Book 7: Chapter 57
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required.
Get the drive $127.00

Book 7: Chapter 57

The Mahabharata in Sanskrit

Book 7
Chapter 57

1 [स]
कुन्तीपुत्रस तु तं मन्त्रं समरन्न एव धनंजयः
परतिज्ञाम आत्मनॊ रक्षन मुमॊहाचिन्त्य विक्रमः
2 तं तु शॊकेन संतप्तं सवप्ने कपिवरध्वजम
आससाद महातेजा धयायन्तं गरुड धवजः
3 परत्युत्थानं तु कृष्णस्य सर्वावस्थं धनंजयः
नालॊपयत धर्मात्मा भक्त्या परेम्णा च सर्वदा
4 परत्युत्थाय च गॊविन्दं स तस्माय आसनं ददौ
न चासने सवयं बुद्धिं बीभत्सुर वयदधात तदा
5 ततः कृष्णॊ महातेजा जानन पार्थस्य निश्चयम
कुन्तीपुत्रम इदं वाक्यम आसीनः सथितम अब्रवीत
6 मा विषादे मनः पार्थ कृथाः कालॊ हि दुर्जयः
कालः सर्वाणि भूतानि नियच्छति परे विधौ
7 किमर्थं च विषादस ते तद बरूहि वदतां वर
न शॊचितव्यं विदुषा शॊकः कार्यविनाशनः
8 शॊचन नन्दयते शत्रून कर्शयत्य अपि बान्धवान
कशीयते च नरस तस्मान न तवं शॊचितुम अर्हसि
9 इत्य उक्तॊ वासुदेवेन बीभत्सुर अपराजितः
आबभाषे तदा विद्वान इदं वचनम अर्थवत
10 मया परतिज्ञा महती जयद्रथवधे कृता
शवॊ ऽसमि हन्ता दुरात्मानं पुत्रघ्नम इति केशव
11 मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत
पृष्ठतः सैन्धवः कार्यः सर्वैर गुप्तॊ महारथैः
12 दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः
परतिज्ञायां च हीनायां कथं जीवेत मद्विधः
13 दुःखॊपायस्य मे वीर विकाङ्क्षा परिवर्तते
दरुतं च याति सविता तत एतद बरवीम्य अहम
14 शॊकस्थानं तु तच छरुत्वा पार्थस्य दविज केतनः
संस्पृश्याम्भस ततः कृष्णः पराङ्मुखः समवस्थितः
15 इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः
हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः
16 पार्थ पाशुपतं नाम परमास्त्रं सनातनम
येन सर्वान मृधे दैत्याञ जघ्ने देवॊ महेश्वरः
17 यदि तद विदितं ते ऽदय शवॊ हन्तासि जयद्रथम
अथ जञातुं परपद्यस्व मनसा वृषभध्वजम
18 तं देवं मनसा धयायञ जॊषम आस्स्व धनंजय
ततस तस्य परसादात तवं भक्तः पराप्स्यसि तन महत
19 ततः कृष्ण वचः शरुत्वा संस्पृश्याम्भॊ धनंजयः
भूमाव आसीन एकाग्रॊ जगाम मनसा भवम
20 ततः परणिहिते बराह्मे मुहूर्ते शुभलक्षणे
आत्मानम अर्जुनॊ ऽपश्यद गगने सह केशवम
21 जयॊतिर्भिश च समाकीर्णं सिद्धचारणसेवितम
वायुवेगगतिः पार्थः खं भेजे सह केशवः
22 केशवेन गृहीतः स दक्षिणे विभुना भुजे
परेक्षमाणॊ बहून भावाञ जगामाद्भुत दर्शनान
23 उदीच्यां दिशि धर्मात्मा सॊ ऽपश्यच छवेत पर्वतम
कुबेरस्य विहारे च नलिनीं पद्मभूषिताम
24 सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणॊ बहूदकाम
