Book 7: Chapter 150
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 7: Chapter 150

The Mahabharata in Sanskrit

Book 7
Chapter 150

1 [धृ]
यत्र वैकर्तनः कर्णॊ राक्षसश च घटॊत्कचः
निशीथे समसज्जेतां तद युद्धम अभवत कथम
2 कीदृशं चाभवद युद्धं तस्य घॊरस्य रक्षसः
रथश च कीदृशस तस्य मायाः सर्वायुधानि च
3 किंप्रमाणा हयास तस्य रथकेतुर धनुस तथा
कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम
पृष्ठस तवम एतद आचक्ष्व कुशलॊ हय असिसंजय
4 [घ]
लॊहिताक्षॊ महाकायस ताम्रास्यॊ निम्नितॊदरः
ऊर्ध्वरॊमा हरि शमश्रुः शङ्कुकर्णॊ महाहनुः
5 आकर्णाद दारितास्यश च तीक्ष्णदंष्ट्रः करालवान
सुदीर्घ ताम्रजिह्वौष्ठॊ लम्बभ्रूः सथूलनासिकः
6 नीलाङ्गॊ लॊहितग्रीवॊ निरि वर्ष्मा भयंकरः
महाकायॊ महाबाहुर महाशीर्षॊ महाबलः
7 विकचः परुषस्पर्शॊ विकटॊद्बद्ध पिण्डिकः
सथूलस्फिग गूढनाभिश च शिथिलॊपचयॊ महान
8 तथैव हस्ताभरणी महामायॊ ऽङगदी तथा
उरसा धारयन निष्कम अग्निमालां यथाचलः
9 तस्य हेममयं चित्रं बहुरूपाङ्गशॊभितम
तॊरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्य अशॊभत
10 कुण्डले बालसूर्याभे मालां हेममयीं शुभाम
धारयन विपुलं कांस्यं कवचं च महाप्रभम
11 किङ्किणीशतनिर्घॊषं रक्तध्वजपताकिनम
ऋक्षचर्मावनद्धाङ्गं नल्व मात्रं महारथम
12 सर्वायुधवरॊपेतम आस्थितॊ धवजमालिनम
अष्टचक्रसमायुक्तं मेघगम्भीर निस्वनम
13 तत्र मातङ्गसंकाशा लॊहिताक्षा विभीषणाः
कामवर्णजवा युक्ता बलवन्तॊ ऽवहन हयाः
14 राक्षसॊ ऽसय विरूपाक्षः सूतॊ दीप्तास्य कुण्डलः
रश्मिभिः सूर्यरश्म्य आभैः संजग्राह हयान रणे
स तेन सहितस तस्थाव अरुणेन यथा रविः
15 संसक्त इव चाभ्रेण यथाद्रिर महता महान
दिवस्पृक सुमहान केतुः सयन्दने ऽसय समुच्छ्रितः
रथॊत्तमाग्नः करव्यादॊ गृध्रः परमभीषणः
16 वासवाशनि निर्घॊषं दृढज्यम अभिविक्षिपन
वयक्तं किष्कु परीणाहं दवादशारत्नि कार्मुकम
17 रथाक्षमात्रैर इषुभिः सर्वाः परच्छादयन दिशः
तस्यां वीरापहारिण्यां निशायां कर्णम अभ्ययात
18 तस्य विक्षिपतश चापं रथे विष्टभ्य तिष्ठतः
अश्रूयत धनुर घॊषॊ विस्फूर्जितम इवाशनेः
19 तेन वित्रास्यमानानि तव सैन्यानि भारत
समकम्पन्त सर्वाणि सिन्धॊर इव महॊर्मयः
20 तम आपतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम
उत्स्मयन्न इव राधेयस तवरमाणॊ ऽभयवारयत
21 ततः कर्णॊ ऽभययाद एनम अस्यन्न अस्यन्तम अन्तिकात
मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम
22 स संनिपातस तुमुलस तयॊर आसीद विशां पते
कर्ण राक्षसयॊ राजन्न इन्द्र शम्बरयॊर इव
23 तौ परगृह्य महावेगे धनुषी भीमनिस्वने
पराच्छादयेताम अन्यॊन्यं तक्षमाणौ महेषुभिः
24 ततः पूर्णायतॊत्सृष्टैः शरैः संनतपर्वभिः
नयवारयेताम अन्यॊन्यं कांस्ये निर्भिद्य वर्मणी
25 तौ नखैर इव शार्दूलौ दन्तैर इव महाद्विपौ
रथशक्तिभिर अन्यॊन्यं विशिखैश च ततक्षतुः
26 संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान
धक्ष्यमाणौ शरव्रातैर नॊदीक्षितुम अशक्नुताम
27 तौ तु विक्षत सर्वाग्नौ रुधिरौघपरिप्लुतौ
