Book 7: Chapter 122
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 7: Chapter 122

The Mahabharata in Sanskrit

Book 7
Chapter 122

1 [धृ]
तस्मिन विनिहते वीरे सैन्धवे सव्यसाचिना
मामका यद अकुर्वन्त तन ममाचक्ष्व संजय
2 [स]
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष
अमर्षवशम आपन्नः कृपः शारदतस तदा
3 महता शरवर्षेण पाण्डवं समवाकिरत
दरौणिश चाभ्यद्रवत पार्थं रथम आस्थाय फल्गुनम
4 ताव एनं रथिनां शरेष्ठौ रथाभ्यां रथसत्तमम
उभाव उभयतस तीक्ष्णैर विशिखैर अभ्यवर्षताम
5 स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः
पीड्यमानः पराम आर्तिम अगमद रथिनां वरः
6 सॊ ऽजिघांसुर गुरुं संख्ये गुरॊस तनयम एव च
चकाराचार्यकं तत्र कुन्तीपुत्रॊ धनंजयः
7 अस्त्रैर अस्त्राणि संवार्य दरौणेः शारद्वतस्य च
मन्दवेगान इषूंस ताभ्याम अजिघांसुर अवासृजत
8 ते नातिभृशम अभ्यघ्नन विशिखा जय चॊदिताः
बहुत्वात तु पराम आर्तिं शराणां ताव अगच्छताम
9 अथ शारद्वतॊ राजन कौन्तेय शरपीडितः
अवासीदद रथॊपस्थे मूर्च्छाम अभिजगाम ह
10 विह्वलं तम अभिज्ञाय भर्तारं शरपीडितम
हतॊ ऽयम इति च जञात्वा सारस्थिस तम अपावहत
11 तस्मिन सन्ने महाराजे कृपे शारद्वते युधि
अश्वत्थामाप्य अपायासीत पाण्डवेयाद रथान्तरम
12 दृष्ट्वा शारद्वतं पार्थॊ मूर्छितं शरपीडितम
रथ एव महेष्वासः कृपणं पर्यदेवयत
13 पश्यन्न इदं महाप्राज्ञः कषत्ता राजानम उक्तवान
कुलान्त करणे पापे जातमात्रे सुयॊधने
14 नीयतां परलॊकाय साध्व अयं कुलपांसनः
अस्माद धि कुरुमुख्यानां महद उत्पत्स्यते भयम
15 तद इदं समनुप्राप्तं वचनं सत्यवादिनः
तत कृते हय अद्य पश्यामि शरतल्पगतं कृपम
16 धिग अस्तु कषात्रम आचारं धिग अस्तु बलपौरुषम
कॊ हि बराह्मणम आचार्यम अभिद्रुह्येत मादृशः
17 ऋषिपुत्रॊ ममाचार्यॊ दरॊणस्य दयितः सखा
एष शेते रथॊपस्थे मद्बाणैर अभिपीडितः
18 अकामयानेन मया विशिखैर अर्दितॊ भृशम
अवासीदद रथॊपस्थे पराणान पीडयतीव मे
19 शरार्दितेन हि मया परेक्षणीयॊ महाद्युतिः
परत्यस्तॊ बहुभिर बाणैर दश धर्मगतेन वै
20 शॊचयत्य एष निपतन भूयः पुत्रवधाद धि माम
कृपणं सवरथे सन्नं पश्य कृष्ण यथागतम
21 उपाकृत्य तु वै विद्याम आचार्येभ्यॊ नरर्षभाः
परयच्छन्तीह ये कामान देवत्वम उपयान्ति ते
22 ये तु विद्याम उपादाय गुरुभ्यः पुरुषाधमाः
घनन्ति तान एव दुर्वृत्तास ते वै निरयगामिनः
23 तद इदं नरकायाद्य कृतं कर्म मया धरुवम
आचार्यं शरवर्षेण रथे सादयता कृपम
24 यत तत पूर्वम उपाकुर्वन्न अस्त्रं माम अब्रवीत कृपः
न कथं चन कौरव्य परहर्तव्यं गुराव इति
25 तद इदं वचनं साधॊर आचार्यस्य महात्मनः
नानुष्ठितं तम एवाजौ विशिखैर अभिवर्षताण
26 नमस तस्मै सुपूज्याय गौतमायापलायिने
धिग अस्तु मम वार्ष्णेय यॊ हय अस्मै परहराम्य अहम
27 तथा विपलमाने तु सव्यसाचिनि तं परति
