Book 7: Chapter 164
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 7: Chapter 164

The Mahabharata in Sanskrit

Book 7
Chapter 164

1 [स]
तस्मिंस तथा वर्तमाने नराश्वगजसंक्षये
दुःशासनॊ महाराज धृष्टद्युम्नम अयॊधयत
2 स तु रुक्मरथासक्तॊ दुःशासन शरार्दितः
अमर्षात तव पुत्रस्य शरैर वाहान अवाकिरत
3 कषणेन स रथस तस्य स धवजः सह सारथिः
नादृश्यत महाराज पार्षतस्य शरैश चितः
4 दुःशासनस तु राजेन्द्र पाञ्चाल्यस्य महात्मनः
नाशकत परमुखे सथातुं शरजालप्रपीडितः
5 स तु दुःशासनं बाणैर विमुखीकृत्य पार्षतः
किरञ शरसहस्राणि दरॊणम एवाभ्ययाद रणे
6 परत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम
सॊदर्याणां तरयश चैव त एनं पर्यवारयन
7 तं यमौ पृष्ठतॊ ऽनवैतां रक्षन्तौ पुरुषर्षभौ
दरॊणायाभिमुखं यान्तं दीप्यमानम इवानलम
8 संप्रहारम अकुर्वंस ते सर्वे सप्त महारथाः
अमर्षिताः सत्त्ववन्तः कृत्वा मरणम अग्रतः
9 शुद्धात्मानः शुद्धवृत्ता राजन सवर्गपुरस्कृताः
आर्यं युद्धम अकुर्वन्त परस्परजिगीषवः
10 शुक्लाभिजन कर्माणॊ मतिमन्तॊ जनाधिपाः
धर्मयुद्धम अयुध्यन्त परेक्षन्तॊ गतिम उत्तमाम
11 न तत्रासीद अधर्मिष्ठम अशस्त्रं युद्धम एव च
नात्र कर्णी न नालीकॊ न लिप्तॊ न च वस्तकः
12 न सूची कपिशॊ नात्र न गवास्थिर गजास्थिकः
इषुर आसीन न संश्लिष्टॊ न पूतिर न च जिह्मगः
13 ऋजून्य एव विशुद्धानि सर्वे शस्त्राण्य अधारयन
सुयुद्धेन पराँल लॊकान ईप्सन्तः कीर्तिम एव च
14 तदासीत तुमुलं युद्धं सर्वदॊषविवर्जितम
चतुर्णां तव यॊधानां तैस तरिभिः पाण्डवैः सह
15 धृष्टद्युम्नस तु तान हित्वा तव राजन रथर्षभान
यमाभ्यां वारितान दृष्ट्वा शीघ्रास्त्रॊ दरॊणम अभ्ययात
16 निवारितास तु ते वीरास तयॊः पुरुषसिंहयॊः
समसज्जन्त चत्वारॊ वाताः पर्वतयॊर इव
17 दवाभ्यां दवाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ
समासक्तौ ततॊ दरॊणं धृष्टद्युम्नॊ ऽभयवर्तत
18 दृष्ट्वा दरॊणाय पाञ्चाल्यं वरजन्तं युद्धदुर्मदम
यमाभ्यां तांश च संसक्तांस तदन्तरम उपाद्रवत
19 दुर्यॊधनॊ महाराज किरञ शॊणितभॊजनान
तं सात्यकिः शीघ्रतरं पुनर एवाभ्यवर्तत
20 तौ परस्परम आसाद्य समिप्पे कुरु माधवौ
हसमानौ नृशार्दूलाव अभीतौ समगच्छताम
21 बाल्ये वृत्तानि सर्वाणि परीयमाणौ विचिन्त्य तौ
अन्यॊन्यं परेक्षमाणौ च हसमानौ पुनः पुनः
22 अथ दुर्यॊधनॊ राजा सात्यकिं परत्यभाषत
परियं सखायं सततं गर्हयन वृत्तम आत्मनः
23 धिक करॊधं धिक सखे लॊभं धिन मॊहं धिग अमर्षितम
धिग अस्तु कषात्रम आचारं धिग अस्तु बलम औरसम
24 यत तवं माम अभिसंधत्से तवां चाहं शिनिपुंगव
तवं हि पराणैः परियतरॊ ममाहं च सदा तव
25 समरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ
तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे
किम अन्यत करॊधलॊभाभ्यां युध्यामि तवाद्य सात्वत
26 तं तथा वादिनं राजन सात्यकिः परत्यभाषत
परहसन विशिखांस तीक्ष्णान उद्यम्य परमास्त्रवित
27 नेयं सभा राजपुत्र न चाचार्य निवेशनम
यत्र करीडितम अस्माभिस तदा राजन समागतैः
28 [दुर]
कव सा करीडा गतास्माकं बाल्ये वै शिनिपुंगव
कव च युद्धम इदं भूयः कालॊ हि दुरतिक्रमः
29 किं नु नॊ विद्यते कृत्यं धनेन धनलिप्सया
यत्र युध्यामहे सर्वे धनलॊभात समागताः
30 [सम्जय]
तं तथा वादिनं तत्र राजानं माधवॊ ऽबरवीत
एवंवृत्थं सदा कषत्रं यद धन्तीह गुरून अपि
31 यदि ते ऽहं परियॊ राजञ जहि मां माचिरं कृथाः
तवत्कृते सुकृताँल लॊकान गच्छेयं भरतर्षभ
32 या ते शक्तिर बलं चैव तत कषिप्रं मयि दर्शय
नेच्छाम्य एतद अहं दरष्टुं मित्राणां वयसनं महत
33 इत्य एवं वयक्तम आभाष्य परतिभाष्य च सात्यकिः
अभ्ययात तूर्णम अव्यग्रॊ निरपेक्षॊ विशां पते
34 तम आयान्तम अभिप्रेक्ष्य परत्यगृह्णात तवात्मजः
शरैश चावाकिरद राजञ शैनेयं तनयस तव
35 ततः परववृते युद्धं कुरु माधव सिंहयॊः
अन्यॊन्यं करुद्धयॊर घॊरं यथा दविरदसिंहयॊः
36 ततः पूर्णायतॊत्सृष्टैः सात्वतं युद्धदुर्मदम
दुर्यॊधनः परत्यविध्यद दशभिर निशितैः शरैः
37 तं सात्यकिः परत्यविद्धत तथैव दशभिः शरैः
पञ्चाशता पुनश चाजौ तरिंशता दशभिश च ह
38 तस्य संधधतश चेषून संहितेषुं च कार्मुकम
अच्छिनत सात्यकिस तूर्णं शरैश चैवाभ्यवीवृषत
39 स गाढविद्धॊ वयथितः परत्यपायाद रथान्तरम
दुर्यॊधनॊ महाराज दाशार्ह शरपीडितः
40 समाश्वस्य तु पुत्रस ते सात्यकिं पुनर अभ्ययात
विसृजन्न इषुजालानि युयुधान रथं परथि
41 तथैव सात्यकिर बाणान दुर्यॊधन रथं परति
परततं वयसृजद राजंस तत संकुलम अवर्तत
42 तत्रेषुभिः कषिप्यमाणैः पतद्भिश च समन्ततः
अग्नेर इव महाकक्षे शब्दः समभवन महान
