Book 6: Chapter 41
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required.
Get the drive $127.00

Book 6: Chapter 41

The Mahabharata in Sanskrit

Book 6
Chapter 41

1 संजय उवाच
ततॊ धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम
पुनर एव महानादं वयसृजन्त महारथाः
2 पाण्डवाः सॊमकाश चैव ये चैषाम अनुयायिनः
दध्मुश च मुदिताः शङ्खान वीराः सागरसंभवान
3 ततॊ भेर्यश च पेश्यश च करकचा गॊविषाणिकाः
सहसैवाभ्यहन्यन्त ततः शब्दॊ महान अभूत
4 अथ देवाः सगन्धर्वाः पितरश च जनेश्वर
सिद्धचारणसंघाश च समीयुस ते दिदृक्षया
5 ऋषयश च महाभागाः पुरस्कृत्य शतक्रतुम
समीयुस तत्र सहिता दरष्टुं तद वैशसं महत
6 ततॊ युधिष्ठिरॊ दृष्ट्वा युद्धाय सुसमुद्यते
ते सेने सागरप्रख्ये मुहुः परचलिते नृप
7 विमुच्य कवचं वीरॊ निक्षिप्य च वरायुधम
अवरुह्य रथात तूर्णं पद्भ्याम एव कृताञ्जलिः
8 पितामहम अभिप्रेक्ष्य धर्मराजॊ युधिष्ठिरः
वाग्यतः परययौ येन पराङ्मुखॊ रिपुवाहिनीम
9 तं परयान्तम अभिप्रेक्ष्य कुन्तीपुत्रॊ धनंजयः
अवतीर्य रथात तूर्णं भरातृभिः सहितॊ ऽनवयात
10 वासुदेवश च भगवान पृष्ठतॊ ऽनुजगाम ह
यथामुख्याश च राजानस तम अन्वाजग्मुर उत्सुकाः
11 अर्जुन उवाच
किं ते वयवसितं राजन यद अस्मान अपहाय वै
पद्भ्याम एव परयातॊ ऽसि पराङ्मुखॊ रिपुवाहिनीम
12 भीमसेन उवाच
कव गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः
दंशितेष्व अरिसैन्येषु भरातॄन उत्सृज्य पार्थिव
13 नकुल उवाच
एवंगते तवयि जयेष्ठे मम भरातरि भारत
भीर मे दुनॊति हृदयं बरूहि गन्ता भवान कव नु
14 सहदेव उवाच
अस्मिन रणसमूहे वै वर्तमाने महाभये
यॊद्धव्ये कव नु गन्तासि शत्रून अभिमुखॊ नृप
15 संजय उवाच
एवम आभाष्यमाणॊ ऽपि भरातृभिः कुरुनन्दन
नॊवाच वाग्यतः किं चिद गच्छत्य एव युधिष्ठिरः
16 तान उवाच महाप्राज्ञॊ वासुदेवॊ महामनाः
अभिप्रायॊ ऽसय विज्ञातॊ मयेति परहसन्न इव
17 एष भीष्मं तथा दरॊणं गौतमं शल्यम एव च
अनुमान्य गुरून सर्वान यॊत्स्यते पार्थिवॊ ऽरिभिः
18 शरूयते हि पुराकल्पे गुरून अननुमान्य यः
युध्यते स भवेद वयक्तम अपध्यातॊ महत्तरैः
19 अनुमान्य यथाशास्त्रं यस तु युध्येन महत्तरैः
धरुवस तस्य जयॊ युद्धे भवेद इति मतिर मम
20 एवं बरुवति कृष्णे तु धार्तराष्ट्रचमूं परति
हाहाकारॊ महान आसीन निःशब्दास तव अपरे ऽभवन
21 दृष्ट्वा युधिष्ठिरं दूराद धार्तराष्ट्रस्य सैनिकाः
मिथः संकथयां चक्रुर नेशॊ ऽसति कुलपांसनः
22 वयक्तं भीत इवाभ्येति राजासौ भीष्मम अन्तिकात
युधिष्ठिरः ससॊदर्यः शरणार्थं परयाचकः
23 धनंजये कथं नाथे पाण्डवे च वृकॊदरे
नकुले सहदेवे च भीतॊ ऽभयेति च पाण्डवः
24 न नूनं कषत्रियकुले जातः संप्रथिते भुवि
यथास्य हृदयं भीतम अल्पसत्त्वस्य संयुगे
25 ततस ते कषत्रियाः सर्वे परशंसन्ति सम कौरवान
हृष्टाः सुमनसॊ भूत्वा चैलानि दुधुवुः पृथक
26 वयनिन्दन्त ततः सर्वे यॊधास तत्र विशां पते
युधिष्ठिरं ससॊदर्यं सहितं केशवेन ह
27 ततस तत कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम
निःशब्दम अभवत तूर्णं पुनर एव विशां पते
28 किं नु वक्ष्यति राजासौ किं भीष्मः परतिवक्ष्यति