सैधवं निहतं दृष्ट्वा राधेयः समुपाद्रवत
28 उपायान्तं तु राधेयं दृष्ट्वा पार्थॊ महारथः
परहसन देवकीपुत्रम इदं वचनम अब्रवीत
29 एष परयात्य आधिरथिः सात्यकेः सयन्दनं परति
न मृष्यति हतं नूनं भूरिश्रवसम आहवे
30 यत्र यात्य एष तत्र तवं चॊदयाश्वाञ जनार्दन
मा सॊमदत्तेः पदवीं गमयेत सात्यकिं वृषः
31 एकम उक्तॊ महाबाहुः केशवः सव्यसाचिना
परत्युवाच महातेजाः कालयुक्तम इदं वचः
32 अलम एष महाबाहुः कर्णायैकॊ हि पाण्डव
किं पुनर दरौपदेयाभ्यां सहितः साततर्षभः
33 न च तावत कषमः पार्थ कर्णेन तव संगरः
परज्वलन्ती महॊल्केव तिष्ठत्य अस्य हि वासवी
तवदर्थं पूज्यमानैषा रक्ष्यते परवीरहन
34 अतः कर्णः परयात्व अत्र सात्वतस्य यथातथा
अहं जञास्यामि कौरव्य कालम अस्य दुरात्मनः
35 [धव]
यॊ ऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः
हते तु भूरिश्रवसि सन्धवे च निपातिते
36 सात्यकिश चापि विरथः कं समारूढवान रथम
चक्ररक्षौ च पाञ्चाल्यौ तन ममाचक्ष्व संजय
37 [स]
हन्त ते वर्णयिष्यामि यथावृत्तं महारणे
शुश्रूषस्व सथिरॊ भूत्वा दुराचरितम आत्मनः
38 पूर्वम एव हि कृष्णस्य मनॊगतम इदं परभॊ
विजेतव्यॊ यथा वीरः सात्यकिर यूपकेतुना
39 अतीतानागतं राजन स हि वेत्ति जनार्दनः
अतः सूतं समाहूय दारुकं संदिदेश ह
रथॊ मे युज्यतां काल्यम इति राजन महाबलः
40 न हि देवा न गन्धर्वा न यक्षॊरग राक्षसाः
मानवा वा विजेतारः कृष्णयॊः सन्ति के चन
41 पितामहपुरॊगाश च देवाः सिद्धाश च तं विदुः
तयॊः परभावम अतुलं शृणु युद्धं च तद यथा
42 सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम
दध्मौ शङ्खं महावेगम आर्षभेणाथ माधवः
43 दारुकॊ ऽवेत्य संदेशं शरुत्वा शङ्खस्य च सवनम
रथम अन्वानयत तस्मै सुपर्णॊच्छ्रितकेतनम
44 स केशवस्यानुमते रथं दारुक संयुतम
आरुरॊह शिनेः पौत्रॊ जवलनादित्य संनिभम
45 कामगैः सैन्यसुग्रीव मेघपुष्पबलाहकैः
हयॊदग्रैर महावेगैर हेमभाण्ड विभूषितैः
46 युक्तं समारुह्य च तं विमानप्रतिमं रथम
अभ्यद्रवत राधेयं परवपन सायकान बहून
47 चक्ररक्षाव अपि तदा युधामन्यूत्तमौजसौ
धनंजयरथं हित्वा राधेयं परत्युदीययुः
48 राधेयॊ ऽपि महाराज शरवर्षं समुत्सृजन
अभ्यद्रवत सुसंक्रुद्धॊ रणे शैनेयम अच्युतम
49 नैव दैवं न गान्धर्वं नासुरॊरग राक्षसम
तादृशं भुवि वा युद्धं दिवि वा शरुतम इत्य उत
50 उपारमत तत सैन्यं स रथाश्वनरद्विपम
तयॊर दृष्ट्वा महाराज कर्म संमूढचेतनम
51 सर्वे च समपश्यन्त तद युद्धम अतिमानुषम
तयॊर नृवरयॊ राजन सारथ्यं दारुकस्य च
52 गतप्रत्यागतावृत्तैर मण्डलैः संनिवर्तनैः
सारथेस तु रथस्थस्य काश्यपेयस्य विस्मिताः
53 नभस्तलगताश चैव देवगन्धर्वदानवाः
अतीवावहिता दरष्टुं कर्ण शैनेययॊ रणम
54 मित्रार्थे तौ पराक्रान्तौ सपर्धिनौ शुष्मिणौ रणे
कर्णश चामरसंकाशॊ युयुधानश च सात्यकिः
55 अन्यॊन्यं तौ महाराज शरवर्षैर अवर्षताम
परममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः
56 अमृष्यमाणॊ निधनं कौरव्य जलसंधयॊः
कर्णः शॊकसमाविष्टॊ महॊरग इव शवसन
57 स शैनेयं रणे करुद्धः परदहन्न इव चक्षुषा
अभ्यद्रवत वेगेन पुनः पुनर अरिंदमः
58 तं तु संप्रेक्ष्य संक्रुद्धं सात्यकिः परत्यविध्यत
महता शरवर्षेण गजः परतिगजं यथा
59 तौ समेत्य नरव्याघ्रौ वयाघ्राव इव तरस्विनौ
अन्यॊन्यं संततक्षाते रणे ऽनुपम विक्रमौ
60 ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः
विभेद सर्वगात्रेषु पुनः पुनर अरिंदमः
61 सारथिं चास्य भल्लेन रथनीडाद अपाहरत
अश्वांश च चतुरः शवेतान निजघ्ने निशितैः शरैः
62 छित्त्वा धवजं शतेनैव शतधा पुरुषर्षभः
चकार विरथं कर्णं तव पुत्रस्य पश्यतः
63 ततॊ विमनसॊ राजंस तावकाः पुरुषर्षभाः
वृषसेनः कर्णसुतः शल्यॊ मद्राधिपस तथा
64 दरॊणपुत्रश च शैनेयं सर्वतः पर्यवारयन
ततः पर्याकुलं सर्वं न पराज्ञायत किं चन
65 तथा सात्यकिना वीरे विरथे सूतजे कृते
हाहाकारस ततॊ राजन सर्वसैन्येषु चाभवत
66 कर्णॊ ऽपि विह्वलॊ राजन सात्वतेनार्दितः शरैः
दुर्यॊधन रथं राजन्न आरुरॊह विनिःश्वसन
67 मानयंस तव पुत्रस्य बाल्यात परभृति सौहृदम
कृतां राज्यप्रदानेन परतिज्ञां परिपालयन
68 तथा तु विरथे कर्णे पुत्रान वै तव पार्थिव
दुःशासन मुखाञ शूरान नावधीत सात्यकिर वशी
69 रक्षन परतिज्ञां च पुनर भीमसेनकृतां पुरा
विरथान विह्वलांश चक्रे न तु पराणैर वययॊजयत
70 भीमसेनेन तु वधः पुत्राणां ते परतिश्रुतः
पुनर्द्यूते च पार्थेन वधः कर्णस्य शंश्रुतः
71 वधे तव अकुर्वन यत्नं ते तस्य कर्ण मुखास तदा
नाशक्नुवंश च तं हन्तुं सात्यकिं परवरा रथाः
72 दरौणिश च कृतवर्मा च तथैवान्ये महारथाः
निर्जिता धनुषैकेन शतशः कषत्रियर्षभाः
काङ्क्षता परलॊकं च धर्मराजस्य च परियम
73 कृष्णयॊः सदृशॊ वीर्ये सात्यकिः शत्रुकर्शनः
कृष्णॊ वापि भवेल लॊके पार्थॊ वापि धनुर्धरः
शैनेयॊ वा नरव्यघ्रश चतुर्थॊ नॊपलभ्यते
74 [धृ]
अजय्यं रथम आस्थाय वासुदेवस्य सात्यकिः
विरथं कृतवान कर्णं वासुदेव समॊ युवा
75 दारुकेण समायुक्तं सवबाहुबलदर्पितः
कच चिद अन्यं समारूढः स रथं सात्यकिः पुनः
76 एतद इच्छाम्य अहं शरॊतुं कुशलॊ हय असि भाषितुम
असह्यं तम अहं मन्ये तन ममाचक्ष्व संजय
77 [स]
शृणु राजन यथा तस्य रथम अन्यं महामतिः
दारुकस्यानुजस तूर्णं कल्पना विधिकल्पितम
78 आयसैः काञ्चनैर्श चापि पट्टैर नद्धं स कूबरम
तारा सहस्रखचितं सिंहध्वजपताकिनम
79 अश्वैर वातजवैर युक्तं हेमभाण्ड परिच्छदैः
पाण्डुरैर इन्दुसंकाशैः सर्वशब्दातिगैर दृढैः
80 चित्रकाञ्चनसंनाहैर वाजिमुख्यैर विशां पते
घण्टाजालाकुल रवं शक्तितॊमरविद्युतम
81 वृतं सांग्रामिकैर दरव्यैर बहुशस्त्रपरिच्छदम
रथं संपादयाम आस मेघगम्भीर निस्वनम
82 तं समारुह्य शैनेयस तव सैन्यम उपाद्रवत