43 तत्राभ्यधिकम आलक्ष्य माधवं रथसत्तमम
कषिप्रम अभ्यपतत कर्णः परीप्संस तनयं तव
44 न तु तं मर्षयाम आस भीमसेनॊ महाबलः
अभ्ययात तवरितः कर्णं विसृजन सायकान बहून
45 तस्य कर्णः शितान बाणान परतिहन्य हसन्न इव
धनुः शरांश च चिच्छेद सूतं चाभ्यहनच छरैः
46 भीमसेनस तु संक्रुद्धॊ गदाम आदाय पाण्डवः
धवजं धनुश च सूतं च संममर्दाहवे रिपॊः
47 अमृष्यमाणः कर्णस तु भीमसेनम अयुध्यत
विविधैर इषुजालैश च नानाशस्त्रैश च संयुगे
48 संकुले वर्तमाने तु राजा धर्मसुतॊ ऽबरवीत
पाञ्चालानां नरव्याघ्रान मत्स्यानां च नरर्षभान
49 ये नः पराणाः शिरॊ ये नॊ ये नॊ यॊधा महाबलाः
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः
50 किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः
तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः
51 कषत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः
जयन्तॊ वध्यमाना वा गतिम इष्टां गमिष्यथ
52 जित्वा च बहुभिर यज्ञैर यक्ष्यध्वं भूरिदक्षिणैः
हता वा देवसाद भूत्वा लॊकान पराप्स्यथ पुष्कलान
53 ते राज्ञा चॊदिता वीरा यॊत्स्यमाना महारथाः
चतुर्धा वहिनीं कृत्वा तवरिता दरॊणम अभ्ययुः
54 पाञ्चालास तव एकतॊ दरॊणम अभ्यघ्नन बहुभिः शरैः
भीमसेनपुरॊगाश च एकतः पर्यवारयन
55 आसंस तु पाण्डुपुत्राणां तरयॊ ऽजिह्मा महारथाः
यमौ च भीमसेनश च पराक्रॊशन्त धनंजयम
56 अभिद्रवार्जुन कषिप्रं कुरून दरॊणाद अनानुद
तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम
57 कौरवेयांस ततः पार्थः सहसा समुपाद्रवत
पाञ्चालान एव तु दरॊणॊ धृष्टद्युम्नपुरॊगमान
58 पाञ्चालानां ततॊ दरॊणॊ ऽपय अकरॊत कदनं महत
यथा करुद्धॊ रणे शक्रॊ दानवानां कषयं पुरा
59 दरॊणास्त्रेण महाराज वध्यमानाः परे युधि
नात्रसन्त रणे दरॊणात सत्त्ववन्तॊ महारथाः
60 वध्यमाना महाराज पाञ्चालाः सृञ्जयास तथा
दरॊणम एवाभ्ययुर युद्धे मॊहयन्तॊ महारथम
61 तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः
अभवद भैरवॊ नादॊ वध्यतां शरशक्तिभिः
62 वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना
उदीर्यमाणे दरॊणास्त्रे पाण्डवान भयम आविशत
63 दृष्ट्वाश्वनरसंघानां विपुलं च कषयं युधि
पाण्डवेया महाराज नाशंसुर विजयं तदा
64 कच चिद दरॊणॊ न नः सर्वान कषपयेत परमास्त्रवित
समिद्धः शिशिरापाये दहन कक्षम इवानलः
65 न चैनं संयुगे कश चित समर्थः परतिवीक्षितुम
न चैनम अर्जुनॊ जातु परतियुध्येत धर्मवित
66 तरस्तान कुन्तीसुतान दृष्ट्वा दरॊण सायकपीडितान
मतिमाञ शरेयसे युक्तः केशवॊ ऽरजुनम अब्रवीत
67 नैष युद्धेन संग्रामे जेतुं शक्यः कथं चन
अपि वृत्रहणा युद्धे रथयूथप यूथपः
68 आस्थीयतां जये यॊगॊ धर्मम उत्सृज्य पाण्डव
यथा वः संयुगे सर्वान न हन्याद रुक्मवाहनः
69 अश्वत्थाम्नि हते नैष युध्येद इति मतिर मम
तं हतं संयुगे कश चिद अस्मै शंसतु मानवः
70 एतन नारॊचयद राजन कुन्तीपुत्रॊ धनंजयः
अन्ये तव अरॊचयन सर्वे कृच्छ्रेण तु युधिष्ठिरः
71 ततॊ भीमॊ महाबाहुर अनीके सवे महागजम
जघान गदया राजन्न अश्वत्थामानम इत्य उत
72 भीमसेनस तु सव्रीडम उपेत्य दरॊणम आहवे
अश्वत्थामा हत इति शब्दम उच्चैश चकार ह
73 अश्वत्त्मामेति हि गजः खयातॊ नाम्ना हतॊ ऽभवत
कृत्वा मनसि तं भीमॊ मिथ्या वयाहृतवांस तदा
74 भीमसेन वचः शरुत्वा दरॊणस तत्परमप्रियम
मनसा सन्नगात्रॊ ऽभूद यथा सैकतम अम्भसि
75 शङ्कमानः स तन मिथ्या वीर्यज्ञः सवसुतस्य वै
हतः स इति च शरुत्वा नैव धैर्याद अकम्पत
76 स लब्ध्वा चेतनां दरॊणः कषणेनैव समाश्वसत
अनुचिन्त्यात्मनः पुत्रम अविषह्यम अरातिभिः
77 स पार्षतम अभिद्रुत्य जिघांसुर मृत्युम आत्मनः
अवाकिरत सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम
78 तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः
तथा चरन्तं संग्रामे सर्वतॊ वयकिरच छरैः
79 ततः परादुष्करॊद दरॊणॊ बराह्मम अस्त्रं परंतपः
वधाय तेषां शूराणां पाञ्चालानाम अमर्षितः
80 ततॊ वयरॊचत दरॊणॊ विनिघ्नन सर्वसॊमकान
शिरांस्य अपातयच चापि पाञ्चालानां महामृधे
तथैव परिघाकारान बाहून कनकभूषणान
81 ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः
मेदिन्याम अन्वकीर्यन्त वातनुन्ना इव दरुमाः
82 कुञ्जराणां च पततां हयौघानां च भारत
अगम्यरूपा पृथिवी मांसशॊणितकर्दमा
83 हत्वा विंशतिसाहस्रान पाञ्चालानां रथव्रजान
अतिष्ठद आहवे दरॊणॊ विधूमॊ ऽगनिर इव जवलन
84 तथैव च पुनः करुद्धॊ भारद्वाजः परतापवान
वसु दानस्य भल्लेन शिरः कायाद अपाहरत
85 पुनः पञ्चशतान मस्त्यान षट सहस्रांश च सृञ्जयान
हस्तिनाम अयुतं हत्वा जघानाश्वायुतं पुनः