किं भीमः समरश्लाघी किं नु कृष्णार्जुनाव इति
29 विवक्षितं किम अस्येति संशयः सुमहान अभूत
उभयॊः सेनयॊ राजन युधिष्ठिरकृते तदा
30 स विगाह्य चमूं शत्रॊः शरशक्तिसमाकुलाम
भीष्मम एवाभ्ययात तूर्णं भरातृभिः परिवारितः
31 तम उवाच ततः पादौ कराभ्यां पीड्य पाण्डवः
भीष्मं शांतनवं राजा युद्धाय समुपस्थितम
32 युधिष्ठिर उवाच
आमन्त्रये तवां दुर्धर्ष यॊत्स्ये तात तवया सह
अनुजानीहि मां तात आशिषश च परयॊजय
33 भीष्म उवाच
यद्य एवं नाभिगच्छेथा युधि मां पृथिवीपते
शपेयं तवां महाराज पराभावाय भारत
34 परीतॊ ऽसमि पुत्र युध्यस्व जयम आप्नुहि पाण्डव
यत ते ऽभिलषितं चान्यत तद अवाप्नुहि संयुगे
35 वरियतां च वरः पार्थ किम अस्मत्तॊ ऽभिकाङ्क्षसि
एवं गते महाराज न तवास्ति पराजयः
36 अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित
इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः
37 अतस तवां कलीबवद वाक्यं बरवीमि कुरुनन्दन
हृतॊ ऽसम्य अर्थेन कौरव्य युद्धाद अन्यत किम इच्छसि
38 युधिष्ठिर उवाच
मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः
युध्यस्व कौरवस्यार्थे ममैष सततं वरः
39 भीष्म उवाच
राजन किम अत्र साह्यं ते करॊमि कुरुनन्दन
कामं यॊत्स्ये परस्यार्थे बरूहि यत ते विवक्षितम
40 युधिष्ठिर उवाच
कथं जयेयं संग्रामे भवन्तम अपराजितम
एतन मे मन्त्रय हितं यदि शरेयः परपश्यसि
41 भीष्म उवाच
न तं पश्यामि कौन्तेय यॊ मां युध्यन्तम आहवे
विजयेत पुमान कश चिद अपि साक्षाच छतक्रतुः
42 युधिष्ठिर उवाच
हन्त पृच्छामि तस्मात तवां पितामह नमॊ ऽसतु ते
जयॊपायं बरवीहि तवम आत्मनः समरे परैः
43 भीष्म उवाच
न शत्रुं तात पश्यामि समरे यॊ जयेत माम
न तावन मृत्युकालॊ मे पुनरागमनं कुरु
44 संजय उवाच
ततॊ युधिष्ठिरॊ वाक्यं भीष्मस्य कुरुनन्दन
शिरसा परतिजग्राह भूयस तम अभिवाद्य च
45 परायात पुनर महाबाहुर आचार्यस्य रथं परति
पश्यतां सर्वसैन्यानां मध्येन भरातृभिः सह
46 स दरॊणम अभिवाद्याथ कृत्वा चैव परदक्षिणम
उवाच वाचा दुर्धर्षम आत्मनिःश्रेयसं वचः
47 आमन्त्रये तवां भगवन यॊत्स्ये विगतकल्मषः
जयेयं च रिपून सर्वान अनुज्ञातस तवया दविज
48 दरॊण उवाच
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः
शपेयं तवां महाराज पराभावाय सर्वशः
49 तद युधिष्ठिर तुष्टॊ ऽसमि पूजितश च तवयानघ
अनुजानामि युध्यस्व विजयं समवाप्नुहि
50 करवाणि च ते कामं बरूहि यत ते ऽभिकाङ्क्षितम
एवं गते महाराज युद्धाद अन्यत किम इच्छसि
51 अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित
इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः
52 अतस तवां कलीबवद बरूमॊ युद्धाद अन्यत किम इच्छसि
यॊत्स्यामि कौरवस्यार्थे तवाशास्यॊ जयॊ मया
53 युधिष्ठिर उवाच
जयम आशास्स्व मे बरह्मन मन्त्रयस्व च मद्धितम
युध्यस्व कौरवस्यार्थे वर एष वृतॊ मया
54 दरॊण उवाच
धरुवस ते विजयॊ राजन यस्य मन्त्री हरिस तव
अहं च तवाभिजानामि रणे शत्रून विजेष्यसि
55 यतॊ धर्मस ततः कृष्णॊ यतः कृष्णस ततॊ जयः
युध्यस्व गच्छ कौन्तेय पृच्छ मां किं बरवीमि ते
56 युधिष्ठिर उवाच