दारुकॊ ऽपि यथाकामं परययौ केशवान्तिकम
83 कर्णस्यापि महाराज शङ्खगॊक्षीर पाण्डुरैः
चित्रकाञ्चनसंनाहैः सदश्वैर वेगवत्तरैः
84 हेमकक्ष्या धवजॊपेतं कॢप्त यन्त्रपताकिनम
अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम
85 उपाजह्रुस तम आस्थाय कर्णॊ ऽपय अभ्यद्रवद रिपून
एतत ते सरम आख्यातं यन मां तवं परिपृच्छसि
86 भूयश चापि निबॊध तवं तवापनयजं कषयम
एकत्रिंशत तव सुता भीमसेनेन पातिताः
87 दुर्मुखं परमुखे कृत्वा सततं चित्रयॊधिनम
शतशॊ निहताः शूराः सात्वतेनार्जुनेन च
88 भीष्मं परमुखतः कृत्वा भगदत्तं च मारिष
एवम एष कषयॊ वृत्तॊ राजन दुर्मन्त्रिते तव
1 [dhṛ]
tasmin vinihate vīre saindhave savyasācinā
māmakā yad akurvanta tan mamācakṣva saṃjaya
2 [s]
saindhavaṃ nihataṃ dṛṣṭvā raṇe pārthena māriṣa
amarṣavaśam āpannaḥ kṛpaḥ śāradatas tadā
3 mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat
drauṇiś cābhyadravat pārthaṃ ratham āsthāya phalgunam
4 tāv enaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam
ubhāv ubhayatas tīkṣṇair viśikhair abhyavarṣatām
5 sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ
pīḍyamānaḥ parām ārtim agamad rathināṃ varaḥ
6 so 'jighāṃsur guruṃ saṃkhye guros tanayam eva ca
cakārācāryakaṃ tatra kuntīputro dhanaṃjayaḥ
7 astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca
mandavegān iṣūṃs tābhyām ajighāṃsur avāsṛjat
8 te nātibhṛśam abhyaghnan viśikhā jaya coditāḥ
bahutvāt tu parām ārtiṃ śarāṇāṃ tāv agacchatām
9 atha śāradvato rājan kaunteya śarapīḍitaḥ
avāsīdad rathopasthe mūrcchām abhijagāma ha
10 vihvalaṃ tam abhijñāya bhartāraṃ śarapīḍitam
hato 'yam iti ca jñātvā sārasthis tam apāvahat
11 tasmin sanne mahārāje kṛpe śāradvate yudhi
aśvatthāmāpy apāyāsīt pāṇḍaveyād rathāntaram
12 dṛṣṭvā śāradvataṃ pārtho mūrchitaṃ śarapīḍitam
ratha eva maheṣvāsaḥ kṛpaṇaṃ paryadevayat
13 paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān
kulānta karaṇe pāpe jātamātre suyodhane
14 nīyatāṃ paralokāya sādhv ayaṃ kulapāṃsanaḥ
asmād dhi kurumukhyānāṃ mahad utpatsyate bhayam
15 tad idaṃ samanuprāptaṃ vacanaṃ satyavādinaḥ
tat kṛte hy adya paśyāmi śaratalpagataṃ kṛpam
16 dhig astu kṣātram ācāraṃ dhig astu balapauruṣam
ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ
17 ṛṣiputro mamācāryo droṇasya dayitaḥ sakhā
eṣa śete rathopasthe madbāṇair abhipīḍitaḥ
18 akāmayānena mayā viśikhair ardito bhṛśam
avāsīdad rathopasthe prāṇān pīḍayatīva me
19 śarārditena hi mayā prekṣaṇīyo mahādyutiḥ
