Book 7: Chapter 85
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required.
Get the drive $127.00

Book 7: Chapter 85

The Mahabharata in Sanskrit

Book 7
Chapter 85

1 [धृ]
भारद्वाजं कथें युद्धे युयुधानॊ ऽभयवारयत
संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे
2 [स]
शृणु राजन महाप्राज्ञ संग्रामं लॊमहर्षणम
दरॊणस्य पाण्डवैः सार्धं युयुधान पुरॊगमैः
3 वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष
अभ्यद्रवत सवयं दरॊणः सात्यकिं सत्यविक्रमम
4 तम आपतन्तं सहसा भारद्वाजं महारथम
सात्यकिः पञ्चविंशत्या कषुद्रकाणां समार्पयत
5 दरॊणॊ ऽपि युधि विक्रान्तॊ युयुधानं समाहितः
अविध्यत पञ्चभिस तूर्णंहेम पुङ्खैः शिलाशितैः
6 ते वर्म भित्त्वा सुदृढं दविषत पिशित भॊजनाः
अभ्यगुर धरणीं राजञ शवसन्त इव पन्नगाः
7 दीर्घबाहुर अभिक्रुद्धस तॊत्त्रार्दित इव दविपः
दरॊणं पञ्चाशताविध्यन नाराचैर अग्निसंनिभैः
8 भारद्वाजॊ रणे विद्धॊ युयुधानेन स तवरम
सात्यकिं बहुभिर बाणैर यतमानम अविध्यत
9 ततः करुद्धॊ महेष्वासॊ भूय एव महाबलः
सात्वतं पीडयाम आस शतेन नतपर्वणा
10 स वध्यमानः समरे भारद्वाजेन सात्यकिः
नाभ्यपद्यत कर्तव्यं किं चिद एव विशां पते
11 विषण्णवदनश चापि युयुधानॊ ऽभवन नृप
भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ शरान
12 तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश च विशां पते
परहृष्टमनसॊ भूत्वा सिंहवद वयनदन मुहुः
13 तं शरुत्वा निनदं घॊरं पीड्यमानं च माधवम
युधिष्टिरॊ ऽबरवीद राजन सर्वसैन्यानि भारत
14 एष वृष्णिवरॊ वीरः सात्यकिः सत्यकर्मकृत
गरस्यते युधि वीरेण भानुमान इव राहुणा
अभिद्रवत गच्छध्वं सात्यकिर यत्र युध्यते
15 धृष्टद्युम्नं च पाञ्चाल्यम इदम आह जनाधिप
अभिद्रव दरुतं दरॊणं किं नु तिष्ठसि पार्षत
न पश्यसि भयं घॊरं दरॊणान नः समुपस्थितम
16 असौ दरॊणॊ महेष्वासॊ युयुधानेन संयुगे
करीडते सूत्रबद्धेन पक्षिणा बालकॊ यथा
17 तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः
तवयैव सहिता यत्ता युयुधान रथं परति
18 पृष्ठतॊ ऽनुगमिष्यामि तवाम अहं सह सैनिकः
सात्यकिं मॊक्षयस्वाद्य यम दंष्ट्रान्तरं गतम
19 एवम उक्त्वा ततॊ राजा सर्वसैन्येन पाण्डवः
अभ्यद्रवद रणे दरॊणं युयुधानस्य कारणात
20 तत्रारावॊ महान आसीद दरॊणम एकं युयुत्सताम
पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः
21 ते समेत्य नरव्याघ्रा भारद्वाजं महारथम
अभ्यवर्षञ शरैस तीक्ष्णैः कङ्कबर्हिण वाजितः
22 समयन्न एव तु तान वीरान दरॊणः परत्यग्रहीत सवयम
अतिथीन आगतान यद्वत सलिलेनासनेन च
23 तर्पितास ते शरैस तस्य भारद्वाजस्य धन्विनः
आतिथेय गृहं पराप्य नृपते ऽतिथयॊ यथा
24 भारद्वाजं च ते सर्वे न शेकुः परतिवीक्षितुम
मध्यं दिनम अनुप्राप्तं सहस्रांशुम इव परभॊ
25 तांस तु सर्वान महेष्वासान दरॊणः शस्त्रभृतां वरः