86 कषत्रियाणाम अभावाय दृष्ट्वा दरॊणम अवस्थितम
ऋषयॊ ऽभयागमंस तूर्णं हव्यवाहपुरॊगमाः
87 विश्वामित्रॊ जमदग्निर भारद्वाजॊ ऽथ गौतमः
वसिष्ठः कश्यपॊ ऽतरिश च बरह्मलॊकं निनीषवः
88 सिकताः पृश्नयॊ गर्गा बालखिल्या मरीचिपाः
भृगवॊ ऽङगिरसश चैव सूक्ष्माश चान्ये महर्षयः
89 त एनम अब्रुवन सर्वे दरॊणम आहवशॊभिनम
अधर्मतः कृतं युद्धं समयॊ निधनस्य ते
90 नयस्यायुधं रणे दरॊण समेत्यास्मान अवस्थितान
नातः करूरतरं कर्म पुनः कर्तुं तवम अर्हसि
91 वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च
बराह्मणस्य विशेषेण तवैतन नॊपपद्यते
92 नयस्यायुधम अमॊघेषॊ तिष्ठ वर्त्मनि शाश्वते
परिपूर्णश च कालस ते वस्तुं लॊके ऽदय मानुषे
93 इति तेषां वचः शरुत्वा भीमसेन वचश च तत
धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत
94 स दह्यमानॊ वयथितः कुन्तीपुत्रं युधिष्ठिरम
अहतं वा हतं वेति पप्रच्छ सुतम आत्मनः
95 सथिरा बुद्धिर हि दरॊणस्य न पार्थॊ वक्ष्यते ऽनृतम
तरयाणाम अपि लॊकानाम ऐश्वर्यार्थे कथं चन
96 तस्मात तं परिपप्रच्छ नान्यं कं चिद विशेषतः
तस्मिंस तस्य हि सत्याशा बाल्यात परभृति पाण्डवे
97 ततॊ निष्पाण्डवाम उर्वीं करिष्यन्तं युधां पतिम
दरॊणं जञात्वा धर्मराजं गॊविन्दॊ वयथितॊ ऽबरवीत
98 यद्य अर्धदिवसं दरॊणॊ युध्यते मन्युम आस्थितः
सत्यं बरवीमि ते सेना विनाशं समुपैष्यति
99 स भवांस तरातुनॊ दरॊणात सत्याज जयायॊ ऽनृतं भवेत
अनृतं जीवितस्यार्थे वचन न सपृश्यते ऽनृतैः
100 तयॊः संवदतॊर एवं भीमसेनॊ ऽबरवीद इदम
शरुत्वैव तं महाराज वधॊपायं महात्मनः
101 गाहमानस्य ते सेनां मालवस्येन्द्र वर्मणः
अश्वत्थामेति विख्यातॊ गजः शक्र गजॊपमः
102 निहतॊ युधि विक्रम्य ततॊ ऽहं दरॊणम अब्रुवम
अश्वत्थामा हतॊ बरह्मन निवर्तस्वाहवाद इति
103 नूनं नाश्रद्दधद वाक्यम एष मे पुरुषर्षभः
स तवं गॊविन्द वाक्यानि मानयस्व जयैषिणः
104 दरॊणाय निहतं शंस राजञ शारद्वती सुतम
तवयॊक्तॊ नैष युध्येत जातु राजन दविजर्षभः
सत्यवान हि नृलॊके ऽसमिन भवान खयातॊ जनाधिप
105 तस्य तद वचनं शरुत्वा कृष्ण वाक्यप्रचॊदितः
भावित्वाच च महाराज वक्तुं समुपचक्रमे
106 तम अतथ्य भये मग्नॊ जये सक्तॊ युधिष्ठिरः
अव्यक्तम अब्रवीद राजन हतः कुञ्जर इत्य उत
107 तस्य पूर्वं रथः पृथ्व्याश चतुरङ्गुल उत्तरः
बभूवैवं तु तेनॊक्ते तस्य वाहास्पृशन महीम
108 युधिष्ठिरात तु तद वाक्यं शरुत्वा दरॊणॊ महारथः
पुत्रव्यसनसंतप्तॊ निराशॊ जीविते ऽभवत
109 आगः कृतम इवात्मानं पाण्डवानां महात्मनाम
ऋषिवाक्यं च मन्वानः शरुत्वा च निहतं सुतम
110 विचेताः परमॊद्विग्नॊ धृष्टद्युम्नम अवेक्ष्य च
यॊद्धुं नाशक्नुवद राजन यथापूर्वम अरिंदम
111 तं दृष्ट्वा परमॊद्विग्नं शॊकॊपहतचेतसम
पाञ्चालराजस्य सुतॊ धृष्टद्युम्नः समाद्रवत
112 य इष्ट्वा मनुजेन्द्रेण दरुपदेन महामखे
लब्ध्वा दरॊण विनाशाय समिद्धाद धव्यवाहनात
113 सधनुर जैत्रम आदाय घॊरं जलदनिस्वनम
दृढज्यम अजरं दिव्यं शरांश चाशीविषॊपमान
114 संदधे कार्मुके तस्मिञ शरम आशीविषॊपमम
दरॊणं जिघांसुः पाञ्चाल्यॊ महाज्वालम इवानलम
115 तस्य रूपं शरस्यासीद धनुर्ज्या मण्डलान्तरे
दयॊततॊ भास्करस्येव घनान्ते परिवेशिनः
116 पार्षतेन परामृष्टं जवलन्तम इव तद धनुः
अन्तकालम इव पराप्तं मेनिरे वीक्ष्य सैनिकाः
117 तम इषुं संहितं तेन भारद्वाजः परतापवान
दृष्ट्वामन्यत देहस्य कालपर्यायम आगतम
118 ततः स यत्नम आतिष्ठद आचार्यस तस्य वारणे
न चास्यास्त्राणि राजेन्द्र परादुरासन महात्मनः
119 तस्य तव अहानि चत्वारि कषपा चैकास्यतॊ गता
तस्य चाह्नस तरिभागेन कषयं जग्मुः पतत्रिणः
120 स शरक्षयम आसाद्य पुत्रशॊकेन चार्दितः
विविधानां च दिव्यानाम अस्त्राणाम अप्रसन्नताम
121 उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचॊदितः
तेजसा परेर्यमाणश च युयुधे सॊ ऽतिमानुषम
122 अथान्यत स समादाय दिव्यम आङ्गिरसं धनुः
शरांश च शरवर्षेण महता समवाकिरत
123 ततस तं शरवर्षेण महता समवाकिरत
वयशातयच च संक्रुद्धॊ धृष्टद्युम्नम अमर्षणः
124 तं शरं शतधा चास्य दरॊणश चिच्छेद सायकैः
धवजं धनुश च निशितैः सारथिं चाप्य अपातयत
125 धृष्टद्युम्नः परहस्यान्यत पुनर आदाय कार्मुकम
शितेन चैनं बाणेन परत्यविध्यत सतनान्तरे
126 सॊ ऽतिविद्धॊ महेष्वासः संभ्रान्त इव संयुगे
भल्लेन शितधारेण चिच्छेदास्य महद धनुः
127 यच चास्य बाणं विकृतं धनूंषि च विशां पते
सर्वं संछिद्य दुर्धर्षॊ गदां खड्गम अथापि च
128 धृष्टद्युम्नं ततॊ ऽविध्यन नवभिर निशितैः शरैः
जीवितान्तकरैः करुद्धैः करुद्ध रूपं परंतपः
129 धृष्टद्युम्न रथस्याश्वान सवरथाश्वैर महारथः
