Book 8: Chapter 40
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 8: Chapter 40

The Mahabharata in Sanskrit

Book 8
Chapter 40

1 [स]
भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम
वैकर्तनः सवयं रुद्ध्वा वरयाम आस सायकैः
2 ततस तु चेदिकारूषान सृञ्जयांश च महारथान
कर्णॊ जघान संक्रुद्धॊ भीमसेनस्य पश्यतः
3 भीमसेनस ततः कर्णं विहाय रथसत्तमम
परययौ कौरवं सैन्यं कक्षम अग्निर इव जवलन
4 सूतपुत्रॊ ऽपि समरे पाञ्चालान केकयांस तथा
सृञ्जयांश च महेष्वासान निजघान सहस्रशः
5 संशप्तकेषु पार्थाश च कौरवेषु वृकॊदरः
पाञ्चालेषु तथा कर्णः कषयं चक्रूर महारथाः
6 ते कषत्रिया दह्यमानास तरिभिस तैः पावकॊपमैः
जग्मुर विनाशं समरे राजन दुर्मन्त्रिते तव
7 ततॊ दुर्यॊधनः करुद्धॊ नकुलं नवभिः शरैः
विव्याध भरतश्रेष्ठ चतुरश चास्य वाजिनः
8 ततः पुनर अमेयात्मा तव पुत्रॊ जनाधिपः
कषुरेण सहदेवस्य धवजं चिच्छेद काञ्चनम
9 नकुलस तु ततः करुद्धस तव पुत्रं तरिसप्तभिः
जघान समरे राजन सहदेवश च पञ्चभिः
10 ताव उभौ भरतश्रेष्ठौ शरेष्ठौ सर्वधनुष्मताम
विव्याधॊरसि संक्रुद्धः पञ्चभिः पञ्चभिः शरैः
11 ततॊ ऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत
यमयॊः परहसन राजन विव्याधैव च सप्तभिः
12 ताव अन्ये धनुषी शरेष्ठे शक्रचापनिभे शुभे
परगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि
13 ततस तौ रभसौ युद्धे भरातरौ भरातरं नृप
शरैर ववर्षतुर घॊरैर महामेघौ यथाचलम
14 ततः करुद्धॊ महाराज तव पुत्रॊ महारथः
पाण्डुपुत्रौ महेष्वासौ वारयाम आस पत्रिभिः
15 धनुर्मण्डलम एवास्य दृश्यते युधि भारत
सायकाश चैव दृश्यन्ते निश्चरन्तः समन्ततः
16 तस्य सायकसंछन्नौ चकाशेतां च पाण्डवौ
मेघच छन्नौ यथा वयॊम्नि चन्द्रसूर्यौ हतप्रभौ
17 ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः
आछादयन दिशः सर्वाः सूर्यस्येवांशवस तदा
18 बाणभूते ततस तस्मिन संछन्ने च नभस्तले
यमाभ्यां ददृशे रूपं कालान्तकयमॊपमम
19 पराक्रमं तु तं दृष्ट्वा तव सूनॊर महारथाः
मृत्यॊर उपान्तिकं पराप्तौ माद्रीपुत्रौ सम मेनिरे
20 ततः सेनापती राजन पाण्डवस्य महात्मनः
पार्षतः परययौ तत्र यत्र राजा सुयॊधनः
21 माद्रीपुत्रौ ततः शूरौ वयतिक्रम्य महारथौ
धृष्टद्युम्नस तव सुतं ताडयाम आस सायकैः
22 तम अविध्यद अमेयात्मा तव पुत्रॊ ऽतयमर्षणः
पाञ्चाल्यं पञ्चविंशत्या परहस्य पुरुषर्षभ
23 ततः पुनर अमेयात्मा पुत्रस ते पृथिवीपते
विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिर एव च
24 अथास्य सशरं चापं हस्तावापं च मारिष
कषुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे
25 तद अपास्य धनुश छिन्नं पाञ्चाल्यः शक्र कर्शनः
अन्यद आदत्त वेगेन धनुर भारसहं नवम
26 परज्वलन्न इव वेगेन संरम्भाद रुधिरेक्षणः
अशॊभत महेष्वासॊ धृष्टद्युम्नः कृतव्रणः
27 स पञ्चदश नाराचाञ शवसतः पन्नगान इव
जिघांसुर भरतश्रेष्ठं धृष्टद्युम्नॊ वयवासृजत
28 ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः
विविशुर वसुधां वेगात कङ्कबर्हिण वाससः
29 सॊ ऽतिविद्धॊ महाराज पुत्रस ते ऽतिव्यराजत
वसन्ते पुष्पशबलः सपुष्प इव किंशुकः
30 स छिन्नवर्मा नाराचैः परहारैर जर्जरच्छविः
धृष्टद्युम्नस्य भल्लेन करुद्धश चिच्छेद कार्मुकम
31 अथैनं छिन्नधन्वानं तवरमाणॊ महीपतिः
सायकैर दशभी राजन भरुवॊर मध्ये समार्दयत
32 तस्य ते ऽशॊभयन वक्त्रं कर्मार परिमार्जिताः
परफुल्लं चम्पकं यद्वद भरमरा मधु लिप्सवः
33 तद अपास्य धनुश छिन्नं धृष्टद्युम्नॊ महामनाः
अन्यद आदत्त वेगेन धनुर भल्लांश च षॊडश
34 ततॊ दुर्यॊधनस्याश्वान हत्वा सूतं च पञ्चभिः
धनुश चिच्छेद भल्लेन जातरूपपरिष्कृतम
35 रथं सॊपस्करं छत्रं शक्तिं खड्गं गदां धवजम
भल्लैश चिच्छेद नवभिः पुत्रस्य तव पार्षतः