सदा पुष्पफलैर वृक्षैर उपेतां सफटिकॊपलाम
25 सिंहव्याघ्र समाकीर्णां नानामृगगणाकुलाम
पुण्याश्रमवतीं रम्यां नानामृगगणाकुलाम
26 मन्दरस्य परदेशांश च किंनरॊद्गीत नादितान
हेमरूप्यमयैः शृङ्गैर नानौषधि विदीपितान
तथा मन्दारवृक्षैश च पुष्पितैर उपशॊभितान
27 सनिग्धाञ जनचयाकारं संप्राप्तः कालपर्वतम
पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम
बरह्म तुङ्गं नदीश चान्यास तथा जनपदान अपि
28 सुशृङ्गं शतशृङ्गं च शर्याति वनम एव च
पुण्यम अश्वशिरः सथानं सथानम आर्थर्वणस्य च
29 वृषदंशं च शैलेन्द्रं महामन्दरम एव च
अप्सरॊभिः समाकीर्णं किंनरैश चॊपशॊभितम
30 तांश च शैलान वरजन पार्थः परेक्षते सह केशवः
शुभैः परस्रवणैर जुष्टान हेमधातुविभूषितान
31 चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम
समुद्रांश चाद्भुताकारान अपश्यद बहुलाकरान
32 वियद दयां पृथिवीं चैव पश्यन विष्णुपदे वरजन
विस्मितः सह कृष्णेन कषिप्तॊ बाण इवात्यगात
33 गरहनक्षत्रसॊमानां सूर्याग्न्यॊश च समत्विषम
अपश्यत तदा पार्थॊ जवलन्तम इव पर्वतम
34 समासाद्य तु तं शैलं शैलाग्रे समवस्थितम
तपॊनित्यं महात्मानम अपश्यद वृषभध्वजम
35 सहस्रम इव सूर्याणां दीप्यमानं सवतेजसा
शूलिनं जटिलं गौरं वल्कलाजिनवाससम
36 नयानाम्नां सहस्रैश च विचित्राङ्गं महौजसम
पार्तव्या सहितं देवं भूतसंघैश च भास्वरैः
37 गीतवादित्रसंह्रादैस ताललास्य समन्वितम
वल्गितास्फॊटितॊत्क्रुष्टैः पुण्यगन्धैश च सेवितम
38 सतूयमानं सतवैर दिव्यैर मुनिभिर बरह्मवादिभिः
गॊप्तारं सर्वभूतानाम इष्वास धरम अच्युतम
39 वासुदेवस तु तं दृष्ट्वा जगाम शिरसा कषितिम
पार्थेन सहधर्मात्मा गृणन बरह्म सनातनम
40 लॊकादिं विश्वकर्माणम अजम ईशानम अव्ययम
मनसः परमां यॊनिं खं वायुं जयॊतिषां निधिम
41 सरष्टारं वारिधाराणां भुवश च परकृतिं पराम
देवदानव यक्षाणां मानवानां च साधनम
42 यॊगिनां परमं बरह्म वयक्तं बरह्मविदां निधिम
चराचरस्य सरष्टारं परतिहर्तारम एव च
43 कालकॊपं महात्मानं शक्र सूर्यगुणॊदयम
अवन्दत तदा कृष्णॊ वाङ्मनॊबुद्धिकर्मभिः
44 यं परपश्यन्ति विद्वांसः सूक्ष्माध्यात्म पदैषिणः
तम अजं कारणात्मानं जग्मतुः शरणं भवम
45 अर्जुनश चापि तं देवं भूयॊ भूयॊ ऽभयवन्दत
जञात्वैकं भूतभव्यादिं सर्वभूतभवॊद्भवम
46 ततस ताव आगतौ शर्वः परॊवाच परहसन्न इव
सवागतं वां नरश्रेष्ठाव उत्तिष्ठेतां गतक्लमौ
किं च वाम ईप्सितं वीरौ मनसः कषिप्रम उच्यताम
47 येन कार्येण संप्राप्तौ युवां तत साधयामि वाम
वरियताम आत्मनः शरेयस तत सर्वं परददानि वाम
48 ततस तद वचनं शरुत्वा परत्युत्थाय कृताञ्जली
वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती
49 नमॊ भवाय शर्वाय रुद्राय वरदाय च
पशूनां पतये नित्यम उग्राय च कपर्दिने
50 महादेवाय भीमाय तर्यम्बकाय च शम्भवे
ईशानाय भगघ्नाय नमॊ ऽसत्व अन्धकघातिने
51 कुमार गुरवे नित्यं नीलग्रीवाय वेधसे
विलॊहितय धूम्राय वयाधायानपराजिते
52 नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे
हन्त्रे गॊप्त्रे तरिनेत्राय वयाधाय वसुरेतसे
53 अचिन्त्यायाम्बिका भर्त्रे सर्वदेव सतुताय च
वृषध्वजाय पिङ्गाय जटिने बरह्मचारिणे
54 तप्यमानाय सलिले बरह्मण्यायाजिताय च
विश्वात्मने विश्वसृजे विश्वम आवृत्य तिष्ठते
55 नमॊ नमस ते सेव्याय भूतानां परभवे सदा
बरह्म वक्त्राय शर्वाय शंकराय शिवाय च
56 नमॊ ऽसतु वाचस्पतये परजानां पतये नमः
नमॊ विश्वस्य पतये महतं पतये नमः
57 नमः सहस्रशिरसे सहस्रभुज मन्यवे
सहस्रनेत्र पादाय नमॊ ऽसंख्येयकर्मणे
58 नमॊ हिरण्यवर्णाय हिरण्यकवचाय च
भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः परभॊ
59 एवं सतुत्वा महादेवं वासुदेवः सहार्जुनः
परसादयाम आस भवं तदा हय अस्त्रॊपलब्धये
60 ततॊ ऽरजुनः परीतमना ववन्दे वृषभध्वजम
ददर्शॊत्फुल्ल नयनः समस्तं तेजसां विधिम
61 तं चॊपहारं सवकृतं नैशं नैत्यकम आत्मनः
ददर्श तर्यम्बकाभ्याशे वासुदेव निवेदितम
62 ततॊ ऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः
इच्छाम्य अहं दिव्यम अस्त्रम इत्य अभाषत शंकरम
63 ततः पार्थस्य विज्ञाय वरार्थे वचनं परभुः
वासुदेवार्जुनौ देवः समयमानॊ ऽभयभाषत
64 सरॊ ऽमृतमयं दिव्यम अभ्याशे शत्रुसूदनौ
तत्र मे तद धनुर दिव्यं शरश च निहितः पुरा
65 येन देवारयः सर्वे मया युधि निपातिताः
तत आनीयतां कृष्णौ स शरं धनुर उत्तमम
66 तथेत्य उक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह
परस्थितौ तत सरॊ दिव्यं दिव्याश्चर्य शतैर वृतम
67 निर्दिष्टं यद वृषाङ्केन पुण्यं सर्वार्थसाधकम
तज जग्मतुर असंभ्रान्तौ नरनारायणाव ऋषी
68 ततस तु तत सरॊ गत्वा सूर्यमण्डल संनिभम
नागम अन्तर्जले घॊरं ददृशाते ऽरजुनाच्युतौ
69 दवितीयं चापरं नागं सहस्रशिरसं वरम
वमन्तं विपुलां जवालां ददृशाते ऽगनिवर्चसम
70 ततः कृष्णश च पार्थश च संस्पृश्यापः कृताञ्जली
तौ नागाव उपतस्थाते नमस्यन्तौ वृषध्वजम
71 गृणन्तौ वेदविदुषौ तद बरह्म शतरुद्रियम
अप्रमेयं परणमन्तौ गत्वा सर्वात्मना भवम
72 ततस तौ रुद्र माहात्म्याद धित्वा रूपं महॊरगौ
धनुर बाणश च शत्रुघ्नं तद दवंद्वं समपद्यत
73 ततॊ जगृहतुः परीतौ धनुर बाणं च सुप्रभम
आजह्रतुर महात्मानौ ददतुश च महात्मने
74 ततः पार्श्वाद वृषाङ्कस्य बरह्म चारी नयवर्तत
पिङ्गाक्षस तपसः कषेत्रं बलवान नीललॊहितः
75 स तद गृह्य धनुःश्रेष्ठं तस्थौ सथानं समाहितः
