Book 7: Chapter 50
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required.
Get the drive $127.00

Book 7: Chapter 50

The Mahabharata in Sanskrit

Book 7
Chapter 50

1 [स]
तस्मिन्न अहनि निर्वृत्ते घॊरे पराणभृतां कषये
आदित्ये ऽसतं गते शरीमान संध्याकाल उपस्थिते
2 वयपयातेषु सैन्येषु वासाय भरतर्षभ
हत्वा संशप्तकव्रातान दिव्यैर अस्त्रैः कपिध्वजः
3 परायात सवशिबिरं जिष्णुर जैत्रम आस्थाय तं रथम
गच्छन्न एव च गॊविन्दं सन्नकण्ठॊ ऽभयभाषत
4 किं नु मे हृदयं तरस्तं वाक्यं सज्जति केशव
सपन्दन्ति चाप्य अनिष्टानि गात्रं सीदति चाप्य उत
5 अनिष्टं चैव मे शलिष्टं हृदयान नापसर्पति
भुवि यद दिक्षु चाप्य उग्रा उत्पातास तरासयन्ति माम
6 बहुप्रकारा दृश्यन्ते सर्व एवाघ शंसिनः
अपि सवस्ति भवेद राज्ञः सामात्यस्य गुरॊर मम
7 [वासु]
वयक्तं शिवं तव भरातुः सामात्यस्य भविष्यति
मा शुचः किं चिद एवान्यत तत्रानिष्टं भविष्यति
8 [स]
ततः संध्याम उपास्यैव वीरौ वीरावसादने
कथयन्तौ रणे वृत्तं परयातौ रथम आस्थितौ
9 ततः सवशिबिरं पराप्तौ हतानन्दं हतत्विषम
वासुदेवॊ ऽरजुनश चैव कृत्वा कर्म सुदुष्करम
10 धवस्ताकारं समालक्ष्य शिबिरं परवीरहा
बीभत्सुर अब्रवीत कृष्णम अस्वस्थहृदयस ततः
11 नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन
मिश्रा दुन्दुभिनिर्घॊषः शङ्खाश चाडम्बरैः सह
वीणा वा नाद्य वाद्यन्ते शम्या तालस्वनैः सह
12 मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च
सतुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः
13 यॊधाश चापि हि मां दृष्ट्वा निवर्तन्ते हय अधॊमुखाः
कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम
14 अपि सवस्ति भवेद अद्य भरातृभ्यॊ मम माधव
न हि शुध्यति मे भावॊ दृष्ट्वा सवजनम आकुलम
15 अपि पाञ्चालराजस्य विराटस्य च मानद
सर्वेषां चैव यॊधानां सामग्र्यं सयान ममाच्युत
16 न च माम अद्य सौभद्रः परहृष्टॊ भरातृभिः सह
रणाद आयान्तम उचितं परत्युद्याति हसन्न इव
17 एवं संकथयन्तौ तौ परविष्टौ शिबिरं सवकम
ददृशाते भृशास्वस्थान पाण्डवान नष्टचेतसः
18 दृष्ट्वा भरातॄंश च पुत्रांश च विमना वानरध्वजः
अपश्यंश चैव सौभद्रम इदं वचनम अब्रवीत
19 मुखवर्णॊ ऽपरसन्नॊ वः सर्वेषाम एव लक्ष्यते
न चाभिमन्युं पश्यामि न च मां परतिनन्दथ
20 मया शरुतश च दरॊणेन चक्रव्यूहॊ विनिर्मितः
न च वस तस्य भेत्तास्ति ऋते सौभद्रम आहवे
21 न चॊपदिष्टस तस्यासीन मयानीक विनिर्गमः
कच चिन न बालॊ युष्माभिः परानीकं परवेशितः
22 भित्त्वानीकं महेष्वासः परेषां बहुशॊ युधि
कच चिन न निहतः शेते सौभद्रः परवीरहा
23 लॊहिताक्षं महाबाहुं जातं सिंहम इवाद्रिषु
उपेन्द्र सदृशं बरूत कथम आयॊधने हतः
