Book 8: Chapter 27
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 8: Chapter 27

The Mahabharata in Sanskrit

Book 8
Chapter 27

1 [स]
परयान एव तदा कर्णॊ हर्षयन वाहिनीं तव
एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत
2 यॊ ममाद्य महात्मानं दर्शयेच छवेत वाहनम
तस्मै दद्याम अभिप्रेतं वरं यं मनसेच्छति
3 स चेत तद अभिमन्येत तस्मै दद्याम अहं पुनः
शक्तटं रत्नसंपूर्णं यॊ मे बरूयाद धनंजयम
4 स चेत तद अभिमन्येत पुरुषॊ ऽरजुन दर्शिवान
अन्यं तस्मै पुनर दद्यां सौवर्णं हस्तिषड्गवम
5 तथा तस्मै पुनर दद्यां सत्रीणां शतम अलंकृतम
शयामानां निष्ककण्ठीनां गीतवाद्य विपश्चिताम
6 स चेत तद अभिमन्येत पुरुषॊ ऽरजुन दर्शिवान
अन्यं तस्मै वरं दद्यां शवेतान पञ्च शतान हयान
7 हेमभाण्ड परिच्छन्नान सुमृष्टमणिकुण्डलान
सुदान्तान अपि चैवाहं दद्याम अष्ट शतान परान
8 रथं च शुभ्रं सौवर्णं दद्यां तस्मै सवलंकृतम
युक्तं परमकाम्बॊजैर यॊ मे बरूयाद धनंजयम
9 अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट
काञ्चनैर विविधैर भाण्डैर आच्छन्नान हेममालिनः
उत्पन्नान अपरान्तेषु विनीतान हस्तिशिक्षकैः
10 स चेत तद अभिमन्येत पुरुषॊ ऽरजुन दर्शिवान
अन्यं तस्मै वरं दद्यां यम असौ कामयेत सवयम
11 पुत्रदारान विहारांश च यद अन्यद वित्तम अस्ति मे
तच च तस्मै पुनर दद्यां यद यत स मनसेच्छति
12 हत्वा च सहितौ कृष्णौ तयॊर वित्तानि सर्वशः
तस्मै दद्याम अहं यॊ मे परब्रूयात केशवार्जुनौ
13 एता वाचः सुबहुशः कर्ण उच्चारयन युधि
दध्मौ सागरसंभूतं सुस्वनं शङ्खम उत्तमम
14 ता वाचः सूतपुत्रस्य तथायुक्ता निशम्य तु
दुर्यॊधनॊ महाराज परहृष्टः सानुगॊ ऽभवत
15 ततॊ दुन्दुभिनिर्घॊषॊ मृदङ्गानां च सर्वशः
सिंहनादः सवादित्रः कुञ्जराणाम अनिस्वनः
16 परादुरासीत तदा राजंस तवत सैन्ये भरतर्षभ
यॊधानां संप्रहृष्टानां तथा समभवत सवनः
17 तथा परहृष्टे सैन्ये तु परवमानं महारथम
विकत्थमानं समरे राधेयम अरिकर्शनम
मद्रराजः परहस्येवं वचनं परथ्यभाषत
18 मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम
परयच्छ पुरुषायाद्य दरक्ष्यसि तवं धनंजयम
19 बाल्याद इव तवं तयजसि वसु वैश्रवणॊ यथा
अयत्नेनैव राधेय दरष्टास्य अद्य धनंजयम
20 परासृजसि मिथ्या किं किं च तवं बहु मूढवत
अपात्र दाने ये दॊषास तान मॊहान नावबुध्यसे
21 यत परवेदयसे वित्तं बहुत्वेन खलु तवया
शक्यं बहुविधैर यज्ञैर यष्टुं सूत यजस्व तैः
22 यच च परार्थयसे हन्तुं कृष्णौ मॊहान मृषैव तत
न हि शुश्रुम संमर्दे करॊष्ट्रा सिंहौ निपातितौ
23 अप्रार्थितं परार्थयसे सुहृदॊ न हि सन्ति ते
ये तवां न वारयन्त्य आशु परपतन्तं हुताशने
24 कालकार्यं न जानीषे कालपक्वॊ ऽसय असंशयम
बह्वबद्धम अकर्णीयं कॊ हि बरूयाज जिजीविषुः
25 समुद्रतरणं दॊर्भ्यां कण्ठे बद्ध्वा यथा शिलाम
गिर्यग्राद वा निपतनं तादृक तव चिकीर्षितम
26 सहितः सर्वयॊधैस तवं वयूढानीकैः सुरक्षितः
धनंजयेन युध्यस्व शरेयश चेत पराप्तुम इच्छसि
27 हितार्थं धार्तराष्ट्रस्य बरवीमि तवा न हिंसया
शरद्धत्स्वैतन मया परॊक्तं यदि ते ऽसति जिजीविषा
28 [कर्ण]
सववीर्ये ऽहं पराश्वस्य परार्थयाम्य अर्जुनं रणे