pratyasto bahubhir bāṇair daśa dharmagatena vai
20 śocayaty eṣa nipatan bhūyaḥ putravadhād dhi mām
kṛpaṇaṃ svarathe sannaṃ paśya kṛṣṇa yathāgatam
21 upākṛtya tu vai vidyām ācāryebhyo nararṣabhāḥ
prayacchantīha ye kāmān devatvam upayānti te
22 ye tu vidyām upādāya gurubhyaḥ puruṣādhamāḥ
ghnanti tān eva durvṛttās te vai nirayagāminaḥ
23 tad idaṃ narakāyādya kṛtaṃ karma mayā dhruvam
ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam
24 yat tat pūrvam upākurvann astraṃ mām abravīt kṛpaḥ
na kathaṃ cana kauravya prahartavyaṃ gurāv iti
25 tad idaṃ vacanaṃ sādhor ācāryasya mahātmanaḥ
nānuṣṭhitaṃ tam evājau viśikhair abhivarṣatāṇ
26 namas tasmai supūjyāya gautamāyāpalāyine
dhig astu mama vārṣṇeya yo hy asmai praharāmy aham
27 tathā vipalamāne tu savyasācini taṃ prati
saidhavaṃ nihataṃ dṛṣṭvā rādheyaḥ samupādravat
28 upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ
prahasan devakīputram idaṃ vacanam abravīt
29 eṣa prayāty ādhirathiḥ sātyakeḥ syandanaṃ prati
na mṛṣyati hataṃ nūnaṃ bhūriśravasam āhave
30 yatra yāty eṣa tatra tvaṃ codayāśvāñ janārdana
mā somadatteḥ padavīṃ gamayet sātyakiṃ vṛṣaḥ
31 ekam ukto mahābāhuḥ keśavaḥ savyasācinā
pratyuvāca mahātejāḥ kālayuktam idaṃ vacaḥ
32 alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava
kiṃ punar draupadeyābhyāṃ sahitaḥ sātatarṣabhaḥ
33 na ca tāvat kṣamaḥ pārtha karṇena tava saṃgaraḥ
prajvalantī maholkeva tiṣṭhaty asya hi vāsavī
tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan
34 ataḥ karṇaḥ prayātv atra sātvatasya yathātathā
ahaṃ jñāsyāmi kauravya kālam asya durātmanaḥ
35 [dhv]
yo 'sau karṇena vīreṇa vārṣṇeyasya samāgamaḥ
hate tu bhūriśravasi sandhave ca nipātite
36 sātyakiś cāpi virathaḥ kaṃ samārūḍhavān ratham
cakrarakṣau ca pāñcālyau tan mamācakṣva saṃjaya
37 [s]
hanta te varṇayiṣyāmi yathāvṛttaṃ mahāraṇe
śuśrūṣasva sthiro bhūtvā durācaritam ātmanaḥ
38 pūrvam eva hi kṛṣṇasya manogatam idaṃ prabho
vijetavyo yathā vīraḥ sātyakir yūpaketunā
39 atītānāgataṃ rājan sa hi vetti janārdanaḥ
ataḥ sūtaṃ samāhūya dārukaṃ saṃdideśa ha
ratho me yujyatāṃ kālyam iti rājan mahābalaḥ
40 na hi devā na gandharvā na yakṣoraga rākṣasāḥ
mānavā vā vijetāraḥ kṛṣṇayoḥ santi ke cana
41 pitāmahapurogāś ca devāḥ siddhāś ca taṃ viduḥ
tayoḥ prabhāvam atulaṃ śṛṇu yuddhaṃ ca tad yathā
42 sātyakiṃ virathaṃ dṛṣṭvā karṇaṃ cābhyudyatāyudham
