Book 8: Chapter 24
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 8: Chapter 24

The Mahabharata in Sanskrit

Book 8
Chapter 24

1 [दुर]
भूय एव तु मद्रेश यत ते वक्ष्यामि तच छृणु
यथा पुरावृत्तम इदं युद्धे देवासुरे विभॊ
2 यद उक्तवान पितुर मह्यं मार्कण्डेयॊ महान ऋषिः
तद अशेषेण बरुवतॊ मम राजर्षिसत्तम
तवं निबॊध न चाप्य अत्र कर्तव्या ते विचारणा
3 देवानाम असुराणां च महान आसीत समागमः
बभूव परथमॊ राजन संग्रामस तारका मयः
निर्जिताश च तदा दैत्या दैवतैर इति नः शरुतम
4 निर्जितेषु च दैत्येषु तारकस्य सुतास तरयः
ताराक्षः कमलाक्षश च विद्युन्माली च पार्थिव
5 तप उग्रं समास्थाय नियमे परमे सथिताः
तपसा कर्शयाम आसुर देहान सवाञ शत्रुतापन
6 दमेन तपसा चैव नियमेन च पार्थिव
तेषां पितामहः परीतॊ वरदः परददौ वरान
7 अवध्यत्वं च ते राजन सर्वभूतेषु सर्वदा
सहिता वरयाम आसुः सर्वलॊकपितामहम
8 तान बरवीत तदा देवॊ लॊकानां परभुर ईश्वरः
नास्ति सर्वामरत्वं हि निवर्तध्वम अतॊ ऽसुराः
वरम अन्यं वृणीध्वं वै यादृशं संप्ररॊचते
9 ततस ते सहिता राजन संप्रधार्यासकृद बहु
सर्वलॊकेश्वरं वाक्यं परणम्यैनम अथाब्रुवन
10 अस्माकं तवं वरं देव परयच्छेमं पितामह
वयं पुराणि तरीण्य एव समास्थाय महीम इमाम
विचरिष्याम लॊके ऽसमिंस तवत्प्रसाद पुरस्कृताः
11 ततॊ वर्षसहस्रे तु समेष्यामः परस्परम
एकीभावं गमिष्यन्ति पुराण्य एतानि चानघ
12 समागतानि चैतानि यॊ हन्याद भगवंस तदा
एकेषुणा देववरः स नॊ मृत्युर भविष्यति
एवम अस्त्व इति तान देवः परत्युक्त्वा पराविशद दिवम
13 ते तु लब्धवराः परीताः संप्रधार्य परस्परम
पुरत्रय विसृष्ट्य अर्थं मयं वव्रुर महासुरम
विश्वकर्माणम अजरं दैत्यदानव पूजितम
14 ततॊ मयः सवतपसा चक्रे धीमान पुराणि ह
तरीणि काञ्चनम एकं तु रौप्यं कार्ष्णायसं तथा
15 काञ्चनं दिवि तत्रासीद अन्तरिक्षे च राजतम
आयसं चाभवद भूमौ चक्रस्थं पृथिवीपते
16 एकैकं यॊजनशतं विस्तारायाम संमितम
गृहाट्टाट्टालक युतं बृहत पराकारतॊरणम
17 गुणप्रसव संबाधम असंबाधम अनामयम
परासादैर विविधैश चैव दवारैश चाप्य उपशॊभितम
18 पुरेषु चाभवन राजन राजानॊ वै पृथक पृथक
काञ्चनं तारकाक्षस्य चित्रम आसीन महात्मनः
राजतं कमलाक्षस्य विद्युन्मालिन आयसम
19 तरयस ते दैत्य राजानस तरीँल लॊकान आशु तेजसा
आक्रम्य तस्थुर वर्षाणां पूगान नाम परजापतिः
20 तेषां दानवमुख्यानां परयुतान्य अर्बुदानि च
कॊट्यश चाप्रतिवीराणां समाजग्मुस ततस ततः
महद ऐश्वर्यम इच्छन्तस तरिपुरं दुर्गम आश्रिताः
21 सर्वेषां च पुनस तेषां सर्वयॊगवहॊ मयः
तम आश्रित्य हि ते सर्वे अवर्तन्ताकुतॊ भयाः
22 यॊ हि यं मनसा कामं दध्यौ तरिपुरसंश्रयः
तस्मै कामं मयस तं तं विदधे मायया तदा
23 तारकाक्ष सुतश चासीद धरिर नाम महाबलः
तपस तेपे परमकं येनातुष्यत पितामहः
24 स तुष्टम अवृणॊद देवं वापी भवतु नः पुरे
शस्त्रैर विनिहता यत्र कषिप्ताः सयुर बलवत्तराः
25 स तु लब्ध्वा वरं वीरस तारकाक्ष सुतॊ हरिः
ससृजे तत्र वापीं तां मृतानां जीवनीं परभॊ
26 येन रूपेण दैत्यस तु येन वेषेण चैव ह
मृतस तस्यां परिक्षिप्तस तादृशेनैव जज्ञिवान
27 तां पराप्य तरैपुरस्थास तु सर्वाँल लॊकान बबाधिरे
महता तपसा सिद्धाः सुराणां भयवर्धनाः
न तेषाम अभवद राजन कषयॊ युद्धे कथं चन
28 ततस ते लॊभमॊहाभ्याम अभिभूता विचेतसः
निर्ह्रीकाः संस्थितिं सर्वे सथापितां समलूलुपन
29 विद्राव्य सगणान देवांस तत्र तत्र तदा तदा
विचेरुः सवेन कामेन वरदानेन दर्पिताः
30 देवारण्यानि सर्वाणि परियाणि च दिवौकसाम
ऋषीणाम आश्रमान्पुण्यान यूपाञ्जन पदांस तथा
वयनाशयन्त मर्यादा दानवा दुष्टचारिणः
31 ते देवाः सहिताः सर्वे पितामहम अरिंदम
अभिजग्मुस तदाख्यातुं विप्र कारं सुरेतरैः
32 ते तत्त्वं सर्वम आख्याय शिरसाभिप्रणम्य च
वधॊपायमपृच्छन्त भगवन्तं पितामहम
33 शरुत्वा तद भगवान देवॊ देवान इदम उवाच ह
असुराश च दुरात्मानस ते चापि विभुध दविषः
अपराध्यन्ति सततं ये युष्मान पीडयन्त्य उत
34 अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः
अधार्मिकास तु हन्तव्या इत्य अहं परब्रवीमि वः
35 ते यूयं सथाणुम ईशानं जिष्णुम अक्लिष्टकारिणम
यॊद्धारं वृणुतादित्याः स तान हन्ता सुरेतरान
36 इति तस्य वचः शरुत्वा देवाः शक्रपुरॊगमाः
बरह्माणम अग्रतः कृत्वा वृषाङ्कं शरणं ययुः
37 तपः परं समातस्थुर गृणन्तॊ बरह्म शाश्वतम
ऋषिभिः सहधर्मज्ञा भवं सर्वात्मना गताः
38 तुष्टुवुर वाग्भिर अर्थ्याभिर भयेष्व अभयकृत्तमम
सर्वात्मानं महात्मानं येनाप्तं सर्वम आत्मना
39 तपॊ विशेषैर बहुभिर यॊगं यॊ वेद चात्मनः
यः सांख्यम आत्मनॊ वेद यस्य चात्मा वशे सदा
40 ते तं ददृशुर ईशानं तेजॊराशिम उमापतिम
अनन्यसदृशं लॊके वरतवन्तम अकल्मषम
41 एकं च भगवन्तं ते नानारूपम अकल्पयन
