Book 8: Chapter 17
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 8: Chapter 17

The Mahabharata in Sanskrit

Book 8
Chapter 17

1 [स]
हस्तिभिस तु महामात्रास तव पुत्रेण चॊदिताः
धृष्टद्युम्नं जिघांसन्तः करुद्धाः पार्षतम अभ्ययुः
2 पराच्याश च दाक्षिणात्याश च परवीरा गजयॊधिनः
अङ्गा वङ्गाश च पुण्ड्राश च मागधास ताम्रलिप्तकाः
3 मेकलाः कॊशला मद्रा दशार्णा निषधास तथा
गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत
4 शरतॊमर नाराचैर वृष्टिमन्त इवाम्बुदाः
सिषिचुस ते ततः सर्वे पाञ्चालाचलम आहवे
5 तान संमिमर्दिषुर नागान पार्ष्ण्यङ्गुष्ठाङ्कुशैर भृशम
पॊथितान पार्षतॊ बाणैर नाराचैश चाभ्यवीवृषत
6 एकैकं दशभिः षड्भिर अष्टाभिर अपि भारत
दविरदान अभिविव्याध कषिप्तैर गिरिनिभाञ शरैः
परच्छाद्यमानॊ दविरदैर मेघैर इव दिवाकरः
7 पर्यासुः पाण्डुपाञ्चाला नदन्तॊ निशितायुधाः
तान नागान अभिवर्षन्तॊ जयातन्त्री शरनादितैः
8 नकुलः सहदेवश च दरौपदेयाः परभद्रकाः
सात्यकिश च शिखण्डी च चेकितानश च वीर्यवान
9 ते मलेच्छैः परेषिता नागा नरान अश्वान रथान अपि
हस्तैर आक्षिप्य ममृदुः पद्भिश चाप्य अतिमन्यवः
10 बिभिदुश च विषाणाग्रैः समाक्षिप्य च विक्षिपुः
विषाण लग्नैश चाप्य अन्ये परिपेतुर विभीषणाः
11 परमुखे वर्तमानं तु दविपं वङ्गस्य सात्यकिः
नाराचेनॊग्र वेगेन भित्त्वा मर्मण्य अपातयत
12 तस्यावर्जितनागस्य दविरदाद उत्पतिष्यतः
नाराचेनाभिनद वक्षः सॊ ऽपतद भुवि सात्यकेः
13 पुण्ड्रस्यापततॊ नागं चलन्तम इव पर्वतम
सहदेवः परयत्नात तैर नाराचैर वयहनत तरिभिः
14 विपताकं वियन्तारं विवर्म धवजजीवितम
तं कृत्वा दविरदं भूयः सहदेवॊ ऽङगम अभ्यगात
15 सहदेवं तु नकुलॊ वारयित्वाङ्गम आर्दयत
नाराचैर यमदण्डाभैस तरिभिर नागं शतेन च
16 दिवाकरकरप्रख्यान अङ्गश चिक्षेप तॊमरान
नकुलाय शतान्य अष्टौ तरिधैकैकं तु सॊ ऽचछिनत
17 तथार्ध चन्द्रेण शिरस तस्य चिच्छेद पाण्डवः
स पपात हतॊ मलेच्छस तेनैव सह दन्तिना
18 आचार्य पुत्रे निहते हस्तिशिक्षा विशारदे
अङ्गाः करुद्धा महामात्रा नागैर नकुलम अभ्ययुः
19 चलत पताकैः परमुखैर हेमकक्ष्या तनुच छदैः
मिमर्दिशन्तस तवरिताः परदीप्तैर इव पर्वतैः
20 मेकलॊत्कल कालिङ्गा निषादास ताम्रलिप्तकाः
शरतॊमर वर्षाणि विमुञ्चन्तॊ जिघांसवः
21 तैश छाद्यमानं नकुलं दिवाकरम इवाम्बुदैः
परि पेतुः सुसंरब्धाः पाण्डुपाञ्चाल सॊमकाः
22 ततस तद अभवद युद्धं रथिनां हस्तिभिः सह
सृजतां शरवर्षाणि तॊमरांश च सहस्रशः
23 नागानां परस्फुटुः कुम्भा मर्माणि विविधानि च
दन्ताश चैवातिविद्धानां नाराचैर भूषणानि च
24 तेषाम अष्टौ महानागांश चतुःषष्ट्या सुतेजनैः
सहदेवॊ जघानाशु ते पेतुः सह सादिभिः
25 अञ्जॊ गतिभिर आयम्य परयत्नाद धनुर उत्तमम
नाराचैर अहनन नागान नकुलः कुरनन्दन
26 ततः शैनेय पाञ्चाल्यौ दरौपदेयाः परभद्रकाः
शिखण्डी च महानागान सिषिचुः शरवृष्टिभिः
27 ते पाण्डुयॊधाम्बुधरैः शत्रुद्विरदपर्वताः
बाणवर्षैर हताः पेतुर वज्रवर्षैर इवाचलाः
28 एवं हत्वा तव गजांस ते पाण्डुनरकुञ्जराः
दरुतं सेनाम अवैक्षन्त भिन्नकूलाम इवापगाम
29 ते तां सेनाम अवालॊक्य पाण्डुपुत्रस्य सैनिकाः
विक्षॊभयित्वा च पुनः कर्णम एवाभिदुद्रुवुः
30 सहदेवं ततः करुद्धं दहन्तं तव वाहिनीम
दुःशासनॊ महाराज भराता भरातरम अभ्ययात
31 तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः
सिंहनाद रवांश चक्रुर वासांस्य आदुधुवुश च ह
32 ततॊ भारत करुद्धेन तव पुत्रेण धन्विना
पाण्डुपुत्रस तरिभिर बाणैर वक्षस्य अभिहतॊ बली
