Book 8: Chapter 51
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 8: Chapter 51

The Mahabharata in Sanskrit

Book 8
Chapter 51

1 [स]
ततः पुनर अमेयात्मा केशवॊ ऽरजुनम अब्रवीत
कृतसंकल्पम आयस्तं वधे कर्णस्य सर्वशः
2 अद्य सप्त दशाहानि वर्तमानस्य भारत
विनाशस्यातिघॊरस्य नरवारणवाजिनाम
3 भूत्वा हि विपुला सेना तावकानां परैः सह
अन्यॊन्यं समरे पराप्य किं चिच छेषा विशां पते
4 भूत्वा हि कौरव्याः पार्थ परभूतगजवाजिनः
तवां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि
5 एते च सर्वे पाञ्चालाः सृञ्जयाश च सहान्वयाः
तवां समासाद्य दुर्धर्षं पाण्डवाश च वयवस्थिताः
6 पाञ्चालैः पाण्डवैर मत्स्यैः कारूषैश चेदिकेकयैः
तवया गुप्तैर अमित्रघ्न कृतः शत्रुगणक्षयः
7 कॊ हि शक्तॊ रणे जेतुं कौरवांस तात संगतान
अन्यत्र पाण्डवान युद्धे तवया गुप्तान महारथान
8 तवं हि शक्तॊ रणे जेतुं स सुरासुरमानुषान
तरीँल लॊकान समम उद्युक्तान किं पुनः कौरवं बलम
9 भगदत्तं हि राजानं कॊ ऽनयः शक्तस तवया विना
जेतुं पुरुषशार्दूल यॊ ऽपि सयाद वासवॊपमः
10 तथेमां विपुलां सेनां गुप्तां पार्थ तवयानघ
न शेकुः पार्थिवाः सर्वे चक्षुर्भिर अभिवीक्षितुम
11 तथैव सततं पार्थ रक्षिताभ्यां तवया रणे
धृष्टद्युम्न शिखण्डिभ्यां भीष्मद्रॊणौ निपातितौ
12 कॊ हि शक्तॊ रणे पार्थ पाञ्चालानां महारथौ
भीष्मद्रॊणौ युधा जेतुं शक्रतुल्यपराक्रमौ
13 कॊ हि शांतनवं संख्ये दरॊणं वैकर्तनं कृपम
दरौणिं च सौमदत्तिं च कृतवर्माणम एव च
सौन्धवं मद्रराजं च राजानं च सुयॊधनम
14 वीरान कृतास्त्रान समरे सर्वान एवानुवर्तिनः
अक्षौहिणीपतीन उग्रान संरब्धान युद्धदुर्मदान
15 शरेण्यश च बहुलाः कषीणाः परदीर्णाश्वरथद्विपाः
नानाजनपदाश चॊग्राः कषत्रियाणाम अमर्षिणाम
16 गॊवास दासम ईयानां वसातीनां च भारत
वरात्यानां वाटधानानां भॊजानां चापि मानिनाम
17 उदीर्णाश च महासेना बरह्मक्षत्रस्य भारत
तवां समासाद्य निधनं गताः साश्वरथद्विपाः
18 उग्राश च करूरकर्माणस तुखारा यवनाः खशाः
दार्वाभिसारा दरदाः शका रमठ तङ्गणाः
19 अन्ध्रकाश च पुलिन्दाश च किराताश चॊग्रविक्रमाः
मलेच्छाश च पार्वतीयाश च सागरानूपवासिनः
संरम्भिणॊ युद्धशौण्डा बलिनॊ दृब्ध पाणयः
20 एते सुयॊधनस्यार्थे संरब्धाः कुरुभिः सह
न शक्या युधि निर्जेतुं तवदन्येन परंतप
21 धार्तराष्ट्रम उदग्रं हि वयूढं दृष्ट्वा महाबलम
यस्य तवं न भवेस तराता परतीयात कॊ नु मानवः
22 तत सागरम इवॊद्धूतं रजसा संवृतं बलम
विदार्य पाण्डवैः करुद्धैस तवया गुप्तैर हतं विभॊ
23 मागधानाम अधिपतिर जयत्सेनॊ महाबलः
अद्य सप्तैव चाहानि हतः संख्ये ऽभिमन्युना
24 तदॊ दशसहस्राणि गजानां भीमकर्मणाम
जघान गदया भीमस तस्य राज्ञः परिच्छदम
ततॊ ऽनये ऽपि हता नागा रथाश च शतशॊ बलात
25 तद एवं समरे तात वर्तमाने महाभये
भीमसेनं समासाद्य तवां च पाण्डव कौरवाः
सवाजिरथनागाश च मृत्युलॊकम इतॊ गताः
26 तथा सेनामुखे तत्र निहते पार्थ पाडवैः
भीष्मः परासृजद उग्राणि शरवर्षाणि मारिष
27 स चेदिकाशिपाञ्चालान करूषान मत्स्यकेकयान
शरैः परच्छाद्य निधनम अनयत परुषास्त्रवित
28 तस्य चापच्युतैर बाणैः परदेहविदारणैः
पूर्णम आकाशम अभवद रुक्मपुङ्खरजिह्मगैः
29 गत्या दशम्या ते गत्वा जघ्नुर वाजिरथद्विपान