अमिश्रयद अमेयात्मा बराह्मम अस्त्रम उदीरयन
130 ते मिश्रा बह्व अशॊभन्त जवना वातरंहसः
पारावत सवर्णाश च शॊणाश च भरतर्षभ
131 यथा स विद्युतॊ मेघा नदन्तॊ जललागमे
तथा रेजुर महाराज मिश्रिता रणमूर्धनि
132 ईषा बन्धं चक्रबन्धं रथबन्धं तथैव च
परणाशयद अमेयात्मा धृष्टद्युम्नस्य स दविजः
133 स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः
उत्तमाम आपदं पराप्य गदां वीरः परामृशत
134 ताम अस्य विशिखैस तीक्ष्णैः कषिप्यमाणां महारथः
निजघान शरैर दरॊणः करुद्धः सत्यपराक्रमः
135 तां दृष्ट्वा तु नरव्याघ्रॊ दरॊणेन निहतां शरैः
विमलं खड्गम आदत्त शतचन्द्रं च भानुमत
136 असंशयं तथा भूते पाञ्चाल्यः साध्व अमन्यत
वधम आचार्य मुख्यस्य पराप्तकालं महात्मनः
137 ततः सवरथनीडस्थः सवरथस्य रथेषया
अगच्छद असिम उद्यम्य शतचन्द्रं च भानुमत
138 चिकीर्षुर दुष्करं कर्म धृष्टद्युम्नॊ महारथः
इयेष वक्षॊ भेत्तुं च भारद्वाजस्य संयुगे
139 सॊ ऽतिष्ठद युगमध्ये वै युगसंनहनेषु च
शॊणानां जघनार्धेषु तत सैन्याः समपूजयन
140 तिष्ठतॊ युगपालीषु शॊणान अप्य अधितिष्ठतः
नापश्यद अन्तरं दॊणस तद अद्भुतम इवाभवत
141 कषिप्रं शयेनस्य चरतॊ यथैवामिष गृद्धिनः
तद्वद आसीद अभीसारॊ दरॊणं परार्थयतॊ रणे
142 तस्याश्वान रथशक्त्यासौ तदा करुद्धः पराक्रमी
सर्वान एकैकशॊ दरॊणः कपॊताभान अजीघनत
143 ते हता नयपतन भूमौ धृष्टद्युम्नस्य वाजिनः
शॊणाश च पर्यमुच्यन्त रथबन्धाद विशां पते
144 तान हयान निहतान दृष्ट्वा दविजाग्र्येण स पार्षतः
नामृष्यत युधां शरेष्ठॊ याज्ञसेनिर महारथः
145 विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः
दरॊणम अभ्यपतद राजन वैनतेय इवॊरगम
146 तस्य रूपं बभौ राजन भारद्वाजं जिघांसतः
यथा रूपं परं विष्णॊर हिरण्यकशिपॊर वधे
147 सॊ ऽचिरद विविधान मार्गान परकारान एकविंशतिम
भरान्तम उद्भ्रान्तम आविद्धम आप्लुतं परसृतं सृतम
148 परिवृत्तं निवृत्तंच खड्गं चर्म च धारयन
संपातं समुदीर्णं च दर्शयाम आस पार्षतः
149 ततः शरसहस्रेण शतचन्द्रम अपातयत
खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स दविजः
150 ते तु वैतस्तिका नाम शरा हय आसन्न घातिनः
निकृष्ट युद्धे दरॊणस्य नान्येषां सन्ति ते शराः
151 शारद्वतस्य पार्थस्य दरौणेर वैकर्तनस्य च
परद्युम्न युयुधानाभ्याम अभिमन्यॊश च ते शराः
152 अथास्येषुं समाधत्त दृढं परमसंशितम
अन्तेवासिनम आचार्यॊ जिघांसुः पुत्र संमितम
153 तं शरैर दशभिस तीक्ष्णैश चिच्छेद शिनिपुंगवः
पश्यतस तव पुत्रस्य कर्णस्य च महात्मनः
गरस्तम आचार्य मुख्येन धृट्षद्युम्नम अमॊचयत
154 चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम
दरॊणकर्णान्तर गतं कृपस्यापि च भारत
अपश्येतां महात्मानौ विष्वक्सेन धनंजयौ
155 अपूजयेतां वार्ष्णेयं बरुवाणौ साधु साध्व इति
दिव्यान्य अस्त्राणि सर्वेषां युधि निघ्नन्तम अच्युतम
अभिपत्य ततः सेनां विष्वक्सेन धनंजयौ
156 धनंजयस ततः कृष्णम अब्रवीत पश्य केशव
आचार्य वरमुख्यानां मध्ये करीडन मधूद्वहः
157 आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः
माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम
158 यच छिक्षयानुद्धतः सन रणे चरति सात्यकिः
महारथान उपक्रीडन वृष्णीनां कीर्तिवर्धनः
159 तम एते परतिनन्दन्ति सिद्धाः सैन्याश च विस्मिताः
अजय्यं समरे दृष्ट्वा साहु साध्व इति सात्वतम
यॊधाश चॊभयतः सर्वे कर्मभिः समपूजयन
1 [s]
tasmiṃs tathā vartamāne narāśvagajasaṃkṣaye
duḥśāsano mahārāja dhṛṣṭadyumnam ayodhayat
2 sa tu rukmarathāsakto duḥśāsana śarārditaḥ
amarṣāt tava putrasya śarair vāhān avākirat
3 kṣaṇena sa rathas tasya sa dhvajaḥ saha sārathiḥ
nādṛśyata mahārāja pārṣatasya śaraiś citaḥ
4 duḥśāsanas tu rājendra pāñcālyasya mahātmanaḥ
nāśakat pramukhe sthātuṃ śarajālaprapīḍitaḥ
5 sa tu duḥśāsanaṃ bāṇair vimukhīkṛtya pārṣataḥ
kirañ śarasahasrāṇi droṇam evābhyayād raṇe
6 pratyapadyata hārdikyaḥ kṛtavarmā tadantaram
sodaryāṇāṃ trayaś caiva ta enaṃ paryavārayan
7 taṃ yamau pṛṣṭhato 'nvaitāṃ rakṣantau puruṣarṣabhau
droṇāyābhimukhaṃ yāntaṃ dīpyamānam ivānalam
8 saṃprahāram akurvaṃs te sarve sapta mahārathāḥ
amarṣitāḥ sattvavantaḥ kṛtvā maraṇam agrataḥ
9 śuddhātmānaḥ śuddhavṛttā rājan svargapuraskṛtāḥ
āryaṃ yuddham akurvanta parasparajigīṣavaḥ
10 śuklābhijana karmāṇo matimanto janādhipāḥ
dharmayuddham ayudhyanta prekṣanto gatim uttamām
11 na tatrāsīd adharmiṣṭham aśastraṃ yuddham eva ca