अतापयच छरव्रातैर गभस्तिभिर इवांशुमान
26 वध्यमाना रणे राजन पाण्डवाः सृञ्जयास तथा
तरातारं नाध्यगच्छन्त पङ्कमग्ना इव दविपाः
27 दरॊणस्य च वयदृश्यन्त विसर्पन्तॊ महाशराः
घभस्तय इवार्कस्य परतपन्तः समन्ततः
28 तस्मिन दरॊणेन निहताः पाञ्चालाः पञ्चविंशतिः
महारथसमाख्याता धृष्टद्युम्नस्य संमताः
29 पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च
दरॊणं सम ददृशुः शूरं विनिघ्नन्तं वरान वरान
30 केकयानां शतं हत्वा विद्राव्य च समन्ततः
दरॊणस तस्थौ महाराज वयादितास्य इवान्तकः
31 पाञ्चालान सृञ्जयान मत्स्यान केकयान पाण्डवान अपि
दरॊणॊ ऽजयन महाबाहुः शतशॊ ऽथ सहस्रशः
32 तेषां समभवच छब्दॊ वध्यतां दरॊण सायकैः
वनौकसाम इवारण्ये दह्यतां धूमकेतुना
33 तत्र देवाः स गन्धर्वाः पितरश चाब्रुवन नृप
एते दरवन्ति पाञ्चालाः पाण्डवाश च स सैनिकाः
34 तं तथा समरे दरॊणं निघ्नन्तं सॊमकान रणे
न चाप्य अभिययुः के चिद अपरे नैव विव्यधुः
35 वर्तमाने तथा रौद्रे तस्मिन वीरवरक्षये
अशृणॊत सहसा पार्थः पाञ्चजन्यस्य निस्वनम
36 पूरितॊ वासुदेवेन शङ्खराट सवनते भृशम
युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु
नदत्सु धार्तराष्ट्रेषु विजयस्य रथं परति
37 गाण्डीवस्य च निर्घॊषे विप्रनष्टे समन्ततः
कश्मलाभिहतॊ राजा चिन्तयाम आस पाण्डवः
38 न नूनं सवस्ति पार्थस्य यथा नदति शङ्खराट
कौरवाश च यथा हृष्टा विनदन्ति मुहुर मुहुः
39 एवं संचिन्तयित्वा तु वयाकुलेनान्तर आत्मना
अजातशत्रुः कौन्तेयः सात्वतं परत्यभाषत
40 बाष्पगद्गदया वाचा मुह्यमानॊ मुहुर मुहुः
कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुंगवम
41 यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः
साम्पराये सुहृत कृत्ये तस्य कालॊ ऽयम आगतः
42 सर्वेष्व अपि च यॊधेषु चिन्तयञ शिनिपुंगव
तवत्तः सुहृत्तमं कं चिन नाभिजानामि सात्यके
43 यॊ हि परीतमना नित्यं यश च नित्यम अनुव्रतः
स कार्ये साम्पराये तु नियॊज्य इति मे मतिः
44 यथा च केशवॊ नित्यं पाण्डवानां परायणम
तथा तवम अपि वार्ष्णेय कृष्ण तुल्यपराक्रमः
45 सॊ ऽहं भारं समाधास्ये तवयि तं वॊढुम अर्हसि
अभिप्रायं च मे नित्यं न वृथा कर्तुम अर्हसि
46 स तवं भरातुर वयस्यस्य गुरॊर अपि च संयुगे
कुरु कृच्छ्रसहायार्थम अर्जुनस्य नरर्षभ
47 तवं हि सत्यव्रतः शूरॊ मित्राणाम अभयंकरः
लॊके विख्यायसे वीरकर्मभिः सत्यवाग इति
48 यॊ हि शैनेय मित्रार्थे युध्यमानस तयजेत तनुम
पृथिवीं वा दविजातिभ्यॊ यॊ दद्यात समम एव तत
49 शरुताश च बहवॊ ऽसमाभी राजानॊ ये दिवं गताः
दत्त्वेमां पृथिवीं कृत्स्नां बराह्मणेभ्यॊ यथाविधि
50 एवं तवाम अपि धर्मात्मन परयाचे ऽहं कृताञ्जलिः
पृथिवी दानतुल्यं सयाद अधिकं वा फलं विभॊ
51 एक एव सदा कृष्णॊ मित्राणाम अभयंकरः
रणे संत्यजति पराणान दवितीयस तवं च सात्यके
52 विक्रान्तस्य च वीरस्य युद्धे परार्थयते यशः