हित्वा नव गतीर दुष्टाः स बाणान वयायतॊ ऽमुचत
30 दिनानि दश भीष्मेण निघ्नता तावकं बलम
शून्याः कृता रथॊपस्था हताश च गजवाजिनः
31 दर्शयित्वात्मनॊ रूपं रुद्रॊपेन्द्र समं युधि
पाण्डवानाम अनीकानि परविगाह्य वयशातयत
32 विनिघ्नन पृथिवीपालांश चेदिपाञ्चालकेकयान
वयदहत पाण्डवीं मन्दम उज्जिहीर्षुः सुयॊधनम
33 तथा चरन्तं समरे तपन्तम इव भास्करम
न शेकुः सृञ्जया दरष्टुं तथैवान्ये महीक्षितः
34 विचरन्तं तथा तं तु संग्रामे जितकाशिनम
सवाद यॊगेन सहसा पाण्डवा समुपाद्रवन
35 स तु विद्राव्य समरे पाण्डवान सृञ्जयान अपि
एक एव रणे भीष्म एक वीरत्वम आगतः
36 तं शिखण्डी समासाद्य तवया गुप्तॊ महारथम
जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः
37 स एष पतितः शेते शरतल्पे पितामहः
तवां पराप्य पुरुषव्याघ्र गृध्रः पराप्येव वायसम
38 दरॊणः पञ्च दिनान्य उग्रॊ विधम्य रिपुवाहिनीः
कृत्वा वयूहं महायुद्धे पातयित्वा महारथान
39 जयद्रथस्य समरे कृत्वा रक्षां महारथः
अन्तकप्रतिमश चॊग्रां रात्रिं युद्ध्वादहत परजाः
40 अद्येति दवे दिने वीरॊ भारद्वाजः परतापवान
धृष्टद्युम्नं समासाद्य स गतः परमां गतिम
41 यदि चैव परान्य युद्धे सूतपुत्र मुखान रथान
नावारयिष्यः संग्रामे न सम दरॊणॊ वयनङ्क्ष्यत
42 भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम
ततॊ दरॊणॊ हतॊ युद्धे पार्षतेन धनंजय
43 क इवान्यॊ रणे कुर्यात तवदन्यः कषत्रियॊ युधि
यादृशं ते कृतं पार्थ जयद्रथवधं परति
44 निवार्य सेनां महतीं हत्वा शूरांश च पार्थिवान
निहतः सैन्धवॊ राजा तवयास्त्र बलतेजसा
45 आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः
अनाश्चर्यं हि तत तवत्तस तवं हि पार्थ महारथः
46 तवां हि पराप्य रणे कषत्रम एकाहाद इति भारत
तप्यमानम असंयुक्तं न भवेद इति मे मतिः
47 सेयं पार्थ चमूर घॊरा धार्तराष्ट्रस्य संयुगे
हता ससर्व वीरा हि भीष्मद्रॊणौ यदा हतौ
48 शीर्णप्रवर यॊधा अद्य हतवाजि नरद्विपा
हीना सूर्येन्दु नक्षत्रैर दयौर इवाभाति भारती
49 विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमात
आसुरीव पुरा सेना शक्रस्येव पराक्रमैः
50 तेषां हतावशिष्टास तु पञ्च सन्ति महारथाः
अश्वत्थामा कृतवर्मा कर्णॊ मद्राधिपः कृपः
51 तांस तवम अद्य नरव्याघ्र हत्वा पञ्च महारथान
हतामित्रः परयच्छॊर्वीं राज्ञः सद्वीप पत्तनाम
52 साकाश जलपातालां सपर्वतमहावनाम
पराप्नॊत्व अमितवीर्यश्रीर अद्य पार्थॊ वसुंधराम
53 एतां पुरा विष्णुर इव हत्वा दैतेय दानवान
परयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः
54 अद्य मॊदन्तु पाञ्चाला निहतेष्व अरिषु तवया
विष्णुना निहतेष्व एव दानवेयेषु देवताः
55 यदि वा दविपदां शरेष्ठ दरॊणं मानयतॊ गुरुम
अश्वत्थाम्नि कृपा ते ऽसति कृपे चाचार्य गौरवात
56 अत्यन्तॊपचितान वा तवं मानयन भरातृबान्धवान
कृतवर्माणम आसाद्य न नेष्यामि यमक्षयम
57 भरातरं मातुर आसाद्य शल्यं मद्रजनाधिपम
यदि तवम अरविन्दाक्ष दयावान न जिघांससि
58 इमं पापमतिं कषुद्रम अत्यन्तं पाण्डवान परति
कर्णम अद्य नरश्रेष्ठ जह्य आशु निशितैः शरैः
59 एतत ते सुकृतं कर्म नात्र किं चिन न युज्यते
वयम अप्य अत्र जानीमॊ नात्र दॊषॊ ऽसति कश चन
60 दहने यत सपुत्राया निशि मातुस तवानघ