तवं तु मित्र मुखः शत्रुर मां भीषयितुम इच्छसि
29 न माम अस्माद अभिप्रायात कश चिद अद्य निवर्तयेत
अपीन्द्रॊ वज्रम उद्यम्य किं नु मर्त्यः करिष्यति
30 [स]
इति कर्णस्य वाक्यान्ते शल्यः पराहॊत्तरं वचः
चुकॊपयिषुर अत्यर्थं कर्णं मद्रेश्वरः पुनः
31 यदा वै तवां फल्गुन वेगनुन्ना; जया चॊदिता हस्तवता विसृष्टाः
अन्वेतारः कङ्कपत्राः शिताग्रास; तदा तप्स्यस्य अर्जुनस्याभियॊगात
32 यदा दिव्यं धनुर आदाय पार्थः; परभासयन पृतनां सव्यसाची
तवाम अर्दयेत निशितैः पृषत्कैस; तदा पश्चात तप्स्यसे सूतपुत्र
33 बालश चन्द्रं मातुर अङ्के शयानॊ; यथा कश चित परार्थयते ऽपहर्तुम
तद्वन मॊहाद यतमानॊ रथस्थस; तवं परार्थयस्य अर्जुनम अद्य जेतुम
34 तरिशूलम आश्लिष्य सुतीक्ष्णधारं; सर्वाणि गात्राणि निघर्षसि तवम
सुतीक्ष्णधारॊपम कर्मणा तवं; युयुत्ससे यॊ ऽरजुनेनाद्य कर्ण
35 सिद्धं सिंहं केसरिणं बृहन्तं; बालॊ मूढः कषुद्रमृगस तरस्वी
समाह्वयेत तद्वद एतत तवाद्य; समाह्वानं सूतपुत्रार्जुनस्य
36 मा सूतपुत्राह्वय राजपुत्रं; महावीर्यं केसरिणं यथैव
वने सृगालः पिशितस्य तृप्तॊ; मा मार्थम आसाद्य विनङ्क्ष्यसि तवम
37 ईषादन्तं महानागं परभिन्नकरटा मुखम
शशक आह्वयसे युद्धे कर्ण पार्थं धनंजयम
38 बिलस्थं कृष्णसर्पं तवं बाल्यात काष्ठेन विध्यसि
महाविषं पूर्णकॊशं यत पार्थं यॊद्धुम इच्छसि
39 सिंहं केसरिणं करुद्धम अतिक्रम्याभिनर्दसि
सृगाल इव मूढत्वान नृसिंहं कर्ण पाण्डवम
40 सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम
लट्व एवाह्वयसे पाते कर्ण पार्थं धनंजयम
41 सर्वाम्भॊ निलयं भीमम ऊर्मिमन्तं झषायुतम
चन्द्रॊदये विवर्तन्तम अप्लवः संतितीर्षसि
42 ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं परहारिणम
वत्स आह्वयसे युद्धे कर्ण पार्थं धनंजयम
43 महाघॊषं महामेघं दर्दुरः परतिनर्दसि
कामतॊय परदं लॊके नरपर्जन्यम अर्जुनम
44 यथा च सवगृहस्थः शवा वयाघ्रं वनगतं भषेत
तथा तवं भषसे कर्ण नरव्याघ्रं धनंजयम
45 सृगालॊ ऽपि वने कर्ण शशैः परिवृतॊ वसन
मन्यते सिंहम आत्मानं यावत सिंहं न पश्यति
46 तथा तवम अपि राधेय सिंहम आत्मानम इच्छसि
अपश्यञ शत्रुदमनं नरव्याघ्रं धनंजयम
47 वयाघ्रं तवं मन्यसे ऽऽतमानं यावत कृष्णौ न पश्यसि
समास्थिताव एकरथे सूर्यचन्द्रमसाव इव
48 यावद गाण्डीवनिर्घॊषं न शृणॊषि महाहवे
तावद एव तवया कर्ण शक्यं वक्तुं यथेच्छसि
49 रथशब्दधनुः शब्दैर नादयन्तं दिशॊ दश
नर्दन्तम इव शार्दूलं दृष्ट्वा करॊष्टा भविष्यसि
50 नित्यम एव सृगाजस तवं नित्यं सिंहॊ धनंजयः
वीर परद्वेषणान मूढ नित्यं करॊष्टेव लक्ष्यसे
51 यथाखुः सयाद बिडालश च शवा वयाघ्रश च बलाबले
यथा सृगालः सिंहश च यथा च शशकुञ्जरौ
52 यथानृतं च सत्यं च यथा चापि वृषामृते
तथा तवम अपि पार्थश च परख्याताव आत्मकर्मभिः
53 [स]
अधिक्षिप्तस तु राधेयः शल्येनामित तेजसा
शल्यम आह सुसंक्रुद्धॊ वाक्शल्यम अवधारयन
54 गुणान गुणवतः शल्य गुणवान वेत्ति नागुणः
तवं तु नित्यं गुणैर हीनः किं जञास्यस्य अगुणॊ गुणान
55 अर्जुनस्य महास्त्राणि करॊधं वीर्यं धनुः शरान
अहं शल्याभिजानामि न तवं जानासि तत तथा
56 एवम एवात्मनॊ वीर्यम अहं वीर्यं च पाण्डवे