24 सुकुमारं महेष्वासं वासवस्यात्मजात्मजम
सदा मम परियं बरूत कथम आयॊधने हतः
25 वार्ष्णेयी दयितं शूरं मया सततलालितम
अम्बायाश च परियं नित्यं कॊ ऽवधीत कालचॊदितः
26 सदृशॊ वृष्णिसिंहस्य केशवस्य महात्मनः
विक्रमश्रुतमाहात्म्यैः कथम आयॊधने हतः
27 सुभद्रायाः परियं नित्यं दरौपद्याः केशवस्य च
यदि पुत्रं न पश्यामि यास्यामि यमसादनम
28 मृदु कुञ्चितकेशान्तं बालं बाल मृगेक्षणम
मत्तद्विरदविक्रान्तं शालपॊतम इवॊद्गतम
29 समिताभिभाषणं दान्तं गुरुवाक्यकरं सदा
बाल्ये ऽपय अबाल कर्माणं परियवाक्यम अमत्सरम
30 महॊत्साहं महाबाहुं दीर्घराजीव लॊचनम
भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम
31 कृतज्ञं जञानसंपन्नं कृतास्त्रम अनिवर्तिनम
युद्धाभिनन्दिनं नित्यं दविषताम अघवर्धनम
32 सवेषां परियहिते युक्तं पितॄणां जय गृद्धिनम
न च पूर्वप्रहर्तारं संग्रामे नष्टसंभ्रमम
यदि पुत्रं न पश्यामि यास्यामि यमसादनम
33 सुललाटं सुकेशान्तं सुभ्र्व अक्षिदशनच छदम
अपश्यतस तद वदनं का शान्तिर हृदयस्य मे
34 तन्त्री सवनसुखं रम्यं पुंस्कॊकॊल समध्वनिम
अशृण्वतः सवनं तस्य का शान्तिर हृदयस्य मे
35 रूपं चाप्रतिरूपं तन्त्रिदशेष्व अपि दुर्लभम
अपश्यतॊ ऽदय वीरस्य का शान्तिर हृदयस्य मे
36 अभिवादनदक्षं तं पितॄणां वचने रतम
नाद्याहं यदि पश्यामि का शान्तिर हृदयस्य मे
37 सुकुमारः सदा वीरॊ महार्हशयनॊचितः
भूमाव अनाथवच छेते नूनं नाथवतां वरः
38 शयानं समुपासन्ति यं पुरा परमस्त्रियः
तम अद्य विप्रविद्धाङ्गम उपासन्त्य अशिवाः शिवाः
39 यः पुरा बॊध्यते सुप्तैः सूतमागधबन्दिभिः
बॊधयन्त्य अद्य तं नूनं शवापदा विकृतैः सवरैः
40 छत्रच छाया समुचितं तस्य तद वदनं शुभम
नूनम अद्य रजॊध्वस्तं रणे रेणुः करिष्यति
41 हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने
भाग्यहीनस्य कालेन यथा मे नीयसे बलात
42 साद्य संयमनी नूनं सदा सुकृतिनां गतिः
सवभाभिर भासिता रम्या तवयात्यर्थं विराजते
43 नूनं वैवस्वतश च तवा वरुणश च परियातिथिः
शतक्रतुर धनेशश च पराप्तम अर्चन्त्य अभीरुकम
44 एवं विलप्य बहुधा भीन पॊतॊ वणिग यथा
दुःखेन महताविष्टॊ युधिष्ठिरम अपृच्छत
45 कच चित स कदनं कृत्वा परेषां पाण्डुनन्दन
सवर्गतॊ ऽभिमुखः संख्ये युध्यमानॊ नरर्षभः
46 स नूनं बहुभिर यत्तैर युध्यमानॊ नरर्षभैः
असहायः सहायार्थी माम अनुध्यातवान धरुवम
47 पीड्यमानः शरैर बालस तात साध्व अभिधाव माम
इति विप्रलपन मन्ये नृशैंसैर बहुभिर हतः
48 अथ वा मत्प्रसूतश च सवस्रीयॊ माधवस्य च
सुभद्रायां च संभूतॊ नैवं वक्तुम इहार्हति
49 वज्रसारमयं नूनं हृदयं सुदृढं मम
अपश्यतॊ दीर्घबाहुं रक्ताक्षं यन न दीर्यते
50 कथं बाले महेष्वासे नृशंसा मर्मभेदिनः