आत्मनः परतिरूपाणि रूपाण्य अथ महात्मनि
परस्परस्य चापश्यन सर्वे परमविस्मिताः
42 सर्वभूतमयं चेशं तम अजं जगतः पतिम
देवा बरह्मर्षयश चैव शिरॊभिर धरणीं गताः
43 तान सवस्ति वाक्येनाभ्यर्च्य समुत्थाप्य च शंकरः
बरूत बरूतेति भगवान समयमानॊ ऽभयभाषत
44 तर्यम्बकेणाभ्यनुज्ञातास ततस ते ऽसवस्थचेतसः
नमॊ नमस ते ऽसतु विभॊ तत इत्य अब्रुवन भवम
45 नमॊ देवातिदेवाय धन्विने चातिमन्यवे
परजापतिमखघ्नाय परजापतिभिर ईड्यसे
46 नमः सतुताय सतुत्याय सतूयमानाय मृत्यवे
विलॊहिताय रुद्राय नीलग्रीवाय शूलिने
47 अमॊघाय मृगाक्षाय परवरायुध यॊधिने
दुर्वारणाय शुक्राय बरह्मणे बरह्मचारिणे
48 ईशानायाप्रमेयाय नियन्त्रे चर्म वाससे
तपॊनित्याय पिङ्गाय वरतिने कृत्ति वाससे
49 कुमार पित्रे तर्यक्षाय परवरायुध धारिणे
परपन्नार्ति विनाशाय बरह्म दविट संघघातिने
50 वनस्पतीनां पतये नराणां पतये नमः
गवां च पतये नित्यं यज्ञानां पतये नमः
51 नमॊ ऽसतु ते ससैन्याय तर्यम्बकायॊग्र तेजसे
मनॊवाक कर्मभिर देव तवां परपन्नान भजस्व नः
52 ततः परसन्नॊ भगवान सवागतेनाभिनन्द्य तान
परॊवाच वयेतु वस्त्रासॊ बरूत किं करवाणि वः
53 पितृदेवर्षिसंघेभ्यॊ वरे दत्ते महात्मना
सत्कृत्य शंकरं पराह बरह्मा लॊकहितं वचः
54 तवातिसर्गाद देवेश पराजापत्यम इदं पदम
मयाधितिष्ठता दत्तॊ दानवेभ्यॊ महान वरः
55 तान अतिक्रान्त मर्यादान नान्यः संहर्तुम अर्हति
तवाम ऋते भूतभव्येश तवं हय एषां परत्य अरिर वधे
56 स तवं देव परपन्नानां याचतां च दिवौकसाम
कुरु परसादं देवेश दानवाञ जहि शूलभृत
57 [भग]
हन्तव्याः शत्रवः सर्वे युष्माकम इति मे मतिः
न तव एकॊ ऽहं वधे तेषां समर्थॊ वै सुरद्विषाम
58 ते यूयं सहिताः सर्वे मदीयेनास्त्र तेजसा
जयध्वं युधि ताञ शत्रून संघातॊ हि महाबलः
59 [देवाह]
अस्मत तेजॊबलं यावत तावद दविगुणम एव च
तेषाम इति ह मन्यामॊ दृष्टतेजॊबला हि ते
60 [भग]
वध्यास ते सर्वतः पापा ये युष्मास्व अपराधिनः
मम तेजॊबलार्धेन सर्वांस तान घनत शात्रवान
61 [देवाह]
बिभर्तुं तेजसॊ ऽरधं ते न शक्ष्यामॊ महेश्वर
सर्वेषां नॊ बलार्धेन तवम एव जहि शात्रवान
62 [दुर]
ततस तथेति देवेशस तैर उक्तॊ राजसत्तम
अर्धम आदाय सर्वेभ्यस तेजसाभ्यधिकॊ ऽभवत
63 स तु देवॊ बलेनासीत सर्वेभ्यॊ बलवत्तरः
महादेव इति खयातस तदा परभृति शंकरः
64 ततॊ ऽबरवीन महादेवॊ धनुर बाणधरस तव अहम
हनिष्यामि रथेनाजौ तान रिपून वै दिवौकसः
65 ते यूयं मे रथं चैव धनुर बाणं तथैव च
पश्यध्वं यावद अद्यैतान पातयामि महीतले
66 [देवाह]
मूर्ति सर्वस्वम आदाय तरैलॊक्यस्य ततस ततः
रथं ते कल्पयिष्याम देवेश्वर महौजसम
67 तथैव बुद्ध्या विहितं विश्वकर्म कृतं शुभम
ततॊ विबुधशार्दूलास तं रथं समकल्पयन
68 वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम
सपर्वतवनद्वीपां चक्रूर भूतधरां तदा
69 मन्दरं पर्वतं चाक्षं जङ्घास तस्य महानदीः
दिशश च परदिशश चैव परिवारं रथस्य हि
70 अनुकर्षान गरहान दीप्तान वरूथं चापि तारकाः
धर्मार्थकामसंयुक्तं तरिवेणुं चापि बन्धुरम
ओषधीर विविधास तत्र नानापुष्पफलॊद्गमाः
71 सूर्या चन्द्रमसौ कृत्वा चक्रे रथवरॊत्तमे
पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे
72 दशनागपतीनीषाम धृतराष्ट्र मुखान दृढाम
दयां युगं युगचर्माणि संवर्तक बलाहकान
73 शम्यां धृतिं च मेघां च सथितिं संनतिम एव च
गरहनक्षत्रताराभिश चर्म चित्रं नभस्तलम
74 सुराम्बुप्रेतवित्तानां पतीँल लॊकेश्वरान हयान
सिनीवालीम अनुमतिं कुहूं राकां च सुव्रताम
यॊक्त्राणि चक्रुर वाहानां रॊहकांश चापि कण्ठकम
75 कर्म सत्यं तपॊ ऽरथश च विहितास तत्र रश्मयः
अधिष्ठानं मनस तव आसीत परिरथ्यं सरस्वती
76 नानावर्णाश च चित्राश च पताकाः पवनेरिताः
विद्युद इन्द्र धनुर नद्धं रथं दीप्तं वयदीपयत
77 एवं तस्मिन महाराज कल्पिते रथसत्तमे
देवैर मनुजशार्दूल दविषताम अभिमर्दने
78 सवान्य आयुधानि मुख्यानि नयदधाच छंकरॊ रथे
रथयष्टिं वियत कृष्टां सथापयाम आस गॊवृषम
79 बरह्मदण्डः कालदण्डॊ रुद्र दण्डस तथा जवरः
परिस्कन्दा रथस्यास्य सर्वतॊदिशम उद्यताः
80 अथर्वाङ्गिरसाव आस्तां चक्ररक्षौ महात्मनः
ऋग्वेदः सामवेदश च पुराणं च पुरःसराः
81 इतिहास यजुर्वेदौ पृष्ठरक्षौ बभूवतुः
दिव्या वाचश च विद्याश च परिपार्श्व चराः कृताः
82 तॊत्त्रादयश च राजेन्द्र वषट्कारस तथैव च
ओंकारश च मुखे राजन्न अतिशॊभा करॊ ऽभवत
83 विचित्रम ऋतुभिः षड्भिः कृत्वा संवत्सरं धनुः
तस्मान नॄणां कालरात्रिर जया कृता धनुषॊ ऽजरा
84 इषुश चाप्य अभवद विष्णुर जवलनः सॊम एव च
अग्नी षॊमौ जगत कृत्स्नं वैष्णवं चॊच्यते जगत
85 विष्णुश चात्मा भगवतॊ भवस्यामित तेजसः
तस्माद धनुर्ज्या संस्पर्शं न विषेहुर हरस्य ते
86 तस्मिञ शरे तिग्ममन्युर मुमॊचाविषहं परभुः
भृग्वङ्गिरॊ मन्युभवं करॊधाग्निम अतिदुःसहम