nātra karṇī na nālīko na lipto na ca vastakaḥ
12 na sūcī kapiśo nātra na gavāsthir gajāsthikaḥ
iṣur āsīn na saṃśliṣṭo na pūtir na ca jihmagaḥ
13 ṛjūny eva viśuddhāni sarve śastrāṇy adhārayan
suyuddhena parāṁl lokān īpsantaḥ kīrtim eva ca
14 tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam
caturṇāṃ tava yodhānāṃ tais tribhiḥ pāṇḍavaiḥ saha
15 dhṛṣṭadyumnas tu tān hitvā tava rājan ratharṣabhān
yamābhyāṃ vāritān dṛṣṭvā śīghrāstro droṇam abhyayāt
16 nivāritās tu te vīrās tayoḥ puruṣasiṃhayoḥ
samasajjanta catvāro vātāḥ parvatayor iva
17 dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau
samāsaktau tato droṇaṃ dhṛṣṭadyumno 'bhyavartata
18 dṛṣṭvā droṇāya pāñcālyaṃ vrajantaṃ yuddhadurmadam
yamābhyāṃ tāṃś ca saṃsaktāṃs tadantaram upādravat
19 duryodhano mahārāja kirañ śoṇitabhojanān
taṃ sātyakiḥ śīghrataraṃ punar evābhyavartata
20 tau parasparam āsādya samippe kuru mādhavau
hasamānau nṛśārdūlāv abhītau samagacchatām
21 bālye vṛttāni sarvāṇi prīyamāṇau vicintya tau
anyonyaṃ prekṣamāṇau ca hasamānau punaḥ punaḥ
22 atha duryodhano rājā sātyakiṃ pratyabhāṣata
priyaṃ sakhāyaṃ satataṃ garhayan vṛttam ātmanaḥ
23 dhik krodhaṃ dhik sakhe lobhaṃ dhin mohaṃ dhig amarṣitam
dhig astu kṣātram ācāraṃ dhig astu balam aurasam
24 yat tvaṃ mām abhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava
tvaṃ hi prāṇaiḥ priyataro mamāhaṃ ca sadā tava
25 smarāmi tāni sarvāṇi bālye vṛttāni yāni nau
tāni sarvāṇi jīrṇāni sāṃprataṃ nau raṇājire
kim anyat krodhalobhābhyāṃ yudhyāmi tvādya sātvata
26 taṃ tathā vādinaṃ rājan sātyakiḥ pratyabhāṣata
prahasan viśikhāṃs tīkṣṇān udyamya paramāstravit
27 neyaṃ sabhā rājaputra na cācārya niveśanam
yatra krīḍitam asmābhis tadā rājan samāgataiḥ
28 [dur]
kva sā krīḍā gatāsmākaṃ bālye vai śinipuṃgava
kva ca yuddham idaṃ bhūyaḥ kālo hi duratikramaḥ
29 kiṃ nu no vidyate kṛtyaṃ dhanena dhanalipsayā
yatra yudhyāmahe sarve dhanalobhāt samāgatāḥ
30 [samjaya]
taṃ tathā vādinaṃ tatra rājānaṃ mādhavo 'bravīt
evaṃvṛtthaṃ sadā kṣatraṃ yad dhantīha gurūn api
31 yadi te 'haṃ priyo rājañ jahi māṃ māciraṃ kṛthāḥ
tvatkṛte sukṛtāṁl lokān gaccheyaṃ bharatarṣabha
32 yā te śaktir balaṃ caiva tat kṣipraṃ mayi darśaya
necchāmy etad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat
33 ity evaṃ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ
abhyayāt tūrṇam avyagro nirapekṣo viśāṃ pate
34 tam āyāntam abhiprekṣya pratyagṛhṇāt tavātmajaḥ
śaraiś cāvākirad rājañ śaineyaṃ tanayas tava
35 tataḥ pravavṛte yuddhaṃ kuru mādhava siṃhayoḥ
anyonyaṃ kruddhayor ghoraṃ yathā dviradasiṃhayoḥ
36 tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam
duryodhanaḥ pratyavidhyad daśabhir niśitaiḥ śaraiḥ
37 taṃ sātyakiḥ pratyaviddhat tathaiva daśabhiḥ śaraiḥ
pañcāśatā punaś cājau triṃśatā daśabhiś ca ha
38 tasya saṃdhadhataś ceṣūn saṃhiteṣuṃ ca kārmukam
acchinat sātyakis tūrṇaṃ śaraiś caivābhyavīvṛṣat
39 sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram
duryodhano mahārāja dāśārha śarapīḍitaḥ
40 samāśvasya tu putras te sātyakiṃ punar abhyayāt
visṛjann iṣujālāni yuyudhāna rathaṃ prathi
41 tathaiva sātyakir bāṇān duryodhana rathaṃ prati
pratataṃ vyasṛjad rājaṃs tat saṃkulam avartata
42 tatreṣubhiḥ kṣipyamāṇaiḥ patadbhiś ca samantataḥ
agner iva mahākakṣe śabdaḥ samabhavan mahān
43 tatrābhyadhikam ālakṣya mādhavaṃ rathasattamam
kṣipram abhyapatat karṇaḥ parīpsaṃs tanayaṃ tava
44 na tu taṃ marṣayām āsa bhīmaseno mahābalaḥ
abhyayāt tvaritaḥ karṇaṃ visṛjan sāyakān bahūn
45 tasya karṇaḥ śitān bāṇān pratihanya hasann iva
dhanuḥ śarāṃś ca ciccheda sūtaṃ cābhyahanac charaiḥ
46 bhīmasenas tu saṃkruddho gadām ādāya pāṇḍavaḥ
dhvajaṃ dhanuś ca sūtaṃ ca saṃmamardāhave ripoḥ
47 amṛṣyamāṇaḥ karṇas tu bhīmasenam ayudhyata
vividhair iṣujālaiś ca nānāśastraiś ca saṃyuge
48 saṃkule vartamāne tu rājā dharmasuto 'bravīt
pāñcālānāṃ naravyāghrān matsyānāṃ ca nararṣabhān