वयकर्षच चापि विधिवत स शरं धनुर उत्तमम
76 तस्य मौर्वीं च मुष्टिं च सथानं चालक्ष्य पाण्डवः
शरुत्वा मन्त्रं भव परॊक्तं जग्राहाचिन्त्य विक्रमः
77 सरस्य एव च तं बाणं मुमॊचातिबलः परभुः
चकार च पुनर वीरस तस्मिन सरसि तद धनुः
78 ततः परीतं भवं जञात्वा समृतिमान अर्जुनस तदा
वरम आरण्यकं दत्तं दर्शनं शंकरस्य च
मनसा चिन्तयाम आस तन मे संपद्यताम इति
79 तस्य तन मतम आज्ञाय परीतः परादाद वरं भवः
तच च पाशुपतं घॊरं परतिज्ञायाश च पारणम
80 संहृष्टरॊमा दुर्धर्षः कृतं कार्यम अमन्यत
ववन्दतुश च संहृष्टॊ शिरॊभ्यां तौ महेश्वरम
81 अनुज्ञातौ कषणे तस्मिन भवेनार्जुन केशवौ
पराप्तौ सवशिबिरं वीरौ मुदा परमया युतौ
इन्द्रा विष्णू यथा परीतौ जम्भस्य वधकाङ्क्षिणौ
1 [s]
kuntīputras tu taṃ mantraṃ smarann eva dhanaṃjayaḥ
pratijñām ātmano rakṣan mumohācintya vikramaḥ
2 taṃ tu śokena saṃtaptaṃ svapne kapivaradhvajam
āsasāda mahātejā dhyāyantaṃ garuḍa dhvajaḥ
3 pratyutthānaṃ tu kṛṣṇasya sarvāvasthaṃ dhanaṃjayaḥ
nālopayata dharmātmā bhaktyā premṇā ca sarvadā
4 pratyutthāya ca govindaṃ sa tasmāy āsanaṃ dadau
na cāsane svayaṃ buddhiṃ bībhatsur vyadadhāt tadā
5 tataḥ kṛṣṇo mahātejā jānan pārthasya niścayam
kuntīputram idaṃ vākyam āsīnaḥ sthitam abravīt
6 mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ
kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau
7 kimarthaṃ ca viṣādas te tad brūhi vadatāṃ vara
na śocitavyaṃ viduṣā śokaḥ kāryavināśanaḥ
8 śocan nandayate śatrūn karśayaty api bāndhavān
kśīyate ca naras tasmān na tvaṃ śocitum arhasi
9 ity ukto vāsudevena bībhatsur aparājitaḥ
ābabhāṣe tadā vidvān idaṃ vacanam arthavat
10 mayā pratijñā mahatī jayadrathavadhe kṛtā
śvo 'smi hantā durātmānaṃ putraghnam iti keśava
11 matpratijñāvighātārthaṃ dhārtarāṣṭraiḥ kilācyuta
pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvair gupto mahārathaiḥ
12 daśa caikā ca tāḥ kṛṣṇa akṣauhiṇyaḥ sudurjayāḥ
pratijñāyāṃ ca hīnāyāṃ kathaṃ jīveta madvidhaḥ
13 duḥkhopāyasya me vīra vikāṅkṣā parivartate
drutaṃ ca yāti savitā tata etad bravīmy aham
14 śokasthānaṃ tu tac chrutvā pārthasya dvija ketanaḥ
saṃspṛśyāmbhas tataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ
15 idaṃ vākyaṃ mahātejā babhāṣe puṣkarekṣaṇaḥ
hitārthaṃ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ
16 pārtha pāśupataṃ nāma paramāstraṃ sanātanam