पृच्छामि तवां दविजश्रेष्ठ शृणु मे यद विवक्षितम
कथं जयेयं संग्रामे भवन्तम अपराजितम
57 दरॊण उवाच
न ते ऽसति विजयस तावद यावद युध्याम्य अहं रणे
ममाशु निधने राजन यतस्व सह सॊदरैः
58 युधिष्ठिर उवाच
हन्त तस्मान महाबाहॊ वधॊपायं वदात्मनः
आचार्य परणिपत्यैष पृच्छामि तवां नमॊ ऽसतु ते
59 दरॊण उवाच
न शत्रुं तात पश्यामि यॊ मां हन्याद रणे सथितम
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम
60 ऋते परायगतं राजन नयस्तशस्त्रम अचेतनम
हन्यान मां युधि यॊधानां सत्यम एतद बरवीमि ते
61 शस्त्रं चाहं रणे जह्यां शरुत्वा सुमहद अप्रियम
शरद्धेयवाक्यात पुरुषाद एतत सत्यं बरवीमि ते
62 संजय उवाच
एतच छरुत्वा महाराज भारद्वाजस्य धीमतः
अनुमान्य तम आचार्यं परायाच छारद्वतं परति
63 सॊ ऽभिवाद्य कृपं राजा कृत्वा चापि परदक्षिणम
उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः
64 अनुमानये तवां यॊत्स्यामि गुरॊ विगतकल्मषः
जयेयं च रिपून सर्वान अनुज्ञातस तवयानघ
65 कृप उवाच
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः
शपेयं तवां महाराज पराभावाय सर्वशः
66 अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित
इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः
67 तेषाम अर्थे महाराज यॊद्धव्यम इति मे मतिः
अतस तवां कलीबवद बरूमि युद्धाद अन्यत किम इच्छसि
68 युधिष्ठिर उवाच
हन्त पृच्छामि ते तस्माद आचार्य शृणु मे वचः
69 संजय उवाच
इत्य उक्त्वा वयथितॊ राजा नॊवाच गतचेतनः
तं गौतमः परत्युवाच विज्ञायास्य विवक्षितम
अवध्यॊ ऽहं महीपाल युध्यस्व जयम आप्नुहि
70 परीतस तव अभिगमेनाहं जयं तव नराधिप
आशासिष्ये सदॊत्थाय सत्यम एतद बरवीमि ते
71 एतच छरुत्वा महाराज गौतमस्य वचस तदा
अनुमान्य कृपं राजा परययौ येन मद्रराट
72 स शल्यम अभिवाद्याथ कृत्वा चाभिप्रदक्षिणम
उवाच राजा दुर्धर्षम आत्मनिःश्रेयसं वचः
73 अनुमानये तवां यॊत्स्यामि गुरॊ विगतकल्मषः
जयेयं च महाराज अनुज्ञातस तवया रिपून
74 शल्य उवाच
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः
शपेयं तवां महाराज पराभावाय वै रणे
75 तुष्टॊ ऽसमि पूजितश चास्मि यत काङ्क्षसि तद अस्तु ते
अनुजानामि चैव तवां युध्यस्व जयम आप्नुहि
76 बरूहि चैव परं वीर केनार्थः किं ददामि ते
एवं गते महाराज युद्धाद अन्यत किम इच्छसि
77 अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित
इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः
78 करिष्यामि हि ते कामं भागिनेय यथेप्सितम
बरवीम्य अतः कलीबवत तवां युद्धाद अन्यत किम इच्छसि
79 युधिष्ठिर उवाच
मन्त्रयस्व महाराज नित्यं मद्धितम उत्तमम
कामं युध्य परस्यार्थे वरम एतद वृणॊम्य अहम
80 शल्य उवाच
बरूहि किम अत्र साह्यं ते करॊमि नृपसत्तम
कामं यॊत्स्ये परस्यार्थे वृतॊ ऽसम्य अर्थेन कौरवैः
81 युधिष्ठिर उवाच
स एव मे वरः सत्य उद्यॊगे यस तवया कृतः
सूतपुत्रस्य संग्रामे कार्यस तेजॊवधस तवया
82 शल्य उवाच
संपत्स्यत्य एष ते कामः कुन्तीपुत्र यथेप्सितः
गच्छ युध्यस्व विस्रब्धं परतिजाने जयं तव
83 संजय उवाच
अनुमान्याथ कौन्तेयॊ मातुलं मद्रकेश्वरम