शूर एव सहायः सयान नेतरः पराकृतॊ जनः
53 ईदृशे तु परामर्दे वर्तमानस्य माधव
तवदन्यॊ हि रणे गॊप्ता विजयस्य न विद्यते
54 शलाघन्न एव हि कर्माणि शतशस तव पाण्डवः
मम संजनयन हर्षं पुनः पुनर अकीर्तयत
55 लघ्व अस्त्रश चित्रयॊधी च तथा लघुपराक्रमः
पराज्ञः सर्वास्त्रविच छूरॊ मुह्यते न च संयुगे
56 महास्कन्धॊ महॊरस्कॊ महाबाहुर महाधनुः
महाबलॊ महावीर्यः स महात्मा महारथः
57 शिष्यॊ मम सखा चैव परियॊ ऽसयाहं परियश च मे
युयुधानः सहायॊ मे परमथिष्यति कौरवान
58 अस्मदर्थं च राजेन्द्र संनह्येद यदि केशवः
रामॊ वाप्य अनिरुद्धॊ वा परद्युम्नॊ वा महारथः
59 गदॊ वा सारणॊ वापि साम्बॊ वा सह वृष्णिभिः
सहायार्थं महाराज संग्रामॊत्तम मूर्धनि
60 तथाप्य अहं नरव्याघ्रं शैनेयं सत्यविक्रमम
साहाय्ये विनियॊक्ष्यामि नासिन मे ऽनयॊ हि तत समः
61 इति दवैतवने तात माम उवाच धनंजयः
परॊक्षं तवद गुणांस तथ्यान कथयन्न आर्य संसदि
62 तस्य तवम एवं संकल्पं न वृथा कर्तुम अर्हसि
धनंजयस्य वार्ष्णेय मम भीमस्य चॊभयॊः
63 यच चापि तीर्थानि चरन्न अगच्छं दवारकां परति
तत्राहम अपि ते भक्तिम अर्जुनं परति दृष्टवान
64 न तत सौहृदम अन्येषु मया शैनेय लक्षितम
यथा तम अस्मान भजसे वर्तमानान उपप्लवे
65 सॊ ऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च
सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव
66 सत्यस्य च महाबाहॊ अनुकम्पार्थम एव च
अनुरूपं महेष्वास कर्म तवं कर्तुम अर्हसि
67 सॊयॊधनॊ हि सहसा गतॊ दरॊणेन दंशितः
पूर्वम एव तु यातास ते कौरवाणां महारथाः
68 सुमहान निनदंश चैव शरूयते विजयं परति
स शैनेय जवेनात्र गन्तुम अर्हसि माधव
69 भीमसेनॊ वयं चैव संयत्ताः सह सैनिकाः
दरॊणम आवारयिष्यामॊ यदि तवां परति यास्यति
70 पश्य शैनेय सैन्यानि दरवमाणानि संयुगे
महान्तं च रणे शब्दं दीर्यमाणां च भारतीम
71 महामारुत वेगेन समुद्रम इव पर्वसु
धार्तराष्ट्र बलं तात विक्षिप्तं सव्यसाचिना
72 रथैर विपरिधावद्भिर मनुष्यैश च हयैश च ह
सैन्यं रजः समुद्धूतम एत संपरिवर्तते
73 संवृतः सिन्धुसौवीरैर नखरप्रासयॊधिभि
अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा
74 नैतद बलम असंवार्य शक्यॊ हन्तुं जयद्रथः
एते हि सैन्धवस्यार्थे सर्वे संत्यक्तजीविताः
75 शरशक्तिध्वजवनं हयनागसमाकुलम
पश्यैतद धार्तराष्ट्राणाम अनीकं सुदुरासदम
76 शृणु दुन्दुभिनिर्घॊषं शङ्खशब्दांश च पुष्कलान
सिंहनाद रवांश चैव रथनेमि सवनांस तथा
77 नागानां शृणु शब्दं च पत्तीनां च सहस्रशः
सादिनां दरवतां चैव शृणु कम्पयतां महीम
78 पुरस्तात सौन्धवानीकं दरॊणानीकस्य पृष्ठतः
बहुत्वाद धि नरव्याघ्र देवेन्द्रम अपि पीडयेत
79 अपर्यन्ते बले मग्नॊ जह्याद अपि च जीवितम
तस्मिंश च निहते युद्धे कथं जीवेत मादृशः
सर्वथाहम अनुप्राप्तः सुकृच्छ्रं बलजीवितम
80 शयामॊ युवा गुडाकेशॊ दर्शनीयश च पाण्डवः
लघ्व अस्त्रश चित्रयॊधी च परविष्टस तात भारतीम