yena sarvān mṛdhe daityāñ jaghne devo maheśvaraḥ
17 yadi tad viditaṃ te 'dya śvo hantāsi jayadratham
atha jñātuṃ prapadyasva manasā vṛṣabhadhvajam
18 taṃ devaṃ manasā dhyāyañ joṣam āssva dhanaṃjaya
tatas tasya prasādāt tvaṃ bhaktaḥ prāpsyasi tan mahat
19 tataḥ kṛṣṇa vacaḥ śrutvā saṃspṛśyāmbho dhanaṃjayaḥ
bhūmāv āsīna ekāgro jagāma manasā bhavam
20 tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe
ātmānam arjuno 'paśyad gagane saha keśavam
21 jyotirbhiś ca samākīrṇaṃ siddhacāraṇasevitam
vāyuvegagatiḥ pārthaḥ khaṃ bheje saha keśavaḥ
22 keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje
prekṣamāṇo bahūn bhāvāñ jagāmādbhuta darśanān
23 udīcyāṃ diśi dharmātmā so 'paśyac chveta parvatam
kuberasya vihāre ca nalinīṃ padmabhūṣitām
24 saricchreṣṭhāṃ ca tāṃ gaṅgāṃ vīkṣamāṇo bahūdakām
sadā puṣpaphalair vṛkṣair upetāṃ sphaṭikopalām
25 siṃhavyāghra samākīrṇāṃ nānāmṛgagaṇākulām
puṇyāśramavatīṃ ramyāṃ nānāmṛgagaṇākulām
26 mandarasya pradeśāṃś ca kiṃnarodgīta nāditān
hemarūpyamayaiḥ śṛṅgair nānauṣadhi vidīpitān
tathā mandāravṛkṣaiś ca puṣpitair upaśobhitān
27 snigdhāñ janacayākāraṃ saṃprāptaḥ kālaparvatam
puṇyaṃ himavataḥ pādaṃ maṇimantaṃ ca parvatam
brahma tuṅgaṃ nadīś cānyās tathā janapadān api
28 suśṛṅgaṃ śataśṛṅgaṃ ca śaryāti vanam eva ca
puṇyam aśvaśiraḥ sthānaṃ sthānam ārtharvaṇasya ca
29 vṛṣadaṃśaṃ ca śailendraṃ mahāmandaram eva ca
apsarobhiḥ samākīrṇaṃ kiṃnaraiś copaśobhitam
30 tāṃś ca śailān vrajan pārthaḥ prekṣate saha keśavaḥ
śubhaiḥ prasravaṇair juṣṭān hemadhātuvibhūṣitān
31 candraraśmiprakāśāṅgīṃ pṛthivīṃ puramālinīm
samudrāṃś cādbhutākārān apaśyad bahulākarān
32 viyad dyāṃ pṛthivīṃ caiva paśyan viṣṇupade vrajan
vismitaḥ saha kṛṣṇena kṣipto bāṇa ivātyagāt
33 grahanakṣatrasomānāṃ sūryāgnyoś ca samatviṣam
apaśyata tadā pārtho jvalantam iva parvatam
34 samāsādya tu taṃ śailaṃ śailāgre samavasthitam
taponityaṃ mahātmānam apaśyad vṛṣabhadhvajam
35 sahasram iva sūryāṇāṃ dīpyamānaṃ svatejasā
śūlinaṃ jaṭilaṃ gauraṃ valkalājinavāsasam
36 nayānāmnāṃ sahasraiś ca vicitrāṅgaṃ mahaujasam
pārtavyā sahitaṃ devaṃ bhūtasaṃghaiś ca bhāsvaraiḥ
37 gītavāditrasaṃhrādais tālalāsya samanvitam
valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiś ca sevitam