33 सहदेवस ततॊ राजन नाराचेन तवात्मजम
विद्ध्वा विव्याध सप्तत्या सारथिं च तरिभिस तरिभिः
34 दुःशासनस तदा राजंश छित्त्वा चापं महाहवे
सहदेवं तरिसप्तत्या बाह्वॊर उरसि चार्दयत
35 सहदेवस ततः करुद्धः खड्गं गृह्य महाहवे
वयाविध्यत युधां शरेष्ठः शरीमांस तव सुतं परति
36 स मार्गणगणं चापं छित्त्वा तस्य महान असिः
निपपात ततॊ भूमौ चयुतः सर्प इवाम्बरात
37 अथान्यद धनुर आदाय सहदेवः परतापवान
दुःशासनाय चिक्षेप बाणम अन्तकरं ततः
38 तम आपतन्तं विशिखं यमदण्डॊपमत्विषम
खड्गेन शितधारेण दविधा चिच्छेद कौरवः
39 तम आपतन्तं सहसा निस्त्रिंशं निशितैः शरैः
पातयाम आस समरे सहदेवॊ हसन्न इव
40 ततॊ बाणांश चतुःषष्टिं तव पुत्रॊ महारणे
सहदेव रथे तूर्णं पातयाम आस भारत
41 ताञ शरान समरे राजन वेगेनापततॊ बहून
एकैकं पञ्चभिर बाणैः सहदेवॊ नयकृन्तत
42 स निवार्य महाबाणांस तव पुत्रेण परेषितान
अथास्मै सुबहून बबाणांर माद्रीपुत्रः समाचिनॊत
43 ततः करुद्धॊ महाराज सहदेवः परतावना
समाधत्त शरं घॊरं मृत्युकालान्तकॊपमम
विकृष्य बलवच चापं तव पुत्राय सॊ ऽसृजत
44 स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत
पराविशद धरणीं राजन वल्मीकम इव पन्नगः
ततः स मुमुहे राजंस तव पुत्रॊ महारथः
45 मूढं चैनं समालक्ष्य सारथिस तवरितॊ रथम
अपॊवाह भृशं तरस्तॊ वध्यमानं शितैः शरैः
46 पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज
दुर्यॊधन बलं हृष्टः परामथद वै समन्ततः
47 पिपीलिका पुटं राजन यथामृद्नान नरॊ रुषा
तथा सा कौरवी सेना मृदिता तेन भारत
48 नकुलं रभसं युद्धे दारयन्तं वरूथिनीम
कर्णॊ वैकर्तनॊ राजन वारयाम आस वै तदा
49 नकुलश च तदा कर्णं परहसन्न इदम अब्रवीत
चिरस्य बत दृष्टॊ ऽहं दैवतैः सौम्य चक्षुषा
50 यस्य मे तवं रणे पापचक्षुर विषयम आगतः
तवं हि मूलम अनर्थानां वैरस्य कलहस्य च
51 तवद दॊषात कुरवः कषीणाः समासाद्य परस्परम
तवाम अद्य समरे हत्वा कृतकृत्यॊ ऽसमि विज्वरः
52 एवम उक्तः परत्युवाच नकुलं सूतनन्दनः
सदृशं राजपुत्रस्य धन्विनश च विशेषतः
53 परहरस्व रणे बाल पश्यामस तव पौरुषम
कर्मकृत्वा रणे शूर ततः कत्थितुम अर्हसि
54 अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः
स युध्यस्व मया शक्त्या विनेष्ये दर्पम अद्य ते
55 इत्य उक्त्वा पराहरत तूर्णं पाण्डुपुत्राय सूतजः
विव्याध चैनं समरे तरिसप्तत्या शिलीमुखैः
56 नकुलस तु ततॊ विद्धः सूतपुत्रेण भारत
अशीत्य आशीविषप्रख्यैः सूतपुत्रम अविध्यत
57 तस्य कर्णॊ धनुश छित्त्वा सवर्णपुङ्खैः शिलाशितैः
तरिंशता परमेष्वासः शरैः पाण्डवम आर्दयत
58 ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे
आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः
59 अथान्यद धनुर आदाय हेमपृष्ठं दुरासदम
कर्णं विव्याध विंशत्या सारथिं च तरिभिः शरैः
60 ततः करुद्धॊ महाराज नकुलः परवीरहा
कषुरप्रेण सुतीक्ष्णेन कर्णस्य धनुर अच्छिनत
61 अथैनं छिन्नधन्वानं सायकानां शतैस तरिभिः
आजघ्ने परहसन वीरः सर्वलॊकमहारथम
62 कर्णम अभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष
विस्मयं परमं जग्मू रथिनः सह दैवतैः
63 अथान्यद धनुर आदाय कर्णॊ वैकर्तनस तदा
नकुलं पञ्चभिर बाणैर जत्रु देशे समार्दयत
64 उरःस्थैर अथ तैर बाणैर माद्रीपुत्रॊ वयरॊचत
सवरश्मिभिर इवादित्यॊ भुवने विसृजन परभाम
65 नकुकस तु ततः कर्णं विद्ध्वा सप्तभिर आयसैः
अथास्य धनुषः कॊटिं पुनश चिच्छेद मारिष
66 सॊ ऽनयत कार्मुकम आदाय समरे वेगवत्तरम
नकुलस्य ततॊ बाणैः सर्वतॊ ऽवारयद दिशः