81 सूर्यॊदये महाबाहुर दिवसश चातिवर्तते
तन्न जानामि वार्ष्णेय यदि जीवति वा न वा
कुरूणां चापि तत सैन्यं सागरप्रतिमं महत
82 एक एव च बीभत्सुः परविष्टस तात भारतीम
अविषह्यां महाबाहुः सुरैर अपि महामृधे
83 न च मे वर्तते बुद्धिर अद्य युद्धे कथं चन
दरॊणॊ ऽपि रभसॊ युद्धे मम पीडयते बलम
परत्यक्षं ते महाबाहॊ यथासौ चरति दविजः
84 युगपच च समेतानां कार्याणां तवं विचक्षणः
महार्थं लघु संयुक्तं कर्तुम अर्हसि माधव
85 तस्य मे सर्वकार्येषु कार्यम एतन मतं सदा
अर्जुनस्य परित्राणं कर्तव्यम इति संयुगे
86 नाहं शॊचामि दाशार्हं गॊप्तारं जगतः परभुम
स हि शक्तॊ रणे तात तरीँल लॊकान अपि संगतान
87 विजेतुं पुरुषव्याघ्र सत्यम एतद बरवीमि ते
किं पुनर धार्तराष्ट्रस्य बलम एतत सुदुर्बलम
88 अर्जुनस तव एव बार्ष्णेय पीडितॊ बहुभिर युधि
परजह्यात समरे पराणांस तस्माद विन्दामि कश्मलम
89 तस्य तवं पदवीं गच्छ गच्छेयुस तवादृशा यथा
तवादृशस्येदृशे काले मादृशेनाभिचॊदितः
90 रणे वृष्णिप्रवीराणां दवाव एवातिरथौ समृतौ
परद्युम्नश च महाबाहुस तवं च सात्वत विश्रुतः
91 अस्त्रे नारायण समः संकर्षण समॊ बले
वीरतायां नरव्याघ्र धनंजय समॊ हय असि
92 भीष्मद्रॊणाव अतिक्रम्य सर्वयुद्धविशारदम
तवाम अद्य पुरुषव्याघ्रं लॊके सन्तः परचक्षते
93 नासाध्यं विद्यते लॊके सात्यकेर इति माधव
तत तवां यद अभिवक्ष्यामि तत कुरुष्व महाबल
94 संभावना हि लॊकस्य तव पार्थस्य चॊभयॊः
नान्यथा तां महाबाहॊ संप्रकर्तुम इहार्हसि
95 परित्यज्य परियान पराणान रणे विचर वीरवत
न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम
96 अयुद्धम अनवस्थानं संग्रामे च पलायनम
भीरूणाम असतां मार्गॊ नैष दाशार्ह सेवितः
97 तवार्जुनॊ गुरुस तात धर्मात्मा शिनिपुंगव
वासुदेवॊ गुरुश चापि तव पार्थस्य धीमतः
98 कारणद्वयम एतद धि जानानस तवाहम अब्रुवम
मावमंस्था वचॊ मह्यं गुरुस तव गुरॊर हय अहम
99 वासुदेव मतं चैतन मम चैवार्जुनस्य च
सत्यम एतन मयॊक्तं ते याहि यत्र धनंजयः
100 एतद वचनम आज्ञाय मम सत्यपराक्रम
परविशैतद बलं तात धार्तराष्ट्रस्य दुर्मतेः
101 परविश्य च यथान्यायं संगम्य च महारथैः
यथार्हम आत्मनः कर्म रणे सात्वत दर्शय
1 [dhṛ]
bhāradvājaṃ katheṃ yuddhe yuyudhāno 'bhyavārayat
saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me
2 [s]
śṛṇu rājan mahāprājña saṃgrāmaṃ lomaharṣaṇam
droṇasya pāṇḍavaiḥ sārdhaṃ yuyudhāna purogamaiḥ
3 vadhyamānaṃ balaṃ dṛṣṭvā yuyudhānena māriṣa
abhyadravat svayaṃ droṇaḥ sātyakiṃ satyavikramam
4 tam āpatantaṃ sahasā bhāradvājaṃ mahāratham
sātyakiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat
5 droṇo 'pi yudhi vikrānto yuyudhānaṃ samāhitaḥ
avidhyat pañcabhis tūrṇaṃhema puṅkhaiḥ śilāśitaiḥ
6 te varma bhittvā sudṛḍhaṃ dviṣat piśita bhojanāḥ
