Book 8: Chapter 30
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 8: Chapter 30

The Mahabharata in Sanskrit

Book 8
Chapter 30

1 [स]
ततः पुनर महाराज मद्रराजम अरिंदमम
अभ्यभाषत राधेयः संनिवार्यॊत्तरं वचः
2 यत तवं निदर्शनार्थं मां शल्य जल्पितवान असि
नाहं शक्यस तवया वाचा विभीषयितुम आहवे
3 यदि मां देवताः सर्वा यॊधयेयुः सवासवाः
तथापि मे भयं न सयात किम उ पार्थात सकेशवात
4 नाहं भीषयितुं शक्यॊ वान मात्रेण कथं चन
अन्यं जानीहि यः शक्यस तवया भीषयितुं रणे
5 नीचस्य बलम एतावत पारुष्यं यत तवम आत्थ माम
अशक्तॊ ऽसमद गुणान पराप्तुं वल्गसे बहु दुर्मते
6 न हि कर्णः समुद्भूतॊ भयार्थम इह मारिष
विक्रमार्थम अहं जातॊ यशॊऽरथं च तथैव च
7 इदं तु मे तवम एकाग्रः शृणु मद्रजनाधिप
संनिधौ धृतराष्ट्रस्य परॊच्यमानं मया शरुतम
8 देशांश च विविधांश चित्रान पूर्ववृत्तांश च पार्थिवान
बराह्मणाः कथयन्तः सम धृतराष्ठम उपासते
9 तत्र वृद्धः पुरावृत्ताः कथाः काश चिद दविजॊत्तमः
बाह्लीक देशं मद्रांश च कुत्सयन वाक्यम अब्रवीत
10 बहिष्कृता हिमवता गङ्गया च तिरस्कृताः
सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये
11 पञ्चानां सिन्धुषष्ठानां नदीनां ये ऽनतर आश्रिताः
तान धर्मबाह्यान अशुचीन बाह्लीकान परिवर्जयेत
12 गॊवर्धनॊ नाम वटः सुभाण्डं नाम चत्वरम
एतद राजकुलद्वारम आकुमारः समराम्य अहम
13 कार्येणात्यर्थ गाढेन बाह्लीकेषूषितं मया
तत एषां समाचारः संवासाद विदितॊ मम
14 शाकलं नाम नगरम आपगा नाम निम्नगा
जर्तिका नाम बाह्लीकास तेषां वृत्तं सुनिन्दितम
15 धाना गौडासवे पीत्वा गॊमांसं लशुनैः सह
अपूप मांसवाट्यानाम आशिनः शीलवर्जिताः
16 हसन्ति गान्ति नृत्यन्ति सत्रीभिर मत्ता विवाससः
नगरागार वप्रेषु बहिर माल्यानुलेपनाः
17 मत्तावगीतैर विविधैः खरॊष्ट्रनिनदॊपमैः
आहुर अन्यॊन्यम उक्तानि परब्रुवाणा मदॊत्कटाः
18 हाहते हाहतेत्य एव सवामिभर्तृहतेति च
आक्रॊशन्त्यः परनृत्यन्ति मन्दाः पर्वस्व असंयताः
19 तेषां किलावलिप्तानां निवसन कुरुजाङ्गले
कश चिद बाह्लीक मुख्यानां नातिहृष्टमना जगौ
20 सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी
माम अनुस्मरती शेते बाह्लीकं कुरु वासिनम
21 शतद्रुक नदीं तीर्त्वा तां च रम्याम इरावतीम
गत्वा सवदेशं दरक्ष्यामि सथूलशङ्खाः शुभाः सत्रियः
22 मनःशिलॊज्ज्वलापाङ्गा गौर्यस तरिककुदाञ्जनाः
केवलाजिनसंवीताः कूर्दन्त्यः परियदर्शनाः
23 मृदङ्गानक शङ्खानां मर्दलानां च निस्वनैः
खरॊष्ट्राश्वतरैश चैव मत्ता यास्यामहे सुखम
24 शमी पीलु करीराणां वनेषु सुखवर्त्मसु
अपूपान सक्तु पिण्डीश च खादन्तॊ मथितान्विताः
25 पथिषु परबला भूत्वा कदास मृदिते ऽधवनि
खलॊपहारं कुर्वाणास ताडयिष्याम भूयसः
26 एवं हीनेषु वरात्येषु बाह्लीकेषु दुरात्मसु
कश चेतयानॊ निवसेन मुहूर्तम अपि मानवः
27 ईदृशा बराह्मणेनॊक्ता बाह्लीका मॊघचारिणः
येषां षड्भागहर्ता तवम उभयॊः शुभपापयॊः
28 इत्य उक्त्वा बराह्मणः साधुर उत्तरं पुनर उक्तवान
बाह्लीकेष्व अविनीतेषु परॊच्यमानं निबॊधत