87 स नीललॊहितॊ धूम्रः कृत्तिवासा भयंकरः
आदित्यायुत संकाशस तेजॊ जवालावृतॊ जवलन
88 दुश्च्यावश चयावनॊ जेता हन्ता बरह्म दविषां हरः
नित्यं तराता च हन्ता च धर्माधर्माश्रिताञ जनान
89 परमाथिभिर घॊररूपैर भीमॊदग्रैर गणैर वृतः
विभाति भगवान सथाणुस तैर एवात्म गुणैर वृतः
90 तस्याङ्गानि समाश्रित्य सथितं विश्वम इदं जगत
जङ्गमाजङ्गमं राजञ शुशुभे ऽदभुतदर्शनम
91 दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी
बाणम आदत्त तं दिव्यं सॊमविष्ण्व अग्निसंभवम
92 तस्य वाजांस ततॊ देवाः कल्पयां चक्रिरे विभॊः
पुण्यगन्धवहं राजञ शवसनं राजसत्तम
93 तम आस्थाय महादेवस तरासयन दैवतान्य अपि
आरुरॊह तदा यत्तः कम्पयन्न इव रॊदसी
94 स शॊभमानॊ वरदः खड्गी बाणी शरासनी
हसन्न इवारवीद देवॊ सारथिः कॊ भविष्यति
95 तम अब्रुवन देवगणा यं भवान संनियॊक्ष्यते
स भविष्यति देवेश सारथिस ते न संशयः
96 तान अब्रवीत पुनर देवॊ मत्तः शरेष्ठतरॊ हि यः
तं सारथिं कुरुध्वं मे सवयं संचिन्त्य माचिरम
97 एतच छरुत्वा ततॊ देवा वाक्यम उक्तं महात्मना
गत्वा पितामहं देवं परसाद्यैवं वचॊ ऽबरुवन
98 देव तवयेदं कथितं तरिदशारिनिबर्हणम
तथा च कृतम अस्माभिः परसन्नॊ वृषभध्वजः
99 रथश च विहितॊ ऽसमाभिर विचित्रायुध संवृतः
सारथिं तु न जानीमः कः सयात तस्मिन रथॊत्तमे
100 तस्माद विधीयतां कश चित सारथिर देव सत्तम
सफलां तां गिरं देवकर्तुम अर्हसि नॊ विभॊ
101 एवम अस्मासु हि पुरा भगवन्न उक्तवान असि
हितंकर्तास्मि भवताम इति तत कर्तुम अर्हसि
102 स देव युक्तॊ रथसत्तमॊ नॊ; दुरावरॊ दरावणः शात्रवाणाम
पिनाक पाणिर विहितॊ ऽतर यॊद्धा; विभीषयन दानवान उद्यतॊ ऽसौ
103 तथैव वेदाश चतुरॊ हयाग्र्या; धरा सशैला च रथॊ महात्मन
नक्षत्रवंशॊ ऽनुगतॊ वरूथे; यस्मिन यॊद्धा सारथिनाभिरक्ष्यः
104 तत्र सारथिर एष्टव्यः सर्वैर एतैर विशेषवान
तत परतिष्ठॊ रथॊ देव हया यॊद्धा तथैव च
कवचानि च शस्त्राणि कार्मुकं च पितामह
105 तवाम ऋते सारथिं तत्र नान्यं पश्यामहे वयम
तवं हि सर्वैर गुणैर युक्तॊ देवताभ्यॊ ऽधिकः परभॊ
सारथ्ये तूर्णम आरॊह संयच्छ परमान हयान
106 इति ते शिरसा नत्वा तरिलॊकेशं पितामहम
देवाः परसादयाम आसुः सारथ्यायेति नः शरुतम
107 [बरह्मा]
नात्र किं चिन मृषा वाक्यं यद उक्तं वॊ दिवौकसः
संयच्छामि हयान एष युध्यतॊ वै कपर्दिनः
108 ततः स भगवान देवॊ लॊकस्रष्टा पितामहः
सारथ्ये कल्पितॊ देवैर ईशानस्य महात्मनः
109 तस्मिन्न आरॊहति कषिप्रं सयन्दनं लॊकपूजिते
शिरॊभिर अगमंस तूर्णं ते हया वातरंहसः
110 महेश्वरे तवारुहति जानुभ्याम अगमन महीम
111 अभीशून हि तरिलॊकेशः संगृह्य परपितामहः
तान अश्वांश चॊदयाम आस मनॊमारुतरंहसः
112 ततॊ ऽधिरूढे वरदे परयाते चासुरान परति
साधु साध्व इति विश्वेशः समयमानॊ ऽभयभाषत
113 याहि देव यतॊ दैत्याश चॊदयाश्वान अतन्द्रितः
पश्य बाह्वॊर बलं मे ऽदय निघ्नतः शात्रवान रणे
114 ततस तांश चॊदयाम आस वायुवेगसमाञ्जवे
येन तन्त्रिपुरं राजन दैत्यदानवरक्षितम
115 अथाधिज्यं धनुः कृत्वा शर्वः संधाय तं शरम
युक्त्वा पाशुपतास्त्रेण तरिपुरं समचिन्तयत
116 तस्मिन सथिते तदा राजन करुद्धे विधृत कार्मुके
पुराणि तानि कालेन जग्मुर एकत्वतां तदा
117 एकीभावं गते चैव तरिपुरे समुपागते
बभूव तुमुलॊ हर्षॊ दैवतानां महात्मनाम
118 ततॊ देवगणाः सर्वे सिद्धाश च परमर्षयः
जयेति वाचॊ मुमुचुः संस्तुवन्तॊ मुदान्विताः
119 ततॊ ऽगरतॊ परादुरभूत तरिपुरं जघ्नुषॊ ऽसुरान
अनिर्देश्यॊग्र वपुषॊ देवस्यासह्य तेजसः
120 स तद विकृष्य भगवान दिव्यं लॊकेश्वरॊ धनुः
तरैलॊक्यसारं तम इषुं मुमॊच तरिपुरं परति
तत सासुरगणं दग्ध्वा पराक्षिपत पश्चिमार्णवे
121 एवं तत तरिपुरं दग्धं दानवाश चाप्य अशेषतः
महेश्वरेण करुद्धेन तरैलॊक्यस्य हितैषिणा
122 स चात्मक्रॊधजॊ वह्निर हाहेत्य उक्त्वा निवारितः
मा कार्षीर भस्मसाल लॊकान इति तर्यक्षॊ ऽबरवीच च तम
123 ततः परकृतिम आपन्ना देवा लॊकास तथर्षयः
तुष्टुवुर वाग्भिर अर्थ्याभिः सथाणुम अप्रतिमौजसम
124 ते ऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम
कृतकामाः परसन्नेन परजापतिमुखाः सुराः
125 यथैव भगवान बरह्मा लॊकधाता पिता महः
संयच्छ तवं हयान अस्य राधेयस्य महात्मनः
126 तवं हि कृष्णाच च कर्णाच च फल्गुनाच च विशेषतः
विशिष्टॊ राजशार्दूल नास्ति तत्र विचारणा
127 युद्धे हय अयं रुद्र कल्पस तवं च बरह्म समॊ ऽनघ
तस्माच छक्तौ युवां जेतुं मच्छत्रूंस ताव इवासुरान
128 यथा शल्याद्य कर्णॊ ऽयं शवेताश्वं कृष्णसारथिम
परमथ्य हन्यात कौन्तेयं तथा शीघ्रं विधीयताम
तवयि कर्णश च राज्यं च वयं चैव परतिष्ठिताः
129 इंमं चाप्य अपरं भूय इतिहासं निबॊध मे
पितुर मम सकाशे यं बराह्मणः पराह धर्मवित
130 शरुत्वा चैतद वचश चित्रं हेतुकार्यार्थ संहितम
कुरु शल्य विनिश्चित्य मा भूद अत्र विचारणा