वयभ्राजेतां यथा वारि परस्रुतौ गौरिकाचलौ
28 तौ शराग्र विभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम
नाकम्पयेताम अन्यॊन्यं यतमानौ महाद्युती
29 तत परवृत्तं निशायुद्धं चरं समम इवाभवत
पराणयॊर दीव्यतॊ राजन कर्ण राक्षसयॊर मृधे
30 तस्य संदधतस तीक्ष्णाञ शरांश चासक्तम अस्यतः
धनुर घॊषेण वित्रस्ताः सवे परे च तदाभवन
घटॊत्कचं यदा कर्णॊ विशेषयति नॊ नृप
31 ततः परादुष्करॊद दिव्यम अस्त्रम अस्त्रविदां वरः
कर्णेन विहितं दृष्ट्वा दिव्यम अस्त्रं घटॊत्कचः
परादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः
32 शूलम उद्गर धारिण्या शैलपादप हस्तया
रक्षसां घॊररूपाणां महत्या सेनया वृतः
33 तम उद्यतमहाचापं दृष्ट्वा ते वयथिता नृपाः
भूतान्तकम इवायान्तं कालदण्डॊग्र धारिणम
34 घटॊत्कच परमुक्तेन सिंहनादेन भीषिताः
परसुस्रुवुर गजा मूत्रं विव्यथुश च नरा भृशम
35 ततॊ ऽशमवृष्टिर अत्युग्रा महत्य आसीत समन्ततः
अर्धरात्रे ऽधिकबलैर विमुक्ता रक्षसां बलैः
36 आयसानि च चक्राणि भुशुण्ड्यः शक्तितॊमराः
पतन्त्य अविरलाः शूलाः शतध्न्यः पट्टिशास तथा
37 तद उग्रम अतिरौद्रं च दृट्वा युद्धं नराधिपाः
पुत्राश च तव यॊधाश च वयथिता विप्रदुद्रुवुः
38 तत्रैकॊ ऽसत्रबलश्लाघी कर्णॊ मानी न विव्यथे
वयधमच च शरैर मायां घटॊत्कच विनिर्मिताम
39 मायायां तु परहीणायाम अमर्षात स घटॊत्कचः
विससर्ज शरान घॊरान सूतपुत्रं त आविशन
40 ततस ते रुधिराभक्ता भित्त्वा कर्णं महाहवे
विविशुर धरणीं बाणाः संक्रुद्धा इव पन्नगाः
41 सूतपुत्रस तुसंक्रुद्धॊ लघुहस्तः परतापवान
घटॊत्कचम अतिक्रम्य बिभेद दशभिः शरैः
42 घटॊत्कचॊ विनिर्भिन्नः सूतपुत्रेण मर्मसु
चक्रं दिव्यं सहस्रारम अगृह्णाद वयथितॊ भृशम
43 कषुरान्तम बालसूर्याभं मणिरत्नविभूषितम
चिक्षेपाधिरथेः करुद्धॊ भैम सेनिर जिघंसया
44 परविद्धम अतिवेगेन विक्षिप्तं कर्ण सायकैः
अभाग्यस्येव संकल्पस तन मॊघम अपतद भुवि
45 घटॊत्कचस तु संक्रुद्धॊ दृष्ट्वा चक्रं निपातितम
कर्णं पराच्छादयद बाणैः सवर्भानुर इव भास्करम
46 सूतपुत्रस तव असंभ्रान्तॊ रुद्रॊपेन्द्रेन्द्र विक्रमः
घटॊत्कच रथं तूर्णं छादयाम आस पत्रिभिः
47 घटॊत्कचेन करुद्धेन गदा हेमाङ्गदा तदा
कषिप्ता भराम्य शरैः सापि कर्णेनाभ्याहतापतत
48 ततॊ ऽनतरिक्षम उत्पत्य कालमेघ इवॊन्नदन
परववर्ष महाकायॊ दरुमवर्षं नभस्तलात
49 ततॊ मायाविनं कर्णॊ भीमसेन सुतं दिवि
मार्गणैर अभिविव्याध धनं सूर्य इवांशुभिः
50 तस्य सर्वान हयान हत्वा संछिद्य शतधा रथम
अभ्यवर्षच छरैः कर्णः पर्जन्य इव वृष्टिमान
51 न चास्यासीद अनिर्भिन्नं गात्रे दव्यङ्गुलम अन्तरम
सॊ ऽदृश्यत मुहूर्तेन शवाविच छललितॊ यथा
52 न हयान न रथं तस्य न धवजं न घटॊत्कचम
दृष्टवन्तः सम समरे शरौघैर अभिसंवृतम
53 स तु कर्णस्य तद दिव्यम अस्त्रम अस्त्रेण शातयन
मायायुद्धेन मायावी सूतपुत्रम अयॊधयत
54 सॊ ऽयॊधयत तदा कर्णं मायया लाघवेन च
अलक्ष्यमाणॊ ऽथ दिवि शरजालेषु संपतन
55 भैमसेनिर महामायॊ मायया कुरुसत्तम
परचकार महामायां मॊहयन्न इव भारत
56 स सम कृत्वा विरूपाणि वदनान्य अशुभाननः