जानन्न एवाह्वये युद्धे शल्य नाग्निं पतंगवत
57 अस्ति चायम इषुः शल्य सुपुङ्खॊ रथभॊजनः
एकतूणी शयः पत्री सुधौतः समलंकृतः
58 शेते चन्दनपूर्णेन पूजितॊ बहुलाः समाः
आहेयॊ विषवान उग्रॊ नराश्वद्विपसंघहा
59 एकवीरॊ महारौद्रस तनुत्रास्थि विदारणः
निर्भिन्द्यां येन रुष्टॊ ऽहम अपि मेरुं महागिरिम
60 तम अहं जातु नास्येयम अन्यस्मिन फल्गुनाद ऋते
कृष्णाद वा देवकीपुत्रात सत्यं चात्र शृणुष्व मे
61 तेनाहम इषुणा शल्य वासुदेवधनंजयौ
यॊत्स्ये परमसंक्रुद्धस तत कर्म सदृशं मम
62 सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः परतिष्ठिता
सर्वेषां पाण्डुपुत्राणां जयः पार्थे परतिष्ठितः
उभयं तत समासाद्य कॊ ऽतिवर्तितुम अर्हति
63 ताव एतौ पुरुषव्याघ्रौ समेतौ सयन्दने सथितौ
माम एकम अभिसंयातौ सुजातं शल्य पश्य मे
64 पितृष्वसा मातुलजौ भरातराव अपराजितौ
मणी सूत्र इव परॊक्तौ दरष्टासि निहतौ मया
65 अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्य कपिध्वजौ
भीरूणां तरासजननौ शल्य हर्षकरौ मम
66 तवं तु दुष्प्रकृतिर मूढॊ महायुद्धेष्व अकॊविदः
भयावतीर्णः संत्रासाद अबद्धं बहु भाषसे
67 संस्तौषि तवं तु केनापि हेतुना तौ कुदेशज
तौ हत्वा समरे हन्ता तवाम अद्धा सहबान्धवम
68 पापदेशज दुर्बुद्धे कषुद्रक्षत्रियपांसन
सुहृद भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्न असि
69 तौ वा ममाद्य हन्तारौ हन्तास्मि समरे सथितौ
नाहं बिभेमि कृष्णाभ्यां विजानन्न आत्मनॊ बलम
70 वासुदेव सहस्रं वा फल्गुनानां शतानि च
अहम एकॊ हनिष्यामि जॊषम आस्स्व कुदेशज
71 सत्रियॊ बालाश च वृद्धाश च परायः करीडा गता जनाः
या गाथाः संप्रगायन्ति कुर्वन्तॊ ऽधययनं यथा
ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु
72 बराह्मणैः कथिताः पूर्वं यथावद राजसंनिधौ
शरुत्वा चैकमना मूढ कषम वा बरूहि वॊत्तमम
73 मित्रध्रुन मद्रकॊ नित्यं यॊ नॊ दवेष्टि स मद्रकः
मद्रके संगतं नास्ति कषुद्रवाक्ये नराधमे
74 दुरात्मा मद्रकॊ नित्यं नित्यं चानृतिकॊ ऽनृजुः
यावदन्तं हि दौरात्म्यं मद्रकेष्व इति नः शरुतम
75 पिता माता च पुत्रश च शवश्रू शवशुर मातुलाः
जामाता दुहिता भराता नप्ता ते ते च बान्धवाः
76 वयस्याभ्यागताश चान्ये दासीदासं च संगतम
पुम्भिर विमिश्रा नार्यश च जञाताज्ञाताः सवयेच्छया
77 येषां गृहेषु शिष्टानां सक्तु मन्थाशिनां सदा
पीत्वा सीधुं सगॊ मांसं नर्दन्ति च हसन्ति च
78 यानि चैवाप्य अबद्धानि परवर्तन्ते च कामतः
कामप्रलापिनॊ ऽनयॊन्यं तेषु धर्मः कथं भवेत
79 मद्रकेषु विलुप्तेषु परख्याताशुभ कर्मसु
नापि वैरं न सौहार्दं मद्रकेषु समाचरेत
80 मद्रके संगतं नास्ति मद्रकॊ हि सचापलः
मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च
81 राजयाजक याज्येन नष्टं दत्तं हविर भवेत
82 शूद्र संस्कारकॊ विप्रॊ यथा याति पराभवम
तथा बरह्म दविषॊ नित्यं गच्छन्तीह पराभवम
83 मद्रके संगतं नास्ति हतं वृश्चिकतॊ विषम
आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत
84 इति वृश्चिक दष्टस्य नाना विषहतस्य च
कुर्वन्ति भेषजं पराज्ञाः सत्यं तच चापि दृश्यते
एवं विद्वञ जॊषम आस्स्व शृणु चात्रॊत्तरं वचः