दयूतार्थे यच च युष्मासु परावर्तत सुयॊधनः
तत्र सर्वत्र दुष्टात्मा कर्णॊ मूलम इहार्जुन
61 कर्णाद धि मन्यते तराणं नित्यम एव सुयॊधनः
ततॊ माम अपि संरब्धॊ निग्रहीतुं परचक्रमे
62 सथिरा बुद्धिर नरेन्द्रस्य धार्तराष्ट्रस्य मानद
कर्णः पार्थान रणे सर्वान विजेष्यति न संशयः
63 कर्णम आश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः
रॊचितॊ भवता सार्धं जानतापि बलं तव
64 कर्णॊ हि भाषते नित्यम अहं पार्थान समागतान
वासुदेवं सराजानं विजेष्यामि महारणे
65 परॊत्साहयन दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः
समतौ गर्जते कर्णस तम अद्य जहि भारत
66 यच च युष्मासु पापं वै धार्तराष्ट्रः परयुक्तवान
तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर मुखम
67 यच च तद धार्तराष्ट्राणां करूरैः षड्भिर महारथैः
अपश्यं निहतं वीरं सौभद्रम ऋषभेक्षणम
68 दरॊण दरौणिकृपान वीरान कम्पयन्तॊ महारथान
निर्मनुष्यांश च मातङ्गान्विरथांश च महारथान
69 वयश्वारॊहांश च तुरगान पत्तीन वयायुध जीवितान
कुर्वन्तम ऋषभस्कन्धं कुरु वृष्णियशः करम
70 विधमन्तम अनीकानि वयथयन्तं महारथान
मनुष्यवाजि मातङ्गान परहिण्वन्तं यमक्षयम
71 शरैः सौभद्रम आयस्तं दहन्तम इव वाहिनीम
तन मे दहति गात्राणि सखे सत्येन ते शपे
72 यत तत्रापि च दुष्टात्मा कर्णॊ ऽभयद्रुह्यत परभॊ
अशक्नुवंश चाभिमन्यॊः कर्णः सथातुं रणे ऽगरतः
73 सौभद्र शरनिर्भिन्नॊ विसंज्ञः शॊणितॊक्षितः
निःश्वसन करॊधसंदीप्तॊ विमुखः सायकार्दितः
74 अपयान कृतॊत्साहॊ निराशश चापि जीविते
तस्थौ सुविह्वलः संख्ये परहार जनितश्रमः
75 अथ दरॊणस्य समरे तत कालसदृशं तदा
शरुत्वा कर्णॊ वचः करूरं ततश चिच्छेद कार्मुकम
76 ततश छिन्नायुधं तेन रणे पञ्च महारथाः
स चैव निकृतिप्रज्ञः परावधीच छरवृष्टिभिः
77 यच च कर्णॊ ऽबरवीत कृष्णां सभायां परुषं वचः
परमुखे पाण्डवेयानां कुरूणां च नृशंसवत
78 विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः
पतिम अन्यं पृथुश्रॊणिवृणीष्व मित भाषिणि
79 लेखाभ्रु धृतराष्ट्रस्य दासी भूत्वा निवेशनम
परविशाराल पक्ष्माक्षि न सन्ति पतयस तव
80 इत्य उक्तवान अधर्मज्ञस तदा परमदुर्मतिः
पापः पापं वचः कर्णः शृण्वतस तव भारत
81 तस्य पापस्य तद वाक्यं सुवर्णविकृताः शराः
शमयन्तु शिला धौतास तवयास्ता जीवितच छिदः
82 यानि चान्यानि दुष्टात्मा पापानि कृतवांस तवयि
तान्य अद्य जीवितं चास्य शमयन्तु शरास तव
83 गाण्डीवप्रहितान घॊरान अद्य गात्रैः सपृशञ शरान
कर्णः समरतु दुष्टात्मा वचनं दरॊण भीष्मयॊः
84 सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युत परभाः
तवयास्तास तस्य मर्माणि भित्त्वा पास्यन्ति शॊणितम
85 उग्रास तवद भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः
अद्य कर्णं महावेगाः परेषयन्तु यमक्षयम
86 अद्य हाहाकृता दीना विषण्णास तवच छरार्दिताः
परपतन्तं रथा कर्णं पश्यन्तु वसुधाधिपाः
87 अद्य सवशॊणिते मग्नं शयानं पतितं भुवि
अपविद्धायुधं कर्णं पश्यन्तु सुहृदॊ निजाः
88 हस्तिकक्ष्यॊ महान अस्य भल्लेनॊन्मथितस तवया
परकम्पमानः पततु भूमाव आधिरथेर धवजः
89 तवया शरशतैश छिन्नं रथं हेमविभूषितम
हतयॊधं समुत्सृज्य भीतः शल्यः पलायताम
90 ततः सुयॊधनॊ दृष्ट्वा हतम आधिरथिं तवया