अग्रसत सूतपुत्रस्य दिव्यान्य अस्त्राणि मायया
57 पुनश चापि महाकायः संछिन्नः शतधा रणे
गतसत्त्वॊ निरुत्साहः पतितः खाद वयदृश्यत
हतं तं मन्यमानाः सम पराणदन कुरुपुंगवः
58 अथ देहैर नवैर अन्यैर दिक्षु सर्वास्व अदृश्यत
पुनश चापि महाकायः शतशीर्षः शतॊदरः
59 वयदृश्यत महाबाहुर मैनाक इव पर्वतः
अङ्गुष्ठ मात्रॊ भूत्वा च पुनर एव स राक्षसः
सागरॊर्मिर इवॊद्धूतस तिर्यग ऊर्ध्वम अवर्तत
60 वसुधां दारयित्वा च पुनर अप्सु नयमज्जत
अदृश्यत तदा तत्र पुनर उन्मज्जितॊ ऽनयतः
61 सॊ ऽवतीर्य पुनस तस्थौ रथे हेमपरिष्कृते
कषितिं दयां च दिशश चैव माययावृत्य दंशितः
62 गत्वा कर्ण रथाभ्याशं विचलत कुण्डलाननः
पराह वाक्यम असंभ्रान्तः सूतपुत्रं विशां पते
63 तिष्ठेदानीं न मे जीवन सूतपुत्र गमिष्यसि
युद्धश्रद्धाम अहं ते ऽदय विनेष्यामि रणाजिरे
64 इत्य उक्त्वा रॊषताम्राक्षं रक्षः करूरपराक्रमम
उत्पपातान्तरिक्षं च जहास च सुविस्वरम
कर्णम अभ्याहनच चैव गजेन्द्रम इव केसरी
65 रथाक्षमात्रैर इषुभिर अभ्यवर्षद घटॊत्कचः
रथिनाम ऋषभं कर्णं धाराभिर इव तॊयदः
शरवृष्टिं च तां कर्णॊ दूरप्राप्ताम अशातयत
66 दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ
घटॊत्कचस ततॊ मायां ससर्जान्तर्हितः पुनः
67 सॊ ऽभवद गिरिर इत्य उच्चः शिखरैस तरुसंकटैः
शूलप्रासासि मुसलजलप्रस्रवणॊ महान
68 तम अञ्जन चयप्रख्यं कर्णॊ दृष्ट्वा महीधरम
परपातैर आयुधान्य उग्राण्य उद्वहन्तं न चुक्षुभे
69 समयन्न इव ततः कर्णॊ दिव्यम अस्त्रम उदीरयत
ततः सॊ ऽसत्रेण शैलेन्द्रॊ विक्षिप्तॊ वै वयनश्यत
70 ततः स तॊयदॊ भूत्वा नीलः सेन्द्रायुधॊ दिवि
अश्मवृष्टिभिर अत्युग्रः सूतपुत्रम अवाकिरत
71 अथ संधाय वायव्यम अस्त्रम अस्त्रविदां वरः
वयधमत कालमेघं तं कर्णॊ वैकर्तनॊ वृषा
72 स मार्गणगणैः कर्णॊ दिशः परच्छाद्य सर्वशः
जघानास्त्रं महाराज घटॊत्कच समीरितम
73 ततः परहस्य समरे भैमसेनिर महाबलः
परादुश्चक्रे महामायां कर्णं परति महारथम
74 स दृष्ट्वा पुनर आयान्तं रथेन रथिनां वरम
घटॊत्कचम असंभ्रान्तं राक्षसैर बहुभिर वृतम
75 सिंहशार्दूलसदृशैर मत्तद्विरदविक्रमैः
गजस्थैश च रथस्थैश च वाजिपृष्ठ गतैस तथा
76 नानाशस्त्रधरैर घॊरैर नाना कवचभूषणैः
वृतं घटॊत्कचं करूरैर मरुद्भिर इव वासवम
दृष्ट्वा कर्णॊ महेष्वासॊ यॊधयाम आस राक्षसम
77 घटॊत्कचस ततः कर्णं विद्ध्वा पञ्चभिर आशुगैः
ननाद भैरवं नादं भीषयन सर्वपार्थिवान
78 भूयश चाञ्जलिकेनाथ स मार्गणगणं महत
कर्ण हस्तस्थितं चापं चिच्छेदाशु घटॊत्कचः
79 अथान्यद धनुर आदाय दृढं भारसहं महत
वयकर्षत बलात कर्ण इन्द्रायुधम इवॊच्छ्रितम
80 ततः कर्णॊ महाराज परेषयाम आस सायकान
सुवर्णपुङ्खाञ शत्रुघ्नान खचरान राक्षसान परति
81 तद बाणैर अर्दितं यूथं रक्षसां पीनवक्षसाम
सिंहेनेवार्दितं वन्यं गजानाम आकुलं कुलम
82 विधम्य राक्षसान बाणैः साश्वसूत गजान विभुः
ददाह भगवान वह्निर भूतानीव युगक्षये
83 स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः
पुरेव तरिपुरं दग्ध्वा दिवि देवॊ महेश्वरः
84 तेषु राजसहस्रेषु पाण्डवेयेषु मारिष
नैनं निरीक्षितुम अपि कश चिच छक्नॊति पार्थिव