36 तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम
धवजं कुरुपतेश छिन्नं ददृशुः सर्वपार्थिवाः
37 दुर्यॊधनं तु विरथं छिन्नसर्वायुधं रणे
भरातरः पर्यरक्षन्त सॊदर्या भरतर्षभ
38 तम आरॊप्य रथे राजन दण्डधारॊ जनाधिपम
अपॊवाह च संभ्रान्तॊ धृष्टद्युम्नस्य पश्यतः
39 कर्णस तु सात्यकिं जित्वा राजगृद्धी महाबलः
दरॊण हन्तारम उग्रेषुं ससाराभिमुखं रणे
40 तं पृष्ठतॊ ऽभययात तूर्णं शैनेयॊ वितुदञ शरैः
वारणं जघनॊपान्ते विषाणाभ्याम इव दविपः
41 स भारत महान आसीद यॊधानां सुमहात्मनाम
कर्ण पार्षतयॊर मध्ये तवदीयानां महारणः
42 न पाण्डवानां नास्माकं यॊधः कश्च चित पराङ्मुखः
परत्यदृश्यत यत कर्णः पाञ्चालांस तवरितॊ ययौ
43 तस्मिन कषणे नरश्रेष्ठ गजवाजिन रक्षयः
परादुरासीद उभयतॊ राजन मध्यं गते ऽहनि
44 पाञ्चालास तु महाराज तवरिता विजिगीषवः
सर्वतॊ ऽभयद्रवन कर्णं पतत्रिण इव दरुमम
45 तेषाम आधिरथिः करुद्धॊ यतमानान मनस्विनः
विचिन्वन्न एव बाणाग्रैः समासादयद अग्रतः
46 वयाघ्रकेतुं सुशर्माणं शङ्कुं चॊग्रं धनंजयम
शुक्लं च रॊचमानं च सिंहसेनं च दुर्जयम
47 ते वीरा रथवेगेन परिवव्रुर नरॊत्तरम
सृजन्तं सायकान करुद्धं कर्णम आहवशॊभिनम
48 युध्यमानांस तु ताञ शूरान मनुजेन्द्रः परतापवान
अष्टाभिर अष्टौ राधेयॊ नयहनन निशितैः शरैः
49 अथापरान महाराज सूतपुत्रः परतापवान
जघान बहुसाहस्रान यॊधान युद्धविशारदः
50 विष्णुं च विष्णुकर्माणं देवापिं भद्रम एव च
दण्डं च समरे राजंश चित्रं चित्रायुधं हरिम
51 सिंहकेतुं रॊचमानं शलभं च महारथम
निजघान सुसंक्रुद्धश चेदीनां च महारथान
52 तेषाम आददतः पराणान आसीद आधिरथेर वपुः
शॊणिताभ्युक्षिताङ्गस्य रुद्रस्येवॊर्जितं महत
53 तत्र भारत कर्णेन मातङ्गास ताडिताः शरैः
सर्वतॊ ऽभयद्रवन भीताः कुर्वन्तॊ महद आकुलम
54 निपेतुर उर्व्यां समरे कर्ण सायकपीडिताः
कुर्वन्तॊ विविधान नादान वज्रनुन्ना इवाचलाः
55 गजवाजिमनुष्यैश च निपतद्भिः समन्ततः
रथैश चावगतैर मार्गे पर्यस्तीर्यत मेदिनी
56 नैव भीष्मॊ न च दरॊणॊ नाप्य अन्ये युधि तावकाः
चक्रुः सम तादृशं कर्म यादृशं वै कृतं रणे
57 सूतपुत्रेण नागेषु रथेषु च हयेषु च
नरेषु च नरव्याघ्र कृतं सम कदनं महत
58 मृगमध्ये यथा सिंहॊ दृश्यते निर्भयश चरन
पाञ्चालानां तथा मध्ये कर्णॊ ऽचरद अभीतवत
59 यथा मृगगणांस तरस्तान सिंहॊ दरावयते दिशः
पाञ्चालानां रथव्रातान कर्णॊ दरावयते तथा
60 सिंहास्यं च यथा पराप्य न जीवन्ति मृगाः कव चित
तथा कर्णम अनुप्राप्य न जीवन्ति महारथाः
61 वैश्वानरं यथा दीप्तं दह्यन्ते पराप्य वै जनाः
कर्णाग्निना रणे तद्वद दग्धा भारत सृञ्जयाः
62 कर्णेन चेदिष्व एकेन पाञ्चालेषु च भारत
विश्राव्य नाम निहता बहवः शूर संमताः
63 मम चासीन मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम
नैकॊ ऽपय आधिरथेर जीवन पाञ्चाल्यॊ मॊक्ष्यते युधि
64 पाञ्चालान विधमन संख्ये सूतपुत्रः परतापवान
अभ्यधावत संक्रुद्धॊ धर्मपुत्रं युधिष्ठिरम
65 धृष्टद्युम्नश च राजानं दरौपदेयाश च मारिष
परिवव्रुर अमित्रघ्नं शतशश चापरे जनाः
66 शिखण्डी सहदेवश च नकुलॊ नाकुलिस तथा
जनमेजयः शिनेर नप्ता बहवश च परभद्रकाः
67 एते पुरॊगमा भूत्वा धृष्टद्युम्नस्य संयुगे
कर्णम अस्यन्तम इष्वस्त्रैर विचेरुर अमितौजसः
68 तांस तत्राधिरथिः संख्ये चेदिपाञ्चालपाण्डवान
एकॊ बहून अभ्यपतद गरुत्मन पान्नगान इव
69 भीमसेनस तु संक्रुद्धः कुरून मद्रान सकेकयान
एकः संख्ये महेष्वासॊ यॊधयन बह्व अशॊभत
70 तत्र मर्मसु भीमेन नाराचैस ताडिता गजाः
परपतन्तॊ हतारॊहाः कम्पयन्ति सम मेदिनीम
71 वाजिनश च हतारॊहाः पत्तयश च गतासवः
शेरते युधि निर्भिन्ना वमन्तॊ रुधिरं बहु
72 सहस्रशश च रथिनः पतिताः पतितायुधाः
अक्षताः समदृश्यन्त भीमाद भीता गतासवः