29 तत्र सम राक्षसी गाति सदा कृष्ण चतुर्दशीम
नगरे शाकले सफीते आहत्य निशि दुन्दुभिम
30 कदा वा घॊषिका गाथाः पुनर गास्यन्ति शाकले
गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम
31 गौरीभिः सह नारीभिर बृहतीभिः सवलंकृताः
पलाण्डु गाण्डूष युतान खादन्ते चैडकान बहून
32 वाराहं कौक्कुटं मांसं गव्यं गार्दभम औष्ट्रकम
ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम
33 इति गायन्ति ये मत्ताः शीधुना शाकलावतः
सबालवृद्धाः कूर्दन्तस तेषु वृत्तं कथं भवेत
34 इति शल्य विजानीहि हन्त भूयॊ बरवीमि ते
यद अन्यॊ ऽपय उक्तवान अस्मान बराह्मणः कुरुसंसदि
35 पञ्च नद्यॊ वहन्त्य एता यत्र पीलु वनान्य अपि
शतद्रुश च विपाशा च तृतीयेरावती तथा
चन्द्र भागा वितस्ता च सिन्धुषष्ठा बहिर गताः
36 आरट्टा नाम ते देशा नष्टधर्मान न तान वरजेत
वरात्यानां दासमीयानां विदेहानाम अयज्वनाम
37 न देवाः परतिगृह्णन्ति पितरॊ बराह्मणास तथा
तेषां परनष्टधर्माणां बाह्लीकानाम इति शरुतिः
38 बराह्मणेन तथा परॊक्तं विदुषा साधु संसदि
काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते
सक्तु वाट्यावलिप्तेषु शवादि लीढेषु निर्घृणाः
39 आविकं चौष्ट्रिकं चैव कषीरं गार्दभम एव च
तद विकारांश च बाह्लीकाः खादन्ति च पिबन्ति च
40 पुत्र संकरिणॊ जाल्माः सर्वान नक्षीर भॊजनाः
आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता
41 उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते
यद अन्यॊ ऽपय उक्तवान सभ्यॊ बराह्मणः कुरुसंसदि
42 युगं धरे पयः पीत्वा परॊष्य चाप्य अच्युतस्थले
तद्वद भूतिलये सनात्वा कथं सवर्गं गमिष्यति
43 पञ्च नद्यॊ वहन्त्य एता यत्र निःसृत्य पर्वतात
आरट्टा नाम बाह्लीका न तेष्व आर्यॊ दव्यहं वसेत
44 बहिश च नाम हलीकश च विपाशायां पिशाचकौ
तयॊर अपत्यं बाह्लीका नैषा सृष्टिः परजापतेः
45 कारः करान महिषकान कलिङ्गान कीकटाटवीन
कर्कॊटकान वीरकांश च दुर्धर्मांश च विवर्जयेत
46 इति तीर्थानुसर्तारं राक्षसी का चिद अब्रवीत
एकरात्रा शमी गेहे महॊलूखल मेखला
47 आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः
वसाति सिन्धुसौवीरा इति परायॊ विकुत्सिताः
48 उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते
उच्यमानं मया सम्यक तद एकाग्रमनाः शृणु
49 बराह्मणः शिल्पिनॊ गेहम अभ्यगच्छत पुरातिथिः
आचारं तत्र संप्रेक्ष्य परीतः शिल्पिनम अब्रवीत
50 मया हिमवतः शृङ्गम एकेनाध्युषितं चिरम
दृष्टाश च बहवॊ देशा नानाधर्मसमाकुलाः
51 न च केन च धर्मेण विरुध्यन्ते परजा इमाः
सर्वे हि ते ऽबरुवन धर्मं यथॊक्तं वेदपारगैः
52 अटता तु सदा देशान नानाधर्मसमाकुलान
आगच्छता महाराज बाह्लीकेषु निशामितम
53 तत्रैव बराह्मणॊ भूत्वा ततॊ भवति कषत्रियः
वैश्यः शूद्रश च बाह्लीकस ततॊ भवति नापितः
54 नापितश च ततॊ भूत्वा पुनर भवति बराह्मणः
दविजॊ भूत्वा च तत्रैव पुनर दासॊ ऽपि जायते
55 भवत्य एकः कुले विप्रः शिष्टान्ये कामचारिणः
गान्धारा मद्रकाश चैव बाह्लीकाः के ऽपय अचेतसः
