Book 8: Chapter 49
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 8: Chapter 49

The Mahabharata in Sanskrit

Book 8
Chapter 49

1 [स]
युधिष्ठिरेणैवम उक्तः कौन्तेयः शवेतवाहनः
असिं जग्राह संक्रुद्धॊ जिघांसुर भरतर्षभम
2 तस्य कॊपं समुद्वीक्ष्य चित्तज्ञः केशवस तदा
उवाच किम इदं पार्थ गृहीतः खड्ग इत्य उत
3 नेह पश्यामि यॊद्धव्यं तव किं चिद धनंजय
ते धवस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता
4 अपयातॊ ऽसि कौन्तेय राजा दरष्टव्य इत्य अपि
स राजा भवता दृष्टः कुशली च युधिष्ठिरः
5 तं दृष्ट्वा नृपशार्दूल शार्दूल समविक्रमम
हर्षकाले तु संप्राप्ते कस्मात तवा मन्युर आविशत
6 न तं पश्यामि कौन्तेय यस ते वध्यॊ भवेद इह
कस्माद भवान महाखड्गं परिगृह्णाति सत्वरम
7 तत तवा पृच्छामि कौन्तेय किम इदं ते चिकीर्षितम
परामृशसि यत करुद्धः खड्गम अद्भुतविक्रम
8 एवम उक्तस तु कृष्णेन परेक्षमाणॊ युधिष्ठिरम
अर्जुनः पराह गॊविन्दं करुद्धः सर्प इव शवसन
9 दद गाण्डीवम अन्यस्मा इति मां यॊ ऽभिचॊदयेत
छिन्द्याम अहं शिरस तस्य इत्य उपांशु वरतं मम
10 तद उक्तॊ ऽहम अदीनात्मन राज्ञामित पराक्रम
समक्षं तव गॊविन्द न तत कषन्तुम इहॊत्सहे
11 तस्माद एनं वधिष्यामि राजानं धर्मभीरुकम
परतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम
एतदर्थं मया खड्ग्गॊ गृहीतॊ यदुनन्दन
12 सॊ ऽहं युधिष्ठिरं हत्वा सत्ये ऽपय आनृण्यतां गतः
विशॊकॊ विज्वरश चापि भविष्यामि जनार्दन
13 किं वा तवं मन्यसे पराप्तम अस्मिन काले समुत्थिते
तवम अस्य जगतस तात वेत्थ सर्वं गतागतम
तत तथा परकरिष्यामि यथा मां वक्ष्यते भवान
14 [क]
इदानीं पाथ जानामि न वृद्धाः सेवितास तवया
अकाले पुरुषव्याघ्र संरम्भक्रिययानया
न हि धर्मविभागज्ञः कुर्याद एवं धनंजय
15 अकार्याणां च कार्याणां संयॊगं यः करॊति वै
कार्याणाम अक्रियाणां च स पार्थ पुरुषाधमः
16 अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः
समास विस्तरविदां न तेषां वेत्थ निश्चयम
17 अनिश्चयज्ञॊ हि नरः कार्याकार्यविनिश्चये
अवशॊ मुह्यते पार्थ यथा तवं मूढ एव तु
18 न हि कार्यम अकार्यं वा सुखं जञातुं कथं चन
शरुतेन जञायते सर्वं तच च तवं नावबुध्यसे
19 अविज्ञानाद भवान यच च धर्मं रक्षति धर्मवित
पराणिनां हि वधं पार्थ धार्मिकॊ नावबुध्यते
20 पराणिनाम अवधस तात सर्वज्यायान मतॊ मम
अनृतं तु भवेद वाच्यं न च हिंस्यात कथं चन
21 स कथं भरातरं जयेष्ठं राजानं धर्मकॊविदम
हन्याद भवान नरश्रेष्ठ पराकृतॊ ऽनयः पुमान इव
22 अयुध्यमानस्य वधस तथाशस्त्रस्य भारत
पराङ्मुखस्य दरवतः शरणं वाभिगच्छतः
कृताञ्जलेः परपन्नस्य न वधः पुज्यते बुधैः
23 तवया चैव वरतं पार्थ बालेनैव कृतं पुरा
तस्माद अधर्मसंयुक्तं मौढ्यात कर्म वयवस्यसि
24 स गुरुं पार्थ कस्मात तवं हन्या धर्मम अनुस्मरन
असंप्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम
25 इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ
यद बरूयात तव भीष्मॊ वा धर्मज्ञॊ वा युधिष्ठिरः
26 विदुरॊ वा तथा कषत्ता कुन्ती वापि यशस्विनी
तत ते वक्ष्यामि तत्त्वेन तन निबॊध धनंजय
27 सत्यस्य वचनं साधु न सत्याद विद्यते परम
तत्त्वेनैतत सुदुर्ज्ञेयं यस्य सत्यम अनुष्ठितम
28 भवेत सत्यम अवक्तव्यं वक्तव्यम अनृतं भवेत
सर्वस्वस्यापहारे तु वक्तव्यम अनृतं भवेत
29 पराणात्यये विवाहे च वक्तव्यम अनृतं भवेत
यत्रानृतं भवेत सत्यं सत्यं चाप्य अनृतं भवेत
30 तादृशं पश्यते बालॊ यस्य सत्यम अनुष्ठितम
सत्यानृते विनिश्चित्यल ततॊ भवति धर्मवित
31 किम आश्चर्यं कृतप्रज्ञः पुरुषॊ ऽपि सुदारुणः
सुमहत पराप्नुयात पुण्यं बलाकॊ ऽनधवधाद इव
32 किम आश्चर्यं पुनर मूढॊ धर्मकामॊ ऽपय अपण्डितः
सुमहत पराप्नुयात पापम आपगाम इव कौशिकः
33 [अर्ज]
आचक्ष्व भगवन्न एतद यथा विद्याम अहं तथा
बलाकान्धाभिसंबद्धं नदीनां कौशिकस्य च
34 [क]
मृगव्याधॊ ऽभवत कश चिद बलाकॊ नाम भारत
यात्रार्थं पुत्रदारस्य मृगान हन्ति न कामतः
35 सॊ ऽनधौ च माता पितरौ बिभर्त्य अन्यांश च संश्रितान