निराशॊ जीविते तव अद्य राज्ये चैव धनंजय
91 एते दरवन्ति पाञ्चाला वध्यमानाः शितैः शरैः
कर्णेन भरतश्रेष्ठ पाण्डवान उज्जिहीर्षवः
92 पाञ्चालान दरौपदेयांश च धृष्टद्युम्न शिखण्डिनौ
धृष्टद्युम्न तनूजांश च शतानीकं च नाकुलिम
93 नकुलं सहदेवं च दुर्मुखं जनमेजयम
सुवर्माणं सात्यकिं च विद्धि कर्ण वशंगतान
94 अभ्याहतानां कर्णेन पाञ्चालानां महारणे
शरूयते निनदॊ घॊरस तद बन्धूनां परंतप
95 न तव एव भीताः पाञ्चालाः कथं चित सयुः पराङ्मुखाः
न हि मृत्युं महेष्वासा गणयन्ति महारथाः
96 य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत
तं समासाद्य पाञ्चाला भीष्मं नासान पराङ्मुखाः
97 तथा जवलन्तम अस्त्राग्निं गुरुं सर्वधनुष्मताम
निर्दहन्तं समारॊहन दुर्धर्षं दरॊणम ओजसा
98 ते नित्यम उदिता जेतुं युद्धे शत्रून अरिंदमाः
न जात्व आधिरथेर भीताः पाञ्चालाः सयुः पराङ्मुखाः
99 तेषाम आपततां शूरः पाञ्चालानां तरस्विनाम
आदत्ते ऽसूञ शरैः कर्णः पतंगानाम इवानलः
100 तांस तथाभिमुखान वीरान मित्रार्थे तयक्तजीवितान
कषयं नयति राधेयः पाञ्चालाञ शतशॊ रणे
101 अस्त्रं हि रामात कर्णेन भार्गवाद ऋषिसत्तमात
यद उपात्तं पुरा घॊरं तस्य रूपम उदीर्यते
102 तापनं सर्वसैन्यानां घॊररूपं सुदारुणम
समावृत्य महासेनां जवलति सवेन तेजसा
103 एते चरन्ति संग्रामे कर्ण चापच्युताः शराः
भरमराणाम इव वरातास तापयन्तः सम तावकान
104 एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत
कर्णास्त्रं समरे पराप्य दुर्निवारम अनात्मभिः
105 एष भीमॊ दृढक्रॊधॊ वृतः पार्थ समन्ततः
सृञ्जयैर यॊधयन कर्णं पीड्यते सम शितैः शरैः
106 पाण्डवान सृञ्जयांश चैव पाञ्चालांश चैव भारत
हन्याद उपेक्षितः कर्णॊ रॊगॊ देहम इवाततः
107 नान्यं तवत्तॊ ऽभिपश्यामि यॊधं यौधिष्ठिरे बले
यः समासाद्य राधेयं सवस्तिमान आव्रजेद गृहम
108 तम अद्य निशितैर बाणैर निहत्य भरतर्षभ
यथाप्रतिज्ञं पार्थ तवं कृत्वा कीर्तिम अवाप्नुहि
109 तवं हि शक्तॊ रणे जेतुं सकर्णान अपि कौरवान
नान्यॊ युधि युधां शरेष्ठ सत्यम एतद बरवीमि ते
110 एत कृत्वा महत कर्महत्वा कर्णं महारथम
कृतार्थः सफलः पार्थ सुखी भव नरॊत्तम
1 [s]
tataḥ punar ameyātmā keśavo 'rjunam abravīt
kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ
2 adya sapta daśāhāni vartamānasya bhārata
vināśasyātighorasya naravāraṇavājinām
3 bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha
anyonyaṃ samare prāpya kiṃ cic cheṣā viśāṃ pate
4 bhūtvā hi kauravyāḥ pārtha prabhūtagajavājinaḥ
tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani
5 ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ
tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ
6 pāñcālaiḥ pāṇḍavair matsyaiḥ kārūṣaiś cedikekayaiḥ
tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ
7 ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān
anyatra pāṇḍavān yuddhe tvayā guptān mahārathān
8 tvaṃ hi śakto raṇe jetuṃ sa surāsuramānuṣān
trīṁl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam
9 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā
jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ
10 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha
na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum
11 tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe
dhṛṣṭadyumna śikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau
12 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau
bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau
13 ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam
drauṇiṃ ca saumadattiṃ ca kṛtavarmāṇam eva ca
saundhavaṃ madrarājaṃ ca rājānaṃ ca suyodhanam
14 vīrān kṛtāstrān samare sarvān evānuvartinaḥ
akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān
15 śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ
nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām
16 govāsa dāsam īyānāṃ vasātīnāṃ ca bhārata
vrātyānāṃ vāṭadhānānāṃ bhojānāṃ cāpi māninām
17 udīrṇāś ca mahāsenā brahmakṣatrasya bhārata
tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ
18 ugrāś ca krūrakarmāṇas tukhārā yavanāḥ khaśāḥ
dārvābhisārā daradāḥ śakā ramaṭha taṅgaṇāḥ
19 andhrakāś ca pulindāś ca kirātāś cogravikramāḥ
mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ
saṃrambhiṇo yuddhaśauṇḍā balino dṛbdha pāṇayaḥ
20 ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha
na śakyā yudhi nirjetuṃ tvadanyena paraṃtapa
21 dhārtarāṣṭram udagraṃ hi vyūḍhaṃ dṛṣṭvā mahābalam
yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ
22 tat sāgaram ivoddhūtaṃ rajasā saṃvṛtaṃ balam
vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho
23 māgadhānām adhipatir jayatseno mahābalaḥ
adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā
24 tado daśasahasrāṇi gajānāṃ bhīmakarmaṇām
jaghāna gadayā bhīmas tasya rājñaḥ paricchadam
tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt
25 tad evaṃ samare tāta vartamāne mahābhaye
bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ
savājirathanāgāś ca mṛtyulokam ito gatāḥ
26 tathā senāmukhe tatra nihate pārtha pāḍavaiḥ
bhīṣmaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa
27 sa cedikāśipāñcālān karūṣān matsyakekayān
śaraiḥ pracchādya nidhanam anayat paruṣāstravit
28 tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ
pūrṇam ākāśam abhavad rukmapuṅkharajihmagaiḥ
29 gatyā daśamyā te gatvā jaghnur vājirathadvipān
hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato 'mucat
30 dināni daśa bhīṣmeṇa nighnatā tāvakaṃ balam
śūnyāḥ kṛtā rathopasthā hatāś ca gajavājinaḥ
31 darśayitvātmano rūpaṃ rudropendra samaṃ yudhi
pāṇḍavānām anīkāni pravigāhya vyaśātayat
32 vinighnan pṛthivīpālāṃś cedipāñcālakekayān
vyadahat pāṇḍavīṃ mandam ujjihīrṣuḥ suyodhanam
33 tathā carantaṃ samare tapantam iva bhāskaram
na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ
34 vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam
savād yogena sahasā pāṇḍavā samupādravan
35 sa tu vidrāvya samare pāṇḍavān sṛñjayān api
eka eva raṇe bhīṣma eka vīratvam āgataḥ
36 taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham
jaghāna puruṣavyāghraṃ śaraiḥ saṃnataparvabhiḥ
37 sa eṣa patitaḥ śete śaratalpe pitāmahaḥ
tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam
38 droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ
kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān
39 jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ
antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ
40 adyeti dve dine vīro bhāradvājaḥ pratāpavān
dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim
41 yadi caiva parāny yuddhe sūtaputra mukhān rathān
nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata
42 bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam
tato droṇo hato yuddhe pārṣatena dhanaṃjaya
43 ka ivānyo raṇe kuryāt tvadanyaḥ kṣatriyo yudhi
yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati
44 nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān
nihataḥ saindhavo rājā tvayāstra balatejasā
45 āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ
anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ
46 tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata
tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ
47 seyaṃ pārtha camūr ghorā dhārtarāṣṭrasya saṃyuge
hatā sasarva vīrā hi bhīṣmadroṇau yadā hatau
48 śīrṇapravara yodhā adya hatavāji naradvipā
hīnā sūryendu nakṣatrair dyaur ivābhāti bhāratī
49 vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt
āsurīva purā senā śakrasyeva parākramaiḥ
50 teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ
aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ
51 tāṃs tvam adya naravyāghra hatvā pañca mahārathān
hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpa pattanām
52 sākāśa jalapātālāṃ saparvatamahāvanām
prāpnotv amitavīryaśrīr adya pārtho vasuṃdharām
53 etāṃ purā viṣṇur iva hatvā daiteya dānavān
prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ
54 adya modantu pāñcālā nihateṣv ariṣu tvayā
viṣṇunā nihateṣv eva dānaveyeṣu devatāḥ
55 yadi vā dvipadāṃ śreṣṭha droṇaṃ mānayato gurum
aśvatthāmni kṛpā te 'sti kṛpe cācārya gauravāt
56 atyantopacitān vā tvaṃ mānayan bhrātṛbāndhavān
kṛtavarmāṇam āsādya na neṣyāmi yamakṣayam
57 bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam
yadi tvam aravindākṣa dayāvān na jighāṃsasi
58 imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati
karṇam adya naraśreṣṭha jahy āśu niśitaiḥ śaraiḥ
59 etat te sukṛtaṃ karma nātra kiṃ cin na yujyate