73 रथिभिर वाजिभिः सूतैः पत्तिभिश च तथा गजैः
भीमसेनशरच छिन्नैर आस्तीर्णा वसुधाभवत
74 तत सतम्भितम इवातिष्ठद भीमसेनबलार्दितम
दुर्यॊधन बलं राजन निरुत्साहं कृतव्रणम
75 निश्चेष्टं तुमुले दीनं बभौ तस्मिन महारणे
परसन्नसलिलः काले यथा सयात सागरॊ नृप
76 मन्युवीर्यबलॊपेतं बलात पर्यवरॊपितम
अभवत तव पुत्रस्य तत सैन्यम इषुभिस तदा
रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह
77 सूतपुत्रॊ रणे करुद्धः पाण्डवानाम अनीकिनीम
भीमसेनः कुरूंश चापि दरावयन बह्व अशॊभत
78 वर्तमाने तथा रौद्रे संग्रामे ऽदभुतदर्शने
निहत्य पृतना मध्ये संशप्तक गणान बहून
79 अर्जुनॊ जयतां शरेष्ठॊ वासुदेवम अथाब्रवीत
परभग्नं बलम एतद धि यॊत्स्यमानं जनार्दन
80 एते धावन्ति सगणाः संशप्तक महारथाः
अपारयन्तॊ मद्बाणान सिंहशब्दान मृगा इव
81 दीर्यते च महत सैन्यं सृञ्जयानां महारणे
हस्तिकक्ष्यॊ हय असौ कृष्ण केतुः कर्णस्य धीमतः
दृश्यते राजसैन्यस्य मध्ये विचरतॊ मुहुः
82 न च कर्णं रणे शक्ता जेतुम अन्ये महारथाः
जानीते हि भवान कर्णं वीर्यवन्तं पराक्रमे
83 तत्र याहि यतः कर्णॊ दरावयत्य एष नॊ बलम
84 वर्जयित्वा रणे याहि सूतपुत्रं महारथम
शरमॊ मा बाधते कृष्ण यथा वा तव रॊचते
85 एतच छरुत्वा महाराज गॊविन्दः परहसन्न इव
अब्रवीद अर्जुनं तूर्णं कौरवाञ जहि पाण्डव
86 ततस तव महत सैन्यं गॊविन्द परेरिता हयाः
हंसवर्णाः परविविशुर वहन्तः कृष्ण पाण्डवौ
87 केशव परहितैर अश्वैः शवेतैः काञ्चनभूषणैः
परविशद्भिस तव बलं चतुर्दिशम अभिद्यत
88 तौ विदार्य महासेना परविष्टौ केशवार्जुनौ
करुद्धौ संरम्भरक्ताक्षौ वयभ्राजेतां महाद्युती
89 युद्धशौण्डौ समाहूताव अरिभिस तौ रणाध्वरम
यज्वभिर विधिनाहूतौ मखे देवाव इवाश्विनौ
90 करुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौल बभूवतुः
तलशब्देन रुषितौ यथा नागौ महाहवे
91 विगाहन स रथानीकम अश्वसंघांश च फल्गुनः
वयचरत पृतना मध्ये पाशहस्त इवान्तकः
92 तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत
संशप्तक गणान भूयः पुत्रस ते समचॊदयत
93 ततॊ रथसहस्रेण दविरदानां तरिभिः शतैः
चतुर्दशसहस्रैश च तुरगाणां महाहवे
94 दवाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम
शूराणां नाम लब्धानां विदितानां समन्ततः
अभ्यवर्तन्त तौ वीरौ छादयन्तॊ महारथाः
95 स छाद्यमानः समरे शरैः परबलार्दनः
दर्शयन रौद्रम आत्मानं पाशहस्त इवान्तकः
निघ्नन संशप्तकान पार्थः परेक्षणीयतरॊ ऽभवत
96 ततॊ विद्युत्प्रभैर बाणैः कार्तस्वरविभूषितैः
निरन्तरम इवाकाशम आसीन नुन्नैः किरीटिना
97 किरीटिभुजनिर्मुक्तैः संपतद्भिर महाशरैः
समाच्छन्नं बभौ सर्वं काद्रवेयैर इव परभॊ
98 रुक्मपुङ्खान परसन्नाग्राञ शरान संनतपर्वणः
अदर्शयद अमेयात्मा दिक्षु सर्वासु पाण्डवः
99 हत्वा दशसहस्राणि पार्थिवानां महारथ
संशप्तकानां कौन्तेयः परपक्षं तवरितॊ ऽभययात
100 परपक्षं स समासाद्य पार्थः काम्बॊजरक्षितम
परममाथ बलाद बाणैर दानवान इव वासवः
101 परचिच्छेदाशु भल्लैश च दविषताम आततायिनाम
शस्त्रपाणींस तथा बाहूंस तथापि च शिरांस्य उत
102 अङ्गाङ्गावयवैश छिन्नैर वयायुधास ते ऽपतन कषितौ
विष्वग वाताभिसंभग्ना बहुशाखा इव दरुमाः
103 हस्त्यश्वरथपत्तीनां वरातान निघ्नन्तम अर्जुनम
सुदक्षिणाद अवरजः शरवृष्ट्याभ्यवीवृषत
104 अस्यास्यतॊ ऽरधचन्द्राभ्यां स बाहू परिघॊपमौ
पूर्णचन्द्राभवक्त्रं च कषुरेणाभ्यहनच छिरः
105 स पपात ततॊ वाहात सवलॊहित परिस्रवः
मनःशिला गिरेः शृङ्गं वज्रेणेवावदारितम
106 सुदक्षिणाद अवरजं काम्बॊजं ददृशुर हतम
परांशुं कमलपत्राक्षम अत्यर्थं परियदर्शनम
काञ्चनस्तम्भसंकाशं भिन्नं हेमगिरिं यथा
107 ततॊ ऽभवत पुनर युद्धं घॊरम अद्भुतदर्शनम
नानावस्थाश च यॊधानां बभूवुस तत्र युध्यताम