85 ऋते घटॊत्कचाद राजन राक्षसेन्द्रान महाबलात
भीमवीर्यबलॊपेतात करुद्धाद वैवस्वताद इव
86 तस्य करुद्धस्य नेत्राभ्यां पावकः समजायत
महॊल्काभ्यां यथा राजन सार्चिषः सनेहबिन्दवः
87 तलं तलेन संहत्य संदश्य दशनच छदम
रथम आस्थाय च पुनर मायया निर्मितं पुनः
88 युक्तं गजनिभैर वाहैः पिशाचवचनैः खरैः
ससूतम अब्रवीत करुद्धः सूतपुत्राय मा वह
89 स ययौ घॊररूपेण रथेन रथिनां वरः
दवैरथं सूतपुत्रेण पुनर एव विशां पते
90 स चिक्षेप पुनः करुद्धः सूतपुत्राय राक्षसः
अष्टचक्रां महाघॊराम अशनिं रुद्र निर्मिताम
91 ताम अवप्लुत्य जग्राह कर्णॊ नयस्य रथे धनुः
चिक्षेप चैनां तस्यैव सयन्दनात सॊ ऽवपुप्लुवे
92 साश्वसूत धवजं यानं भस्मकृत्वा महाप्रभा
विवेश वसुधां भित्त्वा सुरास तत्र विसिस्मियुः
93 कर्णं तु सर्वभूतानि पूजयाम आसुर अञ्जसा
यद अवप्लुत्य जग्राह देव सृष्टां महाशनिम
94 एवं कृत्वा रणे कर्ण आरुरॊह रथं पुनः
ततॊ मुमॊच नाराचान सूतपुत्रः परंतपः
95 अशक्यं कर्तुम अन्येन सर्वभूतेषु मानद
यद अकार्षीत तदा कर्णः संग्रामे भीमदर्शने
96 स हन्यमानॊ नाराचैर धाराभिर इव पर्वतः
गन्धर्वनगराकारः पुनर अन्तरधीयत
97 एवं स वै महामायॊ मायया लाघवेन च
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः
98 निहन्यमानेष्व अस्त्रेषु मायया तेन रक्षसा
असंभ्रान्तस ततः कर्णस तद रक्षः परत्ययुध्यत
99 ततः करुद्धॊ महाराज भैमसेनिर महाबलः
चकार बहुधात्मानं भीषयाणॊ नराधिपान
100 ततॊ दिग्भ्यः समापेतुः सिंहव्याघ्र तरक्षवः
अग्निजिह्वाश च भुजगा विहगाश चाप्य अयॊमुखाः
101 स कीर्यमाणॊ निशितैः कर्ण चापच्युतैः शरैः
नगराद्रिवनप्रख्यस तत्रैवान्तरधीयत
102 राक्षसाश च पिशाचाश च यातुधानाः शलावृकाः
ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन
अथैनं वाग्भिर उग्राभिस तरासयां चक्रिरे तदा
103 उद्यतैर बहुभिर घॊरैर आयुधैः शॊणितॊक्षितैः
तेषाम अनेकैर एकैकं कर्णॊ दिव्याध चाशुगैः
104 परतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम
आजघान हयान अस्य शरैः संनतपर्वभिः
105 ते भग्ना विकृताङ्गाश च छिन्नपृष्ठाश च सायकैः
वसुधाम अन्वपद्यन्त पश्यतस तस्य रक्षसः
106 स भग्नमायॊ हैडिम्बः कर्णं वैकर्तनं ततः
एष ते विदधे मृत्युम इत्य उक्त्वान्तरधीयत
1 [dhṛ]
yatra vaikartanaḥ karṇo rākṣasaś ca ghaṭotkacaḥ
niśīthe samasajjetāṃ tad yuddham abhavat katham
2 kīdṛśaṃ cābhavad yuddhaṃ tasya ghorasya rakṣasaḥ
rathaś ca kīdṛśas tasya māyāḥ sarvāyudhāni ca
3 kiṃpramāṇā hayās tasya rathaketur dhanus tathā
kīdṛśaṃ varma caivāsya kaṇṭhatrāṇaṃ ca kīdṛśam
pṛṣṭhas tvam etad ācakṣva kuśalo hy asisaṃjaya
4 [gh]
lohitākṣo mahākāyas tāmrāsyo nimnitodaraḥ
ūrdhvaromā hari śmaśruḥ śaṅkukarṇo mahāhanuḥ
5 ākarṇād dāritāsyaś ca tīkṣṇadaṃṣṭraḥ karālavān
sudīrgha tāmrajihvauṣṭho lambabhrūḥ sthūlanāsikaḥ
6 nīlāṅgo lohitagrīvo niri varṣmā bhayaṃkaraḥ
mahākāyo mahābāhur mahāśīrṣo mahābalaḥ
7 vikacaḥ paruṣasparśo vikaṭodbaddha piṇḍikaḥ