vayam apy atra jānīmo nātra doṣo 'sti kaś cana
60 dahane yat saputrāyā niśi mātus tavānagha
dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ
tatra sarvatra duṣṭātmā karṇo mūlam ihārjuna
61 karṇād dhi manyate trāṇaṃ nityam eva suyodhanaḥ
tato mām api saṃrabdho nigrahītuṃ pracakrame
62 sthirā buddhir narendrasya dhārtarāṣṭrasya mānada
karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ
63 karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ
rocito bhavatā sārdhaṃ jānatāpi balaṃ tava
64 karṇo hi bhāṣate nityam ahaṃ pārthān samāgatān
vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe
65 protsāhayan durātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ
samatau garjate karṇas tam adya jahi bhārata
66 yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān
tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham
67 yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ
apaśyaṃ nihataṃ vīraṃ saubhadram ṛṣabhekṣaṇam
68 droṇa drauṇikṛpān vīrān kampayanto mahārathān
nirmanuṣyāṃś ca mātaṅgānvirathāṃś ca mahārathān
69 vyaśvārohāṃś ca turagān pattīn vyāyudha jīvitān
kurvantam ṛṣabhaskandhaṃ kuru vṛṣṇiyaśaḥ karam
70 vidhamantam anīkāni vyathayantaṃ mahārathān
manuṣyavāji mātaṅgān prahiṇvantaṃ yamakṣayam
71 śaraiḥ saubhadram āyastaṃ dahantam iva vāhinīm
tan me dahati gātrāṇi sakhe satyena te śape
72 yat tatrāpi ca duṣṭātmā karṇo 'bhyadruhyata prabho
aśaknuvaṃś cābhimanyoḥ karṇaḥ sthātuṃ raṇe 'grataḥ
73 saubhadra śaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ
niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ
74 apayāna kṛtotsāho nirāśaś cāpi jīvite
tasthau suvihvalaḥ saṃkhye prahāra janitaśramaḥ
75 atha droṇasya samare tat kālasadṛśaṃ tadā
śrutvā karṇo vacaḥ krūraṃ tataś ciccheda kārmukam
76 tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ
sa caiva nikṛtiprajñaḥ prāvadhīc charavṛṣṭibhiḥ
77 yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ
pramukhe pāṇḍaveyānāṃ kurūṇāṃ ca nṛśaṃsavat
78 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ
patim anyaṃ pṛthuśroṇivṛṇīṣva mita bhāṣiṇi
79 lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam
praviśārāla pakṣmākṣi na santi patayas tava
80 ity uktavān adharmajñas tadā paramadurmatiḥ
pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata
81 tasya pāpasya tad vākyaṃ suvarṇavikṛtāḥ śarāḥ
śamayantu śilā dhautās tvayāstā jīvitac chidaḥ
82 yāni cānyāni duṣṭātmā pāpāni kṛtavāṃs tvayi
tāny adya jīvitaṃ cāsya śamayantu śarās tava
83 gāṇḍīvaprahitān ghorān adya gātraiḥ spṛśañ śarān
karṇaḥ smaratu duṣṭātmā vacanaṃ droṇa bhīṣmayoḥ
84 suvarṇapuṅkhā nārācāḥ śatrughnā vaidyuta prabhāḥ
tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam
85 ugrās tvad bhujanirmuktā marma bhittvā śitāḥ śarāḥ