56 एतन मया शरुतं तत्र धर्मसंकरकारकम
कृत्स्नाम अटित्वा पृथिवीं बाह्लीकेषु विपर्ययः
57 उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते
यद अप्य अन्यॊ ऽबरवीद वाक्यं बाह्लीकानां विकुत्सितम
58 सती पुरा हृता का चिद आरट्टा किल दस्युभिः
अधर्मतश चॊपयाता सा तान अभ्यशपत ततः
59 बालां बन्धुमतीं यन माम अधर्मेणॊपगच्छथ
तस्मान नार्यॊ भविष्यन्ति बन्धक्यॊ वै कुलेषु वः
न चैवास्मात परमॊक्ष्यध्वं घॊरात पापान नराधमाः
60 कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः
कॊसलाः काशयॊ ऽङगाश च कलिङ्गा मगधास तथा
61 चेदयश च महाभागा धर्मं जानन्ति शाश्वतम
नानादेशेषु सन्तश च परायॊ बाह्या लयाद ऋते
62 आ मत्स्येभ्यः कुरुपाञ्चालदेश्या; आ नैमिषाच चेदयॊ ये विशिष्टाः
धर्मं पुराणम उपजीवन्ति सन्तॊ; मद्रान ऋते पञ्च नदांश च जिह्मान
63 एवं विद्वन धर्मकथांश च राजंस; तूष्णींभूतॊ जडवच छल्य भूयाह
तवं तस्य गॊप्ता च जनस्य राजा; षड्भागहर्ता शुभदुष्कृतस्य
64 अथ वा दुष्कृतस्य तवं हर्ता तेषाम अरक्षिता
रक्षिता पुण्यभाग राजा परजानां तवं तव अपुण्य भाक
65 पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते
धर्मं पाञ्चनदं दृष्ट्वा धिग इत्य आह पितामहः
66 वरात्यानां दाशमीयानां कृते ऽपय अशुभ कर्मणाम
इति पाञ्चनदं धर्मम अवमेने पितामहः
सवधर्मस्थेषु वर्णेषु सॊ ऽपय एतं नाभिपूजयेत
67 उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते
कल्माषपादः सरसि निमज्जन राक्षसॊ ऽबरवीत
68 कषत्रियस्य मलं भैक्षं बराह्मणस्यानृतं मलम
मलं पृथिव्या बाह्लीकाः सत्रीणां मद्रस्त्रियॊ मलम
69 निमज्जमानम उद्धृत्य कश चिद राजा निशाचरम
अपृच्छत तेन चाख्यात्म परॊक्तवान यन निबॊध तत
70 मानुषाणां मलं मेच्छा मेच्छानां मौष्टिका मलम
मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः
71 राजयाजक याज्यानां मद्रकाणां च यन मलम
तद भवेद वै तव मलं यद्य अस्मान न विमुञ्चसि
72 इति रक्षॊपसृष्टेषु विषवीर्यहतेषु च
राक्षसं भेषजं परॊक्तं संसिद्धं वचनॊत्तरम
73 बराह्मं पाञ्चाला कौरवेयाः सवधर्मः; सत्यं मत्स्याः शूरसेनाश च यज्ञः
पराच्या दासा वृषला दाक्षिणात्याः; सतेना बाह्लीकाः संकरा वै सुराष्ट्राः
74 कृतघ्नता परवित्तापहारः; सुरा पानं गुरु दारावमर्शः
येषां धर्मस तान परति नास्त्य अधर्म; आरट्टकान पाञ्चनदान धिग अस्तु
75 आ पाञ्चालेभ्यः कुरवॊ नैमिषाश च; मत्स्याश चैवाप्य अथ जानन्ति धर्मम
कलिङ्गकाश चाङ्गका मागधाश च; शिष्टान धर्मान उपजीवन्ति वृद्धाः
76 पराचीं दिशं शरिता देवा जातवेदः पुरॊगमाः
दक्षिणां पितरॊ गुप्तां यमेन शुभकर्मणा
77 परतीचीं वरुणः पाति पालयन्न असुरान बली
उदीचीं भगवां सॊमॊ बरह्मण्यॊ बराह्मणैः सह
78 रक्षःपिशाचान हिमवान गुह्यकान गन्धमादनः
धरुवः सर्वाणि भूतानि विष्णुर लॊकाञ जनार्दनः
79 इङ्गितज्ञाश च मगधाः परेक्षितज्ञाश च कॊसलाः
अर्धॊक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः
पार्वतीयाश च विषमा यथैव गिरयस तथा
80 सर्वज्ञा यवना राजञ शूराश चैव विशेषतः
