Book 7: Chapter 131
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 7: Chapter 131

The Mahabharata in Sanskrit

Book 7
Chapter 131

1 [स]
परायॊपविष्टे तु हते पुत्रे सात्यकिना ततः
सॊमदत्तॊ भृशं करुद्धः सात्यक्तिं वाक्यम अब्रवीत
2 कषत्रधर्मः पुरा दृष्टॊ यस तु देवैर महात्मभिः
तं तवं सात्वत संत्यज्य दस्यु धर्मे कथं रतः
3 पराङ्मुखाय दीनाय नयस्तशस्त्राय याचते
कषत्रधर्मरतः पराज्ञः कथं नु परहरेद रणे
4 दवाव एव किल वृष्णीनां तत्र खयातौ महारथौ
परद्युम्नश च महाबाहुस तवं चैव युधि सात्वत
5 कथं परायॊपविष्टाय पार्थेन छिन्नबाहवे
नृशंसं पतनीयं च तादृशं कृतवान असि
6 शपे सात्वत पुत्राभ्याम इष्टेन सुकृतेन च
अनतीताम इमां रात्रिं यदि तवां वीर मानिनम
7 अरक्ष्यमाणं पार्थेन जिष्णुना स सुतानुजम
न हन्यां निरये घॊरे पतेयं वृष्णिपांसन
8 एवम उक्त्वा सुसंक्रुद्धः सॊमदत्तॊ महाबलः
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च
9 ततः कमलपत्राक्षः सिंहदंष्ट्रॊ महाबलः
सात्वतॊ भृशसंक्रुद्धः सॊमदत्तम अथाब्रवीत
10 हतॊ भूरिश्रवा वीरस तव पुत्रॊ महारथः
शरश चैव तथा राजन भरातृव्यसनकर्शितः
11 तवां चाप्य अद्य वधिष्यामि सपुत्रपशुबान्धवम
तिष्ठेदानीं रणे यत्तः कौरवॊ ऽसि विशेषतः
12 यस्मिन्दानं दमः शौचम अहिंसा हरीर धृतिः कषमा
अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे
13 मृदङ्गकेतॊस तस्य तवं तेजसा निहतः पुरा
स कर्ण सौबलः संख्ये विनाशं समुपेष्यसि
14 शपे ऽहं कृष्ण चरणैर इष्टापूर्तेन चैव ह
यदि तवां ससुतं पापं न हन्यां युधि रॊषितः
अपयास्यसि चेत तयक्त्वा ततॊ मुक्तॊ भविष्यसि
15 एवम आभाष्य चान्यॊन्यं करॊधसंरक्तलॊचनौ
परवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ
16 ततॊ गजसहस्रेण रथानाम अयुतेन च
दुर्यॊधनः सॊमदत्तं परिवार्य वयवस्थितः
17 शकुनिश च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः
पुत्रपौत्रैः परिवृतॊ भरातृभिश चेन्द्र विक्रमैः
सयालस तव महाबाहुर वज्रसंहननॊ युवा
18 साग्रं शतसहस्रं तु हयानां तस्य धीमतः
सॊमदत्तं महेष्वासं समन्तात पर्यरक्षत
19 रक्ष्यमाणश च बलिभिश छादयाम आस सात्यकिम
तं छाद्यमानं विशिखैर दृष्ट्वा संनतपर्वभिः
धृष्टद्युम्नॊ ऽभययात करुद्धः परगृह्य महतीं चमूम
20 चण्डवाताभिसृष्टानाम उदधीनाम इव सवनः
आसीद राजन बलौघानाम अन्यॊन्यम अभिनिघ्नताम
21 विव्याध सॊमदत्तस तु सात्वतं नवभिः शरैः
सात्यकिर दशभिश चैनम अवधीत कुरुपुंगवम
22 सॊ ऽतिविद्धॊ बलवता समरे दृढधन्विना
रथॊपस्थं समासाद्य मुमॊह गतचेतनः
23 तं विमूढं समालक्ष्य सारथिस तवरयान्वितः
अपॊवाह रणाद वीरं सॊमदत्तं महारथम
24 तं विसंज्ञं समालॊक्य युयुधान शरार्दितम
दरौणिर अभ्यद्रवत करुद्धः सात्वतं रणमूर्धनि
25 तम आपतन्तं संप्रेक्ष्य शैनेयस्य रथं परति
भैमसेनिः सुसंक्रुद्धः परत्यमित्रम अवारयत
26 कार्ष्णायसमयं घॊरम ऋक्षचर्मावृतं महत
युक्तं गजनिभैर वाहैर न हयैर नापि वा गजैः
27 विक्षिप्तम अष्टचक्रेण विवृताक्षेण कूजता
धवजेनॊच्छ्रिततुण्डेन गृध्रराजेन राजता
28 लॊहितार्द्र पताकं तम अन्त्र माला विभूषितम
अष्टचक्रसमायुक्तम आस्थाय विपुलं रथम
29 शूलमुद्गर धारिण्या शैलपादप हस्तया
रक्षसां घॊररूपाणाम अक्षैहिण्या समावृतः
30 तम उद्यतमहाचापं निशाम्य वयथिता नृपाः
युगान्तकालसमये दण्डहस्तम इवान्तकम
31 भयार्दिता पचुक्षॊभ पुत्रस्य तव वाहिनी
वायुना कषॊभितावर्ता गङ्गेवॊर्ध्व तरङ्गिणी
32 गटॊत्कच परयुक्तेन सिंहनादेन भीषिताः
परसुस्रुवुर गजा मूत्रं विव्यथुश च नरा भृशम
33 ततॊ ऽशमवृष्टिर अत्यर्थम आसीत तत्र समन्ततः
संध्याकालाधिक बलैः परमुक्ता राक्षसैः कषितौ
34 आयसानि च चक्राणि भुशुण्ड्यः परासतॊमराः
पतन्त्य अविरलाः शूलाः शतघ्न्यः पट्टिशास तथा
35 तद उग्रम अतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः
तनयास तव कर्णश च वयथिताः पराद्रवन दिशः