131 भार्गवाणां कुले जातॊ जमद अग्निर महातपाः
तस्य रामेति विख्यातः पुत्रस तेजॊ गुणान्वितः
132 स तीव्रं तप आस्थाय परसादयितवान भवम
अस्त्रहेतॊः परसन्नात्मा नियतः संयतेन्द्रियः
133 तस्य तुष्टॊ महादेवॊ भक्त्या च परशमेन च
हृद्गतं चास्य विज्ञाय दर्शयाम आस शंकरः
134 [इष्वर]
राम तुष्टॊ ऽसमि भद्रं ते विदितं मे तवेप्सितम
कुरुष्व पूतम आत्मानं सर्वम एतद अवाप्स्यसि
135 दास्यामि ते तदास्त्राणि यदा पूतॊ भविष्यसि
अपात्रम असमर्थं च दहन्त्य अस्त्राणि भार्गव
136 इत्य उक्तॊ जामदग्न्यस तु देवदेवेन शूलिना
परत्युवाच महात्मानं शिरसावनतः परभुम
137 यदा जानासि देवेश पात्रं माम अस्त्रधारणे
तदा शुश्रूषते ऽसत्राणि भवान मे दातुम अर्हति
138 [दुर]
ततः स तपसा चैव दमेन नियमेन च
पूजॊपहार बलिभिर हॊममन्त्रपुरस्कृतैः
139 आराधयितवाञ शर्वं बहून वर्षगणांस तदा
परसन्नश च महादेवॊ भार्गवस्य महात्मनः
140 अब्रवीत तस्य बहुशॊ गुणान देव्याः समीपतः
भक्तिमान एष सततं मयि रामॊ दृढव्रतः
141 एवं तस्य गुणान परीतॊ बहुशॊ ऽकथयत परभुः
देवतानां पितॄणां च समक्षम अरिसूदनः
142 एतस्मिन्न एव काले तु दैत्या आसन महाबलाः
तैस तदा दर्पमॊहान्धैर अबाध्यन्त दिवौकसः
143 ततः संभूय विबुधास तान हन्तुं कृतनिश्चयाः
चक्रुः शत्रुवधे यत्नं न शेकुर जेतुम एव ते
144 अभिगम्य ततॊ देवा महेश्वरम अथाब्रुवन
परसादयन्तस तं भक्त्या जहि शत्रुगणान इति
145 परतिज्ञाय ततॊ देवॊ देवतानां रिपुक्षयम
रामं भार्गवम आहूय सॊ ऽभयभाषत शंकरः
146 रिपून भार्गव देवानां जहि सर्वान समागतान
लॊकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च
147 [राम]
अकृतास्त्रस्य देवेश का शक्तिर मे महेश्वर
निहन्तुं दानवान सर्वान कृतास्त्रान युद्धदुर्मदान
148 [इष्वर]
गच्छ तवं मद अनुध्यानान निहनिष्यसि दानवान
विजित्य च रिपून सर्वान गुणान पराप्स्यसि पुष्कलान
149 [दुर]
एतच छरुत्वा च वचनं परतिगृह्य च सर्वशः
रामः कृतस्वस्त्ययनः परययौ दानवान परति
150 अवधीद देवशत्रूंस तान मददर्प बलान्वितान
वज्राशनिसमस्पर्शैः परहारैर एव भार्गवः
151 स दानवैः कषततनुर जामद अग्न्यॊ दविजॊत्तमः
संस्पृष्टः सथाणुना सद्यॊ निर्व्रणः समजायत
152 परीतश च भगवान देवः कर्मणा तेन तस्य वै
वरान परादाद बरह्म विदे भार्गवाय महात्मने
153 उक्तश च देवदेवेन परीतियुक्तेन शूलिना
निपातात तव शस्त्राणां शरीरे याभवद रुजा
154 तया ते मानुषं कर्म वयपॊढं भृगुनन्दन
गृहाणास्त्राणि दिव्यानि मत्सकाशाद यथेप्सितम
155 ततॊ ऽसत्राणि समस्तानि वरांश च मनसेप्सितान
लब्ध्वा बहुविधान रामः परणम्या शिरसा शिवम
156 अनुज्ञां पराप्य देवेशाञ जगाम स महातपाः
एवम एतत पुरावृत्तं तदा कथितवान ऋषिः
157 भार्गवॊ ऽपय अददात सर्वं धनुर्वेदं महात्मने
कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना
158 वृजिनं हि भवेत किं चिद यदि कर्णस्य पार्थिव
नास्मै हय अस्त्राणि दिव्यानि परादास्यद भृगुनन्दनः
159 नापि सूत कुले जात्म कर्णं मन्ये कथं चन
देवपुत्रम अहं मन्ये कषत्रियाणां कुलॊद्भवम
160 सकुण्डलं सकवचं दीर्घबाहुं महारथम
कथम आदित्यसदृशं मृगी वयाघ्रं जनिष्यति
161 पश्य हय अस्य भुजौ पीनौ नागराजकरॊपमौ
वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम
1 [dur]
bhūya eva tu madreśa yat te vakṣyāmi tac chṛṇu
yathā purāvṛttam idaṃ yuddhe devāsure vibho
2 yad uktavān pitur mahyaṃ mārkaṇḍeyo mahān ṛṣiḥ
tad aśeṣeṇa bruvato mama rājarṣisattama
tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā
3 devānām asurāṇāṃ ca mahān āsīt samāgamaḥ
babhūva prathamo rājan saṃgrāmas tārakā mayaḥ
nirjitāś ca tadā daityā daivatair iti naḥ śrutam
4 nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ
tārākṣaḥ kamalākṣaś ca vidyunmālī ca pārthiva
5 tapa ugraṃ samāsthāya niyame parame sthitāḥ
tapasā karśayām āsur dehān svāñ śatrutāpana
6 damena tapasā caiva niyamena ca pārthiva
teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varān
7 avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā
sahitā varayām āsuḥ sarvalokapitāmaham
8 tāna bravīt tadā devo lokānāṃ prabhur īśvaraḥ
nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ
varam anyaṃ vṛṇīdhvaṃ vai yādṛśaṃ saṃprarocate
9 tatas te sahitā rājan saṃpradhāryāsakṛd bahu
sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan
10 asmākaṃ tvaṃ varaṃ deva prayacchemaṃ pitāmaha
vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām
vicariṣyāma loke 'smiṃs tvatprasāda puraskṛtāḥ
11 tato varṣasahasre tu sameṣyāmaḥ parasparam