abhyagur dharaṇīṃ rājañ śvasanta iva pannagāḥ
7 dīrghabāhur abhikruddhas tottrārdita iva dvipaḥ
droṇaṃ pañcāśatāvidhyan nārācair agnisaṃnibhaiḥ
8 bhāradvājo raṇe viddho yuyudhānena sa tvaram
sātyakiṃ bahubhir bāṇair yatamānam avidhyata
9 tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ
sātvataṃ pīḍayām āsa śatena nataparvaṇā
10 sa vadhyamānaḥ samare bhāradvājena sātyakiḥ
nābhyapadyata kartavyaṃ kiṃ cid eva viśāṃ pate
11 viṣaṇṇavadanaś cāpi yuyudhāno 'bhavan nṛpa
bhāradvājaṃ raṇe dṛṣṭvā visṛjantaṃ śitāñ śarān
12 taṃ tu saṃprekṣya te putrāḥ sainikāś ca viśāṃ pate
prahṛṣṭamanaso bhūtvā siṃhavad vyanadan muhuḥ
13 taṃ śrutvā ninadaṃ ghoraṃ pīḍyamānaṃ ca mādhavam
yudhiṣṭiro 'bravīd rājan sarvasainyāni bhārata
14 eṣa vṛṣṇivaro vīraḥ sātyakiḥ satyakarmakṛt
grasyate yudhi vīreṇa bhānumān iva rāhuṇā
abhidravata gacchadhvaṃ sātyakir yatra yudhyate
15 dhṛṣṭadyumnaṃ ca pāñcālyam idam āha janādhipa
abhidrava drutaṃ droṇaṃ kiṃ nu tiṣṭhasi pārṣata
na paśyasi bhayaṃ ghoraṃ droṇān naḥ samupasthitam
16 asau droṇo maheṣvāso yuyudhānena saṃyuge
krīḍate sūtrabaddhena pakṣiṇā bālako yathā
17 tatraiva sarve gacchantu bhīmasenamukhā rathāḥ
tvayaiva sahitā yattā yuyudhāna rathaṃ prati
18 pṛṣṭhato 'nugamiṣyāmi tvām ahaṃ saha sainikaḥ
sātyakiṃ mokṣayasvādya yama daṃṣṭrāntaraṃ gatam
19 evam uktvā tato rājā sarvasainyena pāṇḍavaḥ
abhyadravad raṇe droṇaṃ yuyudhānasya kāraṇāt
20 tatrārāvo mahān āsīd droṇam ekaṃ yuyutsatām
pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ
21 te sametya naravyāghrā bhāradvājaṃ mahāratham
abhyavarṣañ śarais tīkṣṇaiḥ kaṅkabarhiṇa vājitaḥ
22 smayann eva tu tān vīrān droṇaḥ pratyagrahīt svayam
atithīn āgatān yadvat salilenāsanena ca
23 tarpitās te śarais tasya bhāradvājasya dhanvinaḥ
ātitheya gṛhaṃ prāpya nṛpate 'tithayo yathā
24 bhāradvājaṃ ca te sarve na śekuḥ prativīkṣitum
madhyaṃ dinam anuprāptaṃ sahasrāṃśum iva prabho
25 tāṃs tu sarvān maheṣvāsān droṇaḥ śastrabhṛtāṃ varaḥ
atāpayac charavrātair gabhastibhir ivāṃśumān
26 vadhyamānā raṇe rājan pāṇḍavāḥ sṛñjayās tathā
trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ
27 droṇasya ca vyadṛśyanta visarpanto mahāśarāḥ
ghabhastaya ivārkasya pratapantaḥ samantataḥ
28 tasmin droṇena nihatāḥ pāñcālāḥ pañcaviṃśatiḥ
mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ
29 pāṇḍūnāṃ sarvasainyeṣu pāñcālānāṃ tathaiva ca
droṇaṃ sma dadṛśuḥ śūraṃ vinighnantaṃ varān varān
30 kekayānāṃ śataṃ hatvā vidrāvya ca samantataḥ