38 stūyamānaṃ stavair divyair munibhir brahmavādibhiḥ
goptāraṃ sarvabhūtānām iṣvāsa dharam acyutam
39 vāsudevas tu taṃ dṛṣṭvā jagāma śirasā kṣitim
pārthena sahadharmātmā gṛṇan brahma sanātanam
40 lokādiṃ viśvakarmāṇam ajam īśānam avyayam
manasaḥ paramāṃ yoniṃ khaṃ vāyuṃ jyotiṣāṃ nidhim
41 sraṣṭāraṃ vāridhārāṇāṃ bhuvaś ca prakṛtiṃ parām
devadānava yakṣāṇāṃ mānavānāṃ ca sādhanam
42 yogināṃ paramaṃ brahma vyaktaṃ brahmavidāṃ nidhim
carācarasya sraṣṭāraṃ pratihartāram eva ca
43 kālakopaṃ mahātmānaṃ śakra sūryaguṇodayam
avandata tadā kṛṣṇo vāṅmanobuddhikarmabhiḥ
44 yaṃ prapaśyanti vidvāṃsaḥ sūkṣmādhyātma padaiṣiṇaḥ
tam ajaṃ kāraṇātmānaṃ jagmatuḥ śaraṇaṃ bhavam
45 arjunaś cāpi taṃ devaṃ bhūyo bhūyo 'bhyavandata
jñātvaikaṃ bhūtabhavyādiṃ sarvabhūtabhavodbhavam
46 tatas tāv āgatau śarvaḥ provāca prahasann iva
svāgataṃ vāṃ naraśreṣṭhāv uttiṣṭhetāṃ gataklamau
kiṃ ca vām īpsitaṃ vīrau manasaḥ kṣipram ucyatām
47 yena kāryeṇa saṃprāptau yuvāṃ tat sādhayāmi vām
vriyatām ātmanaḥ śreyas tat sarvaṃ pradadāni vām
48 tatas tad vacanaṃ śrutvā pratyutthāya kṛtāñjalī
vāsudevārjunau śarvaṃ tuṣṭuvāte mahāmatī
49 namo bhavāya śarvāya rudrāya varadāya ca
paśūnāṃ pataye nityam ugrāya ca kapardine
50 mahādevāya bhīmāya tryambakāya ca śambhave
īśānāya bhagaghnāya namo 'stv andhakaghātine
51 kumāra gurave nityaṃ nīlagrīvāya vedhase
vilohitaya dhūmrāya vyādhāyānaparājite
52 nityaṃ nīlaśikhaṇḍāya śūline divyacakṣuṣe
hantre goptre trinetrāya vyādhāya vasuretase
53 acintyāyāmbikā bhartre sarvadeva stutāya ca
vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe
54 tapyamānāya salile brahmaṇyāyājitāya ca
viśvātmane viśvasṛje viśvam āvṛtya tiṣṭhate
55 namo namas te sevyāya bhūtānāṃ prabhave sadā
brahma vaktrāya śarvāya śaṃkarāya śivāya ca
56 namo 'stu vācaspataye prajānāṃ pataye namaḥ
namo viśvasya pataye mahataṃ pataye namaḥ
57 namaḥ sahasraśirase sahasrabhuja manyave
sahasranetra pādāya namo 'saṃkhyeyakarmaṇe
58 namo hiraṇyavarṇāya hiraṇyakavacāya ca
bhaktānukampine nityaṃ sidhyatāṃ nau varaḥ prabho
59 evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ
prasādayām āsa bhavaṃ tadā hy astropalabdhaye
60 tato 'rjunaḥ prītamanā vavande vṛṣabhadhvajam
dadarśotphulla nayanaḥ samastaṃ tejasāṃ vidhim