सवस्रीये वासुदेवस्य मम पुत्राक्षिपञ शरान
51 यॊ मां नित्यम अदीनात्मा परत्युद्गम्याभिनन्दति
उपयान्तं रिपून हत्वा सॊ ऽदय मां किं न पश्यति
52 नूनं स पतितः शेते धरण्यां रुधिरॊक्षितः
शॊभयन मेदिनीं गात्रैर आदित्य इव पातितः
53 रणे विनिहतं शरुत्वा शॊकार्ता वै विनंक्ष्यति
सुभद्रा वक्ष्यते किं माम अभिमन्युम अपश्यती
दरौपदी चैव दुःखार्ते ते च वक्ष्यामि किं नव अहम
54 वज्रसारमयं नूनं हृदयं यन न यास्यति
सहस्रधा वधूं दृष्ट्वा रुदतीं शॊककर्शिताम
55 हृष्टानां धार्तराष्ट्राणां सिंहनादॊ मया शरुतः
युयुत्सुश चापि कृष्णेन शरुतॊ वीरान उपालभन
56 अशक्नुवन्तॊ बीभत्सुं बालं हत्वा महारथाः
किं नदध्वम अधर्मज्ञाः पार्थे वै दृश्यतां बलम
57 किं तयॊर विप्रियं कृत्वा केशवार्जुनयॊर मृधे
सिंहवन नदत परीताः शॊककाल उपस्थिते
58 आगमिष्यति वः कषिप्रं फलं पापस्य कर्मणः
अधर्मॊ हि कृतस तीव्रः कथं सयाद अफलश चिरम
59 इति तान रप्ति भाषन वै वैश्यापुत्रॊ महामतिः
अपायाच छस्त्रम उत्सृज्य कॊपदुःखसमन्वितः
60 किमर्थम एतन्न आख्यातं तवया कृष्ण रणे मम
अधक्ष्यं तान अहं सर्वांस तदा करूरान महारथान
61 निगृह्य वासुदेवस तं पुत्राधिभिर अभिप्लुतम
मैवम इत्य अब्रवीत कृष्णस तीव्रशॊकसमन्वितम
62 सर्वेषाम एष वै पन्थाः शूराणाम अनिवर्तिनाम
कषत्रियाणां विशेषेण येषां युद्धेन जीविका
63 एषा वै युध्यमानानां शूराणाम अनिवर्तिनाम
विहिता धर्मशास्त्रज्ञैर गतिर गतिमतां वर
64 धरुवं युद्धे हि मरणं शूराणाम अनिवर्तिनाम
गतः पुण्यकृतां लॊकान अभिमन्युर न संशयः
65 एतच च सर्ववीराणां काङ्क्षितं भरतर्षभ
संग्रामे ऽभिमुखा मृत्युं परप्नुयामेति मानद
66 स च वीरान रणे हत्वा राजपुत्रान महाबलान
वीरैर आकाङ्क्षितं मृत्युं संप्राप्तॊ ऽभिमुखॊ रणे
67 मा शुचः पुरुषव्याघ्र पूर्वैर एष सनातनः
धर्मकृद्भिः कृतॊ धर्मः कषत्रियाणां रणे कषयः
68 इमे ते भरातरः सर्वे दीना भरतसत्तम
तवयि शॊकसमाविष्टे नृपाश च सुहृदस तव
69 एतांस तवं वचसा साम्ना समाश्वासय मानद
विदितं वेदितव्यं ते न शॊकं कर्तुम अर्हसि
70 एवम आश्वासितः पार्थः कृष्णेनाद्भुत कर्मणा
ततॊ ऽबरवीत तदा भरातॄन सर्वान पार्थः सगद्गदान
71 स दीर्घबाहुः पृथ्व अंसॊ दीर्घराजीव लॊचनः
अभिमन्युर यथावृत्तः शरॊतुम इच्छाम्य अहं तथा
72 स नागस्यन्दनहयान दरक्ष्यध्वं निहतान मया
संग्रामे सानुबन्धांस तान मम पुत्रस्य वैरिणः
73 कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम
सौभद्रॊ निधनं गच्छेद वज्रिणापि समागतः
74 यद्य एवम अहम अज्ञास्यम अशक्तान रक्षणे मम
पुत्रस्य पाण्डुपाञ्चालान मया गुप्तॊ भवेत ततः
75 कथं च वॊ रथस्थानां शरवर्षाणि मुञ्चताम
नीतॊ ऽभिमन्युर निधनं कदर्थी कृत्यवः परैः