85 वासांस्य उत्सृज्य नृत्यन्ति सत्रियॊ या मद्य मॊहिताः
मिथुने ऽसंयताश चापि यथा कामचराश च ताः
तासां पुत्रः कथं धर्मं मद्रकॊ वक्तुम अर्हति
86 यास तिष्ठन्त्यः परमेहन्ति यथैवॊष्ट्री दशेरके
तासां विभ्रष्टलज्जानां निर्लज्जानां ततस ततः
तवं पुत्रस तादृशीनां हि धर्मं वक्तुम इहेच्छसि
87 सुवीरकं याच्यमाना मद्रका कषति सफिजौ
अदातु कामा वचनम इदं वदति दारुणम
88 मा मा सुवीरकं कश चिद याचतां दयितॊ मम
पुत्रं दद्यां परतिपदं न तु दद्यां सुवीरकम
89 नार्यॊ बृहत्यॊ निर्ह्रीका मद्रकाः कम्बलावृताः
घस्मरा नष्टशौचाश च पराय इत्य अनुशुश्रुम
90 एवमादि मयान्यैर वा शक्यं वक्तुं भवेद बहु
आ केशाग्रान नखाग्राच च वक्तव्येषु कुवर्त्मसु
91 मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं तव इह
पापदेशॊद्भवा मलेच्छा धर्माणम अविचक्षणाः
92 एष मुख्यतमॊ धर्मः कषत्रियस्येति नः शरुतम
यद आजौ निहतः शेते सद्भिः समभिपूजितः
93 आयुधानां संपराये यन मुच्येयम अहं ततः
न मे स परथमः कल्पॊ निधने सवर्गम इच्छतः
94 सॊ ऽहं परियः सखा चास्मि धार्तराष्ट्रस्य धीमतः
तदर्थे हि मम पराणा यच च मे विद्यते वसु
95 वयक्तं तवम अप्य उपहितः पाण्डवैः पापदेशज
यथा हय अमित्रवत सर्वं तवम अस्मासु परवर्तसे
96 कामं न खलु शक्यॊ ऽहं तवद्विधानां शतैर अपि
संग्रामाद विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः
97 सारङ्ग इव घर्मार्तः कामं विलप शुष्य च
नाहं भीषयितुं शक्यः कषत्रवृत्ते वयवस्थितः
98 तनु तयजां नृसिंहानाम आहवेष्व अनिवर्तिनाम
या गतिर गुरुणा पराङ मे परॊक्ता रामेण तां समर
99 सवेषां तराणार्थम उद्युक्तं वधाय दविषताम अपि
विद्धि माम आस्थितं वृत्तं पौरूरव समुत्तमम
100 न तद भूतं परपश्यामि तरिषु लॊकेषु मद्रक
यॊ माम अस्माद अभिप्रायाद वारयेद इति मे मतिः
101 एवं विद्वञ जॊषम आस्स्व तरासात किं बहु भाषसे
मा तवा हत्वा परदास्यामि करव्याद्भ्यॊ मद्रकाधम
102 मित्र परतीक्षया शल्य धार्तराष्ट्रस्य चॊभयॊः
अपवादतितिक्षाभिस तरिभिर एतैर हि जीवसि
103 पुनश चेद ईद्दृशं वाक्यं मद्रराजवदिष्यसि
शिरस ते पातयिष्यामि गदया वज्रकल्पया
104 शरॊतारस तव इदम अद्येह दरष्टारॊ वा कुदेशज
कर्णं वा जघ्नतुः कृष्णौ कर्णॊ वापि जघान तौ
105 एवम उक्त्वा तु राधेयः पुनर एव विशां पते
अब्रवीन मद्रराजानं याहि याहीत्य असंभ्रमम
1 [s]
prayān eva tadā karṇo harṣayan vāhinīṃ tava
ekaikaṃ samare dṛṣṭvā pāṇḍavaṃ paryapṛcchata
2 yo mamādya mahātmānaṃ darśayec chveta vāhanam
tasmai dadyām abhipretaṃ varaṃ yaṃ manasecchati
3 sa cet tad abhimanyeta tasmai dadyām ahaṃ punaḥ
śaktaṭaṃ ratnasaṃpūrṇaṃ yo me brūyād dhanaṃjayam
4 sa cet tad abhimanyeta puruṣo 'rjuna darśivān
anyaṃ tasmai punar dadyāṃ sauvarṇaṃ hastiṣaḍgavam
5 tathā tasmai punar dadyāṃ strīṇāṃ śatam alaṃkṛtam
śyāmānāṃ niṣkakaṇṭhīnāṃ gītavādya vipaścitām
6 sa cet tad abhimanyeta puruṣo 'rjuna darśivān
anyaṃ tasmai varaṃ dadyāṃ śvetān pañca śatān hayān
7 hemabhāṇḍa paricchannān sumṛṣṭamaṇikuṇḍalān
sudāntān api caivāhaṃ dadyām aṣṭa śatān parān