droṇas tasthau mahārāja vyāditāsya ivāntakaḥ
31 pāñcālān sṛñjayān matsyān kekayān pāṇḍavān api
droṇo 'jayan mahābāhuḥ śataśo 'tha sahasraśaḥ
32 teṣāṃ samabhavac chabdo vadhyatāṃ droṇa sāyakaiḥ
vanaukasām ivāraṇye dahyatāṃ dhūmaketunā
33 tatra devāḥ sa gandharvāḥ pitaraś cābruvan nṛpa
ete dravanti pāñcālāḥ pāṇḍavāś ca sa sainikāḥ
34 taṃ tathā samare droṇaṃ nighnantaṃ somakān raṇe
na cāpy abhiyayuḥ ke cid apare naiva vivyadhuḥ
35 vartamāne tathā raudre tasmin vīravarakṣaye
aśṛṇot sahasā pārthaḥ pāñcajanyasya nisvanam
36 pūrito vāsudevena śaṅkharāṭ svanate bhṛśam
yudhyamāneṣu vīreṣu saindhavasyābhirakṣiṣu
nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati
37 gāṇḍīvasya ca nirghoṣe vipranaṣṭe samantataḥ
kaśmalābhihato rājā cintayām āsa pāṇḍavaḥ
38 na nūnaṃ svasti pārthasya yathā nadati śaṅkharāṭ
kauravāś ca yathā hṛṣṭā vinadanti muhur muhuḥ
39 evaṃ saṃcintayitvā tu vyākulenāntar ātmanā
ajātaśatruḥ kaunteyaḥ sātvataṃ pratyabhāṣata
40 bāṣpagadgadayā vācā muhyamāno muhur muhuḥ
kṛtyasyānantarāpekṣī śaineyaṃ śinipuṃgavam
41 yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ
sāmparāye suhṛt kṛtye tasya kālo 'yam āgataḥ
42 sarveṣv api ca yodheṣu cintayañ śinipuṃgava
tvattaḥ suhṛttamaṃ kaṃ cin nābhijānāmi sātyake
43 yo hi prītamanā nityaṃ yaś ca nityam anuvrataḥ
sa kārye sāmparāye tu niyojya iti me matiḥ
44 yathā ca keśavo nityaṃ pāṇḍavānāṃ parāyaṇam
tathā tvam api vārṣṇeya kṛṣṇa tulyaparākramaḥ
45 so 'haṃ bhāraṃ samādhāsye tvayi taṃ voḍhum arhasi
abhiprāyaṃ ca me nityaṃ na vṛthā kartum arhasi
46 sa tvaṃ bhrātur vayasyasya guror api ca saṃyuge
kuru kṛcchrasahāyārtham arjunasya nararṣabha
47 tvaṃ hi satyavrataḥ śūro mitrāṇām abhayaṃkaraḥ
loke vikhyāyase vīrakarmabhiḥ satyavāg iti
48 yo hi śaineya mitrārthe yudhyamānas tyajet tanum
pṛthivīṃ vā dvijātibhyo yo dadyāt samam eva tat
49 śrutāś ca bahavo 'smābhī rājāno ye divaṃ gatāḥ
dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi
50 evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ
pṛthivī dānatulyaṃ syād adhikaṃ vā phalaṃ vibho
51 eka eva sadā kṛṣṇo mitrāṇām abhayaṃkaraḥ
raṇe saṃtyajati prāṇān dvitīyas tvaṃ ca sātyake
52 vikrāntasya ca vīrasya yuddhe prārthayate yaśaḥ
śūra eva sahāyaḥ syān netaraḥ prākṛto janaḥ
53 īdṛśe tu parāmarde vartamānasya mādhava
tvadanyo hi raṇe goptā vijayasya na vidyate
54 ślāghann eva hi karmāṇi śataśas tava pāṇḍavaḥ
mama saṃjanayan harṣaṃ punaḥ punar akīrtayat