मलेच्छाः सवसंज्ञा नियता नानुक्त इतरॊ जनः
81 परतिरब्धास तु बाह्लीका न च के चन मद्रकाः
स तवम एतादृशः शल्य नॊत्तरं वक्तुम अर्हसि
82 एतज जञात्वा जॊषम आस्स्व परतीपं मा सम वै कृथाः
स तवां पूर्वम अहं हत्वा हनिष्ये केशवार्जुनौ
83 [षल्य]
आतुराणां परित्यागः सवदारसुत विक्रयः
अङ्गेषु वर्तते कर्ण येषाम अधिपतिर भवान
84 रथातिरथ संख्यायां यत तवा भीष्मस तदाब्रवीत
तान विदित्वात्मनॊ दॊषान निर्मन्युर भव मा करुधः
85 सर्वत्र बराह्मणाः सन्ति सन्ति सर्वत्र कषत्रियाः
वैश्याः शूद्रास तथा कर्ण सत्रियः साध्व्यश च सुव्रताः
86 रमन्ते चॊपहासेन पुरुषाः पुरुषैः सह
अन्यॊन्यम अवतक्षन्तॊ देशे देशे समैथुनाः
87 परवाच्येषु निपुणः सर्वॊ भवति सर्वदा
आत्मवाच्यं न जानीते जानन्न अपि विमुह्यति
88 [स]
कर्णॊ ऽपि नॊत्तरं पराह शल्यॊ ऽपय अभिमुखः परान
पुनः परहस्य राधेयः पुनर याहीत्य अचॊदयत
1 [s]
tataḥ punar mahārāja madrarājam ariṃdamam
abhyabhāṣata rādheyaḥ saṃnivāryottaraṃ vacaḥ
2 yat tvaṃ nidarśanārthaṃ māṃ śalya jalpitavān asi
nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave
3 yadi māṃ devatāḥ sarvā yodhayeyuḥ savāsavāḥ
tathāpi me bhayaṃ na syāt kim u pārthāt sakeśavāt
4 nāhaṃ bhīṣayituṃ śakyo vān mātreṇa kathaṃ cana
anyaṃ jānīhi yaḥ śakyas tvayā bhīṣayituṃ raṇe
5 nīcasya balam etāvat pāruṣyaṃ yat tvam āttha mām
aśakto 'smad guṇān prāptuṃ valgase bahu durmate
6 na hi karṇaḥ samudbhūto bhayārtham iha māriṣa
vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca
7 idaṃ tu me tvam ekāgraḥ śṛṇu madrajanādhipa
saṃnidhau dhṛtarāṣṭrasya procyamānaṃ mayā śrutam
8 deśāṃś ca vividhāṃś citrān pūrvavṛttāṃś ca pārthivān
brāhmaṇāḥ kathayantaḥ sma dhṛtarāṣṭham upāsate
9 tatra vṛddhaḥ purāvṛttāḥ kathāḥ kāś cid dvijottamaḥ
bāhlīka deśaṃ madrāṃś ca kutsayan vākyam abravīt
10 bahiṣkṛtā himavatā gaṅgayā ca tiraskṛtāḥ
sarasvatyā yamunayā kurukṣetreṇa cāpi ye
11 pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ
tān dharmabāhyān aśucīn bāhlīkān parivarjayet
12 govardhano nāma vaṭaḥ subhāṇḍaṃ nāma catvaram
etad rājakuladvāram ākumāraḥ smarāmy aham
13 kāryeṇātyartha gāḍhena bāhlīkeṣūṣitaṃ mayā
tata eṣāṃ samācāraḥ saṃvāsād vidito mama
14 śākalaṃ nāma nagaram āpagā nāma nimnagā
jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam
15 dhānā gauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha
apūpa māṃsavāṭyānām āśinaḥ śīlavarjitāḥ
16 hasanti gānti nṛtyanti strībhir mattā vivāsasaḥ
nagarāgāra vapreṣu bahir mālyānulepanāḥ
17 mattāvagītair vividhaiḥ kharoṣṭraninadopamaiḥ
āhur anyonyam uktāni prabruvāṇā madotkaṭāḥ
18 hāhate hāhatety eva svāmibhartṛhateti ca
ākrośantyaḥ pranṛtyanti mandāḥ parvasv asaṃyatāḥ