8 rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam
yuktaṃ paramakāmbojair yo me brūyād dhanaṃjayam
9 anyaṃ tasmai varaṃ dadyāṃ kuñjarāṇāṃ śatāni ṣaṭ
kāñcanair vividhair bhāṇḍair ācchannān hemamālinaḥ
utpannān aparānteṣu vinītān hastiśikṣakaiḥ
10 sa cet tad abhimanyeta puruṣo 'rjuna darśivān
anyaṃ tasmai varaṃ dadyāṃ yam asau kāmayet svayam
11 putradārān vihārāṃś ca yad anyad vittam asti me
tac ca tasmai punar dadyāṃ yad yat sa manasecchati
12 hatvā ca sahitau kṛṣṇau tayor vittāni sarvaśaḥ
tasmai dadyām ahaṃ yo me prabrūyāt keśavārjunau
13 etā vācaḥ subahuśaḥ karṇa uccārayan yudhi
dadhmau sāgarasaṃbhūtaṃ susvanaṃ śaṅkham uttamam
14 tā vācaḥ sūtaputrasya tathāyuktā niśamya tu
duryodhano mahārāja prahṛṣṭaḥ sānugo 'bhavat
15 tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśaḥ
siṃhanādaḥ savāditraḥ kuñjarāṇām anisvanaḥ
16 prādurāsīt tadā rājaṃs tvat sainye bharatarṣabha
yodhānāṃ saṃprahṛṣṭānāṃ tathā samabhavat svanaḥ
17 tathā prahṛṣṭe sainye tu pravamānaṃ mahāratham
vikatthamānaṃ samare rādheyam arikarśanam
madrarājaḥ prahasyevaṃ vacanaṃ prathyabhāṣata
18 mā sūtaputra mānena sauvarṇaṃ hastiṣaḍgavam
prayaccha puruṣāyādya drakṣyasi tvaṃ dhanaṃjayam
19 bālyād iva tvaṃ tyajasi vasu vaiśravaṇo yathā
ayatnenaiva rādheya draṣṭāsy adya dhanaṃjayam
20 parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat
apātra dāne ye doṣās tān mohān nāvabudhyase
21 yat pravedayase vittaṃ bahutvena khalu tvayā
śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva taiḥ
22 yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat
na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau
23 aprārthitaṃ prārthayase suhṛdo na hi santi te
ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane
24 kālakāryaṃ na jānīṣe kālapakvo 'sy asaṃśayam
bahvabaddham akarṇīyaṃ ko hi brūyāj jijīviṣuḥ
25 samudrataraṇaṃ dorbhyāṃ kaṇṭhe baddhvā yathā śilām
giryagrād vā nipatanaṃ tādṛk tava cikīrṣitam
26 sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ
dhanaṃjayena yudhyasva śreyaś cet prāptum icchasi
27 hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā
śraddhatsvaitan mayā proktaṃ yadi te 'sti jijīviṣā
28 [karṇa]
svavīrye 'haṃ parāśvasya prārthayāmy arjunaṃ raṇe
tvaṃ tu mitra mukhaḥ śatrur māṃ bhīṣayitum icchasi
29 na mām asmād abhiprāyāt kaś cid adya nivartayet
apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati
30 [s]
iti karṇasya vākyānte śalyaḥ prāhottaraṃ vacaḥ
cukopayiṣur atyarthaṃ karṇaṃ madreśvaraḥ punaḥ
31 yadā vai tvāṃ phalguna veganunnā; jyā coditā hastavatā visṛṣṭāḥ
anvetāraḥ kaṅkapatrāḥ śitāgrās; tadā tapsyasy arjunasyābhiyogāt