76 अहॊ वः पौरुषं नास्ति न च वॊ ऽसति पराक्रमः
यत्राभिमन्युः समरे पश्यतां वॊ निपातितः
77 आत्मानम एव गर्हेयं यद अहं वः सुदुर्बलान
युष्मान आज्ञाय निर्यातॊ भीरून अकृतनिश्रमान
78 आहॊ सविद भूषणार्थाय वर्म शस्त्रायुधानि वः
वाचश च वक्तुं संसत्सु मम पुत्रम अरक्षताम
79 एवम उक्त्वा ततॊ वाक्यं तिष्ठंश चापवरासिमान
न समाशक्यत बीभत्सुः केन चित परसमीक्षितुम
80 तम अन्तकम इव करुद्धं निःश्वसन्तं मुहुर मुहुः
पुत्रशॊकाभिसंतप्तम अश्रुपूर्णमुखं तदा
81 नाभिभाष्टुं शक्नुवन्ति दरष्टुं वा सुहृदॊ ऽरजुनम
अन्यत्र वासुदेवाद वा जयेष्टाद वा पाण्डुनन्दनात
82 सर्वास्व अवस्थासु हिताव अर्जुनस्य मनॊऽनुगौ
बहुमानात परियत्वाच च ताव एनं वक्तुम अर्हतः
83 ततस तं पुत्रशॊकेन भृशं पीडित मानसम
राजीवलॊचनं करुद्धं राजा वचनम अब्रवीत
1 [s]
tasminn ahani nirvṛtte ghore prāṇabhṛtāṃ kṣaye
āditye 'staṃ gate śrīmān saṃdhyākāla upasthite
2 vyapayāteṣu sainyeṣu vāsāya bharatarṣabha
hatvā saṃśaptakavrātān divyair astraiḥ kapidhvajaḥ
3 prāyāt svaśibiraṃ jiṣṇur jaitram āsthāya taṃ ratham
gacchann eva ca govindaṃ sannakaṇṭho 'bhyabhāṣata
4 kiṃ nu me hṛdayaṃ trastaṃ vākyaṃ sajjati keśava
spandanti cāpy aniṣṭāni gātraṃ sīdati cāpy uta
5 aniṣṭaṃ caiva me śliṣṭaṃ hṛdayān nāpasarpati
bhuvi yad dikṣu cāpy ugrā utpātās trāsayanti mām
6 bahuprakārā dṛśyante sarva evāgha śaṃsinaḥ
api svasti bhaved rājñaḥ sāmātyasya guror mama
7 [vāsu]
vyaktaṃ śivaṃ tava bhrātuḥ sāmātyasya bhaviṣyati
mā śucaḥ kiṃ cid evānyat tatrāniṣṭaṃ bhaviṣyati
8 [s]
tataḥ saṃdhyām upāsyaiva vīrau vīrāvasādane
kathayantau raṇe vṛttaṃ prayātau ratham āsthitau
9 tataḥ svaśibiraṃ prāptau hatānandaṃ hatatviṣam
vāsudevo 'rjunaś caiva kṛtvā karma suduṣkaram
10 dhvastākāraṃ samālakṣya śibiraṃ paravīrahā
bībhatsur abravīt kṛṣṇam asvasthahṛdayas tataḥ
11 nādya nandanti tūryāṇi maṅgalyāni janārdana
miśrā dundubhinirghoṣaḥ śaṅkhāś cāḍambaraiḥ saha
vīṇā vā nādya vādyante śamyā tālasvanaiḥ saha
12 maṅgalyāni ca gītāni na gāyanti paṭhanti ca
stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ
13 yodhāś cāpi hi māṃ dṛṣṭvā nivartante hy adhomukhāḥ
karmāṇi ca yathāpūrvaṃ kṛtvā nābhivadanti mām
14 api svasti bhaved adya bhrātṛbhyo mama mādhava
na hi śudhyati me bhāvo dṛṣṭvā svajanam ākulam
15 api pāñcālarājasya virāṭasya ca mānada
sarveṣāṃ caiva yodhānāṃ sāmagryaṃ syān mamācyuta