67 संछाद्यमानः सहसा कर्ण चापच्युतैः शरैः
चिच्छेद स शरांस तूर्णं शरैर एव महारथः
68 ततॊ बाणमयं जालं विततं वयॊम्न्य अदृश्यत
खद्यॊतानां गणैर एवं संपतद्भिर यथा नभः
69 तैर विमुक्तैः शरशतैश छादितं गगनं तदा
शलभानां यथा वरातैस तद्वद आसीत समाकुलम
70 ते शरा हेमविकृताः संपतन्तॊ मुहुर मुहुः
शरेणी कृता अभासन्त हंसाः शरेणी गता इव
71 बाणजालावृते वयॊम्नि छादिते च दिवाकरे
समसर्पत ततॊ भूतं किं चिद एव विशां पते
72 निरुद्धे तत्र मार्गे तु शरसंघैः समन्ततः
वयरॊचतां महाभागौ बालसूर्याव इवॊदितौ
73 कर्ण चापच्युतैर बाणैर वध्यमानास तु सॊमकाः
अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः
74 नकुलस्य तथा बाणैर वध्यमाना चमूस तव
वयशीर्यत दिशॊ राजन वातनुन्ना इवाम्बुदाः
75 ते सेने वध्यमाने तु ताभ्यां दिव्यैर महाशरैः
शरपातम अपक्रम्य ततः परेक्षकवत सथिते
76 परॊत्सारिते जने तस्मिन कर्ण पाण्डवयॊः शरैः
विव्याधाते महात्मानाव अन्यॊन्यं शरवृष्टिभिः
77 निदर्शयन्तौ तव अस्त्राणि दिव्यानि रणमूर्धनि
छादयन्तौ च सहसा परस्परवधैषिणौ
78 नकुलेन शरा मुक्ताः कङ्कबर्णिण वाससः
ते तु कर्णम अवच्छाद्य वयतिष्ठन्त यथा पुरे
79 शरवेश्म परविष्टौ तौ ददृशाते न कैश चन
चन्द्रसूर्यौ यथा राजंश छाद्यमानौ जलागमे
80 ततः करुद्धॊ रणे कर्णः कृत्वा घॊरतरं वपुः
पाण्डवं छाद्दयाम आस समन्ताच छरवृष्टिभिः
81 सच्छाद्यमानः समरे सूतपुत्रेण पाण्डवः
न चकार वयथां राजन भास्करॊ जलदैर यथा
82 ततः परहस्याधिरथिः शरजालानि मारिष
परेषयाम आस समरे शतशॊ ऽथ सहस्रशः
83 एकच छायम अभूत सर्वं तस्य बाणैर महात्मनः
अभ्रच छायेव संजज्ञे संपतद्भिः शरॊत्तमैः
84 ततः कर्णॊ महाराज धनुश छित्त्वा महात्मनः
सारथिं पातयाम आस रथनीडाद धसन्न इव
85 तथाश्वांश चतुरश चास्य चतुर्भिर निशितैः शरैः
यमस्य सदनं तूर्णं परेषयाम आस भारत
86 अथास्य तं रथं तूर्णं तिलशॊ वयधमच छरैः
पताकां चक्ररक्षौ च धवजं खड्गं च मारिष
शतचन्द्रं ततश चर्म सर्वॊपकरणानि च
87 हताश्वॊ विरथश चैव विवर्मा च विशां पते
अवतीर्य रथात तूर्णं परिघं गृह्य विष्ठितः
88 तम उद्यतं महाघॊरं परिघं तस्य सूतजः
वयहनत सायकै राजञ शतशॊ ऽथ सहस्रशः
89 वयायुधं चैनम आलक्ष्य शरैः संनतपर्वभिः
आर्दयद बहुशः कर्णॊ न चैनं समपीडयत
90 स वध्यमानः समरे कृतास्त्रेण बलीयसा
पराद्रवत सहसा राजन नकुलॊ वयाकुलेन्द्रियः
91 तम अभिद्रुत्य राधेयः परहसन वै पुनः पुनः
स जयम अस्य धनुः कण्ठे सॊ ऽवासृजत भारत
92 ततः स शुशुभे राजन कण्ठासक्तमहाधनुः
परिवेषम अनुप्राप्तॊ यथा सयाद वयॊम्नि चन्द्रमाः
यथैव च सितॊ मेघः शक्रचापेन शॊभितः
93 तम अब्रवीत तदा कर्णॊ वयर्थं वयाहृतवान असि
वदेदानीं पुनर हृष्टॊ वध्यं मां तवं पुनः पुनः
94 मा यॊत्सीर गुरुभिः सार्धं बलवद्भिश च पाण्डव
सदृशैस तात युध्यस्व वरीडां मा कुरु पाण्डव
गृहं वा गच्छ माद्रेय यत्र वा कृष्ण फल्गुनौ
95 एवम उक्त्वा महाराज वयसर्जयत तं ततः
वधप्राप्तं तु तं राजन नावधीत सूतनन्दनः
समृत्वा कुन्त्या वचॊ राजंस तत एनं वयसर्जयत
96 विसृष्टः पाण्डवॊ राजन सूतपुत्रेण धन्विना
वरीडन्न इव जगामाथ युधिष्ठिर रथं परति
97 आरुरॊह रथं चापि सूतपुत्र परतापिनः
निःश्वसन दुःखसंतप्तः कुम्भे कषिप्त इवॊरगः
98 तं विसृज्य रणे कर्णः पाञ्चालांस तवरितॊ ययौ
रथेनातिपताकेन चन्द्र वर्णहयेन च
99 तत्राक्रन्दॊ महान आसीत पाण्डवानां विशां पते
दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान
100 तत्राकरॊन महाराज कदनं सूतनन्दनः
मध्यं गते दिनकरे चक्रवत परचरन परभुः