निर्जगाम महासैन्याद भरातृभिः परिवारितः
84 वासुदेवस तु राधेयम आहवे ऽभिजगाम वै
तत एनम उवाचेदं पाण्डवार्थे गदाग्रजः
85 शरुतं मे कर्ण भीष्मस्य दवेषात किल न यॊत्स्यसि
अस्मान वरय राधेय यावद भीष्मॊ न हन्यते
86 हते तु भीष्मे राधेय पुनर एष्यसि संयुगे
धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत समम
87 कर्ण उवाच
न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव
तयक्तप्राणं हि मां विद्धि दुर्यॊधनहितैषिणम
88 संजय उवाच
तच छरुत्वा वचनं कृष्णः संन्यवर्तत भारत
युधिष्ठिरपुरॊगैश च पाण्डवैः सह संगतः
89 अथ सैन्यस्य मध्ये तु पराक्रॊशत पाण्डवाग्रजः
यॊ ऽसमान वृणॊति तद अहं वरये साह्यकारणात
90 अथ तान समभिप्रेक्ष्य युयुत्सुर इदम अब्रवीत
परीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम
91 अहं यॊत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान
युष्मद अर्थे महाराज यदि मां वृणुषे ऽनघ
92 युधिष्ठिर उवाच
एह्य एहि सर्वे यॊत्स्यामस तव भरातॄन अपण्डितान
युयुत्सॊ वासुदेवश च वयं च बरूम सर्वशः
93 वृणॊमि तवां महाबाहॊ युध्यस्व मम कारणात
तवयि पिण्डश च तन्तुश च धृतराष्ट्रस्य दृश्यते
94 भजस्वास्मान राजपुत्र भजमानान महाद्युते
न भविष्यति दुर्बुद्धिर धार्तराष्ट्रॊ ऽतयमर्षणः
95 संजय उवाच
ततॊ युयुत्सुः कौरव्यः परित्यज्य सुतांस तव
जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम
96 ततॊ युधिष्ठिरॊ राजा संप्रहृष्टः सहानुजैः
जग्राह कवचं भूयॊ दीप्तिमत कनकॊज्ज्वलम
97 परत्यपद्यन्त ते सर्वे रथान सवान पुरुषर्षभाः
ततॊ वयूहं यथापूर्वं परत्यव्यूहन्त ते पुनः
98 अवादयन दुन्दुभींश च शतशश चैव पुष्करान
सिंहनादांश च विविधान विनेदुः पुरुषर्षभाः
99 रथस्थान पुरुषव्याघ्रान पाण्डवान परेक्ष्य पार्थिवाः
धृष्टद्युम्नादयः सर्वे पुनर जहृषिरे मुदा
100 गौरवं पाण्डुपुत्राणां मान्यान मानयतां च तान
दृष्ट्वा महीक्षितस तत्र पूजयां चक्रिरे भृशम
101 सौहृदं च कृपां चैव पराप्तकालं महात्मनाम
दयां च जञातिषु परां कथयां चक्रिरे नृपाः
102 साधु साध्व इति सर्वत्र निश्चेरुः सतुतिसंहिताः
वाचः पुण्याः कीर्तिमतां मनॊहृदयहर्षिणीः
103 मलेच्छाश चार्याश च ये तत्र ददृशुः शुश्रुवुस तदा
वृत्तं तत पाण्डुपुत्राणां रुरुदुस ते सगद्गदाः
104 ततॊ जघ्नुर महाभेरीः शतशश चैव पुष्करान
शङ्खांश च गॊक्षीरनिभान दध्मुर हृष्टा मनस्विनः
1 saṃjaya uvāca
tato dhanaṃjayaṃ dṛṣṭvā bāṇagāṇḍīvadhāriṇam
punar eva mahānādaṃ vyasṛjanta mahārathāḥ
2 pāṇḍavāḥ somakāś caiva ye caiṣām anuyāyinaḥ
dadhmuś ca muditāḥ śaṅkhān vīrāḥ sāgarasaṃbhavān
3 tato bheryaś ca peśyaś ca krakacā goviṣāṇikāḥ
sahasaivābhyahanyanta tataḥ śabdo mahān abhūt
4 atha devāḥ sagandharvāḥ pitaraś ca janeśvara
siddhacāraṇasaṃghāś ca samīyus te didṛkṣayā
5 ṛṣayaś ca mahābhāgāḥ puraskṛtya śatakratum
samīyus tatra sahitā draṣṭuṃ tad vaiśasaṃ mahat
6 tato yudhiṣṭhiro dṛṣṭvā yuddhāya susamudyate
te sene sāgaraprakhye muhuḥ pracalite nṛpa
7 vimucya kavacaṃ vīro nikṣipya ca varāyudham