sthūlasphig gūḍhanābhiś ca śithilopacayo mahān
8 tathaiva hastābharaṇī mahāmāyo 'ṅgadī tathā
urasā dhārayan niṣkam agnimālāṃ yathācalaḥ
9 tasya hemamayaṃ citraṃ bahurūpāṅgaśobhitam
toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhny aśobhata
10 kuṇḍale bālasūryābhe mālāṃ hemamayīṃ śubhām
dhārayan vipulaṃ kāṃsyaṃ kavacaṃ ca mahāprabham
11 kiṅkiṇīśatanirghoṣaṃ raktadhvajapatākinam
ṛkṣacarmāvanaddhāṅgaṃ nalva mātraṃ mahāratham
12 sarvāyudhavaropetam āsthito dhvajamālinam
aṣṭacakrasamāyuktaṃ meghagambhīra nisvanam
13 tatra mātaṅgasaṃkāśā lohitākṣā vibhīṣaṇāḥ
kāmavarṇajavā yuktā balavanto 'vahan hayāḥ
14 rākṣaso 'sya virūpākṣaḥ sūto dīptāsya kuṇḍalaḥ
raśmibhiḥ sūryaraśmy ābhaiḥ saṃjagrāha hayān raṇe
sa tena sahitas tasthāv aruṇena yathā raviḥ
15 saṃsakta iva cābhreṇa yathādrir mahatā mahān
divaspṛk sumahān ketuḥ syandane 'sya samucchritaḥ
rathottamāgnaḥ kravyādo gṛdhraḥ paramabhīṣaṇaḥ
16 vāsavāśani nirghoṣaṃ dṛḍhajyam abhivikṣipan
vyaktaṃ kiṣku parīṇāhaṃ dvādaśāratni kārmukam
17 rathākṣamātrair iṣubhiḥ sarvāḥ pracchādayan diśaḥ
tasyāṃ vīrāpahāriṇyāṃ niśāyāṃ karṇam abhyayāt
18 tasya vikṣipataś cāpaṃ rathe viṣṭabhya tiṣṭhataḥ
aśrūyata dhanur ghoṣo visphūrjitam ivāśaneḥ
19 tena vitrāsyamānāni tava sainyāni bhārata
samakampanta sarvāṇi sindhor iva mahormayaḥ
20 tam āpatantaṃ saṃprekṣya virūpākṣaṃ vibhīṣaṇam
utsmayann iva rādheyas tvaramāṇo 'bhyavārayat
21 tataḥ karṇo 'bhyayād enam asyann asyantam antikāt
mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham
22 sa saṃnipātas tumulas tayor āsīd viśāṃ pate
karṇa rākṣasayo rājann indra śambarayor iva
23 tau pragṛhya mahāvege dhanuṣī bhīmanisvane
prācchādayetām anyonyaṃ takṣamāṇau maheṣubhiḥ
24 tataḥ pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ
nyavārayetām anyonyaṃ kāṃsye nirbhidya varmaṇī
25 tau nakhair iva śārdūlau dantair iva mahādvipau
rathaśaktibhir anyonyaṃ viśikhaiś ca tatakṣatuḥ
26 saṃchindantau hi gātrāṇi saṃdadhānau ca sāyakān
dhakṣyamāṇau śaravrātair nodīkṣitum aśaknutām
27 tau tu vikṣata sarvāgnau rudhiraughapariplutau
vyabhrājetāṃ yathā vāri prasrutau gaurikācalau
28 tau śarāgra vibhinnāṅgau nirbhindantau parasparam
nākampayetām anyonyaṃ yatamānau mahādyutī
29 tat pravṛttaṃ niśāyuddhaṃ caraṃ samam ivābhavat
prāṇayor dīvyato rājan karṇa rākṣasayor mṛdhe
30 tasya saṃdadhatas tīkṣṇāñ śarāṃś cāsaktam asyataḥ
dhanur ghoṣeṇa vitrastāḥ sve pare ca tadābhavan
ghaṭotkacaṃ yadā karṇo viśeṣayati no nṛpa
31 tataḥ prāduṣkarod divyam astram astravidāṃ varaḥ
karṇena vihitaṃ dṛṣṭvā divyam astraṃ ghaṭotkacaḥ
