Book 7: Chapter 120
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 7: Chapter 120

The Mahabharata in Sanskrit

Book 7
Chapter 120

1 [धृ]
तदवस्थे हते तस्मिन भूरिश्रवसि कौरवे
यथा भूयॊ ऽभवद युद्धं तन ममाचक्ष्व संजय
2 [स]
भूरिश्रवसि संक्रान्ते परलॊकाय भारत
वासुदेवं महाबाहुर अर्जुनः समचूचुदत
3 चॊदयाश्वान भृशं कृष्ण यतॊ राजा जयद्रथः
अस्तम एति महाबाहॊ तवरमाणॊ दिवाकरः
4 एतद धि पुरुषव्याघ्र महद अभ्युद्यतं मया
कार्यं संरक्ष्यते चैष कुरु सेना महारथैः
5 नास्तम एति यथा सूर्यॊ यथासत्यं भवेद वचः
चॊदयाश्वांस तथा कृष्ण यथा हन्यां जयद्रथम
6 ततः कृष्णॊ महाबाहू रजतप्रतिमान हयान
हयज्ञश चॊदयाम आस जयद्रथरथं परति
7 तं परयान्तम अमॊघेषुम उत्पतद्भिर इवाशुगैः
तवरमाणा महाराज सेनामुख्याः समाव्रजन
8 दुर्यॊधनश च कर्णश च वृषसेनॊ ऽथ मद्रराट
अश्वत्थामा कृपश चैव सवयम एव च सैन्धवः
9 समासाद्य तु बीभत्सुः सैन्धवं परमुखे सथितम
नेत्राभ्यां करॊधदीप्ताभ्यां संप्रैक्षन निर्दहन्न इव
10 ततॊ दुर्यॊधनॊ राजा राधेयं तवरितॊ ऽबरवीत
अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं परति
11 अयं स वैकर्तन युद्धकालॊ; विदर्शयस्वात्मबलं महात्मन
यथा न वध्येत रणे ऽरजुनेन; जयद्रथः कर्ण तथा कुरुष्व
12 अल्पावशिष्टं दिवसं नृवीर; विघातयस्वाद्य रिपुं शरौघैः
दिनक्षयं पराप्य नरप्रवीर; धरुवं हि नः कर्णजयॊ भविष्यति
13 सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं परति
मिथ्याप्रतिज्ञः कौन्तेयः परवेक्ष्यति हुताशनम
14 अनर्जुनायां च भुवि मुहूर्तम अपि मानद
जीवितुं नॊत्सहेरन वै भरातरॊ ऽसय सहानुगाः
15 विनष्टैः पाण्डवेयैश च स शैलवनकाननाम
वसुंधराम इमां कर्ण भॊक्ष्यामॊ हतकण्टकाम
16 दैवेनॊपहतः पार्थॊ विपरीतश च मानद
कार्याकार्यम अजानन वै परतिज्ञां कृतवान रणे
17 नूनम आत्मविनाशाय पाण्डवेन किरीटिना
परतिज्ञेयं कृता कर्णजयद्रथवधं परति
18 कथं जीवति दुर्धर्षे तवयि राधेय फल्गुनः
अनस्तं गत आदित्ये हन्यात सैन्धवकं नृपम
19 रक्षितं मद्रराजेन कृपेण च महात्मना
जयद्रथं रणमुखे कथं हन्याद धनंजयः
20 दरौणिना रक्ष्यमाणं च मया दुःशासनेन च
कथं पराप्स्यति बीभत्सुः सैन्धवं कालचॊदितः
21 युध्यने बहवः शूरा लम्बते च दिवाकरः
शङ्के जयद्रथं पार्थॊ नैव पराप्स्यति मानद
22 स तवं कर्ण मया सार्धं शूरैश चान्यैर महारथैः
युध्यस्व यत्नम आस्थाय परं पार्थेन संयुगे
23 एवम उक्तस तु राधेयस तव पुत्रेण मारिष
दुर्यॊधनम इदं वाक्यं पत्युवाच कुरूत्तमम
24 दृढलक्ष्येण शूरेण भीमसेनेन धन्विना
भृशम उद्वेजितः संख्ये शरजालैर अनेकशः
25 सथातव्यम इति तिष्ठामि रणे संप्रति मानद
नैवाङ्गम इङ्गति किं चिन मे संतप्तस्य रणेषुभिः
26 यॊत्स्यामि तु तथा राजञ शक्त्याहं परया रणे
यथा पाण्डवमुख्यॊ ऽसौ न हनिष्यति सैन्धवम
27 न हि मे युध्यमानस्य सायकांश चास्यतः शितान
सैन्धवं पराप्स्यते वीरः सव्यसाची धनंजयः
28 यत तु शक्तिमता कार्यं सततं हितकारिणा