avaruhya rathāt tūrṇaṃ padbhyām eva kṛtāñjaliḥ
8 pitāmaham abhiprekṣya dharmarājo yudhiṣṭhiraḥ
vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm
9 taṃ prayāntam abhiprekṣya kuntīputro dhanaṃjayaḥ
avatīrya rathāt tūrṇaṃ bhrātṛbhiḥ sahito 'nvayāt
10 vāsudevaś ca bhagavān pṛṣṭhato 'nujagāma ha
yathāmukhyāś ca rājānas tam anvājagmur utsukāḥ
11 arjuna uvāca
kiṃ te vyavasitaṃ rājan yad asmān apahāya vai
padbhyām eva prayāto 'si prāṅmukho ripuvāhinīm
12 bhīmasena uvāca
kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ
daṃśiteṣv arisainyeṣu bhrātṝn utsṛjya pārthiva
13 nakula uvāca
evaṃgate tvayi jyeṣṭhe mama bhrātari bhārata
bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu
14 sahadeva uvāca
asmin raṇasamūhe vai vartamāne mahābhaye
yoddhavye kva nu gantāsi śatrūn abhimukho nṛpa
15 saṃjaya uvāca
evam ābhāṣyamāṇo 'pi bhrātṛbhiḥ kurunandana
novāca vāgyataḥ kiṃ cid gacchaty eva yudhiṣṭhiraḥ
16 tān uvāca mahāprājño vāsudevo mahāmanāḥ
abhiprāyo 'sya vijñāto mayeti prahasann iva
17 eṣa bhīṣmaṃ tathā droṇaṃ gautamaṃ śalyam eva ca
anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ
18 śrūyate hi purākalpe gurūn ananumānya yaḥ
yudhyate sa bhaved vyaktam apadhyāto mahattaraiḥ
19 anumānya yathāśāstraṃ yas tu yudhyen mahattaraiḥ
dhruvas tasya jayo yuddhe bhaved iti matir mama
20 evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati
hāhākāro mahān āsīn niḥśabdās tv apare 'bhavan
21 dṛṣṭvā yudhiṣṭhiraṃ dūrād dhārtarāṣṭrasya sainikāḥ
mithaḥ saṃkathayāṃ cakrur neśo 'sti kulapāṃsanaḥ
22 vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt
yudhiṣṭhiraḥ sasodaryaḥ śaraṇārthaṃ prayācakaḥ
23 dhanaṃjaye kathaṃ nāthe pāṇḍave ca vṛkodare
nakule sahadeve ca bhīto 'bhyeti ca pāṇḍavaḥ
24 na nūnaṃ kṣatriyakule jātaḥ saṃprathite bhuvi
yathāsya hṛdayaṃ bhītam alpasattvasya saṃyuge
25 tatas te kṣatriyāḥ sarve praśaṃsanti sma kauravān
hṛṣṭāḥ sumanaso bhūtvā cailāni dudhuvuḥ pṛthak
26 vyanindanta tataḥ sarve yodhās tatra viśāṃ pate
yudhiṣṭhiraṃ sasodaryaṃ sahitaṃ keśavena ha
27 tatas tat kauravaṃ sainyaṃ dhikkṛtvā tu yudhiṣṭhiram
niḥśabdam abhavat tūrṇaṃ punar eva viśāṃ pate
28 kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati
kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāv iti
29 vivakṣitaṃ kim asyeti saṃśayaḥ sumahān abhūt
ubhayoḥ senayo rājan yudhiṣṭhirakṛte tadā
30 sa vigāhya camūṃ śatroḥ śaraśaktisamākulām
bhīṣmam evābhyayāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ
31 tam uvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ
bhīṣmaṃ śāṃtanavaṃ rājā yuddhāya samupasthitam
32 yudhiṣṭhira uvāca