55 laghv astraś citrayodhī ca tathā laghuparākramaḥ
prājñaḥ sarvāstravic chūro muhyate na ca saṃyuge
56 mahāskandho mahorasko mahābāhur mahādhanuḥ
mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ
57 śiṣyo mama sakhā caiva priyo 'syāhaṃ priyaś ca me
yuyudhānaḥ sahāyo me pramathiṣyati kauravān
58 asmadarthaṃ ca rājendra saṃnahyed yadi keśavaḥ
rāmo vāpy aniruddho vā pradyumno vā mahārathaḥ
59 gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ
sahāyārthaṃ mahārāja saṃgrāmottama mūrdhani
60 tathāpy ahaṃ naravyāghraṃ śaineyaṃ satyavikramam
sāhāyye viniyokṣyāmi nāsin me 'nyo hi tat samaḥ
61 iti dvaitavane tāta mām uvāca dhanaṃjayaḥ
parokṣaṃ tvad guṇāṃs tathyān kathayann ārya saṃsadi
62 tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi
dhanaṃjayasya vārṣṇeya mama bhīmasya cobhayoḥ
63 yac cāpi tīrthāni carann agacchaṃ dvārakāṃ prati
tatrāham api te bhaktim arjunaṃ prati dṛṣṭavān
64 na tat sauhṛdam anyeṣu mayā śaineya lakṣitam
yathā tam asmān bhajase vartamānān upaplave
65 so 'bhijātyā ca bhaktyā ca sakhyasyācāryakasya ca
sauhṛdasya ca vīryasya kulīnatvasya mādhava
66 satyasya ca mahābāho anukampārtham eva ca
anurūpaṃ maheṣvāsa karma tvaṃ kartum arhasi
67 soyodhano hi sahasā gato droṇena daṃśitaḥ
pūrvam eva tu yātās te kauravāṇāṃ mahārathāḥ
68 sumahān ninadaṃś caiva śrūyate vijayaṃ prati
sa śaineya javenātra gantum arhasi mādhava
69 bhīmaseno vayaṃ caiva saṃyattāḥ saha sainikāḥ
droṇam āvārayiṣyāmo yadi tvāṃ prati yāsyati
70 paśya śaineya sainyāni dravamāṇāni saṃyuge
mahāntaṃ ca raṇe śabdaṃ dīryamāṇāṃ ca bhāratīm
71 mahāmāruta vegena samudram iva parvasu
dhārtarāṣṭra balaṃ tāta vikṣiptaṃ savyasācinā
72 rathair viparidhāvadbhir manuṣyaiś ca hayaiś ca ha
sainyaṃ rajaḥ samuddhūtam eta saṃparivartate
73 saṃvṛtaḥ sindhusauvīrair nakharaprāsayodhibhi
atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā
74 naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ
ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ
75 śaraśaktidhvajavanaṃ hayanāgasamākulam
paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam
76 śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃś ca puṣkalān
siṃhanāda ravāṃś caiva rathanemi svanāṃs tathā
77 nāgānāṃ śṛṇu śabdaṃ ca pattīnāṃ ca sahasraśaḥ
sādināṃ dravatāṃ caiva śṛṇu kampayatāṃ mahīm
78 purastāt saundhavānīkaṃ droṇānīkasya pṛṣṭhataḥ
bahutvād dhi naravyāghra devendram api pīḍayet