36 तत्रैकॊ ऽसत्रबलश्लाघी दरौणिर मानी न विव्यथे
वयधमच च शरैर मायां घटॊत्कच विनिर्मिताम
37 निहतायां तु मायायाम अमर्षी स घटॊत्कचः
विससर्ज शरान घॊरांस ते ऽशवत्थामानम आविशन
38 भुजगा इव वेगेन वल्मीकं करॊधमूर्छिताः
ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वती सुतम
विविशुर धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः
39 अश्वत्थामा तु संक्रुद्धॊ लघुहस्तः परतापवान
घटॊत्कचम अभिक्रुद्धं बिभेद दशभिः शरैः
40 घटॊत्कचॊ ऽतिविद्धस तु दरॊणपुत्रेण मर्मसु
चक्रं शतसहस्रारम अगृह्णाद वयथितॊ भृशम
41 कषुरान्तं बालसूर्याभं मणिवज्र विभूषितम
अश्वत्थाम्नस तु चिक्षेप भैमसेनिर जिघांसया
42 वेगेन महता गच्छद विक्षिप्तं दरौणिना शरैः
अभाग्यस्येव संकल्पस तन मॊघं नयपतद भुवि
43 घटॊत्कचस ततस तूर्णं दृष्ट्वा चक्रं निपातितम
दरौणिं पराच्छादयद बाणैः सवर्भानुर इव भास्करम
44 घटॊत्कच सुतः शरीमान भिन्नाञ जनचयॊपमः
रुरॊध दरौणिम आयान्तं परभञ्जनम इवाद्रिराट
45 पौत्रेण भीमसेनस्य शरैः सॊ ऽञजन पर्वणा
बभौ मेघेन धाराभिर घिरिर मेरुर इवार्दितः
46 अश्वत्थामा तव असंभ्रान्तॊ रुद्रॊपेन्द्रेन्द्र विक्रमः
धवजम एकेन बाणेन चिच्छेदाञ्जनपर्वणः
47 दवाभ्यां तु रथयन्तारं तरिभिश चास्य तरिवेणुकम
धनुर एकेन चिच्छेद चतुर्भिश चतुरॊ हयान
48 विरथस्यॊद्यतं हस्ताद धेमबिन्दुभिर आचितम
विशिखेन सुतीक्ष्णेन खड्गम अस्य दविधाकरॊत
49 गदा हेमाङ्गदा राजंस तूर्णं हैडिम्ब सूनुना
भराम्यॊत्क्षिप्ता शरैः सापि दरौणिनाभ्याहतापतत
50 ततॊ ऽनतरिक्षम उत्पत्य कालमेघ इवॊन्नदन
ववर्षाञ्जन पर्वा स दरुमवर्षं नभस्तलात
51 ततॊ मायाधरं दरौणिर घटॊत्कच सुतं दिवि
मार्गणैर अभिविव्याध धनं सूर्य इवांशुभिः
52 सॊ ऽवतीर्य पुनस तस्थौ रथे हेमपरिष्कृते
महीधर इवात्युच्चः शरीमान अञ्जन पर्वतः
53 तम अयस्मय वर्माणं दरौणिर भीमात्मजात्मजम
जघानाञ्जन पर्वाणं महेश्वर इवान्धकम
54 अथ दृष्ट्वा हतं पुत्रम अश्वत्थाम्ना महाबलम
दरौणेः सकाशम अभ्येत्य रॊषात पचलिताङ्गदः
55 पराह वाक्यम असंभ्रान्तॊ वीरं शारद्वती सुतम
दहन्तं पाण्डवानीकं वनम अग्निम इवॊद्धतम
56 तिष्ठ तिष्ठ न मे जीवन दरॊणपुत्र गमिष्यसि
तवाम अद्य निहनिष्यामि करौञ्चम अग्निसुतॊ यथा
57 [अष्व]
गच्छ वत्स सहान्यैस तवं युध्यस्वामर विक्रम
न हि पुत्रेण हैडिम्बे पिता नयाय्यं परबाधितुम
58 कामं खलु न मे रॊषॊ हैडिम्बे विद्यते तवयि
किं तु रॊषान्वितॊ जन्तुर हन्याद आत्मानम अप्य उत
59 [स]
शरुत्वैतत करुध ताम्राक्षः पुत्रशॊकसमन्वितः
अश्वत्थामानम आयस्तॊ भैमसेनिर अभाषत
60 किम अहं कातरॊ दरौणे पृथग्जन इवाहवे
भीमात खल्व अहम उत्पन्नः कुरूणां विपुले कुले
61 पाण्डवानाम अहं पुत्रः समरेष्व अनिवर्तिनाम
रक्षसाम अधिराजॊ ऽहं दशग्रीव समॊ बले
62 तिष्ठ तिष्ठ न मे जीवन दरॊणपुत्र गमिष्यसि
युद्धश्रद्धाम अहं ते ऽदय विनेष्यामि रणाजिरे
63 इत्य उक्त्वा रॊषताम्राक्षॊ राक्षसः सुमहाबलः
दरौणिम अभ्यद्रवत करुद्धॊ गजेन्द्रम इव केसरी
64 रथाक्षमात्रैर इषुभिर अभ्यवर्षद घटॊत्कचः
रथिनाम ऋषभं दरौणिं धाराभिर इव तॊयदः
65 शरवृष्टिं शरैर दरौणिर अप्राप्तां तां वयशातयत
ततॊ ऽनतरिक्षे बाणानां संग्रामॊ ऽनय इवाभवत
66 अथास्त्र संघर्षकृतैर विस्फुलिङ्गैः समाबभौ
विभावरी मुखे वयॊम खद्यॊतैर इव चित्रितम
67 निशाम्य निहतं मायां दरौणिना रणमानिना
घटॊत्कचस ततॊ मायां ससर्जान्तर्हितः पुनः
68 सॊ ऽभवद गिरिर इत्य उच्चः शिखरैस तरुसंकटैः
शूलप्रासासि मुसलजलप्रस्रवणॊ महान
69 तम अञ्जन चयप्रख्यं दरौणिर दृष्ट्वा महीधरम
परपतद्भिश च बहुभिः शस्त्रसंघैर न चुक्षुभे
70 ततः समयन्न इव दरौणिर वज्रम अस्त्रम उदीरयत
स तेनास्त्रेण शैलेन्द्रः कषिप्तः कषिप्रम अनश्यत
71 ततः स तॊयदॊ भूत्वा नीलः सेन्द्रायुधॊ दिवि
अश्मवृष्टिभिर अत्युग्रॊ दरौणिम आच्छादयद रणे
72 अथ संधाय वायव्यम अस्त्रम अस्त्रविदां वरः
वयधमद दरॊण तनयॊ नीलमेघं समुत्थितम
73 स मार्गणगणैर दरौणिर दिशः परच्छाद्य सर्वतः