61 taṃ copahāraṃ svakṛtaṃ naiśaṃ naityakam ātmanaḥ
dadarśa tryambakābhyāśe vāsudeva niveditam
62 tato 'bhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ
icchāmy ahaṃ divyam astram ity abhāṣata śaṃkaram
63 tataḥ pārthasya vijñāya varārthe vacanaṃ prabhuḥ
vāsudevārjunau devaḥ smayamāno 'bhyabhāṣata
64 saro 'mṛtamayaṃ divyam abhyāśe śatrusūdanau
tatra me tad dhanur divyaṃ śaraś ca nihitaḥ purā
65 yena devārayaḥ sarve mayā yudhi nipātitāḥ
tata ānīyatāṃ kṛṣṇau sa śaraṃ dhanur uttamam
66 tathety uktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha
prasthitau tat saro divyaṃ divyāścarya śatair vṛtam
67 nirdiṣṭaṃ yad vṛṣāṅkena puṇyaṃ sarvārthasādhakam
taj jagmatur asaṃbhrāntau naranārāyaṇāv ṛṣī
68 tatas tu tat saro gatvā sūryamaṇḍala saṃnibham
nāgam antarjale ghoraṃ dadṛśāte 'rjunācyutau
69 dvitīyaṃ cāparaṃ nāgaṃ sahasraśirasaṃ varam
vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam
70 tataḥ kṛṣṇaś ca pārthaś ca saṃspṛśyāpaḥ kṛtāñjalī
tau nāgāv upatasthāte namasyantau vṛṣadhvajam
71 gṛṇantau vedaviduṣau tad brahma śatarudriyam
aprameyaṃ praṇamantau gatvā sarvātmanā bhavam
72 tatas tau rudra māhātmyād dhitvā rūpaṃ mahoragau
dhanur bāṇaś ca śatrughnaṃ tad dvaṃdvaṃ samapadyata
73 tato jagṛhatuḥ prītau dhanur bāṇaṃ ca suprabham
ājahratur mahātmānau dadatuś ca mahātmane
74 tataḥ pārśvād vṛṣāṅkasya brahma cārī nyavartata
piṅgākṣas tapasaḥ kṣetraṃ balavān nīlalohitaḥ
75 sa tad gṛhya dhanuḥśreṣṭhaṃ tasthau sthānaṃ samāhitaḥ
vyakarṣac cāpi vidhivat sa śaraṃ dhanur uttamam
76 tasya maurvīṃ ca muṣṭiṃ ca sthānaṃ cālakṣya pāṇḍavaḥ
śrutvā mantraṃ bhava proktaṃ jagrāhācintya vikramaḥ
77 sarasy eva ca taṃ bāṇaṃ mumocātibalaḥ prabhuḥ
cakāra ca punar vīras tasmin sarasi tad dhanuḥ
78 tataḥ prītaṃ bhavaṃ jñātvā smṛtimān arjunas tadā
varam āraṇyakaṃ dattaṃ darśanaṃ śaṃkarasya ca
manasā cintayām āsa tan me saṃpadyatām iti
79 tasya tan matam ājñāya prītaḥ prādād varaṃ bhavaḥ
tac ca pāśupataṃ ghoraṃ pratijñāyāś ca pāraṇam
80 saṃhṛṣṭaromā durdharṣaḥ kṛtaṃ kāryam amanyata
vavandatuś ca saṃhṛṣṭo śirobhyāṃ tau maheśvaram
81 anujñātau kṣaṇe tasmin bhavenārjuna keśavau
prāptau svaśibiraṃ vīrau mudā paramayā yutau
indrā viṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1041 of 2013 Book 52% ~9 min left