सवधर्मनिरतॊ नित्यं सत्यवाग अनसूयकः
36 स कदा चिन मृगाँल लिप्सुर नान्वविन्दत परयत्नवान
अथापश्यत स पीतॊदं शवापदं घराणचक्षुषम
37 अदृष्टपूर्वम अपि तत सत्त्वं तेन हतं तदा
अन्व एव च ततॊ वयॊम्नः पुष्पवर्षम अवापतत
38 अप्सरॊगीतवादित्रैर नादितं च मनॊरमम
विमानम आगमत सवर्गान मृगव्याध निनीषया
39 तद भूतं सर भूतानाम अभावाय किलार्जुन
तपस तप्त्वा वरं पराप्तं कृतम अन्धं सवयं भुवा
40 तद धत्वा सर्वभूतानाम अभाव कृतनिश्चयम
ततॊ बलाकः सवरगाद एवं धर्मः सुदुर्विदः
41 कौशिकॊ ऽपय अभवद विप्रस तपस्वी न बहुश्रुतः
नदीनां संगमे गरामाद अदूरे स किलावसत
42 सत्यं मया सदा वाच्यम इति तस्याभवद वरतम
सत्यवादीति विख्यातः स तदासीद धनंजय
43 अथ दस्यु भयात केचित्तदा तद वनम आविशन
दस्यवॊ ऽपि गताः करूरा वयमार्गन्त परयत्नतः
44 अथ कौशिकम अभ्येत्य पराहुस तं सत्यवादिनम
कतमेन पथा याता भगवन बहवॊ जनाः
सत्येन पृष्ठप्रब्रूहि यदि तान वेत्थ शंस नः
45 स पृष्ठः कौशिकः सत्यं वचनं तान उवाच ह
बहुवृक्ष लतागुल्मम एतद वनम उपाश्रिताः
ततस ते तान समासाद्य करूरा जघ्नुर इति शरुतिः
46 तेनाधर्मेण महता वाग दुरुक्तेन कौशिकः
गतः सुकष्टं नरकं सूक्ष्मधर्मेष्व अकॊविदः
अप्रभूत शरुतॊ मूढॊ धर्माणाम अविभागवित
47 वृद्धान अपृष्ट्वा संदेहं महच छवभ्रम इतॊ ऽरहति
तत्र ते लक्षणॊद्देशः कश चिद एव भविष्यति
48 दुष्करं परमज्ञानं कर्तेणात्र वयवस्यति
शरुतिर धर्म इति हय एके वदन्ति बहवॊ जनाः
49 न तव एतत परतिसूयामि न हि सर्वं विधीयते
परभवार्थाय भूतानां धर्मप्रवचनं कृतम
50 धारणाद धर्मम इत्य आहुर धर्मॊ धारयति परजाः
यः सयाद धारण संयुक्तः स धर्म इति निश्चयः
51 ये ऽनयायेन जिहीर्षन्तॊ जना इच्छन्ति कर्हि चित
अकूजनेन चेन मॊक्षॊ नात्र कूजेत कथं चन
52 अवश्यं कूजितव्यं वा शङ्केरन वाप्य अकूजतः
शरेयस तत्रानृतं वक्तुं सत्याद इति विचारितम
53 पराणात्यये विवाहे वा सर्वज्ञाति धनक्षये
नर्मण्य अभिप्रवृत्ते वा परवक्तव्यं मृषा भवेत
अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थ दर्शिनः
54 यः सतेनैः सह संबन्धान मुच्यते शपथैर अपि
शरेयस तत्रानृतं वक्तुं तत सत्यम अविचारितम
55 न च तेभ्यॊ धनं देयं शक्ये सति कथं चन
पापेभ्यॊ हि धनं देयं शक्ये सति कथं चन
तस्माद धर्मार्थम अनृतम उक्त्वा नानृत वाग भवेत
56 एष ते लक्षणॊद्देशः समुद्दिष्टॊ यथाविधि
एतच छरुत्वा बरूहि पार्थ यदि वध्यॊ युधिष्ठिरः
57 [अर्ज]
यथा बरूयान महाप्राज्ञॊ यथा बरूयान महामतिः
हितं चैव यथास्माकं तथैतद वचनं तव
58 भवान मातृसमॊ ऽसमाकं तथा पितृसमॊ ऽपि च
गतिश च परमा कृष्ण तेन ते वाक्यम अद्भुतम
59 न हि ते तरिषु लॊकेषु विद्यते ऽविदितं कव चित
तस्माद भवान परं धर्मं वेद सर्वं यथातथम
60 अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम
यस्मिन समयसंयॊगे बरूहि किं चिद अनुग्रहम
इदं चापरम अत्रैव शृणु हृत्स्थं विवक्षितम
61 जानामि दाशार्ह मम वरतं तवं; यॊ मां बरूयात कश चन मानुषेषु
अन्यस्मै तवं गाण्डिवं देहि पार्थ; यस तवत्तॊ ऽसत्रैर भविता वा विशिष्टः
62 हन्याम अहं केशव तं परसह्य; भीमॊ हन्यात तूबरकेति चॊक्तः
तन मे राजा परॊक्तवांस ते समक्षं; धनुर देहीत्य असकृद वृष्णिसिंह
63 तं हत्वा चेत केशव जीवलॊके; सथाता कालं नाहम अप्य अल्पमात्रम
सा च परतिज्ञा मम लॊकप्रबुद्धा; भवेत सत्या धर्मभृतां वरिष्ठ
यथा जीवेत पाण्डवॊ ऽहं च कृष्ण; तथा बुद्धिं दातुम अद्यार्हसि तवम
64 [वा]
राजा शरान्तॊ जगतॊ विक्षतश च; कर्णेन संख्ये निशितैर बाणसंघैः
तस्मात पार्थ तवां परुषाण्य अवॊचत; कर्णे दयूतंह्य अद्य रणे निबद्धम
65 तस्मिन हते कुरवॊ निर्जिताः सयुर; एवं बुद्धिः पार्थिवॊ धर्मपुत्रः
यदावमानं लभते महान्तं; तदा जीवन मृत इत्य उच्यते सः
66 तन मानितः पार्थिवॊ ऽयं सदैव; तवया सभीमेन तथा यमाभ्याम
वृद्धैश च लॊके पुरुषप्रवीरैस; तस्यावमानं कलया तवं परयुङ्क्ष्व
67 तवम इत्य अत्र भवन्तं तवं बरूहि पार्थ युधिष्ठिरम
तवम इत्य उक्तॊ हि निहतॊ गुरुर भवति भारत
68 एवम आचर कौन्तेय धर्मराजे युधिष्ठिरे