101 भग्नचक्रै रथैः केच चिच छन्नध्वजपताकिभिः
ससूतैर हतसूतैश च भग्नाक्षैश चैव मारिष
हरियमाणान अपश्याम पाञ्चालानां रथव्रजान
102 तत्र तत्र च संभ्रान्ता विच्चेरुर मत्तकुञ्जराः
दवाग्निना परीताङ्गा यथैव सयुर महावने
103 भिन्नकुम्भा विरुधिराश छिन्नहस्ताश च वारणाः
भिन्नगात्रवराश चैव छिन्नवालाश च मारिष
छिन्नाब्भ्राणीव संपेतुर वध्यमाना महात्मना
104 अपरे तरासिता नागा नाराचशततॊमरैः
तम एवाभिमुखा यान्ति शलभा इव पावकम
105 अपरे निष्टनन्तः सम वयदृश्यन्त महाद्विपाः
कषरन्तः शॊणितं गात्रैर नगा इव जलप्लवम
106 उरश छदैर विमुक्ताश च वालबन्धैश च वाजिनः
राजतैश च तथा कांस्यैः सौवर्णैश चैव भूषणैः
107 हीना आस्तरणैश चैव खलीनैश च विवर्जिताः
चामरैश च कुथाभिश च तूणीरैः पतितैर अपि
108 निहतैः सादिभिश चैव शूरैर आहवशॊभिभिः
अपश्याम रणे तत्र भराम्यमाणान हयॊत्तमान
109 परासैः खड्गैश च संस्यूतान ऋष्टिब्भिश च नराधिप
हययॊधान अपश्याम कञ्चुकॊष्णीष धारिणः
110 रथान हेमपरिष्कारान सुयुक्ताञ जवनैर हयैः
भरममाणान अपश्याम हतेषु रथिषु दरुतम
111 भग्नाक्षकूबरान कांश चिच छिन्नचक्रांश च मारिष
विपताकाध्वजांश चान्याञ छिन्नेषायुग बन्धुरान
112 विहीनान रथिनस तत्र धावमानान समन्ततः
सूर्यपुत्र शरैस तरस्तान अपश्याम विशां पते
113 विशस्त्रांश च तथैवान्यान सशस्त्रांश च बहून हतान
तावकाञ जालसंछन्नान उरॊ घण्टा विभूषितान
114 नानावर्णविचित्राभिः पताकाभिर अलंकृतान
पदातीन अन्वपश्याम धावमानान समन्ततः
115 शिरांसि बाहून ऊरूंश च छिन्नान अन्यांस तथा युधि
कर्ण चाप चयुतैर बाणैर अपश्याम विनाकृतान
116 महान वयतिकरॊ रौद्रॊ यॊधानाम अन्वदृश्यत
कर्ण सायकनुन्नानां हतानां निशितैः शरैः
117 ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः
तम एवाभिमुखा यान्ति पतंगा इव पावकम
118 तं दहन्तम अनीकानि तत्र तत्र महारथम
कषत्रिया वर्जयाम आसुर युगान्ताग्निम इवॊल्बणम
119 हतशेषास तु ये वीराः पाञ्चालानां महारथाः
तान परभग्नान दरुतान कर्णः पृष्ठतॊ विकिरञ शरैः
अभ्यधावत तेजस्वी विशीर्णकवचध्वजान
120 तापयाम आस तान बाणैः सूतपुत्रॊ महारथः
मध्यंदिनम अनुप्राप्तॊ भूतानीव तमॊनुदः
1 [s]
hastibhis tu mahāmātrās tava putreṇa coditāḥ
dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ
2 prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ
aṅgā vaṅgāś ca puṇḍrāś ca māgadhās tāmraliptakāḥ
3 mekalāḥ kośalā madrā daśārṇā niṣadhās tathā
gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata
4 śaratomara nārācair vṛṣṭimanta ivāmbudāḥ
siṣicus te tataḥ sarve pāñcālācalam āhave
5 tān saṃmimardiṣur nāgān pārṣṇyaṅguṣṭhāṅkuśair bhṛśam
pothitān pārṣato bāṇair nārācaiś cābhyavīvṛṣat
6 ekaikaṃ daśabhiḥ ṣaḍbhir aṣṭābhir api bhārata
dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ
pracchādyamāno dviradair meghair iva divākaraḥ
7 paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ
tān nāgān abhivarṣanto jyātantrī śaranāditaiḥ
8 nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ
sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān
9 te mlecchaiḥ preṣitā nāgā narān aśvān rathān api
hastair ākṣipya mamṛduḥ padbhiś cāpy atimanyavaḥ
10 bibhiduś ca viṣāṇāgraiḥ samākṣipya ca vikṣipuḥ
viṣāṇa lagnaiś cāpy anye paripetur vibhīṣaṇāḥ