32 yadā divyaṃ dhanur ādāya pārthaḥ; prabhāsayan pṛtanāṃ savyasācī
tvām ardayeta niśitaiḥ pṛṣatkais; tadā paścāt tapsyase sūtaputra
33 bālaś candraṃ mātur aṅke śayāno; yathā kaś cit prārthayate 'pahartum
tadvan mohād yatamāno rathasthas; tvaṃ prārthayasy arjunam adya jetum
34 triśūlam āśliṣya sutīkṣṇadhāraṃ; sarvāṇi gātrāṇi nigharṣasi tvam
sutīkṣṇadhāropama karmaṇā tvaṃ; yuyutsase yo 'rjunenādya karṇa
35 siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ; bālo mūḍhaḥ kṣudramṛgas tarasvī
samāhvayet tadvad etat tavādya; samāhvānaṃ sūtaputrārjunasya
36 mā sūtaputrāhvaya rājaputraṃ; mahāvīryaṃ kesariṇaṃ yathaiva
vane sṛgālaḥ piśitasya tṛpto; mā mārtham āsādya vinaṅkṣyasi tvam
37 īṣādantaṃ mahānāgaṃ prabhinnakaraṭā mukham
śaśaka āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam
38 bilasthaṃ kṛṣṇasarpaṃ tvaṃ bālyāt kāṣṭhena vidhyasi
mahāviṣaṃ pūrṇakośaṃ yat pārthaṃ yoddhum icchasi
39 siṃhaṃ kesariṇaṃ kruddham atikramyābhinardasi
sṛgāla iva mūḍhatvān nṛsiṃhaṃ karṇa pāṇḍavam
40 suparṇaṃ patagaśreṣṭhaṃ vainateyaṃ tarasvinam
laṭv evāhvayase pāte karṇa pārthaṃ dhanaṃjayam
41 sarvāmbho nilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam
candrodaye vivartantam aplavaḥ saṃtitīrṣasi
42 ṛṣabhaṃ dundubhigrīvaṃ tīkṣṇaśṛṅgaṃ prahāriṇam
vatsa āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam
43 mahāghoṣaṃ mahāmeghaṃ darduraḥ pratinardasi
kāmatoya pradaṃ loke naraparjanyam arjunam
44 yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet
tathā tvaṃ bhaṣase karṇa naravyāghraṃ dhanaṃjayam
45 sṛgālo 'pi vane karṇa śaśaiḥ parivṛto vasan
manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati
46 tathā tvam api rādheya siṃham ātmānam icchasi
apaśyañ śatrudamanaṃ naravyāghraṃ dhanaṃjayam
47 vyāghraṃ tvaṃ manyase ''tmānaṃ yāvat kṛṣṇau na paśyasi
samāsthitāv ekarathe sūryacandramasāv iva
48 yāvad gāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave
tāvad eva tvayā karṇa śakyaṃ vaktuṃ yathecchasi
49 rathaśabdadhanuḥ śabdair nādayantaṃ diśo daśa
nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi
50 nityam eva sṛgājas tvaṃ nityaṃ siṃho dhanaṃjayaḥ
vīra pradveṣaṇān mūḍha nityaṃ kroṣṭeva lakṣyase
51 yathākhuḥ syād biḍālaś ca śvā vyāghraś ca balābale
yathā sṛgālaḥ siṃhaś ca yathā ca śaśakuñjarau
52 yathānṛtaṃ ca satyaṃ ca yathā cāpi vṛṣāmṛte
tathā tvam api pārthaś ca prakhyātāv ātmakarmabhiḥ
53 [s]
adhikṣiptas tu rādheyaḥ śalyenāmita tejasā
śalyam āha susaṃkruddho vākśalyam avadhārayan
54 guṇān guṇavataḥ śalya guṇavān vetti nāguṇaḥ
tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān
55 arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān
ahaṃ śalyābhijānāmi na tvaṃ jānāsi tat tathā