dadhmau śaṅkhaṃ mahāvegam ārṣabheṇātha mādhavaḥ
43 dāruko 'vetya saṃdeśaṃ śrutvā śaṅkhasya ca svanam
ratham anvānayat tasmai suparṇocchritaketanam
44 sa keśavasyānumate rathaṃ dāruka saṃyutam
āruroha śineḥ pautro jvalanāditya saṃnibham
45 kāmagaiḥ sainyasugrīva meghapuṣpabalāhakaiḥ
hayodagrair mahāvegair hemabhāṇḍa vibhūṣitaiḥ
46 yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham
abhyadravata rādheyaṃ pravapan sāyakān bahūn
47 cakrarakṣāv api tadā yudhāmanyūttamaujasau
dhanaṃjayarathaṃ hitvā rādheyaṃ pratyudīyayuḥ
48 rādheyo 'pi mahārāja śaravarṣaṃ samutsṛjan
abhyadravat susaṃkruddho raṇe śaineyam acyutam
49 naiva daivaṃ na gāndharvaṃ nāsuroraga rākṣasam
tādṛśaṃ bhuvi vā yuddhaṃ divi vā śrutam ity uta
50 upāramata tat sainyaṃ sa rathāśvanaradvipam
tayor dṛṣṭvā mahārāja karma saṃmūḍhacetanam
51 sarve ca samapaśyanta tad yuddham atimānuṣam
tayor nṛvarayo rājan sārathyaṃ dārukasya ca
52 gatapratyāgatāvṛttair maṇḍalaiḥ saṃnivartanaiḥ
sārathes tu rathasthasya kāśyapeyasya vismitāḥ
53 nabhastalagatāś caiva devagandharvadānavāḥ
atīvāvahitā draṣṭuṃ karṇa śaineyayo raṇam
54 mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe
karṇaś cāmarasaṃkāśo yuyudhānaś ca sātyakiḥ
55 anyonyaṃ tau mahārāja śaravarṣair avarṣatām
pramamātha śineḥ pautraṃ karṇaḥ sāyakavṛṣṭibhiḥ
56 amṛṣyamāṇo nidhanaṃ kauravya jalasaṃdhayoḥ
karṇaḥ śokasamāviṣṭo mahoraga iva śvasan
57 sa śaineyaṃ raṇe kruddhaḥ pradahann iva cakṣuṣā
abhyadravata vegena punaḥ punar ariṃdamaḥ
58 taṃ tu saṃprekṣya saṃkruddhaṃ sātyakiḥ pratyavidhyata
mahatā śaravarṣeṇa gajaḥ pratigajaṃ yathā
59 tau sametya naravyāghrau vyāghrāv iva tarasvinau
anyonyaṃ saṃtatakṣāte raṇe 'nupama vikramau
60 tataḥ karṇaṃ śineḥ pautraḥ sarvapāraśavaiḥ śaraiḥ
vibheda sarvagātreṣu punaḥ punar ariṃdamaḥ
61 sārathiṃ cāsya bhallena rathanīḍād apāharat
aśvāṃś ca caturaḥ śvetān nijaghne niśitaiḥ śaraiḥ
62 chittvā dhvajaṃ śatenaiva śatadhā puruṣarṣabhaḥ
cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ
63 tato vimanaso rājaṃs tāvakāḥ puruṣarṣabhāḥ
vṛṣasenaḥ karṇasutaḥ śalyo madrādhipas tathā
64 droṇaputraś ca śaineyaṃ sarvataḥ paryavārayan
tataḥ paryākulaṃ sarvaṃ na prājñāyata kiṃ cana
65 tathā sātyakinā vīre virathe sūtaje kṛte
hāhākāras tato rājan sarvasainyeṣu cābhavat
66 karṇo 'pi vihvalo rājan sātvatenārditaḥ śaraiḥ
duryodhana rathaṃ rājann āruroha viniḥśvasan