prāduścakre mahāmāyāṃ rākṣasaḥ pāṇḍunandanaḥ
32 śūlam udgara dhāriṇyā śailapādapa hastayā
rakṣasāṃ ghorarūpāṇāṃ mahatyā senayā vṛtaḥ
33 tam udyatamahācāpaṃ dṛṣṭvā te vyathitā nṛpāḥ
bhūtāntakam ivāyāntaṃ kāladaṇḍogra dhāriṇam
34 ghaṭotkaca pramuktena siṃhanādena bhīṣitāḥ
prasusruvur gajā mūtraṃ vivyathuś ca narā bhṛśam
35 tato 'śmavṛṣṭir atyugrā mahaty āsīt samantataḥ
ardharātre 'dhikabalair vimuktā rakṣasāṃ balaiḥ
36 āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ
patanty aviralāḥ śūlāḥ śatadhnyaḥ paṭṭiśās tathā
37 tad ugram atiraudraṃ ca dṛṭvā yuddhaṃ narādhipāḥ
putrāś ca tava yodhāś ca vyathitā vipradudruvuḥ
38 tatraiko 'strabalaślāghī karṇo mānī na vivyathe
vyadhamac ca śarair māyāṃ ghaṭotkaca vinirmitām
39 māyāyāṃ tu prahīṇāyām amarṣāt sa ghaṭotkacaḥ
visasarja śarān ghorān sūtaputraṃ ta āviśan
40 tatas te rudhirābhaktā bhittvā karṇaṃ mahāhave
viviśur dharaṇīṃ bāṇāḥ saṃkruddhā iva pannagāḥ
41 sūtaputras tusaṃkruddho laghuhastaḥ pratāpavān
ghaṭotkacam atikramya bibheda daśabhiḥ śaraiḥ
42 ghaṭotkaco vinirbhinnaḥ sūtaputreṇa marmasu
cakraṃ divyaṃ sahasrāram agṛhṇād vyathito bhṛśam
43 kṣurāntam bālasūryābhaṃ maṇiratnavibhūṣitam
cikṣepādhiratheḥ kruddho bhaima senir jighaṃsayā
44 praviddham ativegena vikṣiptaṃ karṇa sāyakaiḥ
abhāgyasyeva saṃkalpas tan mogham apatad bhuvi
45 ghaṭotkacas tu saṃkruddho dṛṣṭvā cakraṃ nipātitam
karṇaṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram
46 sūtaputras tv asaṃbhrānto rudropendrendra vikramaḥ
ghaṭotkaca rathaṃ tūrṇaṃ chādayām āsa patribhiḥ
47 ghaṭotkacena kruddhena gadā hemāṅgadā tadā
kṣiptā bhrāmya śaraiḥ sāpi karṇenābhyāhatāpatat
48 tato 'ntarikṣam utpatya kālamegha ivonnadan
pravavarṣa mahākāyo drumavarṣaṃ nabhastalāt
49 tato māyāvinaṃ karṇo bhīmasena sutaṃ divi
mārgaṇair abhivivyādha dhanaṃ sūrya ivāṃśubhiḥ
50 tasya sarvān hayān hatvā saṃchidya śatadhā ratham
abhyavarṣac charaiḥ karṇaḥ parjanya iva vṛṣṭimān
51 na cāsyāsīd anirbhinnaṃ gātre dvyaṅgulam antaram
so 'dṛśyata muhūrtena śvāvic chalalito yathā
52 na hayān na rathaṃ tasya na dhvajaṃ na ghaṭotkacam
dṛṣṭavantaḥ sma samare śaraughair abhisaṃvṛtam
53 sa tu karṇasya tad divyam astram astreṇa śātayan
māyāyuddhena māyāvī sūtaputram ayodhayat
54 so 'yodhayat tadā karṇaṃ māyayā lāghavena ca
alakṣyamāṇo 'tha divi śarajāleṣu saṃpatan
55 bhaimasenir mahāmāyo māyayā kurusattama
pracakāra mahāmāyāṃ mohayann iva bhārata
56 sa sma kṛtvā virūpāṇi vadanāny aśubhānanaḥ
agrasat sūtaputrasya divyāny astrāṇi māyayā
57 punaś cāpi mahākāyaḥ saṃchinnaḥ śatadhā raṇe
gatasattvo nirutsāhaḥ patitaḥ khād vyadṛśyata