adya karṇaṃ mahāvegāḥ preṣayantu yamakṣayam
86 adya hāhākṛtā dīnā viṣaṇṇās tvac charārditāḥ
prapatantaṃ rathā karṇaṃ paśyantu vasudhādhipāḥ
87 adya svaśoṇite magnaṃ śayānaṃ patitaṃ bhuvi
apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ
88 hastikakṣyo mahān asya bhallenonmathitas tvayā
prakampamānaḥ patatu bhūmāv ādhirather dhvajaḥ
89 tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam
hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām
90 tataḥ suyodhano dṛṣṭvā hatam ādhirathiṃ tvayā
nirāśo jīvite tv adya rājye caiva dhanaṃjaya
91 ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ
karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ
92 pāñcālān draupadeyāṃś ca dhṛṣṭadyumna śikhaṇḍinau
dhṛṣṭadyumna tanūjāṃś ca śatānīkaṃ ca nākulim
93 nakulaṃ sahadevaṃ ca durmukhaṃ janamejayam
suvarmāṇaṃ sātyakiṃ ca viddhi karṇa vaśaṃgatān
94 abhyāhatānāṃ karṇena pāñcālānāṃ mahāraṇe
śrūyate ninado ghoras tad bandhūnāṃ paraṃtapa
95 na tv eva bhītāḥ pāñcālāḥ kathaṃ cit syuḥ parāṅmukhāḥ
na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ
96 ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat
taṃ samāsādya pāñcālā bhīṣmaṃ nāsān parāṅmukhāḥ
97 tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām
nirdahantaṃ samārohan durdharṣaṃ droṇam ojasā
98 te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ
na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ
99 teṣām āpatatāṃ śūraḥ pāñcālānāṃ tarasvinām
ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ
100 tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān
kṣayaṃ nayati rādheyaḥ pāñcālāñ śataśo raṇe
101 astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt
yad upāttaṃ purā ghoraṃ tasya rūpam udīryate
102 tāpanaṃ sarvasainyānāṃ ghorarūpaṃ sudāruṇam
samāvṛtya mahāsenāṃ jvalati svena tejasā
103 ete caranti saṃgrāme karṇa cāpacyutāḥ śarāḥ
bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān
104 ete caranti pāñcālā dikṣu sarvāsu bhārata
karṇāstraṃ samare prāpya durnivāram anātmabhiḥ
105 eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ
sṛñjayair yodhayan karṇaṃ pīḍyate sma śitaiḥ śaraiḥ
106 pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata
hanyād upekṣitaḥ karṇo rogo deham ivātataḥ
107 nānyaṃ tvatto 'bhipaśyāmi yodhaṃ yaudhiṣṭhire bale
yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham
108 tam adya niśitair bāṇair nihatya bharatarṣabha
yathāpratijñaṃ pārtha tvaṃ kṛtvā kīrtim avāpnuhi
109 tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān
nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te
110 eta kṛtvā mahat karmahatvā karṇaṃ mahāratham
kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1209 of 2013 Book 60% ~12 min left