108 एतेष्व आवर्जितैर अश्वैः काम्बॊजैर यवनैः शकैः
शॊणिताक्तैस तदा रक्तं सर्वम आसीद विशां पते
109 रथै रथाश्वसूतैश च हतारॊहैश च वाजिभिः
दविरदैश च हतारॊहैर महामात्रैर हतद्विपैः
अन्यॊन्येन महाराज कृतॊ घॊरॊ जनक्षयः
110 तस्मिन परपक्षे पक्षे च वध्यमाने महात्मना
अर्जुनं जयतां शरेष्ठं तवरितॊ दरौणिर आययौ
111 विधुन्वानॊ महच चापं कार्तस्वरविभूषितम
आददानः शरान घॊरान सवा रश्मीन इव भास्करः
112 तैः पतद्भिर महाराज दरौणिमुक्तैः समन्ततः
संछादितौ रथस्थौ ताव उभौ कृष्ण धनंजयौ
113 ततः शरशतैस तीक्ष्णैर भारद्वाजः परतावपान
निश्चेष्टौ ताव उभौ चक्रे युद्धे माधव पाण्डवौ
114 हाहाकृतम अभूत सर्वं जङ्गमं सथावरं तथा
चराचरस्य गॊप्तारौ दृष्ट्वा संछादितौ शरैः
115 सिद्धचारणसंघाश च संपेतुर वै समन्ततः
चिन्तयन्तॊ भवेद अद्य लॊकानां सवस्त्य अपीत्य अह
116 न मया तादृशॊ राजन दृष्टपूर्वः पराक्रमः
संजज्ञे यादृशॊ दरौणेः कृष्णौ संछादयिष्यतः
117 दरौणेस तु धनुषः शब्दम अहितत्रासनं रणे
अश्रौषं बहुशॊ राजन सिंहस्य नदतॊ यथा
118 जया चास्य चरतॊ युद्धे सव्यदक्षिणम अस्यतः
विद्युद अम्बुदमध्यस्था भराजमानेव साभवत
119 स तथा कषिप्रकारी च दृढहस्तश च पाण्डवः
संमॊहं परमं गत्वा परैक्षत दरॊणजं ततः
120 स विक्रमं हृतं मेने आत्मानः सुमहात्मना
तथास्य समरे राजन वपुर आसीत सुदुर्दृशम
121 दरौणिपाण्डवयॊर एवं वतमाने महारणे
वर्धमाने च राजेन्द्र दरॊणपुत्रे महाबले
हीयमाने च कौन्तेये कृष्णं रॊषः समभ्ययात
122 सरॊषान निःश्वसन राजन निर्दहन्न इव चक्षुषा
दरौणिं हय अपश्यत संग्रामे फल्गुनं च मुहुर मुहुः
123 ततः करुद्धॊ ऽबरवीत कृष्णः पार्थं सप्रणयं तदा
अत्यद्भुतम इदं पार्थ तव पश्यामि संयुगे
अतिशेते हि यत्र तवा दरॊणपुत्रॊ ऽदय भारत
124 कच चित ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन
कच चित कुशलिनौ बाहू कच चिद वीर्यं तद एव ते
125 एवम उक्तस तु कृष्णेन कषिप्त्वा भल्लांश चतुर्दश
तवरमाणस तवरा काले दरौणेर धनुर अथाच्छिनत
धवजं छत्रं पताकां च रथां शक्तिं गदां तथा
126 जत्रु देशे च सुभृशं वत्सदन्तैर अताडयत
स पूर्च्छां परमां गत्वा धवजयष्टिं समाश्रितः
127 तं विसंज्ञं महाराज किरीटिभयपीडितम
अपॊवाह रणात सूतॊ रक्षमाणॊ धनंजयात
128 एतस्मिन्न एव काले तु विजयः शत्रुतापनः
नयवधीत तावकं सैन्यं शतशॊ ऽथ सहस्रशः
पश्यतस तव पुत्रस्य तस्य वीरस्य भारत
129 एवम एष कषयॊ वृत्तस तावकानां परैः सह
करूरॊ विशसनॊ घॊरॊ राजन दुर्मन्त्रिते तव
130 संशप्तकांश च कौन्तेयः कुरूंश चापि वृकॊदरः
वसुषेणं च पाञ्चालः कृत्स्नेन वयधमद रणे
1 [s]
bhīmasenaṃ sapāñcālyaṃ cedikekayasaṃvṛtam
vaikartanaḥ svayaṃ ruddhvā varayām āsa sāyakaiḥ
2 tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān
karṇo jaghāna saṃkruddho bhīmasenasya paśyataḥ
3 bhīmasenas tataḥ karṇaṃ vihāya rathasattamam
prayayau kauravaṃ sainyaṃ kakṣam agnir iva jvalan
4 sūtaputro 'pi samare pāñcālān kekayāṃs tathā
sṛñjayāṃś ca maheṣvāsān nijaghāna sahasraśaḥ
5 saṃśaptakeṣu pārthāś ca kauraveṣu vṛkodaraḥ
pāñcāleṣu tathā karṇaḥ kṣayaṃ cakrūr mahārathāḥ
6 te kṣatriyā dahyamānās tribhis taiḥ pāvakopamaiḥ
jagmur vināśaṃ samare rājan durmantrite tava
7 tato duryodhanaḥ kruddho nakulaṃ navabhiḥ śaraiḥ
vivyādha bharataśreṣṭha caturaś cāsya vājinaḥ
8 tataḥ punar ameyātmā tava putro janādhipaḥ
kṣureṇa sahadevasya dhvajaṃ ciccheda kāñcanam
9 nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ
jaghāna samare rājan sahadevaś ca pañcabhiḥ
10 tāv ubhau bharataśreṣṭhau śreṣṭhau sarvadhanuṣmatām
vivyādhorasi saṃkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ
11 tato 'parābhyāṃ bhallābhyāṃ dhanuṣī samakṛntata
yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ
12 tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe
pragṛhya rejatuḥ śūrau devaputrasamau yudhi
13 tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa
śarair vavarṣatur ghorair mahāmeghau yathācalam
14 tataḥ kruddho mahārāja tava putro mahārathaḥ
pāṇḍuputrau maheṣvāsau vārayām āsa patribhiḥ
15 dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata
sāyakāś caiva dṛśyante niścarantaḥ samantataḥ
16 tasya sāyakasaṃchannau cakāśetāṃ ca pāṇḍavau
meghac channau yathā vyomni candrasūryau hataprabhau
17 te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ
āchādayan diśaḥ sarvāḥ sūryasyevāṃśavas tadā
18 bāṇabhūte tatas tasmin saṃchanne ca nabhastale
yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam
19 parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ
mṛtyor upāntikaṃ prāptau mādrīputrau sma menire
20 tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ
pārṣataḥ prayayau tatra yatra rājā suyodhanaḥ
21 mādrīputrau tataḥ śūrau vyatikramya mahārathau
dhṛṣṭadyumnas tava sutaṃ tāḍayām āsa sāyakaiḥ
22 tam avidhyad ameyātmā tava putro 'tyamarṣaṇaḥ
pāñcālyaṃ pañcaviṃśatyā prahasya puruṣarṣabha
23 tataḥ punar ameyātmā putras te pṛthivīpate
viddhvā nanāda pāñcālyaṃ ṣaṣṭyā pañcabhir eva ca
24 athāsya saśaraṃ cāpaṃ hastāvāpaṃ ca māriṣa
kṣurapreṇa sutīkṣṇena rājā ciccheda saṃyuge
25 tad apāsya dhanuś chinnaṃ pāñcālyaḥ śakra karśanaḥ
anyad ādatta vegena dhanur bhārasahaṃ navam
26 prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ
aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ
27 sa pañcadaśa nārācāñ śvasataḥ pannagān iva
jighāṃsur bharataśreṣṭhaṃ dhṛṣṭadyumno vyavāsṛjat
28 te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ
viviśur vasudhāṃ vegāt kaṅkabarhiṇa vāsasaḥ
29 so 'tividdho mahārāja putras te 'tivyarājata
vasante puṣpaśabalaḥ sapuṣpa iva kiṃśukaḥ
30 sa chinnavarmā nārācaiḥ prahārair jarjaracchaviḥ
dhṛṣṭadyumnasya bhallena kruddhaś ciccheda kārmukam
31 athainaṃ chinnadhanvānaṃ tvaramāṇo mahīpatiḥ
sāyakair daśabhī rājan bhruvor madhye samārdayat
32 tasya te 'śobhayan vaktraṃ karmāra parimārjitāḥ
praphullaṃ campakaṃ yadvad bhramarā madhu lipsavaḥ
33 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahāmanāḥ
anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa
34 tato duryodhanasyāśvān hatvā sūtaṃ ca pañcabhiḥ
dhanuś ciccheda bhallena jātarūpapariṣkṛtam
35 rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam
bhallaiś ciccheda navabhiḥ putrasya tava pārṣataḥ
36 tapanīyāṅgadaṃ citraṃ nāgaṃ maṇimayaṃ śubham
dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ
37 duryodhanaṃ tu virathaṃ chinnasarvāyudhaṃ raṇe
bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha
38 tam āropya rathe rājan daṇḍadhāro janādhipam
apovāha ca saṃbhrānto dhṛṣṭadyumnasya paśyataḥ
39 karṇas tu sātyakiṃ jitvā rājagṛddhī mahābalaḥ
droṇa hantāram ugreṣuṃ sasārābhimukhaṃ raṇe
40 taṃ pṛṣṭhato 'bhyayāt tūrṇaṃ śaineyo vitudañ śaraiḥ
vāraṇaṃ jaghanopānte viṣāṇābhyām iva dvipaḥ
41 sa bhārata mahān āsīd yodhānāṃ sumahātmanām