16 na ca mām adya saubhadraḥ prahṛṣṭo bhrātṛbhiḥ saha
raṇād āyāntam ucitaṃ pratyudyāti hasann iva
17 evaṃ saṃkathayantau tau praviṣṭau śibiraṃ svakam
dadṛśāte bhṛśāsvasthān pāṇḍavān naṣṭacetasaḥ
18 dṛṣṭvā bhrātṝṃś ca putrāṃś ca vimanā vānaradhvajaḥ
apaśyaṃś caiva saubhadram idaṃ vacanam abravīt
19 mukhavarṇo 'prasanno vaḥ sarveṣām eva lakṣyate
na cābhimanyuṃ paśyāmi na ca māṃ pratinandatha
20 mayā śrutaś ca droṇena cakravyūho vinirmitaḥ
na ca vas tasya bhettāsti ṛte saubhadram āhave
21 na copadiṣṭas tasyāsīn mayānīka vinirgamaḥ
kac cin na bālo yuṣmābhiḥ parānīkaṃ praveśitaḥ
22 bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi
kac cin na nihataḥ śete saubhadraḥ paravīrahā
23 lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu
upendra sadṛśaṃ brūta katham āyodhane hataḥ
24 sukumāraṃ maheṣvāsaṃ vāsavasyātmajātmajam
sadā mama priyaṃ brūta katham āyodhane hataḥ
25 vārṣṇeyī dayitaṃ śūraṃ mayā satatalālitam
ambāyāś ca priyaṃ nityaṃ ko 'vadhīt kālacoditaḥ
26 sadṛśo vṛṣṇisiṃhasya keśavasya mahātmanaḥ
vikramaśrutamāhātmyaiḥ katham āyodhane hataḥ
27 subhadrāyāḥ priyaṃ nityaṃ draupadyāḥ keśavasya ca
yadi putraṃ na paśyāmi yāsyāmi yamasādanam
28 mṛdu kuñcitakeśāntaṃ bālaṃ bāla mṛgekṣaṇam
mattadviradavikrāntaṃ śālapotam ivodgatam
29 smitābhibhāṣaṇaṃ dāntaṃ guruvākyakaraṃ sadā
bālye 'py abāla karmāṇaṃ priyavākyam amatsaram
30 mahotsāhaṃ mahābāhuṃ dīrgharājīva locanam
bhaktānukampinaṃ dāntaṃ na ca nīcānusāriṇam
31 kṛtajñaṃ jñānasaṃpannaṃ kṛtāstram anivartinam
yuddhābhinandinaṃ nityaṃ dviṣatām aghavardhanam
32 sveṣāṃ priyahite yuktaṃ pitṝṇāṃ jaya gṛddhinam
na ca pūrvaprahartāraṃ saṃgrāme naṣṭasaṃbhramam
yadi putraṃ na paśyāmi yāsyāmi yamasādanam
33 sulalāṭaṃ sukeśāntaṃ subhrv akṣidaśanac chadam
apaśyatas tad vadanaṃ kā śāntir hṛdayasya me
34 tantrī svanasukhaṃ ramyaṃ puṃskokola samadhvanim
aśṛṇvataḥ svanaṃ tasya kā śāntir hṛdayasya me
35 rūpaṃ cāpratirūpaṃ tantridaśeṣv api durlabham
apaśyato 'dya vīrasya kā śāntir hṛdayasya me
36 abhivādanadakṣaṃ taṃ pitṝṇāṃ vacane ratam
nādyāhaṃ yadi paśyāmi kā śāntir hṛdayasya me
37 sukumāraḥ sadā vīro mahārhaśayanocitaḥ
bhūmāv anāthavac chete nūnaṃ nāthavatāṃ varaḥ
38 śayānaṃ samupāsanti yaṃ purā paramastriyaḥ
tam adya vipraviddhāṅgam upāsanty aśivāḥ śivāḥ