11 pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ
nārācenogra vegena bhittvā marmaṇy apātayat
12 tasyāvarjitanāgasya dviradād utpatiṣyataḥ
nārācenābhinad vakṣaḥ so 'patad bhuvi sātyakeḥ
13 puṇḍrasyāpatato nāgaṃ calantam iva parvatam
sahadevaḥ prayatnāt tair nārācair vyahanat tribhiḥ
14 vipatākaṃ viyantāraṃ vivarma dhvajajīvitam
taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt
15 sahadevaṃ tu nakulo vārayitvāṅgam ārdayat
nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca
16 divākarakaraprakhyān aṅgaś cikṣepa tomarān
nakulāya śatāny aṣṭau tridhaikaikaṃ tu so 'cchinat
17 tathārdha candreṇa śiras tasya ciccheda pāṇḍavaḥ
sa papāta hato mlecchas tenaiva saha dantinā
18 ācārya putre nihate hastiśikṣā viśārade
aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ
19 calat patākaiḥ pramukhair hemakakṣyā tanuc chadaiḥ
mimardiśantas tvaritāḥ pradīptair iva parvataiḥ
20 mekalotkala kāliṅgā niṣādās tāmraliptakāḥ
śaratomara varṣāṇi vimuñcanto jighāṃsavaḥ
21 taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ
pari petuḥ susaṃrabdhāḥ pāṇḍupāñcāla somakāḥ
22 tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha
sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ
23 nāgānāṃ prasphuṭuḥ kumbhā marmāṇi vividhāni ca
dantāś caivātividdhānāṃ nārācair bhūṣaṇāni ca
24 teṣām aṣṭau mahānāgāṃś catuḥṣaṣṭyā sutejanaiḥ
sahadevo jaghānāśu te petuḥ saha sādibhiḥ
25 añjo gatibhir āyamya prayatnād dhanur uttamam
nārācair ahanan nāgān nakulaḥ kuranandana
26 tataḥ śaineya pāñcālyau draupadeyāḥ prabhadrakāḥ
śikhaṇḍī ca mahānāgān siṣicuḥ śaravṛṣṭibhiḥ
27 te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ
bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ
28 evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ
drutaṃ senām avaikṣanta bhinnakūlām ivāpagām
29 te tāṃ senām avālokya pāṇḍuputrasya sainikāḥ
vikṣobhayitvā ca punaḥ karṇam evābhidudruvuḥ
30 sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm
duḥśāsano mahārāja bhrātā bhrātaram abhyayāt
31 tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ
siṃhanāda ravāṃś cakrur vāsāṃsy ādudhuvuś ca ha
32 tato bhārata kruddhena tava putreṇa dhanvinā
pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī
33 sahadevas tato rājan nārācena tavātmajam
viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ
34 duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave
sahadevaṃ trisaptatyā bāhvor urasi cārdayat
35 sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave
vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃs tava sutaṃ prati
36 sa mārgaṇagaṇaṃ cāpaṃ chittvā tasya mahān asiḥ
nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt
37 athānyad dhanur ādāya sahadevaḥ pratāpavān
duḥśāsanāya cikṣepa bāṇam antakaraṃ tataḥ
38 tam āpatantaṃ viśikhaṃ yamadaṇḍopamatviṣam
khaḍgena śitadhāreṇa dvidhā ciccheda kauravaḥ
39 tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ
pātayām āsa samare sahadevo hasann iva