49 ye naḥ prāṇāḥ śiro ye no ye no yodhā mahābalāḥ
ta ete dhārtarāṣṭreṣu viṣaktāḥ puruṣarṣabhāḥ
50 kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ
tatra gacchata yatraite yudhyante māmakā rathāḥ
51 kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ
jayanto vadhyamānā vā gatim iṣṭāṃ gamiṣyatha
52 jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ
hatā vā devasād bhūtvā lokān prāpsyatha puṣkalān
53 te rājñā coditā vīrā yotsyamānā mahārathāḥ
caturdhā vahinīṃ kṛtvā tvaritā droṇam abhyayuḥ
54 pāñcālās tv ekato droṇam abhyaghnan bahubhiḥ śaraiḥ
bhīmasenapurogāś ca ekataḥ paryavārayan
55 āsaṃs tu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ
yamau ca bhīmasenaś ca prākrośanta dhanaṃjayam
56 abhidravārjuna kṣipraṃ kurūn droṇād anānuda
tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam
57 kauraveyāṃs tataḥ pārthaḥ sahasā samupādravat
pāñcālān eva tu droṇo dhṛṣṭadyumnapurogamān
58 pāñcālānāṃ tato droṇo 'py akarot kadanaṃ mahat
yathā kruddho raṇe śakro dānavānāṃ kṣayaṃ purā
59 droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi
nātrasanta raṇe droṇāt sattvavanto mahārathāḥ
60 vadhyamānā mahārāja pāñcālāḥ sṛñjayās tathā
droṇam evābhyayur yuddhe mohayanto mahāratham
61 teṣāṃ tūtsādyamānānāṃ pāñcālānāṃ samantataḥ
abhavad bhairavo nādo vadhyatāṃ śaraśaktibhiḥ
62 vadhyamāneṣu saṃgrāme pāñcāleṣu mahātmanā
udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat
63 dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi
pāṇḍaveyā mahārāja nāśaṃsur vijayaṃ tadā
64 kac cid droṇo na naḥ sarvān kṣapayet paramāstravit
samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ
65 na cainaṃ saṃyuge kaś cit samarthaḥ prativīkṣitum
na cainam arjuno jātu pratiyudhyeta dharmavit
66 trastān kuntīsutān dṛṣṭvā droṇa sāyakapīḍitān
matimāñ śreyase yuktaḥ keśavo 'rjunam abravīt
67 naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathaṃ cana
api vṛtrahaṇā yuddhe rathayūthapa yūthapaḥ
68 āsthīyatāṃ jaye yogo dharmam utsṛjya pāṇḍava
yathā vaḥ saṃyuge sarvān na hanyād rukmavāhanaḥ
69 aśvatthāmni hate naiṣa yudhyed iti matir mama
taṃ hataṃ saṃyuge kaś cid asmai śaṃsatu mānavaḥ
70 etan nārocayad rājan kuntīputro dhanaṃjayaḥ
anye tv arocayan sarve kṛcchreṇa tu yudhiṣṭhiraḥ
71 tato bhīmo mahābāhur anīke sve mahāgajam
jaghāna gadayā rājann aśvatthāmānam ity uta
72 bhīmasenas tu savrīḍam upetya droṇam āhave
aśvatthāmā hata iti śabdam uccaiś cakāra ha
73 aśvattmāmeti hi gajaḥ khyāto nāmnā hato 'bhavat
kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃs tadā
74 bhīmasena vacaḥ śrutvā droṇas tatparamapriyam
manasā sannagātro 'bhūd yathā saikatam ambhasi
75 śaṅkamānaḥ sa tan mithyā vīryajñaḥ svasutasya vai
hataḥ sa iti ca śrutvā naiva dhairyād akampata
76 sa labdhvā cetanāṃ droṇaḥ kṣaṇenaiva samāśvasat
anucintyātmanaḥ putram aviṣahyam arātibhiḥ
77 sa pārṣatam abhidrutya jighāṃsur mṛtyum ātmanaḥ
avākirat sahasreṇa tīkṣṇānāṃ kaṅkapatriṇām
78 taṃ vai viṃśatisāhasrāḥ pāñcālānāṃ nararṣabhāḥ
tathā carantaṃ saṃgrāme sarvato vyakirac charaiḥ
79 tataḥ prāduṣkarod droṇo brāhmam astraṃ paraṃtapaḥ
vadhāya teṣāṃ śūrāṇāṃ pāñcālānām amarṣitaḥ
80 tato vyarocata droṇo vinighnan sarvasomakān
śirāṃsy apātayac cāpi pāñcālānāṃ mahāmṛdhe
tathaiva parighākārān bāhūn kanakabhūṣaṇān
81 te vadhyamānāḥ samare bhāradvājena pārthivāḥ
medinyām anvakīryanta vātanunnā iva drumāḥ
82 kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata
agamyarūpā pṛthivī māṃsaśoṇitakardamā
83 hatvā viṃśatisāhasrān pāñcālānāṃ rathavrajān
atiṣṭhad āhave droṇo vidhūmo 'gnir iva jvalan
84 tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān
vasu dānasya bhallena śiraḥ kāyād apāharat
85 punaḥ pañcaśatān mastyān ṣaṭ sahasrāṃś ca sṛñjayān
hastinām ayutaṃ hatvā jaghānāśvāyutaṃ punaḥ
86 kṣatriyāṇām abhāvāya dṛṣṭvā droṇam avasthitam
ṛṣayo 'bhyāgamaṃs tūrṇaṃ havyavāhapurogamāḥ