ekībhāvaṃ gamiṣyanti purāṇy etāni cānagha
12 samāgatāni caitāni yo hanyād bhagavaṃs tadā
ekeṣuṇā devavaraḥ sa no mṛtyur bhaviṣyati
evam astv iti tān devaḥ pratyuktvā prāviśad divam
13 te tu labdhavarāḥ prītāḥ saṃpradhārya parasparam
puratraya visṛṣṭy arthaṃ mayaṃ vavrur mahāsuram
viśvakarmāṇam ajaraṃ daityadānava pūjitam
14 tato mayaḥ svatapasā cakre dhīmān purāṇi ha
trīṇi kāñcanam ekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā
15 kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam
āyasaṃ cābhavad bhūmau cakrasthaṃ pṛthivīpate
16 ekaikaṃ yojanaśataṃ vistārāyāma saṃmitam
gṛhāṭṭāṭṭālaka yutaṃ bṛhat prākāratoraṇam
17 guṇaprasava saṃbādham asaṃbādham anāmayam
prāsādair vividhaiś caiva dvāraiś cāpy upaśobhitam
18 pureṣu cābhavan rājan rājāno vai pṛthak pṛthak
kāñcanaṃ tārakākṣasya citram āsīn mahātmanaḥ
rājataṃ kamalākṣasya vidyunmālina āyasam
19 trayas te daitya rājānas trīṁl lokān āśu tejasā
ākramya tasthur varṣāṇāṃ pūgān nāma prajāpatiḥ
20 teṣāṃ dānavamukhyānāṃ prayutāny arbudāni ca
koṭyaś cāprativīrāṇāṃ samājagmus tatas tataḥ
mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ
21 sarveṣāṃ ca punas teṣāṃ sarvayogavaho mayaḥ
tam āśritya hi te sarve avartantākuto bhayāḥ
22 yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ
tasmai kāmaṃ mayas taṃ taṃ vidadhe māyayā tadā
23 tārakākṣa sutaś cāsīd dharir nāma mahābalaḥ
tapas tepe paramakaṃ yenātuṣyat pitāmahaḥ
24 sa tuṣṭam avṛṇod devaṃ vāpī bhavatu naḥ pure
śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ
25 sa tu labdhvā varaṃ vīras tārakākṣa suto hariḥ
sasṛje tatra vāpīṃ tāṃ mṛtānāṃ jīvanīṃ prabho
26 yena rūpeṇa daityas tu yena veṣeṇa caiva ha
mṛtas tasyāṃ parikṣiptas tādṛśenaiva jajñivān
27 tāṃ prāpya traipurasthās tu sarvāṁl lokān babādhire
mahatā tapasā siddhāḥ surāṇāṃ bhayavardhanāḥ
na teṣām abhavad rājan kṣayo yuddhe kathaṃ cana
28 tatas te lobhamohābhyām abhibhūtā vicetasaḥ
nirhrīkāḥ saṃsthitiṃ sarve sthāpitāṃ samalūlupan
29 vidrāvya sagaṇān devāṃs tatra tatra tadā tadā
viceruḥ svena kāmena varadānena darpitāḥ
30 devāraṇyāni sarvāṇi priyāṇi ca divaukasām
ṛṣīṇām āśramānpuṇyān yūpāñjana padāṃs tathā
vyanāśayanta maryādā dānavā duṣṭacāriṇaḥ
31 te devāḥ sahitāḥ sarve pitāmaham ariṃdama
abhijagmus tadākhyātuṃ vipra kāraṃ suretaraiḥ
32 te tattvaṃ sarvam ākhyāya śirasābhipraṇamya ca
vadhopāyamapṛcchanta bhagavantaṃ pitāmaham
33 śrutvā tad bhagavān devo devān idam uvāca ha
asurāś ca durātmānas te cāpi vibhudha dviṣaḥ
aparādhyanti satataṃ ye yuṣmān pīḍayanty uta
34 ahaṃ hi tulyaḥ sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ
adhārmikās tu hantavyā ity ahaṃ prabravīmi vaḥ
35 te yūyaṃ sthāṇum īśānaṃ jiṣṇum akliṣṭakāriṇam
yoddhāraṃ vṛṇutādityāḥ sa tān hantā suretarān
36 iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ
brahmāṇam agrataḥ kṛtvā vṛṣāṅkaṃ śaraṇaṃ yayuḥ
37 tapaḥ paraṃ samātasthur gṛṇanto brahma śāśvatam
ṛṣibhiḥ sahadharmajñā bhavaṃ sarvātmanā gatāḥ
38 tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam
sarvātmānaṃ mahātmānaṃ yenāptaṃ sarvam ātmanā
39 tapo viśeṣair bahubhir yogaṃ yo veda cātmanaḥ
yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā
40 te taṃ dadṛśur īśānaṃ tejorāśim umāpatim
ananyasadṛśaṃ loke vratavantam akalmaṣam
41 ekaṃ ca bhagavantaṃ te nānārūpam akalpayan
ātmanaḥ pratirūpāṇi rūpāṇy atha mahātmani
parasparasya cāpaśyan sarve paramavismitāḥ
42 sarvabhūtamayaṃ ceśaṃ tam ajaṃ jagataḥ patim
devā brahmarṣayaś caiva śirobhir dharaṇīṃ gatāḥ
43 tān svasti vākyenābhyarcya samutthāpya ca śaṃkaraḥ
brūta brūteti bhagavān smayamāno 'bhyabhāṣata
44 tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ
namo namas te 'stu vibho tata ity abruvan bhavam
45 namo devātidevāya dhanvine cātimanyave
prajāpatimakhaghnāya prajāpatibhir īḍyase
46 namaḥ stutāya stutyāya stūyamānāya mṛtyave
vilohitāya rudrāya nīlagrīvāya śūline
47 amoghāya mṛgākṣāya pravarāyudha yodhine
durvāraṇāya śukrāya brahmaṇe brahmacāriṇe
48 īśānāyāprameyāya niyantre carma vāsase