40 tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe
sahadeva rathe tūrṇaṃ pātayām āsa bhārata
41 tāñ śarān samare rājan vegenāpatato bahūn
ekaikaṃ pañcabhir bāṇaiḥ sahadevo nyakṛntata
42 sa nivārya mahābāṇāṃs tava putreṇa preṣitān
athāsmai subahūn bbāṇāṃr mādrīputraḥ samācinot
43 tataḥ kruddho mahārāja sahadevaḥ pratāvanā
samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam
vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat
44 sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat
prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ
tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ
45 mūḍhaṃ cainaṃ samālakṣya sārathis tvarito ratham
apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śaraiḥ
46 parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja
duryodhana balaṃ hṛṣṭaḥ prāmathad vai samantataḥ
47 pipīlikā puṭaṃ rājan yathāmṛdnān naro ruṣā
tathā sā kauravī senā mṛditā tena bhārata
48 nakulaṃ rabhasaṃ yuddhe dārayantaṃ varūthinīm
karṇo vaikartano rājan vārayām āsa vai tadā
49 nakulaś ca tadā karṇaṃ prahasann idam abravīt
cirasya bata dṛṣṭo 'haṃ daivataiḥ saumya cakṣuṣā
50 yasya me tvaṃ raṇe pāpacakṣur viṣayam āgataḥ
tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca
51 tvad doṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam
tvām adya samare hatvā kṛtakṛtyo 'smi vijvaraḥ
52 evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ
sadṛśaṃ rājaputrasya dhanvinaś ca viśeṣataḥ
53 praharasva raṇe bāla paśyāmas tava pauruṣam
karmakṛtvā raṇe śūra tataḥ katthitum arhasi
54 anuktvā samare tāta śūrā yudhyanti śaktitaḥ
sa yudhyasva mayā śaktyā vineṣye darpam adya te
55 ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ
vivyādha cainaṃ samare trisaptatyā śilīmukhaiḥ
56 nakulas tu tato viddhaḥ sūtaputreṇa bhārata
aśīty āśīviṣaprakhyaiḥ sūtaputram avidhyata
57 tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ
triṃśatā parameṣvāsaḥ śaraiḥ pāṇḍavam ārdayat
58 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ
59 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam
karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śaraiḥ
60 tataḥ kruddho mahārāja nakulaḥ paravīrahā
kṣurapreṇa sutīkṣṇena karṇasya dhanur acchinat
61 athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ
ājaghne prahasan vīraḥ sarvalokamahāratham
62 karṇam abhyarditaṃ dṛṣṭvā pāṇḍuputreṇa māriṣa
vismayaṃ paramaṃ jagmū rathinaḥ saha daivataiḥ
63 athānyad dhanur ādāya karṇo vaikartanas tadā
nakulaṃ pañcabhir bāṇair jatru deśe samārdayat
64 uraḥsthair atha tair bāṇair mādrīputro vyarocata
svaraśmibhir ivādityo bhuvane visṛjan prabhām
65 nakukas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ
athāsya dhanuṣaḥ koṭiṃ punaś ciccheda māriṣa
66 so 'nyat kārmukam ādāya samare vegavattaram
nakulasya tato bāṇaiḥ sarvato 'vārayad diśaḥ
67 saṃchādyamānaḥ sahasā karṇa cāpacyutaiḥ śaraiḥ
ciccheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ
68 tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata
khadyotānāṃ gaṇair evaṃ saṃpatadbhir yathā nabhaḥ
69 tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā
śalabhānāṃ yathā vrātais tadvad āsīt samākulam
70 te śarā hemavikṛtāḥ saṃpatanto muhur muhuḥ
śreṇī kṛtā abhāsanta haṃsāḥ śreṇī gatā iva
71 bāṇajālāvṛte vyomni chādite ca divākare
samasarpat tato bhūtaṃ kiṃ cid eva viśāṃ pate
72 niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ
vyarocatāṃ mahābhāgau bālasūryāv ivoditau
73 karṇa cāpacyutair bāṇair vadhyamānās tu somakāḥ
avālīyanta rājendra vedanārtāḥ śarārditāḥ
74 nakulasya tathā bāṇair vadhyamānā camūs tava
vyaśīryata diśo rājan vātanunnā ivāmbudāḥ
75 te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ
śarapātam apakramya tataḥ prekṣakavat sthite
76 protsārite jane tasmin karṇa pāṇḍavayoḥ śaraiḥ
vivyādhāte mahātmānāv anyonyaṃ śaravṛṣṭibhiḥ
77 nidarśayantau tv astrāṇi divyāni raṇamūrdhani
chādayantau ca sahasā parasparavadhaiṣiṇau
78 nakulena śarā muktāḥ kaṅkabarṇiṇa vāsasaḥ
te tu karṇam avacchādya vyatiṣṭhanta yathā pure
79 śaraveśma praviṣṭau tau dadṛśāte na kaiś cana
candrasūryau yathā rājaṃś chādyamānau jalāgame
80 tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ
pāṇḍavaṃ chāddayām āsa samantāc charavṛṣṭibhiḥ
81 sacchādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ
na cakāra vyathāṃ rājan bhāskaro jaladair yathā
82 tataḥ prahasyādhirathiḥ śarajālāni māriṣa
preṣayām āsa samare śataśo 'tha sahasraśaḥ
83 ekac chāyam abhūt sarvaṃ tasya bāṇair mahātmanaḥ
abhrac chāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ
84 tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ
sārathiṃ pātayām āsa rathanīḍād dhasann iva
85 tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ
yamasya sadanaṃ tūrṇaṃ preṣayām āsa bhārata
86 athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamac charaiḥ
patākāṃ cakrarakṣau ca dhvajaṃ khaḍgaṃ ca māriṣa
śatacandraṃ tataś carma sarvopakaraṇāni ca
87 hatāśvo virathaś caiva vivarmā ca viśāṃ pate
avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ
88 tam udyataṃ mahāghoraṃ parighaṃ tasya sūtajaḥ
vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ
89 vyāyudhaṃ cainam ālakṣya śaraiḥ saṃnataparvabhiḥ
ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat
90 sa vadhyamānaḥ samare kṛtāstreṇa balīyasā
prādravat sahasā rājan nakulo vyākulendriyaḥ
91 tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ
sa jyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata
92 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ
pariveṣam anuprāpto yathā syād vyomni candramāḥ
yathaiva ca sito meghaḥ śakracāpena śobhitaḥ
93 tam abravīt tadā karṇo vyarthaṃ vyāhṛtavān asi
vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ
94 mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava
sadṛśais tāta yudhyasva vrīḍāṃ mā kuru pāṇḍava
gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇa phalgunau