karṇa pārṣatayor madhye tvadīyānāṃ mahāraṇaḥ
42 na pāṇḍavānāṃ nāsmākaṃ yodhaḥ kaśc cit parāṅmukhaḥ
pratyadṛśyata yat karṇaḥ pāñcālāṃs tvarito yayau
43 tasmin kṣaṇe naraśreṣṭha gajavājina rakṣayaḥ
prādurāsīd ubhayato rājan madhyaṃ gate 'hani
44 pāñcālās tu mahārāja tvaritā vijigīṣavaḥ
sarvato 'bhyadravan karṇaṃ patatriṇa iva drumam
45 teṣām ādhirathiḥ kruddho yatamānān manasvinaḥ
vicinvann eva bāṇāgraiḥ samāsādayad agrataḥ
46 vyāghraketuṃ suśarmāṇaṃ śaṅkuṃ cograṃ dhanaṃjayam
śuklaṃ ca rocamānaṃ ca siṃhasenaṃ ca durjayam
47 te vīrā rathavegena parivavrur narottaram
sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam
48 yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān
aṣṭābhir aṣṭau rādheyo nyahanan niśitaiḥ śaraiḥ
49 athāparān mahārāja sūtaputraḥ pratāpavān
jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ
50 viṣṇuṃ ca viṣṇukarmāṇaṃ devāpiṃ bhadram eva ca
daṇḍaṃ ca samare rājaṃś citraṃ citrāyudhaṃ harim
51 siṃhaketuṃ rocamānaṃ śalabhaṃ ca mahāratham
nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān
52 teṣām ādadataḥ prāṇān āsīd ādhirather vapuḥ
śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat
53 tatra bhārata karṇena mātaṅgās tāḍitāḥ śaraiḥ
sarvato 'bhyadravan bhītāḥ kurvanto mahad ākulam
54 nipetur urvyāṃ samare karṇa sāyakapīḍitāḥ
kurvanto vividhān nādān vajranunnā ivācalāḥ
55 gajavājimanuṣyaiś ca nipatadbhiḥ samantataḥ
rathaiś cāvagatair mārge paryastīryata medinī
56 naiva bhīṣmo na ca droṇo nāpy anye yudhi tāvakāḥ
cakruḥ sma tādṛśaṃ karma yādṛśaṃ vai kṛtaṃ raṇe
57 sūtaputreṇa nāgeṣu ratheṣu ca hayeṣu ca
nareṣu ca naravyāghra kṛtaṃ sma kadanaṃ mahat
58 mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran
pāñcālānāṃ tathā madhye karṇo 'carad abhītavat
59 yathā mṛgagaṇāṃs trastān siṃho drāvayate diśaḥ
pāñcālānāṃ rathavrātān karṇo drāvayate tathā
60 siṃhāsyaṃ ca yathā prāpya na jīvanti mṛgāḥ kva cit
tathā karṇam anuprāpya na jīvanti mahārathāḥ
61 vaiśvānaraṃ yathā dīptaṃ dahyante prāpya vai janāḥ
karṇāgninā raṇe tadvad dagdhā bhārata sṛñjayāḥ
62 karṇena cediṣv ekena pāñcāleṣu ca bhārata
viśrāvya nāma nihatā bahavaḥ śūra saṃmatāḥ
63 mama cāsīn manuṣyendra dṛṣṭvā karṇasya vikramam
naiko 'py ādhirather jīvan pāñcālyo mokṣyate yudhi
64 pāñcālān vidhaman saṃkhye sūtaputraḥ pratāpavān
abhyadhāvata saṃkruddho dharmaputraṃ yudhiṣṭhiram
65 dhṛṣṭadyumnaś ca rājānaṃ draupadeyāś ca māriṣa
parivavrur amitraghnaṃ śataśaś cāpare janāḥ
66 śikhaṇḍī sahadevaś ca nakulo nākulis tathā
janamejayaḥ śiner naptā bahavaś ca prabhadrakāḥ
67 ete purogamā bhūtvā dhṛṣṭadyumnasya saṃyuge
karṇam asyantam iṣvastrair vicerur amitaujasaḥ
68 tāṃs tatrādhirathiḥ saṃkhye cedipāñcālapāṇḍavān
eko bahūn abhyapatad garutman pānnagān iva
69 bhīmasenas tu saṃkruddhaḥ kurūn madrān sakekayān
ekaḥ saṃkhye maheṣvāso yodhayan bahv aśobhata
70 tatra marmasu bhīmena nārācais tāḍitā gajāḥ
prapatanto hatārohāḥ kampayanti sma medinīm
71 vājinaś ca hatārohāḥ pattayaś ca gatāsavaḥ
śerate yudhi nirbhinnā vamanto rudhiraṃ bahu
72 sahasraśaś ca rathinaḥ patitāḥ patitāyudhāḥ
akṣatāḥ samadṛśyanta bhīmād bhītā gatāsavaḥ