79 aparyante bale magno jahyād api ca jīvitam
tasmiṃś ca nihate yuddhe kathaṃ jīveta mādṛśaḥ
sarvathāham anuprāptaḥ sukṛcchraṃ balajīvitam
80 śyāmo yuvā guḍākeśo darśanīyaś ca pāṇḍavaḥ
laghv astraś citrayodhī ca praviṣṭas tāta bhāratīm
81 sūryodaye mahābāhur divasaś cātivartate
tanna jānāmi vārṣṇeya yadi jīvati vā na vā
kurūṇāṃ cāpi tat sainyaṃ sāgarapratimaṃ mahat
82 eka eva ca bībhatsuḥ praviṣṭas tāta bhāratīm
aviṣahyāṃ mahābāhuḥ surair api mahāmṛdhe
83 na ca me vartate buddhir adya yuddhe kathaṃ cana
droṇo 'pi rabhaso yuddhe mama pīḍayate balam
pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ
84 yugapac ca sametānāṃ kāryāṇāṃ tvaṃ vicakṣaṇaḥ
mahārthaṃ laghu saṃyuktaṃ kartum arhasi mādhava
85 tasya me sarvakāryeṣu kāryam etan mataṃ sadā
arjunasya paritrāṇaṃ kartavyam iti saṃyuge
86 nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum
sa hi śakto raṇe tāta trīṁl lokān api saṃgatān
87 vijetuṃ puruṣavyāghra satyam etad bravīmi te
kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam
88 arjunas tv eva bārṣṇeya pīḍito bahubhir yudhi
prajahyāt samare prāṇāṃs tasmād vindāmi kaśmalam
89 tasya tvaṃ padavīṃ gaccha gaccheyus tvādṛśā yathā
tvādṛśasyedṛśe kāle mādṛśenābhicoditaḥ
90 raṇe vṛṣṇipravīrāṇāṃ dvāv evātirathau smṛtau
pradyumnaś ca mahābāhus tvaṃ ca sātvata viśrutaḥ
91 astre nārāyaṇa samaḥ saṃkarṣaṇa samo bale
vīratāyāṃ naravyāghra dhanaṃjaya samo hy asi
92 bhīṣmadroṇāv atikramya sarvayuddhaviśāradam
tvām adya puruṣavyāghraṃ loke santaḥ pracakṣate
93 nāsādhyaṃ vidyate loke sātyaker iti mādhava
tat tvāṃ yad abhivakṣyāmi tat kuruṣva mahābala
94 saṃbhāvanā hi lokasya tava pārthasya cobhayoḥ
nānyathā tāṃ mahābāho saṃprakartum ihārhasi
95 parityajya priyān prāṇān raṇe vicara vīravat
na hi śaineya dāśārhā raṇe rakṣanti jīvitam
96 ayuddham anavasthānaṃ saṃgrāme ca palāyanam
bhīrūṇām asatāṃ mārgo naiṣa dāśārha sevitaḥ
97 tavārjuno gurus tāta dharmātmā śinipuṃgava
vāsudevo guruś cāpi tava pārthasya dhīmataḥ
98 kāraṇadvayam etad dhi jānānas tvāham abruvam
māvamaṃsthā vaco mahyaṃ gurus tava guror hy aham
99 vāsudeva mataṃ caitan mama caivārjunasya ca
satyam etan mayoktaṃ te yāhi yatra dhanaṃjayaḥ
100 etad vacanam ājñāya mama satyaparākrama
praviśaitad balaṃ tāta dhārtarāṣṭrasya durmateḥ
101 praviśya ca yathānyāyaṃ saṃgamya ca mahārathaiḥ
yathārham ātmanaḥ karma raṇe sātvata darśaya

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1069 of 2013 Book 53% ~12 min left