95 evam uktvā mahārāja vyasarjayata taṃ tataḥ
vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ
smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat
96 visṛṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā
vrīḍann iva jagāmātha yudhiṣṭhira rathaṃ prati
97 āruroha rathaṃ cāpi sūtaputra pratāpinaḥ
niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ
98 taṃ visṛjya raṇe karṇaḥ pāñcālāṃs tvarito yayau
rathenātipatākena candra varṇahayena ca
99 tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate
dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān
100 tatrākaron mahārāja kadanaṃ sūtanandanaḥ
madhyaṃ gate dinakare cakravat pracaran prabhuḥ
101 bhagnacakrai rathaiḥ kec cic channadhvajapatākibhiḥ
sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa
hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān
102 tatra tatra ca saṃbhrāntā viccerur mattakuñjarāḥ
davāgninā parītāṅgā yathaiva syur mahāvane
103 bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ
bhinnagātravarāś caiva chinnavālāś ca māriṣa
chinnābbhrāṇīva saṃpetur vadhyamānā mahātmanā
104 apare trāsitā nāgā nārācaśatatomaraiḥ
tam evābhimukhā yānti śalabhā iva pāvakam
105 apare niṣṭanantaḥ sma vyadṛśyanta mahādvipāḥ
kṣarantaḥ śoṇitaṃ gātrair nagā iva jalaplavam
106 uraś chadair vimuktāś ca vālabandhaiś ca vājinaḥ
rājataiś ca tathā kāṃsyaiḥ sauvarṇaiś caiva bhūṣaṇaiḥ
107 hīnā āstaraṇaiś caiva khalīnaiś ca vivarjitāḥ
cāmaraiś ca kuthābhiś ca tūṇīraiḥ patitair api
108 nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ
apaśyāma raṇe tatra bhrāmyamāṇān hayottamān
109 prāsaiḥ khaḍgaiś ca saṃsyūtān ṛṣṭibbhiś ca narādhipa
hayayodhān apaśyāma kañcukoṣṇīṣa dhāriṇaḥ
110 rathān hemapariṣkārān suyuktāñ javanair hayaiḥ
bhramamāṇān apaśyāma hateṣu rathiṣu drutam
111 bhagnākṣakūbarān kāṃś cic chinnacakrāṃś ca māriṣa
vipatākādhvajāṃś cānyāñ chinneṣāyuga bandhurān
112 vihīnān rathinas tatra dhāvamānān samantataḥ
sūryaputra śarais trastān apaśyāma viśāṃ pate
113 viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān
tāvakāñ jālasaṃchannān uro ghaṇṭā vibhūṣitān
114 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān
padātīn anvapaśyāma dhāvamānān samantataḥ
115 śirāṃsi bāhūn ūrūṃś ca chinnān anyāṃs tathā yudhi
karṇa cāpa cyutair bāṇair apaśyāma vinākṛtān
116 mahān vyatikaro raudro yodhānām anvadṛśyata
karṇa sāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ
117 te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ
tam evābhimukhā yānti pataṃgā iva pāvakam
118 taṃ dahantam anīkāni tatra tatra mahāratham
kṣatriyā varjayām āsur yugāntāgnim ivolbaṇam
119 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ
tān prabhagnān drutān karṇaḥ pṛṣṭhato vikirañ śaraiḥ
abhyadhāvata tejasvī viśīrṇakavacadhvajān
120 tāpayām āsa tān bāṇaiḥ sūtaputro mahārathaḥ
madhyaṃdinam anuprāpto bhūtānīva tamonudaḥ

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1175 of 2013 Book 58% ~13 min left