taponityāya piṅgāya vratine kṛtti vāsase
49 kumāra pitre tryakṣāya pravarāyudha dhāriṇe
prapannārti vināśāya brahma dviṭ saṃghaghātine
50 vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ
gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ
51 namo 'stu te sasainyāya tryambakāyogra tejase
manovāk karmabhir deva tvāṃ prapannān bhajasva naḥ
52 tataḥ prasanno bhagavān svāgatenābhinandya tān
provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ
53 pitṛdevarṣisaṃghebhyo vare datte mahātmanā
satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ
54 tavātisargād deveśa prājāpatyam idaṃ padam
mayādhitiṣṭhatā datto dānavebhyo mahān varaḥ
55 tān atikrānta maryādān nānyaḥ saṃhartum arhati
tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ praty arir vadhe
56 sa tvaṃ deva prapannānāṃ yācatāṃ ca divaukasām
kuru prasādaṃ deveśa dānavāñ jahi śūlabhṛt
57 [bhag]
hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ
na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām
58 te yūyaṃ sahitāḥ sarve madīyenāstra tejasā
jayadhvaṃ yudhi tāñ śatrūn saṃghāto hi mahābalaḥ
59 [devāh]
asmat tejobalaṃ yāvat tāvad dviguṇam eva ca
teṣām iti ha manyāmo dṛṣṭatejobalā hi te
60 [bhag]
vadhyās te sarvataḥ pāpā ye yuṣmāsv aparādhinaḥ
mama tejobalārdhena sarvāṃs tān ghnata śātravān
61 [devāh]
bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara
sarveṣāṃ no balārdhena tvam eva jahi śātravān
62 [dur]
tatas tatheti deveśas tair ukto rājasattama
ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat
63 sa tu devo balenāsīt sarvebhyo balavattaraḥ
mahādeva iti khyātas tadā prabhṛti śaṃkaraḥ
64 tato 'bravīn mahādevo dhanur bāṇadharas tv aham
haniṣyāmi rathenājau tān ripūn vai divaukasaḥ
65 te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca
paśyadhvaṃ yāvad adyaitān pātayāmi mahītale
66 [devāh]
mūrti sarvasvam ādāya trailokyasya tatas tataḥ
rathaṃ te kalpayiṣyāma deveśvara mahaujasam
67 tathaiva buddhyā vihitaṃ viśvakarma kṛtaṃ śubham
tato vibudhaśārdūlās taṃ rathaṃ samakalpayan
68 vandhuraṃ pṛthivīṃ devīṃ viśālapuramālinīm
saparvatavanadvīpāṃ cakrūr bhūtadharāṃ tadā
69 mandaraṃ parvataṃ cākṣaṃ jaṅghās tasya mahānadīḥ
diśaś ca pradiśaś caiva parivāraṃ rathasya hi
70 anukarṣān grahān dīptān varūthaṃ cāpi tārakāḥ
dharmārthakāmasaṃyuktaṃ triveṇuṃ cāpi bandhuram
oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ
71 sūryā candramasau kṛtvā cakre rathavarottame
pakṣau pūrvāparau tatra kṛte rātryahanī śubhe
72 daśanāgapatīnīṣām dhṛtarāṣṭra mukhān dṛḍhām
dyāṃ yugaṃ yugacarmāṇi saṃvartaka balāhakān
73 śamyāṃ dhṛtiṃ ca meghāṃ ca sthitiṃ saṃnatim eva ca
grahanakṣatratārābhiś carma citraṃ nabhastalam
74 surāmbupretavittānāṃ patīṁl lokeśvarān hayān
sinīvālīm anumatiṃ kuhūṃ rākāṃ ca suvratām
yoktrāṇi cakrur vāhānāṃ rohakāṃś cāpi kaṇṭhakam
75 karma satyaṃ tapo 'rthaś ca vihitās tatra raśmayaḥ
adhiṣṭhānaṃ manas tv āsīt parirathyaṃ sarasvatī
76 nānāvarṇāś ca citrāś ca patākāḥ pavaneritāḥ
vidyud indra dhanur naddhaṃ rathaṃ dīptaṃ vyadīpayat
77 evaṃ tasmin mahārāja kalpite rathasattame
devair manujaśārdūla dviṣatām abhimardane
78 svāny āyudhāni mukhyāni nyadadhāc chaṃkaro rathe
rathayaṣṭiṃ viyat kṛṣṭāṃ sthāpayām āsa govṛṣam
79 brahmadaṇḍaḥ kāladaṇḍo rudra daṇḍas tathā jvaraḥ
pariskandā rathasyāsya sarvatodiśam udyatāḥ
80 atharvāṅgirasāv āstāṃ cakrarakṣau mahātmanaḥ
ṛgvedaḥ sāmavedaś ca purāṇaṃ ca puraḥsarāḥ
81 itihāsa yajurvedau pṛṣṭharakṣau babhūvatuḥ
divyā vācaś ca vidyāś ca paripārśva carāḥ kṛtāḥ
82 tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca
oṃkāraś ca mukhe rājann atiśobhā karo 'bhavat
83 vicitram ṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ
tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā
84 iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca
agnī ṣomau jagat kṛtsnaṃ vaiṣṇavaṃ cocyate jagat
85 viṣṇuś cātmā bhagavato bhavasyāmita tejasaḥ
tasmād dhanurjyā saṃsparśaṃ na viṣehur harasya te
86 tasmiñ śare tigmamanyur mumocāviṣahaṃ prabhuḥ