शतं रथसहस्राणां जघान दविपदां वरः
74 स दृष्ट्वा पुनर आयान्तं रथेनायत कार्मुकम
घटॊत्कचम असंभ्रान्तं राक्षसैर बहुभिर वृतम
75 सिंहशार्दूलसदृशैर मत्तद्विरदविक्रमैः
गजस्थैश च रथस्थैश च वाजिपृष्ठ गतैर अपि
76 विवृतास्य शिरॊग्रीवैर हैडिम्बानुचरैः सह
पौलस्त्यैर यातुधानैश च तामसैश चॊग्रविक्रमैः
77 नानाशस्त्रधरैर वीरैर नाना कवचभूषणैः
महाबलैर भीमरवैः संरम्भॊद्वृत्त लॊचनैः
78 उपस्थितैस ततॊ युद्धे राक्षसैर युद्धदुर्मदैः
विषण्णम अभिसंप्रेक्ष्य पुत्रं ते दरौणिर अब्रवीत
79 तिष्ठ दुर्यॊधनाद्य तवं न कार्यः संभ्रमस तवया
सहैभिर भरातृभिर वीरैः पार्थिवैश चेन्द्र विक्रमैः
80 निहनिष्याम्य अमित्रांस ते न तवास्ति पराजयः
सत्यं ते परतिजानामि पर्याश्वासय वाहिनीम
81 [दुर]
न तव एतद अद्भुतं मन्ये यत ते महद इदं मनः
अस्मासु च परा भक्तिस तव गौतमिनन्दन
82 [स]
अश्वत्थामानम उक्त्वैवं ततः सौबलम अब्रवीत
वृतः शतसहस्रेण रथानां रणशॊभिनाम
83 षष्ट्या गजसहस्रैश च परयाहि तवं धनंजयम
कर्णश च वृषसेनश च कृपॊ नीलस तथैव च
84 उदीच्याः कृतवर्मा च पुरुमित्रः शरुतार्पणः
दुःशासनॊ निकुम्भश च कुण्ड भेदी उरु करमः
85 पुरंजयॊ दृढरथः पताकी हेमपङ्कजः
शल्यारुणीन्द्र सेनाश च संजयॊ विजयॊ जयः
86 कमलाक्षः पुरुः कराथी जय वर्मा सुदर्शनः
एते तवाम अनुयास्यन्ति पत्तीनाम अयुतानि षट
87 जहि भीमं यमौ चॊभौ धर्मराजं च मातुल
असुरान इव देवेन्द्रॊ जयाशा मे तवयि सथिता
88 दारितान दरौणिना बाणैर भृशं विक्षत विग्रहान
अझि मातुलकौन्तेयान असुरान इव पावकिः
89 एवम उक्तॊ ययौ शीघ्रं पुत्रेण तव सौबलः
पिप्रीषुस ते सुतान राजन दिधक्षुश चैव पाण्डवान
90 अथ परववृते युद्धं दरौणिराक्षसयॊर मृधे
विभावर्यां सुतुमुलं शक्र परह्रादयॊर इव
91 ततॊ घटॊत्कचॊ बाणैर दशभिर गौतमी सुतम
जघानॊरसि संक्रुद्धॊ विषाग्निप्रतिमैर दृढैः
92 स तैर अभ्याहतॊ गाढं शरैर भीमसुतेरितैः
चचाल रथमध्यस्थॊ वातॊद्धूत इव दरुमः
93 भूयश चाञ्जलिकेनास्य मार्गणेन महाप्रभम
दरौणिहस्तस्थितं चापं चिच्छेदाशु घटॊत्कचः
94 ततॊ ऽनयद दरौणिर आदाय धनुर भारसहं महत
ववर्ष विशिखांस तीक्ष्णान वारिधारा इवाम्बुदः
95 ततः शारद्वती पुत्रः परेषयाम आस भारत
सुवर्णपुङ्खाञ शत्रुघ्नान खचरान खचरान परति
96 तद बाणैर अर्दितं यूथं रक्षसां पीनवक्षसाम
सिंहैर इव बभौ मत्तं गजानाम आकुलं कुलम
97 विधम्य राक्षसान बाणैः साश्वसूत रथान विभुः
ददाह भगवान वह्निर भूतानीव युगक्षये
98 स दग्ध्वाक्षौहिणीं बाणैर नैरृतान रुरुचे भृशम
पुरेव तरिपुरं दग्ध्वा दिवि देवॊ महेश्वरः
99 युगान्ते सर्वभूतानि दग्ध्वेव वसुर उल्बणः
रराज जयतां शरेष्ठॊ दरॊणपुत्रस तवाहितान
100 तेषु राजसहस्रेषु पाण्डवेयेषु भारत
नैनं निरीक्षितुं कश चिच छक्नॊति दरौणिम आहवे
ऋते घटॊत्कचाद वीराद राक्षसेन्द्रान महाबलात
101 स पुनर भरतश्रेष्ठ करॊधाद रक्तान्तलॊचनः
तलं तलेन संहत्य संदश्य दशनच छदम
सवसूतम अब्रवीत करुद्धॊ दरॊणपुत्राय मां वह
102 स ययौ घॊररूपेण तेन जैत्र पताकिना
दवैरथं दरॊण रूपेण पुनर अप्य अरिसूदनः
103 स चिक्षेप ततः करुद्धॊ दरॊणपुत्राय राक्षसः
अष्टचक्रां महारौद्राम अशनीं रुद्र निर्मिताम
104 ताम अवप्लुत्य जग्राह दरौणिर नयस्य रथे धनुः
चिक्षेप चैनां तस्यैव सयन्दनात सॊ ऽवपुप्लुवे
105 साश्वसूत धवजं वाहं भस्मकृत्वा महाप्रभा
विवेश वसुधं भित्त्वा साशनिर भृशदारुणा
106 दरौणेस तत कर्म दृष्ट्वा तु सर्वभूतान्य अपूजयन
यद अवप्लुत्य जग्राह घॊरां शंकर निर्मिताम
107 धृष्टद्युम्न रथं गत्वा भैमसेनिस ततॊ नृप
मुमॊच निशितान बाणान पुनर दरौणेर महॊरसि
108 धृष्टद्युम्नॊ ऽपय असंभ्रान्तॊ मुमॊचाशीविषॊपमान
सुवर्णपुङ्खान विशिखान दरॊणपुत्रस्य वक्षसि
109 ततॊ मुमॊच नाराचान दरौणिस ताभ्यां सहस्रशः
ताव अप्य अग्निशिखा परख्यैर जघ्नतुस तस्य मार्गणान
110 अतितीव्रम अभूद युद्धं तयॊः पुरुषसिंहयॊः
यॊधानां परीतिजननं दरौणेश च भरतर्षभ