अधर्मयुक्तं संयॊगं कुरुष्वैवं कुरूद्वह
69 अथर्वाङ्गिरसी हय एषा शरुतीनाम उत्तमा शरुतिः
अविचार्यैव कार्यैषा शरेयः कामैर नरैः सदा
70 वधॊ हय अयं पाण्डव धर्मराज्ञस; तवत्तॊ युक्तॊ वेत्स्यते चैवम एषः
ततॊ ऽसय पादाव अभिवाद्य पश्चाच; छमं बरूयाः सान्त्वपूर्वं च पार्थम
71 भराता पराज्ञस तव कॊपं न जातु; कुर्याद राजा कं चन पाण्डवेयः
मुक्तॊ ऽनृताद भरातृवधाच च पार्थ; हृष्टः कर्णं तवं जहि सूतपुत्रम
72 [स]
इत्य एवम उक्तस तु जनार्दनेन; पार्थः परशस्याथ सुहृद वधं तम
ततॊ ऽबरवीद अर्जुनॊ धर्मराजम; अनुक्तपूर्वं परुषं परसह्य
73 मा तवं राजन वयाहर वयाहरत्सु; न तिष्ठसे करॊशमात्रे रणार्धे
भीमस तु माम अर्हति गर्हणाय; यॊ दयुध्यते सर्वयॊधप्रवीरः
74 काले हि शत्रून परतिपीड्य संख्ये; हत्वा च शूरान पृथिवीपतींस तान
यः कुञ्जराणाम अधिकं सहस्रं; हत्वानदत तुमुलं सिंहनादम
75 सुदुष्करं कर्म करॊति वीरः; कर्तुं यथा नार्हसि तवं कदा चित
रथाद अवप्लुत्य गदां परामृशंस; तया निहन्त्य अश्वनरद्विपान रणे
76 वरासिना वाजिरथाश्वकुञ्जरांस; तथा रथाङ्गैर धनुषा च हन्त्य अरीन
परमृद्य पद्भ्याम अहितान निहन्ति यः; पुनश च दॊर्भ्यां शतमन्युविक्रमः
77 महाबलॊ वैश्रवणान्तकॊपमः; परसह्य हन्ता दविषतां यथार्हम
स भीमसेनॊ ऽरहति गर्हणां मे; न तवं नित्यं रक्ष्यसे यः सुहृद्भिः
78 महारथान नागवरान हयांश च; पदातिमिख्यान अपि च परमथ्य
एकॊ भीमॊ धार्तराष्ट्रेषु मग्नः; स माम उपालब्धुम अरिंदमॊ ऽरहति
79 कलिङ्ग वङ्ग अनङ्ग निषादमागधान; सदा मदान नीलबलाहकॊपमान
निहन्ति यः शत्रुगणान अनेकशः; स माभिवक्तुं परभवत्य अनागसम
80 सुयुक्तम आस्थाय रथं हि काले; धनुर विकर्षञ शरपूर्णमुष्टिः
सृजत्य असौ शरवर्षाणि वीरॊ; महाहवे मेघ इवाम्बुधाराः
81 बलं तु वाचि दविजसत्तमानां; कषात्रं बुधा बाहुबलं वदन्ति
तवं वाग्बलॊ भारत निष्ठुरश च; तवम एव मां वेत्सि यथाविधॊ ऽहम
82 यतामि नित्यं तव कर्तुम इष्टं; दारैः सुतैर जीवितेनात्मना च
एवं च मां वाग विशिखैर निहंसि; तवत्तः सुखं न वयं विद्म किं चित
83 अवामंस्था मां दरौपदी तल्प संस्थॊ; महारथान परतिहन्मि तवदर्थे
तेनातिशङ्की भारत निष्ठुरॊ ऽसि; तवत्तः सुखं नाभिजानामि किं चित
84 परॊक्तः सवयं सत्यसंधेन मृत्युस; तव परियार्थं नददेव युद्धे
वीरः शिखण्डी दरौपदॊ ऽसौ महात्मा; मयाभिगुप्तेन हतश च तेन
85 न चाभिनन्दामि तवाधिराज्यं; यतस तम अक्षेष्व अहिताय सक्तः
सवयं कृत्वा पापम अनार्यजुष्टम; एभिर युद्धे तर्तुम इच्छस्य अरींस तु
86 अक्षेषु दॊषा बहवॊ विधर्माः; शरुतास तवया सहदेवॊ ऽबरवीद यान
तान नैषि सांतर्तुम असाधु जुष्टान; येन सम सर्वे निरयं परपन्नाः
87 तवं देविता तवत्कृते राज्यनाशस; तवत संभवं वयसनं नॊ नरेन्द्र
मास्मान करूरैर वाक परतॊदैस तुद तवं; भूयॊ राजन कॊपयन्न अल्पभाग्यान
88 एता वाचः परुषाः साव्य साची; सथिरप्रज्ञं शरावयित्वा ततक्ष
तदानुतेपे सुरराजपुत्रॊ; विनिःश्वसंश चाप्य असिम उद्बबर्ह
89 तम आह कृष्णाः किम इदं पुनर भवान; विकॊशम आकाशनिभं करॊत्य असिम
परब्रूहि सत्यं पुरर उत्तरं विधेर; वचः परवक्ष्याम्य अहम अर्थसिद्धये
90 इत्य एव पृष्ठः पुरुषॊत्तमेन; सुदुःखितः केशवम आह वाक्यम
अहं हनिष्ये सवशरीरम एव; परसह्य येनाहितम आचरं वै
91 निशम्य तत पार्थ वचॊ ऽबरवीद इदं; धनंजयं धर्मभृतां वरिष्ठः
परब्रूहि पार्थ सवगुणान इहात्मनस; तथा सवहार्दं भवतीह सद्यः
92 तथास्तु कृष्णेत्य अभिनन्द्य वाक्यं; धनंजयः पराह धनुर विनाम्य
युधिष्ठिरं धर्मभृतां वरिष्ठं; शृणुष्व राजन्न इति शक्रसूनुः
93 न मादृशॊ ऽनयॊ नरदेव विद्यते; धनुर्धरॊ देवम ऋते पिनाकिनम
अहं हि तेनानुमतॊ महात्मना; कषणेन हन्यां सचराचरं जगत
94 मया हि राजन सदिग ईश्वरा दिशॊ; विजित्य सर्वा भवतः कृता वशे
स राजसूयश च समाप्तदक्षिणः; सभा च दिव्या भवतॊ ममौजसा
95 पापौ पृषत्का लिखिता ममेमे; धनुश च संख्ये विततं सबाणम
पादौ च मे सशरौ सहध्वजौ; न मादृशं युद्धगतं जयन्ति
96 हता उदीच्या निहताः परतीच्याः; पराच्या निरस्ता दाक्षिणात्या विशस्ताः