bhṛgvaṅgiro manyubhavaṃ krodhāgnim atiduḥsaham
87 sa nīlalohito dhūmraḥ kṛttivāsā bhayaṃkaraḥ
ādityāyuta saṃkāśas tejo jvālāvṛto jvalan
88 duścyāvaś cyāvano jetā hantā brahma dviṣāṃ haraḥ
nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān
89 pramāthibhir ghorarūpair bhīmodagrair gaṇair vṛtaḥ
vibhāti bhagavān sthāṇus tair evātma guṇair vṛtaḥ
90 tasyāṅgāni samāśritya sthitaṃ viśvam idaṃ jagat
jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam
91 dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī
bāṇam ādatta taṃ divyaṃ somaviṣṇv agnisaṃbhavam
92 tasya vājāṃs tato devāḥ kalpayāṃ cakrire vibhoḥ
puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama
93 tam āsthāya mahādevas trāsayan daivatāny api
āruroha tadā yattaḥ kampayann iva rodasī
94 sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī
hasann ivāravīd devo sārathiḥ ko bhaviṣyati
95 tam abruvan devagaṇā yaṃ bhavān saṃniyokṣyate
sa bhaviṣyati deveśa sārathis te na saṃśayaḥ
96 tān abravīt punar devo mattaḥ śreṣṭhataro hi yaḥ
taṃ sārathiṃ kurudhvaṃ me svayaṃ saṃcintya māciram
97 etac chrutvā tato devā vākyam uktaṃ mahātmanā
gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan
98 deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam
tathā ca kṛtam asmābhiḥ prasanno vṛṣabhadhvajaḥ
99 rathaś ca vihito 'smābhir vicitrāyudha saṃvṛtaḥ
sārathiṃ tu na jānīmaḥ kaḥ syāt tasmin rathottame
100 tasmād vidhīyatāṃ kaś cit sārathir deva sattama
saphalāṃ tāṃ giraṃ devakartum arhasi no vibho
101 evam asmāsu hi purā bhagavann uktavān asi
hitaṃkartāsmi bhavatām iti tat kartum arhasi
102 sa deva yukto rathasattamo no; durāvaro drāvaṇaḥ śātravāṇām
pināka pāṇir vihito 'tra yoddhā; vibhīṣayan dānavān udyato 'sau
103 tathaiva vedāś caturo hayāgryā; dharā saśailā ca ratho mahātman
nakṣatravaṃśo 'nugato varūthe; yasmin yoddhā sārathinābhirakṣyaḥ
104 tatra sārathir eṣṭavyaḥ sarvair etair viśeṣavān
tat pratiṣṭho ratho deva hayā yoddhā tathaiva ca
kavacāni ca śastrāṇi kārmukaṃ ca pitāmaha
105 tvām ṛte sārathiṃ tatra nānyaṃ paśyāmahe vayam
tvaṃ hi sarvair guṇair yukto devatābhyo 'dhikaḥ prabho
sārathye tūrṇam āroha saṃyaccha paramān hayān
106 iti te śirasā natvā trilokeśaṃ pitāmaham
devāḥ prasādayām āsuḥ sārathyāyeti naḥ śrutam
107 [brahmā]
nātra kiṃ cin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ
saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ
108 tataḥ sa bhagavān devo lokasraṣṭā pitāmahaḥ
sārathye kalpito devair īśānasya mahātmanaḥ
109 tasminn ārohati kṣipraṃ syandanaṃ lokapūjite
śirobhir agamaṃs tūrṇaṃ te hayā vātaraṃhasaḥ
110 maheśvare tvāruhati jānubhyām agaman mahīm
111 abhīśūn hi trilokeśaḥ saṃgṛhya prapitāmahaḥ
tān aśvāṃś codayām āsa manomārutaraṃhasaḥ
112 tato 'dhirūḍhe varade prayāte cāsurān prati
sādhu sādhv iti viśveśaḥ smayamāno 'bhyabhāṣata
113 yāhi deva yato daityāś codayāśvān atandritaḥ
paśya bāhvor balaṃ me 'dya nighnataḥ śātravān raṇe
114 tatas tāṃś codayām āsa vāyuvegasamāñjave
yena tantripuraṃ rājan daityadānavarakṣitam
115 athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram
yuktvā pāśupatāstreṇa tripuraṃ samacintayat
116 tasmin sthite tadā rājan kruddhe vidhṛta kārmuke
purāṇi tāni kālena jagmur ekatvatāṃ tadā
117 ekībhāvaṃ gate caiva tripure samupāgate
babhūva tumulo harṣo daivatānāṃ mahātmanām
118 tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ
jayeti vāco mumucuḥ saṃstuvanto mudānvitāḥ
119 tato 'grato prādurabhūt tripuraṃ jaghnuṣo 'surān
anirdeśyogra vapuṣo devasyāsahya tejasaḥ
120 sa tad vikṛṣya bhagavān divyaṃ lokeśvaro dhanuḥ
trailokyasāraṃ tam iṣuṃ mumoca tripuraṃ prati
tat sāsuragaṇaṃ dagdhvā prākṣipat paścimārṇave
121 evaṃ tat tripuraṃ dagdhaṃ dānavāś cāpy aśeṣataḥ
maheśvareṇa kruddhena trailokyasya hitaiṣiṇā
122 sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ
mā kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam
123 tataḥ prakṛtim āpannā devā lokās tatharṣayaḥ
tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam
124 te 'nujñātā bhagavatā jagmuḥ sarve yathāgatam
kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ
125 yathaiva bhagavān brahmā lokadhātā pitā mahaḥ
saṃyaccha tvaṃ hayān asya rādheyasya mahātmanaḥ
126 tvaṃ hi kṛṣṇāc ca karṇāc ca phalgunāc ca viśeṣataḥ
viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā
127 yuddhe hy ayaṃ rudra kalpas tvaṃ ca brahma samo 'nagha
tasmāc chaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān
128 yathā śalyādya karṇo 'yaṃ śvetāśvaṃ kṛṣṇasārathim
pramathya hanyāt kaunteyaṃ tathā śīghraṃ vidhīyatām
tvayi karṇaś ca rājyaṃ ca vayaṃ caiva pratiṣṭhitāḥ
129 iṃmaṃ cāpy aparaṃ bhūya itihāsaṃ nibodha me
pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit
130 śrutvā caitad vacaś citraṃ hetukāryārtha saṃhitam
kuru śalya viniścitya mā bhūd atra vicāraṇā
131 bhārgavāṇāṃ kule jāto jamad agnir mahātapāḥ
tasya rāmeti vikhyātaḥ putras tejo guṇānvitaḥ
132 sa tīvraṃ tapa āsthāya prasādayitavān bhavam
astrahetoḥ prasannātmā niyataḥ saṃyatendriyaḥ
133 tasya tuṣṭo mahādevo bhaktyā ca praśamena ca
hṛdgataṃ cāsya vijñāya darśayām āsa śaṃkaraḥ
134 [iṣvara]
rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam
kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi
135 dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi
apātram asamarthaṃ ca dahanty astrāṇi bhārgava
136 ity ukto jāmadagnyas tu devadevena śūlinā
pratyuvāca mahātmānaṃ śirasāvanataḥ prabhum
137 yadā jānāsi deveśa pātraṃ mām astradhāraṇe
tadā śuśrūṣate 'strāṇi bhavān me dātum arhati
138 [dur]
tataḥ sa tapasā caiva damena niyamena ca
pūjopahāra balibhir homamantrapuraskṛtaiḥ
139 ārādhayitavāñ śarvaṃ bahūn varṣagaṇāṃs tadā
prasannaś ca mahādevo bhārgavasya mahātmanaḥ
140 abravīt tasya bahuśo guṇān devyāḥ samīpataḥ
bhaktimān eṣa satataṃ mayi rāmo dṛḍhavrataḥ
141 evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ
devatānāṃ pitṝṇāṃ ca samakṣam arisūdanaḥ
142 etasminn eva kāle tu daityā āsan mahābalāḥ
tais tadā darpamohāndhair abādhyanta divaukasaḥ
143 tataḥ saṃbhūya vibudhās tān hantuṃ kṛtaniścayāḥ
cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te
144 abhigamya tato devā maheśvaram athābruvan
prasādayantas taṃ bhaktyā jahi śatrugaṇān iti
145 pratijñāya tato devo devatānāṃ ripukṣayam
rāmaṃ bhārgavam āhūya so 'bhyabhāṣata śaṃkaraḥ
146 ripūn bhārgava devānāṃ jahi sarvān samāgatān
lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca
147 [rāma]
akṛtāstrasya deveśa kā śaktir me maheśvara
nihantuṃ dānavān sarvān kṛtāstrān yuddhadurmadān
148 [iṣvara]
gaccha tvaṃ mad anudhyānān nihaniṣyasi dānavān
vijitya ca ripūn sarvān guṇān prāpsyasi puṣkalān
149 [dur]
etac chrutvā ca vacanaṃ pratigṛhya ca sarvaśaḥ
rāmaḥ kṛtasvastyayanaḥ prayayau dānavān prati
150 avadhīd devaśatrūṃs tān madadarpa balānvitān
vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ
151 sa dānavaiḥ kṣatatanur jāmad agnyo dvijottamaḥ
saṃspṛṣṭaḥ sthāṇunā sadyo nirvraṇaḥ samajāyata
152 prītaś ca bhagavān devaḥ karmaṇā tena tasya vai
varān prādād brahma vide bhārgavāya mahātmane
153 uktaś ca devadevena prītiyuktena śūlinā
nipātāt tava śastrāṇāṃ śarīre yābhavad rujā
154 tayā te mānuṣaṃ karma vyapoḍhaṃ bhṛgunandana
gṛhāṇāstrāṇi divyāni matsakāśād yathepsitam
155 tato 'strāṇi samastāni varāṃś ca manasepsitān
labdhvā bahuvidhān rāmaḥ praṇamyā śirasā śivam
156 anujñāṃ prāpya deveśāñ jagāma sa mahātapāḥ
evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ
157 bhārgavo 'py adadāt sarvaṃ dhanurvedaṃ mahātmane
karṇāya puruṣavyāghra suprītenāntarātmanā
158 vṛjinaṃ hi bhavet kiṃ cid yadi karṇasya pārthiva
nāsmai hy astrāṇi divyāni prādāsyad bhṛgunandanaḥ
159 nāpi sūta kule jātma karṇaṃ manye kathaṃ cana
devaputram ahaṃ manye kṣatriyāṇāṃ kulodbhavam
160 sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham
katham ādityasadṛśaṃ mṛgī vyāghraṃ janiṣyati
161 paśya hy asya bhujau pīnau nāgarājakaropamau
vakṣaḥ paśya viśālaṃ ca sarvaśatrunibarhaṇam

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1182 of 2013 Book 59% ~19 min left