111 ततॊ रथसहस्रेण दविरदानां शतैस तरिभिः
षड्भिर वाजिसहस्रैश च भीमस तं देशम आव्रजत
112 ततॊ भीमात्मजं रक्षॊ धृष्टद्युम्नं च सानुगम
अयॊधयत धर्मात्मा दरौणिर अक्लिष्टकर्मकृत
113 तत्राद्भुततमं दरौणिर दर्शयाम आस विक्रमम
अशक्यं कर्तुम अन्येन सर्वभूतेषु भारत
114 निमेषान्तरमात्रेण साश्वसूत रथद्विपाम
अक्षौहिणीं राक्षसानां शितैर बाणैर अशातयत
115 मिषतॊ भीमसेनस्य हैडिम्बेः पार्षतस्य च
यमयॊर धर्मपुत्रस्य विजयस्याच्युतस्य च
116 परगाढम अञ्जॊ गतिभिर नाराचैर अभिताडिताः
निपेतुर दविरदा भूमौ दविशृङ्गा इव पर्वताः
117 निकृत्तैर हस्तिहस्तैश च विचलद्भिर इतस ततः
रराज वसुधा कीर्णा विसर्पद्भिर इवॊरगैः
118 कषिप्तैः काञ्चनदण्डैश च नृपच छत्रैः कषितिर बभौ
दयौर इवॊदित चन्द्रार्का गरहाकीर्णा युगक्षये
119 परवृद्धध्वजमण्डूकां भेरी विस्तीर्णकच्चपाम
छत्रहंसावली जुष्टां फेनचामरमालिनीम
120 कङ्कगृध्रमहाग्राहां नैकायुध झषाकुलाम
रथक्षिप्त महावप्रां पताका रुचिरद्रुमाम
121 शरमीनां महारौद्रां परासशक्त्युग्रडुण्डुभाम
मज्जा मांसमहापङ्कां कबन्धावर्जितॊडुपाम
122 केशशैवलकल्माषां भीरूणां कश्मलावहाम
नागेन्द्र हययॊधानां शरीरव्यय संभवाम
123 शॊणितौघमहावेगां दरौणिः परावर्तयन नदीम
यॊधार्तरव निर्घॊषां कषतजॊर्मि समाकुलाम
124 परायाद अतिमहाघॊरं यमक्षयमहॊदधिम
निहत्य राक्षसान बाणैर दरौणिर हैडिम्बम आर्दयत
125 पुनर अप्य अतिसंक्रुद्धः स वृकॊदर पार्षतान
स नाराचगणैः पार्थान दरौणिर विद्ध्वा महाबलः
126 जघान सुरथं नाम दरुपदस्य सुतं विभुः
पुनः शरुतंजयं नाम सुरथस्यानुजं रणे
127 बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान
शरुताह्वयं च राजेन्द्र दरौणिर निन्ये यमक्षयम
128 तरिभिश चान्यैः शरैस तीक्ष्णैः सुपुङ्खै रुक्ममालिनाम
शत्रुंजयं च बलिनं शक्र लॊकं निनाय ह
129 जघान स पृषध्रं च चन्द्र देवं च मानिनम
कुन्तिभॊजसुतांश चाजौ दशभिर दश जघ्निवान
130 अश्वत्थामा सुसंक्रुद्धः संधायॊग्रम अजिह्मगम
मुमॊचाकर्ण पूर्णेन धनुषा शरम उत्तमम
यमदण्डॊपमं गॊरम उद्दिश्याशु घटॊत्कचम
131 स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः
विवेश वसुधां शीघ्रं स पुङ्खः पृथिवीपते
132 तं हतं पतितं जञात्वा धृष्टद्युम्नॊ महारथः
दरौणेः सकाशाद राजेन्द्र अपनिन्ये रथान्तरम
133 तथा पराङ्मुख रथं सैन्यं यौधिष्ठिरं नृप
पराजित्य रणे वीरॊ दरॊणपुत्रॊ ननाद ह
पूजितः सर्वभूतैश च तव पुत्रैश च भारत
134 अथ शरशतभिन्नकृत्तदेहैर; हतपतितैः कषणदाचरैः समन्तात
निधनम उपगतैर महीकृताभूद; गिरिशिखरैर इव दुर्गमातिरौद्रा
135 तं सिद्धगन्धर्वपिशाचसंघा; नागाः सुपर्णाः पितरॊ वयांसि
रक्षॊगणा भूतगणाश च दरौणिम; अपूजयन्न अप्सरसः सुराश च
1 [s]
prāyopaviṣṭe tu hate putre sātyakinā tataḥ
somadatto bhṛśaṃ kruddhaḥ sātyaktiṃ vākyam abravīt
2 kṣatradharmaḥ purā dṛṣṭo yas tu devair mahātmabhiḥ
taṃ tvaṃ sātvata saṃtyajya dasyu dharme kathaṃ rataḥ
3 parāṅmukhāya dīnāya nyastaśastrāya yācate
kṣatradharmarataḥ prājñaḥ kathaṃ nu prahared raṇe
4 dvāv eva kila vṛṣṇīnāṃ tatra khyātau mahārathau
pradyumnaś ca mahābāhus tvaṃ caiva yudhi sātvata
5 kathaṃ prāyopaviṣṭāya pārthena chinnabāhave
nṛśaṃsaṃ patanīyaṃ ca tādṛśaṃ kṛtavān asi
6 śape sātvata putrābhyām iṣṭena sukṛtena ca
anatītām imāṃ rātriṃ yadi tvāṃ vīra māninam
7 arakṣyamāṇaṃ pārthena jiṣṇunā sa sutānujam
na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana
8 evam uktvā susaṃkruddhaḥ somadatto mahābalaḥ
dadhmau śaṅkhaṃ ca tāreṇa siṃhanādaṃ nanāda ca
9 tataḥ kamalapatrākṣaḥ siṃhadaṃṣṭro mahābalaḥ
sātvato bhṛśasaṃkruddhaḥ somadattam athābravīt
10 hato bhūriśravā vīras tava putro mahārathaḥ
śaraś caiva tathā rājan bhrātṛvyasanakarśitaḥ