19 teṣāṃ kilāvaliptānāṃ nivasan kurujāṅgale
kaś cid bāhlīka mukhyānāṃ nātihṛṣṭamanā jagau
20 sā nūnaṃ bṛhatī gaurī sūkṣmakambalavāsinī
mām anusmaratī śete bāhlīkaṃ kuru vāsinam
21 śatadruka nadīṃ tīrtvā tāṃ ca ramyām irāvatīm
gatvā svadeśaṃ drakṣyāmi sthūlaśaṅkhāḥ śubhāḥ striyaḥ
22 manaḥśilojjvalāpāṅgā gauryas trikakudāñjanāḥ
kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ
23 mṛdaṅgānaka śaṅkhānāṃ mardalānāṃ ca nisvanaiḥ
kharoṣṭrāśvataraiś caiva mattā yāsyāmahe sukham
24 śamī pīlu karīrāṇāṃ vaneṣu sukhavartmasu
apūpān saktu piṇḍīś ca khādanto mathitānvitāḥ
25 pathiṣu prabalā bhūtvā kadāsa mṛdite 'dhvani
khalopahāraṃ kurvāṇās tāḍayiṣyāma bhūyasaḥ
26 evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu
kaś cetayāno nivasen muhūrtam api mānavaḥ
27 īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ
yeṣāṃ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ
28 ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān
bāhlīkeṣv avinīteṣu procyamānaṃ nibodhata
29 tatra sma rākṣasī gāti sadā kṛṣṇa caturdaśīm
nagare śākale sphīte āhatya niśi dundubhim
30 kadā vā ghoṣikā gāthāḥ punar gāsyanti śākale
gavyasya tṛptā māṃsasya pītvā gauḍaṃ mahāsavam
31 gaurībhiḥ saha nārībhir bṛhatībhiḥ svalaṃkṛtāḥ
palāṇḍu gāṇḍūṣa yutān khādante caiḍakān bahūn
32 vārāhaṃ kaukkuṭaṃ māṃsaṃ gavyaṃ gārdabham auṣṭrakam
aiḍaṃ ca ye na khādanti teṣāṃ janma nirarthakam
33 iti gāyanti ye mattāḥ śīdhunā śākalāvataḥ
sabālavṛddhāḥ kūrdantas teṣu vṛttaṃ kathaṃ bhavet
34 iti śalya vijānīhi hanta bhūyo bravīmi te
yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi
35 pañca nadyo vahanty etā yatra pīlu vanāny api
śatadruś ca vipāśā ca tṛtīyerāvatī tathā
candra bhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ
36 āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet
vrātyānāṃ dāsamīyānāṃ videhānām ayajvanām
37 na devāḥ pratigṛhṇanti pitaro brāhmaṇās tathā
teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānām iti śrutiḥ
38 brāhmaṇena tathā proktaṃ viduṣā sādhu saṃsadi
kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate
saktu vāṭyāvalipteṣu śvādi līḍheṣu nirghṛṇāḥ
39 āvikaṃ cauṣṭrikaṃ caiva kṣīraṃ gārdabham eva ca
tad vikārāṃś ca bāhlīkāḥ khādanti ca pibanti ca
40 putra saṃkariṇo jālmāḥ sarvān nakṣīra bhojanāḥ
āraṭṭā nāma bāhlīkā varjanīyā vipaścitā
41 uta śalya vijānīhi hanta bhūyo bravīmi te
yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi
42 yugaṃ dhare payaḥ pītvā proṣya cāpy acyutasthale
tadvad bhūtilaye snātvā kathaṃ svargaṃ gamiṣyati
43 pañca nadyo vahanty etā yatra niḥsṛtya parvatāt
āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṃ vaset
44 bahiś ca nāma hlīkaś ca vipāśāyāṃ piśācakau
tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ
45 kāraḥ karān mahiṣakān kaliṅgān kīkaṭāṭavīn
karkoṭakān vīrakāṃś ca durdharmāṃś ca vivarjayet
46 iti tīrthānusartāraṃ rākṣasī kā cid abravīt
ekarātrā śamī gehe maholūkhala mekhalā
47 āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ
vasāti sindhusauvīrā iti prāyo vikutsitāḥ
48 uta śalya vijānīhi hanta bhūyo bravīmi te
ucyamānaṃ mayā samyak tad ekāgramanāḥ śṛṇu
49 brāhmaṇaḥ śilpino geham abhyagacchat purātithiḥ
ācāraṃ tatra saṃprekṣya prītaḥ śilpinam abravīt
50 mayā himavataḥ śṛṅgam ekenādhyuṣitaṃ ciram
dṛṣṭāś ca bahavo deśā nānādharmasamākulāḥ
51 na ca kena ca dharmeṇa virudhyante prajā imāḥ
sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ
52 aṭatā tu sadā deśān nānādharmasamākulān
āgacchatā mahārāja bāhlīkeṣu niśāmitam
53 tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ
vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ
54 nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ
dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate
55 bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ
gāndhārā madrakāś caiva bāhlīkāḥ ke 'py acetasaḥ
56 etan mayā śrutaṃ tatra dharmasaṃkarakārakam
kṛtsnām aṭitvā pṛthivīṃ bāhlīkeṣu viparyayaḥ
57 uta śalya vijānīhi hanta bhūyo bravīmi te
yad apy anyo 'bravīd vākyaṃ bāhlīkānāṃ vikutsitam
58 satī purā hṛtā kā cid āraṭṭā kila dasyubhiḥ
adharmataś copayātā sā tān abhyaśapat tataḥ
59 bālāṃ bandhumatīṃ yan mām adharmeṇopagacchatha
tasmān nāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ
na caivāsmāt pramokṣyadhvaṃ ghorāt pāpān narādhamāḥ
60 kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ
kosalāḥ kāśayo 'ṅgāś ca kaliṅgā magadhās tathā
61 cedayaś ca mahābhāgā dharmaṃ jānanti śāśvatam
nānādeśeṣu santaś ca prāyo bāhyā layād ṛte
62 ā matsyebhyaḥ kurupāñcāladeśyā; ā naimiṣāc cedayo ye viśiṣṭāḥ
dharmaṃ purāṇam upajīvanti santo; madrān ṛte pañca nadāṃś ca jihmān
63 evaṃ vidvan dharmakathāṃś ca rājaṃs; tūṣṇīṃbhūto jaḍavac chalya bhūyāh
tvaṃ tasya goptā ca janasya rājā; ṣaḍbhāgahartā śubhaduṣkṛtasya
64 atha vā duṣkṛtasya tvaṃ hartā teṣām arakṣitā
rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇya bhāk
65 pūjyamāne purā dharme sarvadeśeṣu śāśvate
dharmaṃ pāñcanadaṃ dṛṣṭvā dhig ity āha pitāmahaḥ
66 vrātyānāṃ dāśamīyānāṃ kṛte 'py aśubha karmaṇām
iti pāñcanadaṃ dharmam avamene pitāmahaḥ
svadharmastheṣu varṇeṣu so 'py etaṃ nābhipūjayet
