 atītānāgatā bhāvā ye ca vartanti sāṃpratam
tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi
191 [s]
atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt
bhāratādhyayanāt puṇyād api pādam adhīyataḥ
śraddadhānasya pūyante sarvapāpāny aśeṣataḥ
192 devarṣayo hy atra puṇyā brahma rājarṣayas tathā
kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ
193 bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ
sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca
194 śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam
yasya divyāni karmāṇi kathayanti manīṣiṇaḥ
195 asat sat sad asac caiva yasmād devāt pravartate
saṃtatiś ca pravṛttiś ca janmamṛtyuḥ punarbhavaḥ
196 adhyātmaṃ śrūyate yac ca pañca bhūtaguṇātmakam
avyaktādi paraṃ yac ca sa eva parigīyate
197 yat tad yati varā yuktā dhyānayogabalānvitāḥ
pratibimbam ivādarśe paśyanty ātmany avasthitam
198 śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ
āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate
199 anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ
āstikaḥ satataṃ śṛṇvan na kṛcchreṣv avasīdati
200 ubhe saṃdhye japan kiṃ cit sadyo mucyeta kilbiṣāt
anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam
201 bhāratasya vapur hy etat satyaṃ cāmṛtam eva ca
nava nītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā
202 hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām
yathaitāni variṣṭhāni tathā bharatam ucyate
203 yaś cainaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati
204 itihāsa purāṇābhyāṃ vedaṃ samupabṛṃhayet
bibhety alpaśrutād vedo mām ayaṃ pratariṣyati
205 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute
bhrūṇa hatyā kṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ
206 ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi
adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ
207 yaś cemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ
sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ
208 catvāra ekato vedā bhārataṃ caikam ekataḥ
samāgataiḥ surarṣibhis tulām āropitaṃ purā
mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam
209 mahattvād bhāravattvāc ca mahābhāratam ucyate
niruktam asya yo veda sarvapāpaiḥ pramucyate
210 tapo na kalko 'dhyayanaṃ na kalkaḥ; svābhāviko veda vidhir na kalkaḥ
prasahya vittāharaṇaṃ na kalkas; tāny eva bhāvopahatāni kalkaḥ

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

2 of 2013 Book 0% ~25 min left