संशप्तकानां किं चिद एवावशिष्टं; सर्वस्य सैन्यस्य हतं मयार्धम
97 शेते मया निहता भारती च; चमू राजन देव चमू परकाशा
ये नास्त्रज्ञास तान अहं हन्मि शस्त्रैस; तस्माल लॊकं नेह करॊमि भस्मसात
98 इत्य एवम उक्त्वा पुनर आह पार्थॊ; युधिष्ठिरं धर्मभृतां वरिष्ठम
अप्य अपुत्रा तेन राधा भवित्री; कुन्ती मया वा तद ऋतं विद्धि राजन
परसीद राजन कषम यन मयॊक्तं; काले भवान वेत्स्यति तन नमस ते
99 परसाद्य राजानम अमित्रसाहं; सथितॊ ऽबरवीच चैनम अभिप्रपन्नः
याम्य एष भीमं समरात परमॊक्तुं; सर्वात्मना सूतपुत्रं च हन्तुम
100 तव परियार्थं मम जीवितं हि; बरवीमि सत्यं तद अवेहि राजन
इति परायाद उपसंगृह्य पादौ; समुत्थितॊ दीप्ततेजाः किरीटी
नेदं चिरात कषिप्रम इदं भविष्यत्य; आवर्तते ऽसाव अभियामि चैनम
101 एतच छरुत्वा पाण्डवॊ धर्मराजॊ; भरातुर वाक्यं परुषं फल्गुनस्य
उत्थाय तस्माच छयनाद उवाच; पार्थं ततॊ दुःखपरीत चेताः
102 कृतं मया पार्थ यथा न साधु; येन पराप्तं वयसनं वः सुघॊरम
तस्माच छिरश छिन्द्धि ममेदम अद्य; कुलान्तकस्याधम पुरुषस्य
103 पापस्य पापव्यसनान्वितस्य; विमूढबुद्धेर अलसस्य भीरॊः
वृद्धावमन्तुः परुषस्य चैव; किं ते चिरं माम अनुवृत्य रूक्षम
104 गच्छाम्य अहं वनम एवाद्य पापः; सुखं भवान वर्ततां मद्विहीनः
यॊग्यॊ राजा भीमसेनॊ महात्मा; कलीबस्य वा मम किं राज्यकृत्यम
105 न चास्मि शक्तः परुषाणि सॊढुं; पुनस तवेमानि रुषान्वितस्य
भीमॊ ऽसतु राजा मम जीवितेन; किं कार्यम अद्यावमतस्य वीर
106 इत्य एवम उक्त्वा सहसॊत्पपात; राजा ततस तच छयनं विहाय
इयेष निर्गन्तुम अथॊ वनाय; तं वासुदेवः परणतॊ ऽभयुवाच
107 राजन विदितम एतत ते यथा गाण्डीवधन्वनः
परतिज्ञा सत्यसंधस्य गाण्डीवं परति विश्रुता
108 बरूयाद य एवं गाण्डीवं देह्य अन्यस्मै तवम इत्य उत
स वध्यॊ ऽसय पुमाँल लॊके तवया चॊक्तॊ ऽयम ईदृशम
109 अतः सत्यां परतिज्ञां तां पार्थेन परिरक्षता
मच्छन्दाद अवमानॊ ऽयं कृतस तव महीपते
गुरूणाम अवमानॊ हि वध इत्य अभिधीयते
110 तस्मात तवं वै महाबाहॊ मम पार्थस्य चॊभयॊः
वयतिक्रमम इमं राजन संक्षमस्वार्जुनं परति
111 शरणं तवां महाराज परपन्नौ सव उभाव अपि
कषन्तुम अर्हसि मे राजन परणतस्याभियाचतः
112 राधेयस्याद्य पापस्य भूमिः पास्यति शॊणितम
सत्यं ते परतिजानामि हतं विद्ध्य अद्य सूतजम
यस्येच्छसि वधं तस्य गतम एवाद्य जीवितम
113 इति कृष्ण वचः शरुत्वा धर्मराजॊ युधिष्ठिरः
ससंभ्रमं हृषीकेशम उत्थाप्य परणतं तदा
कृताञ्जलिम इदं वाक्यम उवाचानन्तरं वचः
114 एवम एतद यथात्थ तवम अस्त्य एषॊ ऽतिक्रमॊ मम
अनुनीतॊ ऽसमि गॊविन्द तारितश चाद्य माधव
मॊक्षिता वयसनाद घॊराद वयम अद्य तवयाच्युत
115 भवन्तं नाथम आसाद्य आवां वयसनसागरात
घॊराद अद्य समुत्तीर्णाव उभाव अज्ञानमॊहितौ
116 तवद बुद्धिप्रवम आसाद्य दुःखशॊकार्णवाद वयम
समुत्तीर्णाः सहामात्याः सनाथाः सम तवयाच्युत
1 [s]
yudhiṣṭhireṇaivam uktaḥ kaunteyaḥ śvetavāhanaḥ
asiṃ jagrāha saṃkruddho jighāṃsur bharatarṣabham
2 tasya kopaṃ samudvīkṣya cittajñaḥ keśavas tadā
uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta
3 neha paśyāmi yoddhavyaṃ tava kiṃ cid dhanaṃjaya
te dhvastā dhārtarāṣṭrā hi sarve bhīmena dhīmatā
4 apayāto 'si kaunteya rājā draṣṭavya ity api
sa rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ
5 taṃ dṛṣṭvā nṛpaśārdūla śārdūla samavikramam
harṣakāle tu saṃprāpte kasmāt tvā manyur āviśat
6 na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha
kasmād bhavān mahākhaḍgaṃ parigṛhṇāti satvaram
7 tat tvā pṛcchāmi kaunteya kim idaṃ te cikīrṣitam
parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama
8 evam uktas tu kṛṣṇena prekṣamāṇo yudhiṣṭhiram
arjunaḥ prāha govindaṃ kruddhaḥ sarpa iva śvasan
9 dada gāṇḍīvam anyasmā iti māṃ yo 'bhicodayet
chindyām ahaṃ śiras tasya ity upāṃśu vrataṃ mama
10 tad ukto 'ham adīnātman rājñāmita parākrama