87 viśvāmitro jamadagnir bhāradvājo 'tha gautamaḥ
vasiṣṭhaḥ kaśyapo 'triś ca brahmalokaṃ ninīṣavaḥ
88 sikatāḥ pṛśnayo gargā bālakhilyā marīcipāḥ
bhṛgavo 'ṅgirasaś caiva sūkṣmāś cānye maharṣayaḥ
89 ta enam abruvan sarve droṇam āhavaśobhinam
adharmataḥ kṛtaṃ yuddhaṃ samayo nidhanasya te
90 nyasyāyudhaṃ raṇe droṇa sametyāsmān avasthitān
nātaḥ krūrataraṃ karma punaḥ kartuṃ tvam arhasi
91 vedavedāṅgaviduṣaḥ satyadharmaparasya ca
brāhmaṇasya viśeṣeṇa tavaitan nopapadyate
92 nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate
paripūrṇaś ca kālas te vastuṃ loke 'dya mānuṣe
93 iti teṣāṃ vacaḥ śrutvā bhīmasena vacaś ca tat
dhṛṣṭadyumnaṃ ca saṃprekṣya raṇe sa vimanābhavat
94 sa dahyamāno vyathitaḥ kuntīputraṃ yudhiṣṭhiram
ahataṃ vā hataṃ veti papraccha sutam ātmanaḥ
95 sthirā buddhir hi droṇasya na pārtho vakṣyate 'nṛtam
trayāṇām api lokānām aiśvaryārthe kathaṃ cana
96 tasmāt taṃ paripapraccha nānyaṃ kaṃ cid viśeṣataḥ
tasmiṃs tasya hi satyāśā bālyāt prabhṛti pāṇḍave
97 tato niṣpāṇḍavām urvīṃ kariṣyantaṃ yudhāṃ patim
droṇaṃ jñātvā dharmarājaṃ govindo vyathito 'bravīt
98 yady ardhadivasaṃ droṇo yudhyate manyum āsthitaḥ
satyaṃ bravīmi te senā vināśaṃ samupaiṣyati
99 sa bhavāṃs trātuno droṇāt satyāj jyāyo 'nṛtaṃ bhavet
anṛtaṃ jīvitasyārthe vacan na spṛśyate 'nṛtaiḥ
100 tayoḥ saṃvadator evaṃ bhīmaseno 'bravīd idam
śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmanaḥ
101 gāhamānasya te senāṃ mālavasyendra varmaṇaḥ
aśvatthāmeti vikhyāto gajaḥ śakra gajopamaḥ
102 nihato yudhi vikramya tato 'haṃ droṇam abruvam
aśvatthāmā hato brahman nivartasvāhavād iti
103 nūnaṃ nāśraddadhad vākyam eṣa me puruṣarṣabhaḥ
sa tvaṃ govinda vākyāni mānayasva jayaiṣiṇaḥ
104 droṇāya nihataṃ śaṃsa rājañ śāradvatī sutam
tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ
satyavān hi nṛloke 'smin bhavān khyāto janādhipa
105 tasya tad vacanaṃ śrutvā kṛṣṇa vākyapracoditaḥ
bhāvitvāc ca mahārāja vaktuṃ samupacakrame
106 tam atathya bhaye magno jaye sakto yudhiṣṭhiraḥ
avyaktam abravīd rājan hataḥ kuñjara ity uta
107 tasya pūrvaṃ rathaḥ pṛthvyāś caturaṅgula uttaraḥ
babhūvaivaṃ tu tenokte tasya vāhāspṛśan mahīm
108 yudhiṣṭhirāt tu tad vākyaṃ śrutvā droṇo mahārathaḥ
putravyasanasaṃtapto nirāśo jīvite 'bhavat
109 āgaḥ kṛtam ivātmānaṃ pāṇḍavānāṃ mahātmanām
ṛṣivākyaṃ ca manvānaḥ śrutvā ca nihataṃ sutam
110 vicetāḥ paramodvigno dhṛṣṭadyumnam avekṣya ca
yoddhuṃ nāśaknuvad rājan yathāpūrvam ariṃdama
111 taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam
pāñcālarājasya suto dhṛṣṭadyumnaḥ samādravat
112 ya iṣṭvā manujendreṇa drupadena mahāmakhe
labdhvā droṇa vināśāya samiddhād dhavyavāhanāt
113 sadhanur jaitram ādāya ghoraṃ jaladanisvanam
dṛḍhajyam ajaraṃ divyaṃ śarāṃś cāśīviṣopamān
114 saṃdadhe kārmuke tasmiñ śaram āśīviṣopamam
droṇaṃ jighāṃsuḥ pāñcālyo mahājvālam ivānalam
115 tasya rūpaṃ śarasyāsīd dhanurjyā maṇḍalāntare
dyotato bhāskarasyeva ghanānte pariveśinaḥ
116 pārṣatena parāmṛṣṭaṃ jvalantam iva tad dhanuḥ
antakālam iva prāptaṃ menire vīkṣya sainikāḥ
117 tam iṣuṃ saṃhitaṃ tena bhāradvājaḥ pratāpavān
dṛṣṭvāmanyata dehasya kālaparyāyam āgatam
118 tataḥ sa yatnam ātiṣṭhad ācāryas tasya vāraṇe
na cāsyāstrāṇi rājendra prādurāsan mahātmanaḥ
119 tasya tv ahāni catvāri kṣapā caikāsyato gatā
tasya cāhnas tribhāgena kṣayaṃ jagmuḥ patatriṇaḥ
120 sa śarakṣayam āsādya putraśokena cārditaḥ
vividhānāṃ ca divyānām astrāṇām aprasannatām
121 utsraṣṭukāmaḥ śastrāṇi vipravākyābhicoditaḥ
tejasā preryamāṇaś ca yuyudhe so 'timānuṣam
122 athānyat sa samādāya divyam āṅgirasaṃ dhanuḥ
śarāṃś ca śaravarṣeṇa mahatā samavākirat
123 tatas taṃ śaravarṣeṇa mahatā samavākirat
vyaśātayac ca saṃkruddho dhṛṣṭadyumnam amarṣaṇaḥ
124 taṃ śaraṃ śatadhā cāsya droṇaś ciccheda sāyakaiḥ
dhvajaṃ dhanuś ca niśitaiḥ sārathiṃ cāpy apātayat
125 dhṛṣṭadyumnaḥ prahasyānyat punar ādāya kārmukam