67 uta śalya vijānīhi hanta bhūyo bravīmi te
kalmāṣapādaḥ sarasi nimajjan rākṣaso 'bravīt
68 kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam
malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam
69 nimajjamānam uddhṛtya kaś cid rājā niśācaram
apṛcchat tena cākhyātma proktavān yan nibodha tat
70 mānuṣāṇāṃ malaṃ mecchā mecchānāṃ mauṣṭikā malam
mauṣṭikānāṃ malaṃ śaṇḍāḥ śaṇḍānāṃ rājayājakāḥ
71 rājayājaka yājyānāṃ madrakāṇāṃ ca yan malam
tad bhaved vai tava malaṃ yady asmān na vimuñcasi
72 iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca
rākṣasaṃ bheṣajaṃ proktaṃ saṃsiddhaṃ vacanottaram
73 brāhmaṃ pāñcālā kauraveyāḥ svadharmaḥ; satyaṃ matsyāḥ śūrasenāś ca yajñaḥ
prācyā dāsā vṛṣalā dākṣiṇātyāḥ; stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ
74 kṛtaghnatā paravittāpahāraḥ; surā pānaṃ guru dārāvamarśaḥ
yeṣāṃ dharmas tān prati nāsty adharma; āraṭṭakān pāñcanadān dhig astu
75 ā pāñcālebhyaḥ kuravo naimiṣāś ca; matsyāś caivāpy atha jānanti dharmam
kaliṅgakāś cāṅgakā māgadhāś ca; śiṣṭān dharmān upajīvanti vṛddhāḥ
76 prācīṃ diśaṃ śritā devā jātavedaḥ purogamāḥ
dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā
77 pratīcīṃ varuṇaḥ pāti pālayann asurān balī
udīcīṃ bhagavāṃ somo brahmaṇyo brāhmaṇaiḥ saha
78 rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ
dhruvaḥ sarvāṇi bhūtāni viṣṇur lokāñ janārdanaḥ
79 iṅgitajñāś ca magadhāḥ prekṣitajñāś ca kosalāḥ
ardhoktāḥ kurupāñcālāḥ śālvāḥ kṛtsnānuśāsanāḥ
pārvatīyāś ca viṣamā yathaiva girayas tathā
80 sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ
mlecchāḥ svasaṃjñā niyatā nānukta itaro janaḥ
81 pratirabdhās tu bāhlīkā na ca ke cana madrakāḥ
sa tvam etādṛśaḥ śalya nottaraṃ vaktum arhasi
82 etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ
sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau
83 [ṣalya]
āturāṇāṃ parityāgaḥ svadārasuta vikrayaḥ
aṅgeṣu vartate karṇa yeṣām adhipatir bhavān
84 rathātiratha saṃkhyāyāṃ yat tvā bhīṣmas tadābravīt
tān viditvātmano doṣān nirmanyur bhava mā krudhaḥ
85 sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ
vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ
86 ramante copahāsena puruṣāḥ puruṣaiḥ saha
anyonyam avatakṣanto deśe deśe samaithunāḥ
87 paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā
ātmavācyaṃ na jānīte jānann api vimuhyati
88 [s]
karṇo 'pi nottaraṃ prāha śalyo 'py abhimukhaḥ parān
punaḥ prahasya rādheyaḥ punar yāhīty acodayat

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1188 of 2013 Book 59% ~11 min left