73 rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ
bhīmasenaśarac chinnair āstīrṇā vasudhābhavat
74 tat stambhitam ivātiṣṭhad bhīmasenabalārditam
duryodhana balaṃ rājan nirutsāhaṃ kṛtavraṇam
75 niśceṣṭaṃ tumule dīnaṃ babhau tasmin mahāraṇe
prasannasalilaḥ kāle yathā syāt sāgaro nṛpa
76 manyuvīryabalopetaṃ balāt paryavaropitam
abhavat tava putrasya tat sainyam iṣubhis tadā
rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha
77 sūtaputro raṇe kruddhaḥ pāṇḍavānām anīkinīm
bhīmasenaḥ kurūṃś cāpi drāvayan bahv aśobhata
78 vartamāne tathā raudre saṃgrāme 'dbhutadarśane
nihatya pṛtanā madhye saṃśaptaka gaṇān bahūn
79 arjuno jayatāṃ śreṣṭho vāsudevam athābravīt
prabhagnaṃ balam etad dhi yotsyamānaṃ janārdana
80 ete dhāvanti sagaṇāḥ saṃśaptaka mahārathāḥ
apārayanto madbāṇān siṃhaśabdān mṛgā iva
81 dīryate ca mahat sainyaṃ sṛñjayānāṃ mahāraṇe
hastikakṣyo hy asau kṛṣṇa ketuḥ karṇasya dhīmataḥ
dṛśyate rājasainyasya madhye vicarato muhuḥ
82 na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ
jānīte hi bhavān karṇaṃ vīryavantaṃ parākrame
83 tatra yāhi yataḥ karṇo drāvayaty eṣa no balam
84 varjayitvā raṇe yāhi sūtaputraṃ mahāratham
śramo mā bādhate kṛṣṇa yathā vā tava rocate
85 etac chrutvā mahārāja govindaḥ prahasann iva
abravīd arjunaṃ tūrṇaṃ kauravāñ jahi pāṇḍava
86 tatas tava mahat sainyaṃ govinda preritā hayāḥ
haṃsavarṇāḥ praviviśur vahantaḥ kṛṣṇa pāṇḍavau
87 keśava prahitair aśvaiḥ śvetaiḥ kāñcanabhūṣaṇaiḥ
praviśadbhis tava balaṃ caturdiśam abhidyata
88 tau vidārya mahāsenā praviṣṭau keśavārjunau
kruddhau saṃrambharaktākṣau vyabhrājetāṃ mahādyutī
89 yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram
yajvabhir vidhināhūtau makhe devāv ivāśvinau
90 kruddhau tau tu naravyāghrau vegavantaul babhūvatuḥ
talaśabdena ruṣitau yathā nāgau mahāhave
91 vigāhan sa rathānīkam aśvasaṃghāṃś ca phalgunaḥ
vyacarat pṛtanā madhye pāśahasta ivāntakaḥ
92 taṃ dṛṣṭvā yudhi vikrāntaṃ senāyāṃ tava bhārata
saṃśaptaka gaṇān bhūyaḥ putras te samacodayat
93 tato rathasahasreṇa dviradānāṃ tribhiḥ śataiḥ
caturdaśasahasraiś ca turagāṇāṃ mahāhave
94 dvābhyāṃ śatasahasrābhyāṃ padātīnāṃ ca dhanvinām
śūrāṇāṃ nāma labdhānāṃ viditānāṃ samantataḥ
abhyavartanta tau vīrau chādayanto mahārathāḥ
95 sa chādyamānaḥ samare śaraiḥ parabalārdanaḥ
darśayan raudram ātmānaṃ pāśahasta ivāntakaḥ
nighnan saṃśaptakān pārthaḥ prekṣaṇīyataro 'bhavat
96 tato vidyutprabhair bāṇaiḥ kārtasvaravibhūṣitaiḥ
nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā
97 kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ
samācchannaṃ babhau sarvaṃ kādraveyair iva prabho
98 rukmapuṅkhān prasannāgrāñ śarān saṃnataparvaṇaḥ
adarśayad ameyātmā dikṣu sarvāsu pāṇḍavaḥ
99 hatvā daśasahasrāṇi pārthivānāṃ mahāratha
saṃśaptakānāṃ kaunteyaḥ prapakṣaṃ tvarito 'bhyayāt
100 prapakṣaṃ sa samāsādya pārthaḥ kāmbojarakṣitam
pramamātha balād bāṇair dānavān iva vāsavaḥ
101 pracicchedāśu bhallaiś ca dviṣatām ātatāyinām
śastrapāṇīṃs tathā bāhūṃs tathāpi ca śirāṃsy uta
102 aṅgāṅgāvayavaiś chinnair vyāyudhās te 'patan kṣitau
viṣvag vātābhisaṃbhagnā bahuśākhā iva drumāḥ
103 hastyaśvarathapattīnāṃ vrātān nighnantam arjunam
sudakṣiṇād avarajaḥ śaravṛṣṭyābhyavīvṛṣat