samakṣaṃ tava govinda na tat kṣantum ihotsahe
11 tasmād enaṃ vadhiṣyāmi rājānaṃ dharmabhīrukam
pratijñāṃ pālayiṣyāmi hatvemaṃ narasattamam
etadarthaṃ mayā khaḍggo gṛhīto yadunandana
12 so 'haṃ yudhiṣṭhiraṃ hatvā satye 'py ānṛṇyatāṃ gataḥ
viśoko vijvaraś cāpi bhaviṣyāmi janārdana
13 kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite
tvam asya jagatas tāta vettha sarvaṃ gatāgatam
tat tathā prakariṣyāmi yathā māṃ vakṣyate bhavān
14 [k]
idānīṃ pātha jānāmi na vṛddhāḥ sevitās tvayā
akāle puruṣavyāghra saṃrambhakriyayānayā
na hi dharmavibhāgajñaḥ kuryād evaṃ dhanaṃjaya
15 akāryāṇāṃ ca kāryāṇāṃ saṃyogaṃ yaḥ karoti vai
kāryāṇām akriyāṇāṃ ca sa pārtha puruṣādhamaḥ
16 anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ
samāsa vistaravidāṃ na teṣāṃ vettha niścayam
17 aniścayajño hi naraḥ kāryākāryaviniścaye
avaśo muhyate pārtha yathā tvaṃ mūḍha eva tu
18 na hi kāryam akāryaṃ vā sukhaṃ jñātuṃ kathaṃ cana
śrutena jñāyate sarvaṃ tac ca tvaṃ nāvabudhyase
19 avijñānād bhavān yac ca dharmaṃ rakṣati dharmavit
prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate
20 prāṇinām avadhas tāta sarvajyāyān mato mama
anṛtaṃ tu bhaved vācyaṃ na ca hiṃsyāt kathaṃ cana
21 sa kathaṃ bhrātaraṃ jyeṣṭhaṃ rājānaṃ dharmakovidam
hanyād bhavān naraśreṣṭha prākṛto 'nyaḥ pumān iva
22 ayudhyamānasya vadhas tathāśastrasya bhārata
parāṅmukhasya dravataḥ śaraṇaṃ vābhigacchataḥ
kṛtāñjaleḥ prapannasya na vadhaḥ pujyate budhaiḥ
23 tvayā caiva vrataṃ pārtha bālenaiva kṛtaṃ purā
tasmād adharmasaṃyuktaṃ mauḍhyāt karma vyavasyasi
24 sa guruṃ pārtha kasmāt tvaṃ hanyā dharmam anusmaran
asaṃpradhārya dharmāṇāṃ gatiṃ sūkṣmāṃ duranvayām
25 idaṃ dharmarahasyaṃ ca vakṣyāmi bharatarṣabha
yad brūyāt tava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ
26 viduro vā tathā kṣattā kuntī vāpi yaśasvinī
tat te vakṣyāmi tattvena tan nibodha dhanaṃjaya
27 satyasya vacanaṃ sādhu na satyād vidyate param
tattvenaitat sudurjñeyaṃ yasya satyam anuṣṭhitam
28 bhavet satyam avaktavyaṃ vaktavyam anṛtaṃ bhavet
sarvasvasyāpahāre tu vaktavyam anṛtaṃ bhavet
29 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet
yatrānṛtaṃ bhavet satyaṃ satyaṃ cāpy anṛtaṃ bhavet
30 tādṛśaṃ paśyate bālo yasya satyam anuṣṭhitam
satyānṛte viniścityal tato bhavati dharmavit
31 kim āścaryaṃ kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ
sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva
32 kim āścaryaṃ punar mūḍho dharmakāmo 'py apaṇḍitaḥ
sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ
33 [arj]
ācakṣva bhagavann etad yathā vidyām ahaṃ tathā
balākāndhābhisaṃbaddhaṃ nadīnāṃ kauśikasya ca
34 [k]
mṛgavyādho 'bhavat kaś cid balāko nāma bhārata
yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ
35 so 'ndhau ca mātā pitarau bibharty anyāṃś ca saṃśritān
svadharmanirato nityaṃ satyavāg anasūyakaḥ
36 sa kadā cin mṛgāṁl lipsur nānvavindat prayatnavān
athāpaśyat sa pītodaṃ śvāpadaṃ ghrāṇacakṣuṣam
37 adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā
anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat
38 apsarogītavāditrair nāditaṃ ca manoramam
vimānam āgamat svargān mṛgavyādha ninīṣayā
39 tad bhūtaṃ sara bhūtānām abhāvāya kilārjuna
tapas taptvā varaṃ prāptaṃ kṛtam andhaṃ svayaṃ bhuvā
40 tad dhatvā sarvabhūtānām abhāva kṛtaniścayam
tato balākaḥ svaragād evaṃ dharmaḥ sudurvidaḥ
41 kauśiko 'py abhavad vipras tapasvī na bahuśrutaḥ