39 yaḥ purā bodhyate suptaiḥ sūtamāgadhabandibhiḥ
bodhayanty adya taṃ nūnaṃ śvāpadā vikṛtaiḥ svaraiḥ
40 chatrac chāyā samucitaṃ tasya tad vadanaṃ śubham
nūnam adya rajodhvastaṃ raṇe reṇuḥ kariṣyati
41 hā putrakāvitṛptasya satataṃ putradarśane
bhāgyahīnasya kālena yathā me nīyase balāt
42 sādya saṃyamanī nūnaṃ sadā sukṛtināṃ gatiḥ
svabhābhir bhāsitā ramyā tvayātyarthaṃ virājate
43 nūnaṃ vaivasvataś ca tvā varuṇaś ca priyātithiḥ
śatakratur dhaneśaś ca prāptam arcanty abhīrukam
44 evaṃ vilapya bahudhā bhīna poto vaṇig yathā
duḥkhena mahatāviṣṭo yudhiṣṭhiram apṛcchata
45 kac cit sa kadanaṃ kṛtvā pareṣāṃ pāṇḍunandana
svargato 'bhimukhaḥ saṃkhye yudhyamāno nararṣabhaḥ
46 sa nūnaṃ bahubhir yattair yudhyamāno nararṣabhaiḥ
asahāyaḥ sahāyārthī mām anudhyātavān dhruvam
47 pīḍyamānaḥ śarair bālas tāta sādhv abhidhāva mām
iti vipralapan manye nṛśaiṃsair bahubhir hataḥ
48 atha vā matprasūtaś ca svasrīyo mādhavasya ca
subhadrāyāṃ ca saṃbhūto naivaṃ vaktum ihārhati
49 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama
apaśyato dīrghabāhuṃ raktākṣaṃ yan na dīryate
50 kathaṃ bāle maheṣvāse nṛśaṃsā marmabhedinaḥ
svasrīye vāsudevasya mama putrākṣipañ śarān
51 yo māṃ nityam adīnātmā pratyudgamyābhinandati
upayāntaṃ ripūn hatvā so 'dya māṃ kiṃ na paśyati
52 nūnaṃ sa patitaḥ śete dharaṇyāṃ rudhirokṣitaḥ
śobhayan medinīṃ gātrair āditya iva pātitaḥ
53 raṇe vinihataṃ śrutvā śokārtā vai vinaṃkṣyati
subhadrā vakṣyate kiṃ mām abhimanyum apaśyatī
draupadī caiva duḥkhārte te ca vakṣyāmi kiṃ nv aham
54 vajrasāramayaṃ nūnaṃ hṛdayaṃ yan na yāsyati
sahasradhā vadhūṃ dṛṣṭvā rudatīṃ śokakarśitām
55 hṛṣṭānāṃ dhārtarāṣṭrāṇāṃ siṃhanādo mayā śrutaḥ
yuyutsuś cāpi kṛṣṇena śruto vīrān upālabhan
56 aśaknuvanto bībhatsuṃ bālaṃ hatvā mahārathāḥ
kiṃ nadadhvam adharmajñāḥ pārthe vai dṛśyatāṃ balam
57 kiṃ tayor vipriyaṃ kṛtvā keśavārjunayor mṛdhe
siṃhavan nadata prītāḥ śokakāla upasthite
58 āgamiṣyati vaḥ kṣipraṃ phalaṃ pāpasya karmaṇaḥ
adharmo hi kṛtas tīvraḥ kathaṃ syād aphalaś ciram
59 iti tān rapti bhāṣan vai vaiśyāputro mahāmatiḥ
apāyāc chastram utsṛjya kopaduḥkhasamanvitaḥ
60 kimartham etann ākhyātaṃ tvayā kṛṣṇa raṇe mama
adhakṣyaṃ tān ahaṃ sarvāṃs tadā krūrān mahārathān
61 nigṛhya vāsudevas taṃ putrādhibhir abhiplutam
maivam ity abravīt kṛṣṇas tīvraśokasamanvitam