11 tvāṃ cāpy adya vadhiṣyāmi saputrapaśubāndhavam
tiṣṭhedānīṃ raṇe yattaḥ kauravo 'si viśeṣataḥ
12 yasmindānaṃ damaḥ śaucam ahiṃsā hrīr dhṛtiḥ kṣamā
anapāyīni sarvāṇi nityaṃ rājñi yudhiṣṭhire
13 mṛdaṅgaketos tasya tvaṃ tejasā nihataḥ purā
sa karṇa saubalaḥ saṃkhye vināśaṃ samupeṣyasi
14 śape 'haṃ kṛṣṇa caraṇair iṣṭāpūrtena caiva ha
yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ
apayāsyasi cet tyaktvā tato mukto bhaviṣyasi
15 evam ābhāṣya cānyonyaṃ krodhasaṃraktalocanau
pravṛttau śarasaṃpātaṃ kartuṃ puruṣasattamau
16 tato gajasahasreṇa rathānām ayutena ca
duryodhanaḥ somadattaṃ parivārya vyavasthitaḥ
17 śakuniś ca susaṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ
putrapautraiḥ parivṛto bhrātṛbhiś cendra vikramaiḥ
syālas tava mahābāhur vajrasaṃhanano yuvā
18 sāgraṃ śatasahasraṃ tu hayānāṃ tasya dhīmataḥ
somadattaṃ maheṣvāsaṃ samantāt paryarakṣata
19 rakṣyamāṇaś ca balibhiś chādayām āsa sātyakim
taṃ chādyamānaṃ viśikhair dṛṣṭvā saṃnataparvabhiḥ
dhṛṣṭadyumno 'bhyayāt kruddhaḥ pragṛhya mahatīṃ camūm
20 caṇḍavātābhisṛṣṭānām udadhīnām iva svanaḥ
āsīd rājan balaughānām anyonyam abhinighnatām
21 vivyādha somadattas tu sātvataṃ navabhiḥ śaraiḥ
sātyakir daśabhiś cainam avadhīt kurupuṃgavam
22 so 'tividdho balavatā samare dṛḍhadhanvinā
rathopasthaṃ samāsādya mumoha gatacetanaḥ
23 taṃ vimūḍhaṃ samālakṣya sārathis tvarayānvitaḥ
apovāha raṇād vīraṃ somadattaṃ mahāratham
24 taṃ visaṃjñaṃ samālokya yuyudhāna śarārditam
drauṇir abhyadravat kruddhaḥ sātvataṃ raṇamūrdhani
25 tam āpatantaṃ saṃprekṣya śaineyasya rathaṃ prati
bhaimaseniḥ susaṃkruddhaḥ pratyamitram avārayat
26 kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat
yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ
27 vikṣiptam aṣṭacakreṇa vivṛtākṣeṇa kūjatā
dhvajenocchritatuṇḍena gṛdhrarājena rājatā
28 lohitārdra patākaṃ tam antra mālā vibhūṣitam
aṣṭacakrasamāyuktam āsthāya vipulaṃ ratham
29 śūlamudgara dhāriṇyā śailapādapa hastayā
rakṣasāṃ ghorarūpāṇām akṣaihiṇyā samāvṛtaḥ
30 tam udyatamahācāpaṃ niśāmya vyathitā nṛpāḥ
yugāntakālasamaye daṇḍahastam ivāntakam
31 bhayārditā pacukṣobha putrasya tava vāhinī
vāyunā kṣobhitāvartā gaṅgevordhva taraṅgiṇī
32 gaṭotkaca prayuktena siṃhanādena bhīṣitāḥ
prasusruvur gajā mūtraṃ vivyathuś ca narā bhṛśam
33 tato 'śmavṛṣṭir atyartham āsīt tatra samantataḥ
saṃdhyākālādhika balaiḥ pramuktā rākṣasaiḥ kṣitau
34 āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ
patanty aviralāḥ śūlāḥ śataghnyaḥ paṭṭiśās tathā
35 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ
tanayās tava karṇaś ca vyathitāḥ prādravan diśaḥ
36 tatraiko 'strabalaślāghī drauṇir mānī na vivyathe
vyadhamac ca śarair māyāṃ ghaṭotkaca vinirmitām
37 nihatāyāṃ tu māyāyām amarṣī sa ghaṭotkacaḥ
visasarja śarān ghorāṃs te 'śvatthāmānam āviśan
38 bhujagā iva vegena valmīkaṃ krodhamūrchitāḥ
te śarā rudhirābhyaktā bhittvā śāradvatī sutam
viviśur dharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ
39 aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān
ghaṭotkacam abhikruddhaṃ bibheda daśabhiḥ śaraiḥ
40 ghaṭotkaco 'tividdhas tu droṇaputreṇa marmasu
cakraṃ śatasahasrāram agṛhṇād vyathito bhṛśam
41 kṣurāntaṃ bālasūryābhaṃ maṇivajra vibhūṣitam
aśvatthāmnas tu cikṣepa bhaimasenir jighāṃsayā
42 vegena mahatā gacchad vikṣiptaṃ drauṇinā śaraiḥ