nadīnāṃ saṃgame grāmād adūre sa kilāvasat
42 satyaṃ mayā sadā vācyam iti tasyābhavad vratam
satyavādīti vikhyātaḥ sa tadāsīd dhanaṃjaya
43 atha dasyu bhayāt kecittadā tad vanam āviśan
dasyavo 'pi gatāḥ krūrā vyamārganta prayatnataḥ
44 atha kauśikam abhyetya prāhus taṃ satyavādinam
katamena pathā yātā bhagavan bahavo janāḥ
satyena pṛṣṭhaprabrūhi yadi tān vettha śaṃsa naḥ
45 sa pṛṣṭhaḥ kauśikaḥ satyaṃ vacanaṃ tān uvāca ha
bahuvṛkṣa latāgulmam etad vanam upāśritāḥ
tatas te tān samāsādya krūrā jaghnur iti śrutiḥ
46 tenādharmeṇa mahatā vāg duruktena kauśikaḥ
gataḥ sukaṣṭaṃ narakaṃ sūkṣmadharmeṣv akovidaḥ
aprabhūta śruto mūḍho dharmāṇām avibhāgavit
47 vṛddhān apṛṣṭvā saṃdehaṃ mahac chvabhram ito 'rhati
tatra te lakṣaṇoddeśaḥ kaś cid eva bhaviṣyati
48 duṣkaraṃ paramajñānaṃ karteṇātra vyavasyati
śrutir dharma iti hy eke vadanti bahavo janāḥ
49 na tv etat pratisūyāmi na hi sarvaṃ vidhīyate
prabhavārthāya bhūtānāṃ dharmapravacanaṃ kṛtam
50 dhāraṇād dharmam ity āhur dharmo dhārayati prajāḥ
yaḥ syād dhāraṇa saṃyuktaḥ sa dharma iti niścayaḥ
51 ye 'nyāyena jihīrṣanto janā icchanti karhi cit
akūjanena cen mokṣo nātra kūjet kathaṃ cana
52 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ
śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam
53 prāṇātyaye vivāhe vā sarvajñāti dhanakṣaye
narmaṇy abhipravṛtte vā pravaktavyaṃ mṛṣā bhavet
adharmaṃ nātra paśyanti dharmatattvārtha darśinaḥ
54 yaḥ stenaiḥ saha saṃbandhān mucyate śapathair api
śreyas tatrānṛtaṃ vaktuṃ tat satyam avicāritam
55 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃ cana
pāpebhyo hi dhanaṃ deyaṃ śakye sati kathaṃ cana
tasmād dharmārtham anṛtam uktvā nānṛta vāg bhavet
56 eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi
etac chrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ
57 [arj]
yathā brūyān mahāprājño yathā brūyān mahāmatiḥ
hitaṃ caiva yathāsmākaṃ tathaitad vacanaṃ tava
58 bhavān mātṛsamo 'smākaṃ tathā pitṛsamo 'pi ca
gatiś ca paramā kṛṣṇa tena te vākyam adbhutam
59 na hi te triṣu lokeṣu vidyate 'viditaṃ kva cit
tasmād bhavān paraṃ dharmaṃ veda sarvaṃ yathātatham
60 avadhyaṃ pāṇḍavaṃ manye dharmarājaṃ yudhiṣṭhiram
yasmin samayasaṃyoge brūhi kiṃ cid anugraham
idaṃ cāparam atraiva śṛṇu hṛtsthaṃ vivakṣitam
61 jānāmi dāśārha mama vrataṃ tvaṃ; yo māṃ brūyāt kaś cana mānuṣeṣu
anyasmai tvaṃ gāṇḍivaṃ dehi pārtha; yas tvatto 'strair bhavitā vā viśiṣṭaḥ
62 hanyām ahaṃ keśava taṃ prasahya; bhīmo hanyāt tūbaraketi coktaḥ
tan me rājā proktavāṃs te samakṣaṃ; dhanur dehīty asakṛd vṛṣṇisiṃha
63 taṃ hatvā cet keśava jīvaloke; sthātā kālaṃ nāham apy alpamātram
sā ca pratijñā mama lokaprabuddhā; bhavet satyā dharmabhṛtāṃ variṣṭha
yathā jīvet pāṇḍavo 'haṃ ca kṛṣṇa; tathā buddhiṃ dātum adyārhasi tvam
64 [vā]
rājā śrānto jagato vikṣataś ca; karṇena saṃkhye niśitair bāṇasaṃghaiḥ
tasmāt pārtha tvāṃ paruṣāṇy avocat; karṇe dyūtaṃhy adya raṇe nibaddham
65 tasmin hate kuravo nirjitāḥ syur; evaṃ buddhiḥ pārthivo dharmaputraḥ
yadāvamānaṃ labhate mahāntaṃ; tadā jīvan mṛta ity ucyate saḥ
66 tan mānitaḥ pārthivo 'yaṃ sadaiva; tvayā sabhīmena tathā yamābhyām
vṛddhaiś ca loke puruṣapravīrais; tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva
67 tvam ity atra bhavantaṃ tvaṃ brūhi pārtha yudhiṣṭhiram
tvam ity ukto hi nihato gurur bhavati bhārata
68 evam ācara kaunteya dharmarāje yudhiṣṭhire
adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha
69 atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ
avicāryaiva kāryaiṣā śreyaḥ kāmair naraiḥ sadā
70 vadho hy ayaṃ pāṇḍava dharmarājñas; tvatto yukto vetsyate caivam eṣaḥ
tato 'sya pādāv abhivādya paścāc; chamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham
71 bhrātā prājñas tava kopaṃ na jātu; kuryād rājā kaṃ cana pāṇḍaveyaḥ
mukto 'nṛtād bhrātṛvadhāc ca pārtha; hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram
72 [s]
ity evam uktas tu janārdanena; pārthaḥ praśasyātha suhṛd vadhaṃ tam
tato 'bravīd arjuno dharmarājam; anuktapūrvaṃ paruṣaṃ prasahya
73 mā tvaṃ rājan vyāhara vyāharatsu; na tiṣṭhase krośamātre raṇārdhe
bhīmas tu mām arhati garhaṇāya; yo dyudhyate sarvayodhapravīraḥ
74 kāle hi śatrūn pratipīḍya saṃkhye; hatvā ca śūrān pṛthivīpatīṃs tān
yaḥ kuñjarāṇām adhikaṃ sahasraṃ; hatvānadat tumulaṃ siṃhanādam
75 suduṣkaraṃ karma karoti vīraḥ; kartuṃ yathā nārhasi tvaṃ kadā cit
rathād avaplutya gadāṃ parāmṛśaṃs; tayā nihanty aśvanaradvipān raṇe
76 varāsinā vājirathāśvakuñjarāṃs; tathā rathāṅgair dhanuṣā ca hanty arīn
pramṛdya padbhyām ahitān nihanti yaḥ; punaś ca dorbhyāṃ śatamanyuvikramaḥ
77 mahābalo vaiśravaṇāntakopamaḥ; prasahya hantā dviṣatāṃ yathārham
sa bhīmaseno 'rhati garhaṇāṃ me; na tvaṃ nityaṃ rakṣyase yaḥ suhṛdbhiḥ
78 mahārathān nāgavarān hayāṃś ca; padātimikhyān api ca pramathya
eko bhīmo dhārtarāṣṭreṣu magnaḥ; sa mām upālabdhum ariṃdamo 'rhati
79 kaliṅga vaṅg anaṅga niṣādamāgadhān; sadā madān nīlabalāhakopamān
nihanti yaḥ śatrugaṇān anekaśaḥ; sa mābhivaktuṃ prabhavaty anāgasam
80 suyuktam āsthāya rathaṃ hi kāle; dhanur vikarṣañ śarapūrṇamuṣṭiḥ
sṛjaty asau śaravarṣāṇi vīro; mahāhave megha ivāmbudhārāḥ
81 balaṃ tu vāci dvijasattamānāṃ; kṣātraṃ budhā bāhubalaṃ vadanti
tvaṃ vāgbalo bhārata niṣṭhuraś ca; tvam eva māṃ vetsi yathāvidho 'ham
82 yatāmi nityaṃ tava kartum iṣṭaṃ; dāraiḥ sutair jīvitenātmanā ca
evaṃ ca māṃ vāg viśikhair nihaṃsi; tvattaḥ sukhaṃ na vayaṃ vidma kiṃ cit
83 avāmaṃsthā māṃ draupadī talpa saṃstho; mahārathān pratihanmi tvadarthe
tenātiśaṅkī bhārata niṣṭhuro 'si; tvattaḥ sukhaṃ nābhijānāmi kiṃ cit
84 proktaḥ svayaṃ satyasaṃdhena mṛtyus; tava priyārthaṃ nadadeva yuddhe
vīraḥ śikhaṇḍī draupado 'sau mahātmā; mayābhiguptena hataś ca tena
85 na cābhinandāmi tavādhirājyaṃ; yatas tam akṣeṣv ahitāya saktaḥ
svayaṃ kṛtvā pāpam anāryajuṣṭam; ebhir yuddhe tartum icchasy arīṃs tu
86 akṣeṣu doṣā bahavo vidharmāḥ; śrutās tvayā sahadevo 'bravīd yān
tān naiṣi sāṃtartum asādhu juṣṭān; yena sma sarve nirayaṃ prapannāḥ
87 tvaṃ devitā tvatkṛte rājyanāśas; tvat saṃbhavaṃ vyasanaṃ no narendra
māsmān krūrair vāk pratodais tuda tvaṃ; bhūyo rājan kopayann alpabhāgyān
88 etā vācaḥ paruṣāḥ sāvya sācī; sthiraprajñaṃ śrāvayitvā tatakṣa
tadānutepe surarājaputro; viniḥśvasaṃś cāpy asim udbabarha
89 tam āha kṛṣṇāḥ kim idaṃ punar bhavān; vikośam ākāśanibhaṃ karoty asim
prabrūhi satyaṃ purar uttaraṃ vidher; vacaḥ pravakṣyāmy aham arthasiddhaye
90 ity eva pṛṣṭhaḥ puruṣottamena; suduḥkhitaḥ keśavam āha vākyam
ahaṃ haniṣye svaśarīram eva; prasahya yenāhitam ācaraṃ vai
91 niśamya tat pārtha vaco 'bravīd idaṃ; dhanaṃjayaṃ dharmabhṛtāṃ variṣṭhaḥ
prabrūhi pārtha svaguṇān ihātmanas; tathā svahārdaṃ bhavatīha sadyaḥ
92 tathāstu kṛṣṇety abhinandya vākyaṃ; dhanaṃjayaḥ prāha dhanur vināmya
yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ; śṛṇuṣva rājann iti śakrasūnuḥ
93 na mādṛśo 'nyo naradeva vidyate; dhanurdharo devam ṛte pinākinam
ahaṃ hi tenānumato mahātmanā; kṣaṇena hanyāṃ sacarācaraṃ jagat
94 mayā hi rājan sadig īśvarā diśo; vijitya sarvā bhavataḥ kṛtā vaśe
sa rājasūyaś ca samāptadakṣiṇaḥ; sabhā ca divyā bhavato mamaujasā
95 pāpau pṛṣatkā likhitā mameme; dhanuś ca saṃkhye vitataṃ sabāṇam
pādau ca me saśarau sahadhvajau; na mādṛśaṃ yuddhagataṃ jayanti
96 hatā udīcyā nihatāḥ pratīcyāḥ; prācyā nirastā dākṣiṇātyā viśastāḥ
saṃśaptakānāṃ kiṃ cid evāvaśiṣṭaṃ; sarvasya sainyasya hataṃ mayārdham
97 śete mayā nihatā bhāratī ca; camū rājan deva camū prakāśā
ye nāstrajñās tān ahaṃ hanmi śastrais; tasmāl lokaṃ neha karomi bhasmasāt
98 ity evam uktvā punar āha pārtho; yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham
apy aputrā tena rādhā bhavitrī; kuntī mayā vā tad ṛtaṃ viddhi rājan
prasīda rājan kṣama yan mayoktaṃ; kāle bhavān vetsyati tan namas te
99 prasādya rājānam amitrasāhaṃ; sthito 'bravīc cainam abhiprapannaḥ
yāmy eṣa bhīmaṃ samarāt pramoktuṃ; sarvātmanā sūtaputraṃ ca hantum
100 tava priyārthaṃ mama jīvitaṃ hi; bravīmi satyaṃ tad avehi rājan
iti prāyād upasaṃgṛhya pādau; samutthito dīptatejāḥ kirīṭī
nedaṃ cirāt kṣipram idaṃ bhaviṣyaty; āvartate 'sāv abhiyāmi cainam
101 etac chrutvā pāṇḍavo dharmarājo; bhrātur vākyaṃ paruṣaṃ phalgunasya
utthāya tasmāc chayanād uvāca; pārthaṃ tato duḥkhaparīta cetāḥ
102 kṛtaṃ mayā pārtha yathā na sādhu; yena prāptaṃ vyasanaṃ vaḥ sughoram
tasmāc chiraś chinddhi mamedam adya; kulāntakasyādhama puruṣasya
103 pāpasya pāpavyasanānvitasya; vimūḍhabuddher alasasya bhīroḥ
vṛddhāvamantuḥ paruṣasya caiva; kiṃ te ciraṃ mām anuvṛtya rūkṣam
104 gacchāmy ahaṃ vanam evādya pāpaḥ; sukhaṃ bhavān vartatāṃ madvihīnaḥ
yogyo rājā bhīmaseno mahātmā; klībasya vā mama kiṃ rājyakṛtyam
105 na cāsmi śaktaḥ paruṣāṇi soḍhuṃ; punas tavemāni ruṣānvitasya
bhīmo 'stu rājā mama jīvitena; kiṃ kāryam adyāvamatasya vīra
106 ity evam uktvā sahasotpapāta; rājā tatas tac chayanaṃ vihāya
iyeṣa nirgantum atho vanāya; taṃ vāsudevaḥ praṇato 'bhyuvāca
107 rājan viditam etat te yathā gāṇḍīvadhanvanaḥ
pratijñā satyasaṃdhasya gāṇḍīvaṃ prati viśrutā
108 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta
sa vadhyo 'sya pumāṁl loke tvayā cokto 'yam īdṛśam
109 ataḥ satyāṃ pratijñāṃ tāṃ pārthena parirakṣatā
macchandād avamāno 'yaṃ kṛtas tava mahīpate
gurūṇām avamāno hi vadha ity abhidhīyate
110 tasmāt tvaṃ vai mahābāho mama pārthasya cobhayoḥ
vyatikramam imaṃ rājan saṃkṣamasvārjunaṃ prati
111 śaraṇaṃ tvāṃ mahārāja prapannau sva ubhāv api
kṣantum arhasi me rājan praṇatasyābhiyācataḥ
112 rādheyasyādya pāpasya bhūmiḥ pāsyati śoṇitam
satyaṃ te pratijānāmi hataṃ viddhy adya sūtajam
yasyecchasi vadhaṃ tasya gatam evādya jīvitam
113 iti kṛṣṇa vacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ
sasaṃbhramaṃ hṛṣīkeśam utthāpya praṇataṃ tadā
kṛtāñjalim idaṃ vākyam uvācānantaraṃ vacaḥ
114 evam etad yathāttha tvam asty eṣo 'tikramo mama
anunīto 'smi govinda tāritaś cādya mādhava
mokṣitā vyasanād ghorād vayam adya tvayācyuta
115 bhavantaṃ nātham āsādya āvāṃ vyasanasāgarāt
ghorād adya samuttīrṇāv ubhāv ajñānamohitau
116 tvad buddhipravam āsādya duḥkhaśokārṇavād vayam
samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1207 of 2013 Book 60% ~17 min left