62 sarveṣām eṣa vai panthāḥ śūrāṇām anivartinām
kṣatriyāṇāṃ viśeṣeṇa yeṣāṃ yuddhena jīvikā
63 eṣā vai yudhyamānānāṃ śūrāṇām anivartinām
vihitā dharmaśāstrajñair gatir gatimatāṃ vara
64 dhruvaṃ yuddhe hi maraṇaṃ śūrāṇām anivartinām
gataḥ puṇyakṛtāṃ lokān abhimanyur na saṃśayaḥ
65 etac ca sarvavīrāṇāṃ kāṅkṣitaṃ bharatarṣabha
saṃgrāme 'bhimukhā mṛtyuṃ prapnuyāmeti mānada
66 sa ca vīrān raṇe hatvā rājaputrān mahābalān
vīrair ākāṅkṣitaṃ mṛtyuṃ saṃprāpto 'bhimukho raṇe
67 mā śucaḥ puruṣavyāghra pūrvair eṣa sanātanaḥ
dharmakṛdbhiḥ kṛto dharmaḥ kṣatriyāṇāṃ raṇe kṣayaḥ
68 ime te bhrātaraḥ sarve dīnā bharatasattama
tvayi śokasamāviṣṭe nṛpāś ca suhṛdas tava
69 etāṃs tvaṃ vacasā sāmnā samāśvāsaya mānada
viditaṃ veditavyaṃ te na śokaṃ kartum arhasi
70 evam āśvāsitaḥ pārthaḥ kṛṣṇenādbhuta karmaṇā
tato 'bravīt tadā bhrātṝn sarvān pārthaḥ sagadgadān
71 sa dīrghabāhuḥ pṛthv aṃso dīrgharājīva locanaḥ
abhimanyur yathāvṛttaḥ śrotum icchāmy ahaṃ tathā
72 sa nāgasyandanahayān drakṣyadhvaṃ nihatān mayā
saṃgrāme sānubandhāṃs tān mama putrasya vairiṇaḥ
73 kathaṃ ca vaḥ kṛtāstrāṇāṃ sarveṣāṃ śastrapāṇinām
saubhadro nidhanaṃ gacched vajriṇāpi samāgataḥ
74 yady evam aham ajñāsyam aśaktān rakṣaṇe mama
putrasya pāṇḍupāñcālān mayā gupto bhavet tataḥ
75 kathaṃ ca vo rathasthānāṃ śaravarṣāṇi muñcatām
nīto 'bhimanyur nidhanaṃ kadarthī kṛtyavaḥ paraiḥ
76 aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ
yatrābhimanyuḥ samare paśyatāṃ vo nipātitaḥ
77 ātmānam eva garheyaṃ yad ahaṃ vaḥ sudurbalān
yuṣmān ājñāya niryāto bhīrūn akṛtaniśramān
78 āho svid bhūṣaṇārthāya varma śastrāyudhāni vaḥ
vācaś ca vaktuṃ saṃsatsu mama putram arakṣatām
79 evam uktvā tato vākyaṃ tiṣṭhaṃś cāpavarāsimān
na smāśakyata bībhatsuḥ kena cit prasamīkṣitum
80 tam antakam iva kruddhaṃ niḥśvasantaṃ muhur muhuḥ
putraśokābhisaṃtaptam aśrupūrṇamukhaṃ tadā
81 nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ vā suhṛdo 'rjunam
anyatra vāsudevād vā jyeṣṭād vā pāṇḍunandanāt
82 sarvāsv avasthāsu hitāv arjunasya mano'nugau
bahumānāt priyatvāc ca tāv enaṃ vaktum arhataḥ
83 tatas taṃ putraśokena bhṛśaṃ pīḍita mānasam
rājīvalocanaṃ kruddhaṃ rājā vacanam abravīt

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1034 of 2013 Book 51% ~9 min left