67 mānayaṃs tava putrasya bālyāt prabhṛti sauhṛdam
kṛtāṃ rājyapradānena pratijñāṃ paripālayan
68 tathā tu virathe karṇe putrān vai tava pārthiva
duḥśāsana mukhāñ śūrān nāvadhīt sātyakir vaśī
69 rakṣan pratijñāṃ ca punar bhīmasenakṛtāṃ purā
virathān vihvalāṃś cakre na tu prāṇair vyayojayat
70 bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ
punardyūte ca pārthena vadhaḥ karṇasya śaṃśrutaḥ
71 vadhe tv akurvan yatnaṃ te tasya karṇa mukhās tadā
nāśaknuvaṃś ca taṃ hantuṃ sātyakiṃ pravarā rathāḥ
72 drauṇiś ca kṛtavarmā ca tathaivānye mahārathāḥ
nirjitā dhanuṣaikena śataśaḥ kṣatriyarṣabhāḥ
kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam
73 kṛṣṇayoḥ sadṛśo vīrye sātyakiḥ śatrukarśanaḥ
kṛṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ
śaineyo vā naravyaghraś caturtho nopalabhyate
74 [dhṛ]
ajayyaṃ ratham āsthāya vāsudevasya sātyakiḥ
virathaṃ kṛtavān karṇaṃ vāsudeva samo yuvā
75 dārukeṇa samāyuktaṃ svabāhubaladarpitaḥ
kac cid anyaṃ samārūḍhaḥ sa rathaṃ sātyakiḥ punaḥ
76 etad icchāmy ahaṃ śrotuṃ kuśalo hy asi bhāṣitum
asahyaṃ tam ahaṃ manye tan mamācakṣva saṃjaya
77 [s]
śṛṇu rājan yathā tasya ratham anyaṃ mahāmatiḥ
dārukasyānujas tūrṇaṃ kalpanā vidhikalpitam
78 āyasaiḥ kāñcanairś cāpi paṭṭair naddhaṃ sa kūbaram
tārā sahasrakhacitaṃ siṃhadhvajapatākinam
79 aśvair vātajavair yuktaṃ hemabhāṇḍa paricchadaiḥ
pāṇḍurair indusaṃkāśaiḥ sarvaśabdātigair dṛḍhaiḥ
80 citrakāñcanasaṃnāhair vājimukhyair viśāṃ pate
ghaṇṭājālākula ravaṃ śaktitomaravidyutam
81 vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam
rathaṃ saṃpādayām āsa meghagambhīra nisvanam
82 taṃ samāruhya śaineyas tava sainyam upādravat
dāruko 'pi yathākāmaṃ prayayau keśavāntikam
83 karṇasyāpi mahārāja śaṅkhagokṣīra pāṇḍuraiḥ
citrakāñcanasaṃnāhaiḥ sadaśvair vegavattaraiḥ
84 hemakakṣyā dhvajopetaṃ kḷpta yantrapatākinam
agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam
85 upājahrus tam āsthāya karṇo 'py abhyadravad ripūn
etat te saram ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
86 bhūyaś cāpi nibodha tvaṃ tavāpanayajaṃ kṣayam
ekatriṃśat tava sutā bhīmasenena pātitāḥ
87 durmukhaṃ pramukhe kṛtvā satataṃ citrayodhinam
śataśo nihatāḥ śūrāḥ sātvatenārjunena ca
88 bhīṣmaṃ pramukhataḥ kṛtvā bhagadattaṃ ca māriṣa
evam eṣa kṣayo vṛtto rājan durmantrite tava

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1106 of 2013 Book 55% ~10 min left