56 evam evātmano vīryam ahaṃ vīryaṃ ca pāṇḍave
jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat
57 asti cāyam iṣuḥ śalya supuṅkho rathabhojanaḥ
ekatūṇī śayaḥ patrī sudhautaḥ samalaṃkṛtaḥ
58 śete candanapūrṇena pūjito bahulāḥ samāḥ
āheyo viṣavān ugro narāśvadvipasaṃghahā
59 ekavīro mahāraudras tanutrāsthi vidāraṇaḥ
nirbhindyāṃ yena ruṣṭo 'ham api meruṃ mahāgirim
60 tam ahaṃ jātu nāsyeyam anyasmin phalgunād ṛte
kṛṣṇād vā devakīputrāt satyaṃ cātra śṛṇuṣva me
61 tenāham iṣuṇā śalya vāsudevadhanaṃjayau
yotsye paramasaṃkruddhas tat karma sadṛśaṃ mama
62 sarveṣāṃ vāsudevānāṃ kṛṣṇe lakṣmīḥ pratiṣṭhitā
sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ
ubhayaṃ tat samāsādya ko 'tivartitum arhati
63 tāv etau puruṣavyāghrau sametau syandane sthitau
mām ekam abhisaṃyātau sujātaṃ śalya paśya me
64 pitṛṣvasā mātulajau bhrātarāv aparājitau
maṇī sūtra iva proktau draṣṭāsi nihatau mayā
65 arjune gāṇḍivaṃ kṛṣṇe cakraṃ tārkṣya kapidhvajau
bhīrūṇāṃ trāsajananau śalya harṣakarau mama
66 tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ
bhayāvatīrṇaḥ saṃtrāsād abaddhaṃ bahu bhāṣase
67 saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja
tau hatvā samare hantā tvām addhā sahabāndhavam
68 pāpadeśaja durbuddhe kṣudrakṣatriyapāṃsana
suhṛd bhūtvā ripuḥ kiṃ māṃ kṛṣṇābhyāṃ bhīṣayann asi
69 tau vā mamādya hantārau hantāsmi samare sthitau
nāhaṃ bibhemi kṛṣṇābhyāṃ vijānann ātmano balam
70 vāsudeva sahasraṃ vā phalgunānāṃ śatāni ca
aham eko haniṣyāmi joṣam āssva kudeśaja
71 striyo bālāś ca vṛddhāś ca prāyaḥ krīḍā gatā janāḥ
yā gāthāḥ saṃpragāyanti kurvanto 'dhyayanaṃ yathā
tā gāthāḥ śṛṇu me śalya madrakeṣu durātmasu
72 brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvad rājasaṃnidhau
śrutvā caikamanā mūḍha kṣama vā brūhi vottamam
73 mitradhrun madrako nityaṃ yo no dveṣṭi sa madrakaḥ
madrake saṃgataṃ nāsti kṣudravākye narādhame
74 durātmā madrako nityaṃ nityaṃ cānṛtiko 'nṛjuḥ
yāvadantaṃ hi daurātmyaṃ madrakeṣv iti naḥ śrutam
75 pitā mātā ca putraś ca śvaśrū śvaśura mātulāḥ
jāmātā duhitā bhrātā naptā te te ca bāndhavāḥ
76 vayasyābhyāgatāś cānye dāsīdāsaṃ ca saṃgatam
pumbhir vimiśrā nāryaś ca jñātājñātāḥ svayecchayā
77 yeṣāṃ gṛheṣu śiṣṭānāṃ saktu manthāśināṃ sadā
pītvā sīdhuṃ sago māṃsaṃ nardanti ca hasanti ca
78 yāni caivāpy abaddhāni pravartante ca kāmataḥ
kāmapralāpino 'nyonyaṃ teṣu dharmaḥ kathaṃ bhavet
79 madrakeṣu vilupteṣu prakhyātāśubha karmasu
nāpi vairaṃ na sauhārdaṃ madrakeṣu samācaret
80 madrake saṃgataṃ nāsti madrako hi sacāpalaḥ
madrakeṣu ca duḥsparśaṃ śaucaṃ gāndhārakeṣu ca
81 rājayājaka yājyena naṣṭaṃ dattaṃ havir bhavet
82 śūdra saṃskārako vipro yathā yāti parābhavam