104 asyāsyato 'rdhacandrābhyāṃ sa bāhū parighopamau
pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanac chiraḥ
105 sa papāta tato vāhāt svalohita parisravaḥ
manaḥśilā gireḥ śṛṅgaṃ vajreṇevāvadāritam
106 sudakṣiṇād avarajaṃ kāmbojaṃ dadṛśur hatam
prāṃśuṃ kamalapatrākṣam atyarthaṃ priyadarśanam
kāñcanastambhasaṃkāśaṃ bhinnaṃ hemagiriṃ yathā
107 tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam
nānāvasthāś ca yodhānāṃ babhūvus tatra yudhyatām
108 eteṣv āvarjitair aśvaiḥ kāmbojair yavanaiḥ śakaiḥ
śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate
109 rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ
dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ
anyonyena mahārāja kṛto ghoro janakṣayaḥ
110 tasmin prapakṣe pakṣe ca vadhyamāne mahātmanā
arjunaṃ jayatāṃ śreṣṭhaṃ tvarito drauṇir āyayau
111 vidhunvāno mahac cāpaṃ kārtasvaravibhūṣitam
ādadānaḥ śarān ghorān svā raśmīn iva bhāskaraḥ
112 taiḥ patadbhir mahārāja drauṇimuktaiḥ samantataḥ
saṃchāditau rathasthau tāv ubhau kṛṣṇa dhanaṃjayau
113 tataḥ śaraśatais tīkṣṇair bhāradvājaḥ pratāvapān
niśceṣṭau tāv ubhau cakre yuddhe mādhava pāṇḍavau
114 hāhākṛtam abhūt sarvaṃ jaṅgamaṃ sthāvaraṃ tathā
carācarasya goptārau dṛṣṭvā saṃchāditau śaraiḥ
115 siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ
cintayanto bhaved adya lokānāṃ svasty apīty aha
116 na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ
saṃjajñe yādṛśo drauṇeḥ kṛṣṇau saṃchādayiṣyataḥ
117 drauṇes tu dhanuṣaḥ śabdam ahitatrāsanaṃ raṇe
aśrauṣaṃ bahuśo rājan siṃhasya nadato yathā
118 jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ
vidyud ambudamadhyasthā bhrājamāneva sābhavat
119 sa tathā kṣiprakārī ca dṛḍhahastaś ca pāṇḍavaḥ
saṃmohaṃ paramaṃ gatvā praikṣata droṇajaṃ tataḥ
120 sa vikramaṃ hṛtaṃ mene ātmānaḥ sumahātmanā
tathāsya samare rājan vapur āsīt sudurdṛśam
121 drauṇipāṇḍavayor evaṃ vatamāne mahāraṇe
vardhamāne ca rājendra droṇaputre mahābale
hīyamāne ca kaunteye kṛṣṇaṃ roṣaḥ samabhyayāt
122 saroṣān niḥśvasan rājan nirdahann iva cakṣuṣā
drauṇiṃ hy apaśyat saṃgrāme phalgunaṃ ca muhur muhuḥ
123 tataḥ kruddho 'bravīt kṛṣṇaḥ pārthaṃ sapraṇayaṃ tadā
atyadbhutam idaṃ pārtha tava paśyāmi saṃyuge
atiśete hi yatra tvā droṇaputro 'dya bhārata
124 kac cit te gāṇḍivaṃ haste rathe tiṣṭhasi cārjuna
kac cit kuśalinau bāhū kac cid vīryaṃ tad eva te
125 evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa
tvaramāṇas tvarā kāle drauṇer dhanur athācchinat
dhvajaṃ chatraṃ patākāṃ ca rathāṃ śaktiṃ gadāṃ tathā
126 jatru deśe ca subhṛśaṃ vatsadantair atāḍayat
sa pūrcchāṃ paramāṃ gatvā dhvajayaṣṭiṃ samāśritaḥ
127 taṃ visaṃjñaṃ mahārāja kirīṭibhayapīḍitam
apovāha raṇāt sūto rakṣamāṇo dhanaṃjayāt
128 etasminn eva kāle tu vijayaḥ śatrutāpanaḥ
nyavadhīt tāvakaṃ sainyaṃ śataśo 'tha sahasraśaḥ
paśyatas tava putrasya tasya vīrasya bhārata
129 evam eṣa kṣayo vṛttas tāvakānāṃ paraiḥ saha
krūro viśasano ghoro rājan durmantrite tava
130 saṃśaptakāṃś ca kaunteyaḥ kurūṃś cāpi vṛkodaraḥ
vasuṣeṇaṃ ca pāñcālaḥ kṛtsnena vyadhamad raṇe

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1198 of 2013 Book 59% ~14 min left