āmantraye tvāṃ durdharṣa yotsye tāta tvayā saha
anujānīhi māṃ tāta āśiṣaś ca prayojaya
33 bhīṣma uvāca
yady evaṃ nābhigacchethā yudhi māṃ pṛthivīpate
śapeyaṃ tvāṃ mahārāja parābhāvāya bhārata
34 prīto 'smi putra yudhyasva jayam āpnuhi pāṇḍava
yat te 'bhilaṣitaṃ cānyat tad avāpnuhi saṃyuge
35 vriyatāṃ ca varaḥ pārtha kim asmatto 'bhikāṅkṣasi
evaṃ gate mahārāja na tavāsti parājayaḥ
36 arthasya puruṣo dāso dāsas tv artho na kasya cit
iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ
37 atas tvāṃ klībavad vākyaṃ bravīmi kurunandana
hṛto 'smy arthena kauravya yuddhād anyat kim icchasi
38 yudhiṣṭhira uvāca
mantrayasva mahāprājña hitaiṣī mama nityaśaḥ
yudhyasva kauravasyārthe mamaiṣa satataṃ varaḥ
39 bhīṣma uvāca
rājan kim atra sāhyaṃ te karomi kurunandana
kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam
40 yudhiṣṭhira uvāca
kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam
etan me mantraya hitaṃ yadi śreyaḥ prapaśyasi
41 bhīṣma uvāca
na taṃ paśyāmi kaunteya yo māṃ yudhyantam āhave
vijayeta pumān kaś cid api sākṣāc chatakratuḥ
42 yudhiṣṭhira uvāca
hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te
jayopāyaṃ bravīhi tvam ātmanaḥ samare paraiḥ
43 bhīṣma uvāca
na śatruṃ tāta paśyāmi samare yo jayeta mām
na tāvan mṛtyukālo me punarāgamanaṃ kuru
44 saṃjaya uvāca
tato yudhiṣṭhiro vākyaṃ bhīṣmasya kurunandana
śirasā pratijagrāha bhūyas tam abhivādya ca
45 prāyāt punar mahābāhur ācāryasya rathaṃ prati
paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha
46 sa droṇam abhivādyātha kṛtvā caiva pradakṣiṇam
uvāca vācā durdharṣam ātmaniḥśreyasaṃ vacaḥ
47 āmantraye tvāṃ bhagavan yotsye vigatakalmaṣaḥ
jayeyaṃ ca ripūn sarvān anujñātas tvayā dvija
48 droṇa uvāca
yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ
śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ
49 tad yudhiṣṭhira tuṣṭo 'smi pūjitaś ca tvayānagha
anujānāmi yudhyasva vijayaṃ samavāpnuhi
50 karavāṇi ca te kāmaṃ brūhi yat te 'bhikāṅkṣitam
evaṃ gate mahārāja yuddhād anyat kim icchasi
51 arthasya puruṣo dāso dāsas tv artho na kasya cit
iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ
52 atas tvāṃ klībavad brūmo yuddhād anyat kim icchasi
yotsyāmi kauravasyārthe tavāśāsyo jayo mayā
53 yudhiṣṭhira uvāca
jayam āśāssva me brahman mantrayasva ca maddhitam
yudhyasva kauravasyārthe vara eṣa vṛto mayā
54 droṇa uvāca
dhruvas te vijayo rājan yasya mantrī haris tava
ahaṃ ca tvābhijānāmi raṇe śatrūn vijeṣyasi
55 yato dharmas tataḥ kṛṣṇo yataḥ kṛṣṇas tato jayaḥ
yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te
56 yudhiṣṭhira uvāca