abhāgyasyeva saṃkalpas tan moghaṃ nyapatad bhuvi
43 ghaṭotkacas tatas tūrṇaṃ dṛṣṭvā cakraṃ nipātitam
drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram
44 ghaṭotkaca sutaḥ śrīmān bhinnāñ janacayopamaḥ
rurodha drauṇim āyāntaṃ prabhañjanam ivādrirāṭ
45 pautreṇa bhīmasenasya śaraiḥ so 'ñjana parvaṇā
babhau meghena dhārābhir ghirir merur ivārditaḥ
46 aśvatthāmā tv asaṃbhrānto rudropendrendra vikramaḥ
dhvajam ekena bāṇena cicchedāñjanaparvaṇaḥ
47 dvābhyāṃ tu rathayantāraṃ tribhiś cāsya triveṇukam
dhanur ekena ciccheda caturbhiś caturo hayān
48 virathasyodyataṃ hastād dhemabindubhir ācitam
viśikhena sutīkṣṇena khaḍgam asya dvidhākarot
49 gadā hemāṅgadā rājaṃs tūrṇaṃ haiḍimba sūnunā
bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat
50 tato 'ntarikṣam utpatya kālamegha ivonnadan
vavarṣāñjana parvā sa drumavarṣaṃ nabhastalāt
51 tato māyādharaṃ drauṇir ghaṭotkaca sutaṃ divi
mārgaṇair abhivivyādha dhanaṃ sūrya ivāṃśubhiḥ
52 so 'vatīrya punas tasthau rathe hemapariṣkṛte
mahīdhara ivātyuccaḥ śrīmān añjana parvataḥ
53 tam ayasmaya varmāṇaṃ drauṇir bhīmātmajātmajam
jaghānāñjana parvāṇaṃ maheśvara ivāndhakam
54 atha dṛṣṭvā hataṃ putram aśvatthāmnā mahābalam
drauṇeḥ sakāśam abhyetya roṣāt pacalitāṅgadaḥ
55 prāha vākyam asaṃbhrānto vīraṃ śāradvatī sutam
dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam
56 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi
tvām adya nihaniṣyāmi krauñcam agnisuto yathā
57 [aṣv]
gaccha vatsa sahānyais tvaṃ yudhyasvāmara vikrama
na hi putreṇa haiḍimbe pitā nyāyyaṃ prabādhitum
58 kāmaṃ khalu na me roṣo haiḍimbe vidyate tvayi
kiṃ tu roṣānvito jantur hanyād ātmānam apy uta
59 [s]
śrutvaitat krudha tāmrākṣaḥ putraśokasamanvitaḥ
aśvatthāmānam āyasto bhaimasenir abhāṣata
60 kim ahaṃ kātaro drauṇe pṛthagjana ivāhave
bhīmāt khalv aham utpannaḥ kurūṇāṃ vipule kule
61 pāṇḍavānām ahaṃ putraḥ samareṣv anivartinām
rakṣasām adhirājo 'haṃ daśagrīva samo bale
62 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi
yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire
63 ity uktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ
drauṇim abhyadravat kruddho gajendram iva kesarī
64 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ
rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ
65 śaravṛṣṭiṃ śarair drauṇir aprāptāṃ tāṃ vyaśātayat
tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat
66 athāstra saṃgharṣakṛtair visphuliṅgaiḥ samābabhau
vibhāvarī mukhe vyoma khadyotair iva citritam
67 niśāmya nihataṃ māyāṃ drauṇinā raṇamāninā
ghaṭotkacas tato māyāṃ sasarjāntarhitaḥ punaḥ
68 so 'bhavad girir ity uccaḥ śikharais tarusaṃkaṭaiḥ
śūlaprāsāsi musalajalaprasravaṇo mahān
69 tam añjana cayaprakhyaṃ drauṇir dṛṣṭvā mahīdharam
prapatadbhiś ca bahubhiḥ śastrasaṃghair na cukṣubhe
70 tataḥ smayann iva drauṇir vajram astram udīrayat
sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata
71 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi
aśmavṛṣṭibhir atyugro drauṇim ācchādayad raṇe
72 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ
vyadhamad droṇa tanayo nīlameghaṃ samutthitam
73 sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ
śataṃ rathasahasrāṇāṃ jaghāna dvipadāṃ varaḥ
74 sa dṛṣṭvā punar āyāntaṃ rathenāyata kārmukam
ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam
75 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ
gajasthaiś ca rathasthaiś ca vājipṛṣṭha gatair api
76 vivṛtāsya śirogrīvair haiḍimbānucaraiḥ saha
paulastyair yātudhānaiś ca tāmasaiś cogravikramaiḥ
77 nānāśastradharair vīrair nānā kavacabhūṣaṇaiḥ
mahābalair bhīmaravaiḥ saṃrambhodvṛtta locanaiḥ
78 upasthitais tato yuddhe rākṣasair yuddhadurmadaiḥ
viṣaṇṇam abhisaṃprekṣya putraṃ te drauṇir abravīt
79 tiṣṭha duryodhanādya tvaṃ na kāryaḥ saṃbhramas tvayā
sahaibhir bhrātṛbhir vīraiḥ pārthivaiś cendra vikramaiḥ
80 nihaniṣyāmy amitrāṃs te na tavāsti parājayaḥ
satyaṃ te pratijānāmi paryāśvāsaya vāhinīm
81 [dur]
na tv etad adbhutaṃ manye yat te mahad idaṃ manaḥ
asmāsu ca parā bhaktis tava gautaminandana
82 [s]
aśvatthāmānam uktvaivaṃ tataḥ saubalam abravīt
vṛtaḥ śatasahasreṇa rathānāṃ raṇaśobhinām
83 ṣaṣṭyā gajasahasraiś ca prayāhi tvaṃ dhanaṃjayam
karṇaś ca vṛṣasenaś ca kṛpo nīlas tathaiva ca
84 udīcyāḥ kṛtavarmā ca purumitraḥ śrutārpaṇaḥ
duḥśāsano nikumbhaś ca kuṇḍa bhedī uru kramaḥ
85 puraṃjayo dṛḍharathaḥ patākī hemapaṅkajaḥ
śalyāruṇīndra senāś ca saṃjayo vijayo jayaḥ
86 kamalākṣaḥ puruḥ krāthī jaya varmā sudarśanaḥ
ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ
87 jahi bhīmaṃ yamau cobhau dharmarājaṃ ca mātula
asurān iva devendro jayāśā me tvayi sthitā
88 dāritān drauṇinā bāṇair bhṛśaṃ vikṣata vigrahān
ajhi mātulakaunteyān asurān iva pāvakiḥ
89 evam ukto yayau śīghraṃ putreṇa tava saubalaḥ
piprīṣus te sutān rājan didhakṣuś caiva pāṇḍavān
90 atha pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe
vibhāvaryāṃ sutumulaṃ śakra prahrādayor iva
91 tato ghaṭotkaco bāṇair daśabhir gautamī sutam
jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ
92 sa tair abhyāhato gāḍhaṃ śarair bhīmasuteritaiḥ
cacāla rathamadhyastho vātoddhūta iva drumaḥ
93 bhūyaś cāñjalikenāsya mārgaṇena mahāprabham
drauṇihastasthitaṃ cāpaṃ cicchedāśu ghaṭotkacaḥ
94 tato 'nyad drauṇir ādāya dhanur bhārasahaṃ mahat
vavarṣa viśikhāṃs tīkṣṇān vāridhārā ivāmbudaḥ
95 tataḥ śāradvatī putraḥ preṣayām āsa bhārata
suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati
96 tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām
siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam
97 vidhamya rākṣasān bāṇaiḥ sāśvasūta rathān vibhuḥ
dadāha bhagavān vahnir bhūtānīva yugakṣaye
98 sa dagdhvākṣauhiṇīṃ bāṇair nairṛtān ruruce bhṛśam
pureva tripuraṃ dagdhvā divi devo maheśvaraḥ
99 yugānte sarvabhūtāni dagdhveva vasur ulbaṇaḥ
rarāja jayatāṃ śreṣṭho droṇaputras tavāhitān
100 teṣu rājasahasreṣu pāṇḍaveyeṣu bhārata
nainaṃ nirīkṣituṃ kaś cic chaknoti drauṇim āhave
ṛte ghaṭotkacād vīrād rākṣasendrān mahābalāt
101 sa punar bharataśreṣṭha krodhād raktāntalocanaḥ
talaṃ talena saṃhatya saṃdaśya daśanac chadam
svasūtam abravīt kruddho droṇaputrāya māṃ vaha
102 sa yayau ghorarūpeṇa tena jaitra patākinā
dvairathaṃ droṇa rūpeṇa punar apy arisūdanaḥ
103 sa cikṣepa tataḥ kruddho droṇaputrāya rākṣasaḥ
aṣṭacakrāṃ mahāraudrām aśanīṃ rudra nirmitām
104 tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ
cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve
105 sāśvasūta dhvajaṃ vāhaṃ bhasmakṛtvā mahāprabhā
viveśa vasudhaṃ bhittvā sāśanir bhṛśadāruṇā