tathā brahma dviṣo nityaṃ gacchantīha parābhavam
83 madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam
ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet
84 iti vṛścika daṣṭasya nānā viṣahatasya ca
kurvanti bheṣajaṃ prājñāḥ satyaṃ tac cāpi dṛśyate
evaṃ vidvañ joṣam āssva śṛṇu cātrottaraṃ vacaḥ
85 vāsāṃsy utsṛjya nṛtyanti striyo yā madya mohitāḥ
mithune 'saṃyatāś cāpi yathā kāmacarāś ca tāḥ
tāsāṃ putraḥ kathaṃ dharmaṃ madrako vaktum arhati
86 yās tiṣṭhantyaḥ pramehanti yathaivoṣṭrī daśerake
tāsāṃ vibhraṣṭalajjānāṃ nirlajjānāṃ tatas tataḥ
tvaṃ putras tādṛśīnāṃ hi dharmaṃ vaktum ihecchasi
87 suvīrakaṃ yācyamānā madrakā kaṣati sphijau
adātu kāmā vacanam idaṃ vadati dāruṇam
88 mā mā suvīrakaṃ kaś cid yācatāṃ dayito mama
putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam
89 nāryo bṛhatyo nirhrīkā madrakāḥ kambalāvṛtāḥ
ghasmarā naṣṭaśaucāś ca prāya ity anuśuśruma
90 evamādi mayānyair vā śakyaṃ vaktuṃ bhaved bahu
ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu
91 madrakāḥ sindhusauvīrā dharmaṃ vidyuḥ kathaṃ tv iha
pāpadeśodbhavā mlecchā dharmāṇam avicakṣaṇāḥ
92 eṣa mukhyatamo dharmaḥ kṣatriyasyeti naḥ śrutam
yad ājau nihataḥ śete sadbhiḥ samabhipūjitaḥ
93 āyudhānāṃ saṃparāye yan mucyeyam ahaṃ tataḥ
na me sa prathamaḥ kalpo nidhane svargam icchataḥ
94 so 'haṃ priyaḥ sakhā cāsmi dhārtarāṣṭrasya dhīmataḥ
tadarthe hi mama prāṇā yac ca me vidyate vasu
95 vyaktaṃ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja
yathā hy amitravat sarvaṃ tvam asmāsu pravartase
96 kāmaṃ na khalu śakyo 'haṃ tvadvidhānāṃ śatair api
saṃgrāmād vimukhaḥ kartuṃ dharmajña iva nāstikaiḥ
97 sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca
nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthitaḥ
98 tanu tyajāṃ nṛsiṃhānām āhaveṣv anivartinām
yā gatir guruṇā prāṅ me proktā rāmeṇa tāṃ smara
99 sveṣāṃ trāṇārtham udyuktaṃ vadhāya dviṣatām api
viddhi mām āsthitaṃ vṛttaṃ paurūrava samuttamam
100 na tad bhūtaṃ prapaśyāmi triṣu lokeṣu madraka
yo mām asmād abhiprāyād vārayed iti me matiḥ
101 evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase
mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama
102 mitra pratīkṣayā śalya dhārtarāṣṭrasya cobhayoḥ
apavādatitikṣābhis tribhir etair hi jīvasi
103 punaś ced īddṛśaṃ vākyaṃ madrarājavadiṣyasi
śiras te pātayiṣyāmi gadayā vajrakalpayā
104 śrotāras tv idam adyeha draṣṭāro vā kudeśaja
karṇaṃ vā jaghnatuḥ kṛṣṇau karṇo vāpi jaghāna tau
105 evam uktvā tu rādheyaḥ punar eva viśāṃ pate
abravīn madrarājānaṃ yāhi yāhīty asaṃbhramam

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1185 of 2013 Book 59% ~13 min left