pṛcchāmi tvāṃ dvijaśreṣṭha śṛṇu me yad vivakṣitam
kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam
57 droṇa uvāca
na te 'sti vijayas tāvad yāvad yudhyāmy ahaṃ raṇe
mamāśu nidhane rājan yatasva saha sodaraiḥ
58 yudhiṣṭhira uvāca
hanta tasmān mahābāho vadhopāyaṃ vadātmanaḥ
ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te
59 droṇa uvāca
na śatruṃ tāta paśyāmi yo māṃ hanyād raṇe sthitam
yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam
60 ṛte prāyagataṃ rājan nyastaśastram acetanam
hanyān māṃ yudhi yodhānāṃ satyam etad bravīmi te
61 śastraṃ cāhaṃ raṇe jahyāṃ śrutvā sumahad apriyam
śraddheyavākyāt puruṣād etat satyaṃ bravīmi te
62 saṃjaya uvāca
etac chrutvā mahārāja bhāradvājasya dhīmataḥ
anumānya tam ācāryaṃ prāyāc chāradvataṃ prati
63 so 'bhivādya kṛpaṃ rājā kṛtvā cāpi pradakṣiṇam
uvāca durdharṣatamaṃ vākyaṃ vākyaviśāradaḥ
64 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ
jayeyaṃ ca ripūn sarvān anujñātas tvayānagha
65 kṛpa uvāca
yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ
śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ
66 arthasya puruṣo dāso dāsas tv artho na kasya cit
iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ
67 teṣām arthe mahārāja yoddhavyam iti me matiḥ
atas tvāṃ klībavad brūmi yuddhād anyat kim icchasi
68 yudhiṣṭhira uvāca
hanta pṛcchāmi te tasmād ācārya śṛṇu me vacaḥ
69 saṃjaya uvāca
ity uktvā vyathito rājā novāca gatacetanaḥ
taṃ gautamaḥ pratyuvāca vijñāyāsya vivakṣitam
avadhyo 'haṃ mahīpāla yudhyasva jayam āpnuhi
70 prītas tv abhigamenāhaṃ jayaṃ tava narādhipa
āśāsiṣye sadotthāya satyam etad bravīmi te
71 etac chrutvā mahārāja gautamasya vacas tadā
anumānya kṛpaṃ rājā prayayau yena madrarāṭ
72 sa śalyam abhivādyātha kṛtvā cābhipradakṣiṇam
uvāca rājā durdharṣam ātmaniḥśreyasaṃ vacaḥ
73 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ
jayeyaṃ ca mahārāja anujñātas tvayā ripūn
74 śalya uvāca
yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ
śapeyaṃ tvāṃ mahārāja parābhāvāya vai raṇe
75 tuṣṭo 'smi pūjitaś cāsmi yat kāṅkṣasi tad astu te
anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi
76 brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te
evaṃ gate mahārāja yuddhād anyat kim icchasi
77 arthasya puruṣo dāso dāsas tv artho na kasya cit
iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ
78 kariṣyāmi hi te kāmaṃ bhāgineya yathepsitam
bravīmy ataḥ klībavat tvāṃ yuddhād anyat kim icchasi
79 yudhiṣṭhira uvāca
mantrayasva mahārāja nityaṃ maddhitam uttamam
kāmaṃ yudhya parasyārthe varam etad vṛṇomy aham
80 śalya uvāca
brūhi kim atra sāhyaṃ te karomi nṛpasattama