106 drauṇes tat karma dṛṣṭvā tu sarvabhūtāny apūjayan
yad avaplutya jagrāha ghorāṃ śaṃkara nirmitām
107 dhṛṣṭadyumna rathaṃ gatvā bhaimasenis tato nṛpa
mumoca niśitān bāṇān punar drauṇer mahorasi
108 dhṛṣṭadyumno 'py asaṃbhrānto mumocāśīviṣopamān
suvarṇapuṅkhān viśikhān droṇaputrasya vakṣasi
109 tato mumoca nārācān drauṇis tābhyāṃ sahasraśaḥ
tāv apy agniśikhā prakhyair jaghnatus tasya mārgaṇān
110 atitīvram abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ
yodhānāṃ prītijananaṃ drauṇeś ca bharatarṣabha
111 tato rathasahasreṇa dviradānāṃ śatais tribhiḥ
ṣaḍbhir vājisahasraiś ca bhīmas taṃ deśam āvrajat
112 tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam
ayodhayata dharmātmā drauṇir akliṣṭakarmakṛt
113 tatrādbhutatamaṃ drauṇir darśayām āsa vikramam
aśakyaṃ kartum anyena sarvabhūteṣu bhārata
114 nimeṣāntaramātreṇa sāśvasūta rathadvipām
akṣauhiṇīṃ rākṣasānāṃ śitair bāṇair aśātayat
115 miṣato bhīmasenasya haiḍimbeḥ pārṣatasya ca
yamayor dharmaputrasya vijayasyācyutasya ca
116 pragāḍham añjo gatibhir nārācair abhitāḍitāḥ
nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ
117 nikṛttair hastihastaiś ca vicaladbhir itas tataḥ
rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ
118 kṣiptaiḥ kāñcanadaṇḍaiś ca nṛpac chatraiḥ kṣitir babhau
dyaur ivodita candrārkā grahākīrṇā yugakṣaye
119 pravṛddhadhvajamaṇḍūkāṃ bherī vistīrṇakaccapām
chatrahaṃsāvalī juṣṭāṃ phenacāmaramālinīm
120 kaṅkagṛdhramahāgrāhāṃ naikāyudha jhaṣākulām
rathakṣipta mahāvaprāṃ patākā ruciradrumām
121 śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām
majjā māṃsamahāpaṅkāṃ kabandhāvarjitoḍupām
122 keśaśaivalakalmāṣāṃ bhīrūṇāṃ kaśmalāvahām
nāgendra hayayodhānāṃ śarīravyaya saṃbhavām
123 śoṇitaughamahāvegāṃ drauṇiḥ prāvartayan nadīm
yodhārtarava nirghoṣāṃ kṣatajormi samākulām
124 prāyād atimahāghoraṃ yamakṣayamahodadhim
nihatya rākṣasān bāṇair drauṇir haiḍimbam ārdayat
125 punar apy atisaṃkruddhaḥ sa vṛkodara pārṣatān
sa nārācagaṇaiḥ pārthān drauṇir viddhvā mahābalaḥ
126 jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ
punaḥ śrutaṃjayaṃ nāma surathasyānujaṃ raṇe
127 balānīkaṃ jayānīkaṃ jayāśvaṃ cābhijaghnivān
śrutāhvayaṃ ca rājendra drauṇir ninye yamakṣayam
128 tribhiś cānyaiḥ śarais tīkṣṇaiḥ supuṅkhai rukmamālinām
śatruṃjayaṃ ca balinaṃ śakra lokaṃ nināya ha
129 jaghāna sa pṛṣadhraṃ ca candra devaṃ ca māninam
kuntibhojasutāṃś cājau daśabhir daśa jaghnivān
130 aśvatthāmā susaṃkruddhaḥ saṃdhāyogram ajihmagam
mumocākarṇa pūrṇena dhanuṣā śaram uttamam
yamadaṇḍopamaṃ goram uddiśyāśu ghaṭotkacam
131 sa bhittvā hṛdayaṃ tasya rākṣasasya mahāśaraḥ
viveśa vasudhāṃ śīghraṃ sa puṅkhaḥ pṛthivīpate
132 taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ
drauṇeḥ sakāśād rājendra apaninye rathāntaram
133 tathā parāṅmukha rathaṃ sainyaṃ yaudhiṣṭhiraṃ nṛpa
parājitya raṇe vīro droṇaputro nanāda ha
pūjitaḥ sarvabhūtaiś ca tava putraiś ca bhārata
134 atha śaraśatabhinnakṛttadehair; hatapatitaiḥ kṣaṇadācaraiḥ samantāt
nidhanam upagatair mahīkṛtābhūd; giriśikharair iva durgamātiraudrā
135 taṃ siddhagandharvapiśācasaṃghā; nāgāḥ suparṇāḥ pitaro vayāṃsi
rakṣogaṇā bhūtagaṇāś ca drauṇim; apūjayann apsarasaḥ surāś ca

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1115 of 2013 Book 55% ~14 min left