śitena cainaṃ bāṇena pratyavidhyat stanāntare
126 so 'tividdho maheṣvāsaḥ saṃbhrānta iva saṃyuge
bhallena śitadhāreṇa cicchedāsya mahad dhanuḥ
127 yac cāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate
sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca
128 dhṛṣṭadyumnaṃ tato 'vidhyan navabhir niśitaiḥ śaraiḥ
jīvitāntakaraiḥ kruddhaiḥ kruddha rūpaṃ paraṃtapaḥ
129 dhṛṣṭadyumna rathasyāśvān svarathāśvair mahārathaḥ
amiśrayad ameyātmā brāhmam astram udīrayan
130 te miśrā bahv aśobhanta javanā vātaraṃhasaḥ
pārāvata savarṇāś ca śoṇāś ca bharatarṣabha
131 yathā sa vidyuto meghā nadanto jalalāgame
tathā rejur mahārāja miśritā raṇamūrdhani
132 īṣā bandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca
praṇāśayad ameyātmā dhṛṣṭadyumnasya sa dvijaḥ
133 sa chinnadhanvā viratho hatāśvo hatasārathiḥ
uttamām āpadaṃ prāpya gadāṃ vīraḥ parāmṛśat
134 tām asya viśikhais tīkṣṇaiḥ kṣipyamāṇāṃ mahārathaḥ
nijaghāna śarair droṇaḥ kruddhaḥ satyaparākramaḥ
135 tāṃ dṛṣṭvā tu naravyāghro droṇena nihatāṃ śaraiḥ
vimalaṃ khaḍgam ādatta śatacandraṃ ca bhānumat
136 asaṃśayaṃ tathā bhūte pāñcālyaḥ sādhv amanyata
vadham ācārya mukhyasya prāptakālaṃ mahātmanaḥ
137 tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā
agacchad asim udyamya śatacandraṃ ca bhānumat
138 cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ
iyeṣa vakṣo bhettuṃ ca bhāradvājasya saṃyuge
139 so 'tiṣṭhad yugamadhye vai yugasaṃnahaneṣu ca
śoṇānāṃ jaghanārdheṣu tat sainyāḥ samapūjayan
140 tiṣṭhato yugapālīṣu śoṇān apy adhitiṣṭhataḥ
nāpaśyad antaraṃ doṇas tad adbhutam ivābhavat
141 kṣipraṃ śyenasya carato yathaivāmiṣa gṛddhinaḥ
tadvad āsīd abhīsāro droṇaṃ prārthayato raṇe
142 tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī
sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat
143 te hatā nyapatan bhūmau dhṛṣṭadyumnasya vājinaḥ
śoṇāś ca paryamucyanta rathabandhād viśāṃ pate
144 tān hayān nihatān dṛṣṭvā dvijāgryeṇa sa pārṣataḥ
nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahārathaḥ
145 virathaḥ sa gṛhītvā tu khaḍgaṃ khaḍgabhṛtāṃ varaḥ
droṇam abhyapatad rājan vainateya ivoragam
146 tasya rūpaṃ babhau rājan bhāradvājaṃ jighāṃsataḥ
yathā rūpaṃ paraṃ viṣṇor hiraṇyakaśipor vadhe
147 so 'cirad vividhān mārgān prakārān ekaviṃśatim
bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam
148 parivṛttaṃ nivṛttaṃca khaḍgaṃ carma ca dhārayan
saṃpātaṃ samudīrṇaṃ ca darśayām āsa pārṣataḥ
149 tataḥ śarasahasreṇa śatacandram apātayat
khaḍgaṃ carma ca saṃbādhe dhṛṣṭadyumnasya sa dvijaḥ
150 te tu vaitastikā nāma śarā hy āsanna ghātinaḥ
nikṛṣṭa yuddhe droṇasya nānyeṣāṃ santi te śarāḥ
151 śāradvatasya pārthasya drauṇer vaikartanasya ca
pradyumna yuyudhānābhyām abhimanyoś ca te śarāḥ
152 athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam
antevāsinam ācāryo jighāṃsuḥ putra saṃmitam
153 taṃ śarair daśabhis tīkṣṇaiś ciccheda śinipuṃgavaḥ
paśyatas tava putrasya karṇasya ca mahātmanaḥ
grastam ācārya mukhyena dhṛṭṣadyumnam amocayat
154 carantaṃ rathamārgeṣu sātyakiṃ satyavikramam
droṇakarṇāntara gataṃ kṛpasyāpi ca bhārata
apaśyetāṃ mahātmānau viṣvaksena dhanaṃjayau
155 apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhv iti
divyāny astrāṇi sarveṣāṃ yudhi nighnantam acyutam
abhipatya tataḥ senāṃ viṣvaksena dhanaṃjayau
156 dhanaṃjayas tataḥ kṛṣṇam abravīt paśya keśava
ācārya varamukhyānāṃ madhye krīḍan madhūdvahaḥ
157 ānandayati māṃ bhūyaḥ sātyakiḥ satyavikramaḥ
mādrīputrau ca bhīmaṃ ca rājānaṃ ca yudhiṣṭhiram
158 yac chikṣayānuddhataḥ san raṇe carati sātyakiḥ
mahārathān upakrīḍan vṛṣṇīnāṃ kīrtivardhanaḥ
159 tam ete pratinandanti siddhāḥ sainyāś ca vismitāḥ
ajayyaṃ samare dṛṣṭvā sāhu sādhv iti sātvatam
yodhāś cobhayataḥ sarve karmabhiḥ samapūjayan

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1148 of 2013 Book 57% ~17 min left