kāmaṃ yotsye parasyārthe vṛto 'smy arthena kauravaiḥ
81 yudhiṣṭhira uvāca
sa eva me varaḥ satya udyoge yas tvayā kṛtaḥ
sūtaputrasya saṃgrāme kāryas tejovadhas tvayā
82 śalya uvāca
saṃpatsyaty eṣa te kāmaḥ kuntīputra yathepsitaḥ
gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava
83 saṃjaya uvāca
anumānyātha kaunteyo mātulaṃ madrakeśvaram
nirjagāma mahāsainyād bhrātṛbhiḥ parivāritaḥ
84 vāsudevas tu rādheyam āhave 'bhijagāma vai
tata enam uvācedaṃ pāṇḍavārthe gadāgrajaḥ
85 śrutaṃ me karṇa bhīṣmasya dveṣāt kila na yotsyasi
asmān varaya rādheya yāvad bhīṣmo na hanyate
86 hate tu bhīṣme rādheya punar eṣyasi saṃyuge
dhārtarāṣṭrasya sāhāyyaṃ yadi paśyasi cet samam
87 karṇa uvāca
na vipriyaṃ kariṣyāmi dhārtarāṣṭrasya keśava
tyaktaprāṇaṃ hi māṃ viddhi duryodhanahitaiṣiṇam
88 saṃjaya uvāca
tac chrutvā vacanaṃ kṛṣṇaḥ saṃnyavartata bhārata
yudhiṣṭhirapurogaiś ca pāṇḍavaiḥ saha saṃgataḥ
89 atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ
yo 'smān vṛṇoti tad ahaṃ varaye sāhyakāraṇāt
90 atha tān samabhiprekṣya yuyutsur idam abravīt
prītātmā dharmarājānaṃ kuntīputraṃ yudhiṣṭhiram
91 ahaṃ yotsyāmi miṣataḥ saṃyuge dhārtarāṣṭrajān
yuṣmad arthe mahārāja yadi māṃ vṛṇuṣe 'nagha
92 yudhiṣṭhira uvāca
ehy ehi sarve yotsyāmas tava bhrātṝn apaṇḍitān
yuyutso vāsudevaś ca vayaṃ ca brūma sarvaśaḥ
93 vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt
tvayi piṇḍaś ca tantuś ca dhṛtarāṣṭrasya dṛśyate
94 bhajasvāsmān rājaputra bhajamānān mahādyute
na bhaviṣyati durbuddhir dhārtarāṣṭro 'tyamarṣaṇaḥ
95 saṃjaya uvāca
tato yuyutsuḥ kauravyaḥ parityajya sutāṃs tava
jagāma pāṇḍuputrāṇāṃ senāṃ viśrāvya dundubhim
96 tato yudhiṣṭhiro rājā saṃprahṛṣṭaḥ sahānujaiḥ
jagrāha kavacaṃ bhūyo dīptimat kanakojjvalam
97 pratyapadyanta te sarve rathān svān puruṣarṣabhāḥ
tato vyūhaṃ yathāpūrvaṃ pratyavyūhanta te punaḥ
98 avādayan dundubhīṃś ca śataśaś caiva puṣkarān
siṃhanādāṃś ca vividhān vineduḥ puruṣarṣabhāḥ
99 rathasthān puruṣavyāghrān pāṇḍavān prekṣya pārthivāḥ
dhṛṣṭadyumnādayaḥ sarve punar jahṛṣire mudā
100 gauravaṃ pāṇḍuputrāṇāṃ mānyān mānayatāṃ ca tān
dṛṣṭvā mahīkṣitas tatra pūjayāṃ cakrire bhṛśam
101 sauhṛdaṃ ca kṛpāṃ caiva prāptakālaṃ mahātmanām
dayāṃ ca jñātiṣu parāṃ kathayāṃ cakrire nṛpāḥ
102 sādhu sādhv iti sarvatra niśceruḥ stutisaṃhitāḥ
vācaḥ puṇyāḥ kīrtimatāṃ manohṛdayaharṣiṇīḥ
103 mlecchāś cāryāś ca ye tatra dadṛśuḥ śuśruvus tadā
vṛttaṃ tat pāṇḍuputrāṇāṃ rurudus te sagadgadāḥ
104 tato jaghnur mahābherīḥ śataśaś caiva puṣkarān
śaṅkhāṃś ca gokṣīranibhān dadhmur hṛṣṭā manasvinaḥ

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

907 of 2013 Book 45% ~13 min left