hataṃ taṃ manyamānāḥ sma prāṇadan kurupuṃgavaḥ
58 atha dehair navair anyair dikṣu sarvāsv adṛśyata
punaś cāpi mahākāyaḥ śataśīrṣaḥ śatodaraḥ
59 vyadṛśyata mahābāhur maināka iva parvataḥ
aṅguṣṭha mātro bhūtvā ca punar eva sa rākṣasaḥ
sāgarormir ivoddhūtas tiryag ūrdhvam avartata
60 vasudhāṃ dārayitvā ca punar apsu nyamajjata
adṛśyata tadā tatra punar unmajjito 'nyataḥ
61 so 'vatīrya punas tasthau rathe hemapariṣkṛte
kṣitiṃ dyāṃ ca diśaś caiva māyayāvṛtya daṃśitaḥ
62 gatvā karṇa rathābhyāśaṃ vicalat kuṇḍalānanaḥ
prāha vākyam asaṃbhrāntaḥ sūtaputraṃ viśāṃ pate
63 tiṣṭhedānīṃ na me jīvan sūtaputra gamiṣyasi
yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire
64 ity uktvā roṣatāmrākṣaṃ rakṣaḥ krūraparākramam
utpapātāntarikṣaṃ ca jahāsa ca suvisvaram
karṇam abhyāhanac caiva gajendram iva kesarī
65 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ
rathinām ṛṣabhaṃ karṇaṃ dhārābhir iva toyadaḥ
śaravṛṣṭiṃ ca tāṃ karṇo dūraprāptām aśātayat
66 dṛṣṭvā ca vihatāṃ māyāṃ karṇena bharatarṣabha
ghaṭotkacas tato māyāṃ sasarjāntarhitaḥ punaḥ
67 so 'bhavad girir ity uccaḥ śikharais tarusaṃkaṭaiḥ
śūlaprāsāsi musalajalaprasravaṇo mahān
68 tam añjana cayaprakhyaṃ karṇo dṛṣṭvā mahīdharam
prapātair āyudhāny ugrāṇy udvahantaṃ na cukṣubhe
69 smayann iva tataḥ karṇo divyam astram udīrayat
tataḥ so 'streṇa śailendro vikṣipto vai vyanaśyata
70 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi
aśmavṛṣṭibhir atyugraḥ sūtaputram avākirat
71 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ
vyadhamat kālameghaṃ taṃ karṇo vaikartano vṛṣā
72 sa mārgaṇagaṇaiḥ karṇo diśaḥ pracchādya sarvaśaḥ
jaghānāstraṃ mahārāja ghaṭotkaca samīritam
73 tataḥ prahasya samare bhaimasenir mahābalaḥ
prāduścakre mahāmāyāṃ karṇaṃ prati mahāratham
74 sa dṛṣṭvā punar āyāntaṃ rathena rathināṃ varam
ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam
75 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ
gajasthaiś ca rathasthaiś ca vājipṛṣṭha gatais tathā
76 nānāśastradharair ghorair nānā kavacabhūṣaṇaiḥ
vṛtaṃ ghaṭotkacaṃ krūrair marudbhir iva vāsavam
dṛṣṭvā karṇo maheṣvāso yodhayām āsa rākṣasam
77 ghaṭotkacas tataḥ karṇaṃ viddhvā pañcabhir āśugaiḥ
nanāda bhairavaṃ nādaṃ bhīṣayan sarvapārthivān
78 bhūyaś cāñjalikenātha sa mārgaṇagaṇaṃ mahat
karṇa hastasthitaṃ cāpaṃ cicchedāśu ghaṭotkacaḥ
79 athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat
vyakarṣata balāt karṇa indrāyudham ivocchritam
80 tataḥ karṇo mahārāja preṣayām āsa sāyakān
suvarṇapuṅkhāñ śatrughnān khacarān rākṣasān prati
81 tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām
siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam
82 vidhamya rākṣasān bāṇaiḥ sāśvasūta gajān vibhuḥ
dadāha bhagavān vahnir bhūtānīva yugakṣaye
83 sa hatvā rākṣasīṃ senāṃ śuśubhe sūtanandanaḥ
pureva tripuraṃ dagdhvā divi devo maheśvaraḥ
84 teṣu rājasahasreṣu pāṇḍaveyeṣu māriṣa
nainaṃ nirīkṣitum api kaś cic chaknoti pārthiva
85 ṛte ghaṭotkacād rājan rākṣasendrān mahābalāt
bhīmavīryabalopetāt kruddhād vaivasvatād iva
86 tasya kruddhasya netrābhyāṃ pāvakaḥ samajāyata
maholkābhyāṃ yathā rājan sārciṣaḥ snehabindavaḥ
87 talaṃ talena saṃhatya saṃdaśya daśanac chadam
ratham āsthāya ca punar māyayā nirmitaṃ punaḥ
88 yuktaṃ gajanibhair vāhaiḥ piśācavacanaiḥ kharaiḥ
sasūtam abravīt kruddhaḥ sūtaputrāya mā vaha
89 sa yayau ghorarūpeṇa rathena rathināṃ varaḥ
dvairathaṃ sūtaputreṇa punar eva viśāṃ pate
90 sa cikṣepa punaḥ kruddhaḥ sūtaputrāya rākṣasaḥ
aṣṭacakrāṃ mahāghorām aśaniṃ rudra nirmitām
91 tām avaplutya jagrāha karṇo nyasya rathe dhanuḥ
cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve
92 sāśvasūta dhvajaṃ yānaṃ bhasmakṛtvā mahāprabhā
viveśa vasudhāṃ bhittvā surās tatra visismiyuḥ
93 karṇaṃ tu sarvabhūtāni pūjayām āsur añjasā
yad avaplutya jagrāha deva sṛṣṭāṃ mahāśanim
94 evaṃ kṛtvā raṇe karṇa āruroha rathaṃ punaḥ
tato mumoca nārācān sūtaputraḥ paraṃtapaḥ
95 aśakyaṃ kartum anyena sarvabhūteṣu mānada
yad akārṣīt tadā karṇaḥ saṃgrāme bhīmadarśane
96 sa hanyamāno nārācair dhārābhir iva parvataḥ
gandharvanagarākāraḥ punar antaradhīyata
97 evaṃ sa vai mahāmāyo māyayā lāghavena ca
astrāṇi tāni divyāni jaghāna ripusūdanaḥ
98 nihanyamāneṣv astreṣu māyayā tena rakṣasā
asaṃbhrāntas tataḥ karṇas tad rakṣaḥ pratyayudhyata
99 tataḥ kruddho mahārāja bhaimasenir mahābalaḥ
cakāra bahudhātmānaṃ bhīṣayāṇo narādhipān
100 tato digbhyaḥ samāpetuḥ siṃhavyāghra tarakṣavaḥ
agnijihvāś ca bhujagā vihagāś cāpy ayomukhāḥ
101 sa kīryamāṇo niśitaiḥ karṇa cāpacyutaiḥ śaraiḥ
nagarādrivanaprakhyas tatraivāntaradhīyata
102 rākṣasāś ca piśācāś ca yātudhānāḥ śalāvṛkāḥ
te karṇaṃ bhakṣayiṣyantaḥ sarvataḥ samupādravan
athainaṃ vāgbhir ugrābhis trāsayāṃ cakrire tadā
103 udyatair bahubhir ghorair āyudhaiḥ śoṇitokṣitaiḥ
teṣām anekair ekaikaṃ karṇo divyādha cāśugaiḥ
104 pratihatya tu tāṃ māyāṃ divyenāstreṇa rākṣasīm
ājaghāna hayān asya śaraiḥ saṃnataparvabhiḥ
105 te bhagnā vikṛtāṅgāś ca chinnapṛṣṭhāś ca sāyakaiḥ
vasudhām anvapadyanta paśyatas tasya rakṣasaḥ
106 sa bhagnamāyo haiḍimbaḥ karṇaṃ vaikartanaṃ tataḥ
eṣa te vidadhe mṛtyum ity uktvāntaradhīyata

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1134 of 2013 Book 56% ~12 min left