तत करिष्यामि कौरव्य जयॊ दैवे परतिष्ठितः
29 अद्य यॊत्स्ये ऽरजुनम अहं पौरुषं सवं वयपाश्रितः
तवदर्थं पुरुषव्याघ्र जयॊ दैवे परतिष्ठितः
30 अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चॊभयॊः
पश्यन्तु सर्वभूतानि दारुणं लॊमहर्षणम
31 कर्ण कौरवयॊर एवं रणे संभाषमाणयॊः
अर्जुनॊ निशितैर बाणैर जघान तव वाहिनीम
32 चिच्छेद तीक्ष्णाग्रमुखैः शूराणाम अनिवर्तिनाम
भुजान परिघसंकाशान हस्तिहस्तॊपमान रणे
33 शिरांसि च महाबाहुश चिच्छेद निशितैः शरैः
हस्तिहस्तान हयग्रीवा रथाक्षांश च समन्ततः
34 शॊणिताक्षान हयारॊहान गृहीतप्रास तॊमरान
कषुरैश चिच्छेद बीभत्सुर दविधैकैकं तरिधैव च
35 हयवारणमुह्याश च परापयन्त सहस्रशः
धवजाश छत्राणि चापानि चामराणि शिरांसि च
36 कक्षम अग्निम इवॊद्धूतः परदहंस तव वाहिनीम
अचिरेण महीं पार्थश चकार रुधिरॊत्तराम
37 हतभूयिष्ठ यॊधं तत कृत्वा तव बलं बली
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः
38 बीभत्सुर भीमसेनेन सात्वतेन च रक्षितः
स बभौ भरतश्रेष्ठ जवलन्न इव हुताशनः
39 तं तथावस्थितं दृष्ट्वा तवदीया वीर्यसंमताः
नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः
40 दुर्यॊधनश च कर्णश च वृषसेनॊ ऽथ मद्रराट
अश्वत्थामा कृपश चैव सवयम एव च सैन्धवः
41 संरब्धाः सैन्धवस्यार्थे समावृण्वन किरीटिनम
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः
42 संग्रामकॊविदं पार्थं सर्वे युद्धविशारदाः
अभीताः पर्यवर्तन्त वयादितास्यम इवान्तकम
43 सैन्धवं पृष्ठतः कृत्वा जिघांसन्तॊ ऽरजुनाच्युतौ
सूर्यास्तमयम इच्छन्तॊ लॊहितायति भास्करे
44 ते भुजैर भॊगि भॊगाभैर धनूंष्य आयम्य सायकान
मुमुचुः सूर्यरश्म्य आभाञ शतशः फल्गुनं परति
45 तान अस्तान अस्यमानांश च किरीटी युद्धदुर्मदः
दविधा तरिधाष्टधैकैकं छित्त्वा विव्याध तान रणे
46 सिंहलाङ्गूल केतुस तु दर्शयञ शक्तिम आत्मनः
शारद्वती सुतॊ राजन्न अर्जुनं परत्यवारयत
47 स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः
अतिष्ठद रथमार्गेषु सैन्धवं परिपालयन
48 अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः
महता रथवंशेन सर्वतः पर्यवारयन
49 विस्फारयन्तश चापानि विसृजन्तश च सायकान
सैन्धवं पर्यरक्षन्त शासनात तनयस्य ते
50 तत्र पार्थस्य शूरस्य बाह्वॊर बलम अदृश्यत
ऋषूणाम अक्षयत्वं च धनुषॊ गाण्डिवस्य च
51 अस्त्रैर अस्त्राणि संवार्य दरौणेः शारद्वतस्य च
एकैकं नवभिर बाणैः सर्वान एव समर्पयत
52 तं दरौणिः पञ्चविंशत्या वृषसेनश च सप्तभिः
दुर्यॊधनश च विंशत्या कर्ण शल्यौ तरिभिस तरिभिः
53 त एनम अभिगर्जन्तॊ विध्यन्तश च पुनः पुनः
विधुन्वन्तश च चापानि सर्वतः पर्यवारयन
54 शलिष्टं तु सर्वतश चक्रू रथमण्डलम आशु ते
सूर्यास्तमयम इच्छन्तस तरवमाणा महारथाः
55 त एनम अभिनर्दन्तॊ विधुन्वाना धनूंषि च
सिषिचुर मार्गणैर घॊरैर गिरिं मेघा इवाम्बुभिः
56 ते महास्त्राणि दिव्यानि तत्र राजन वयदर्शयन
धनंजयस्य गात्रेषु शूराः परिघबाहवः
57 हतभूयिष्ठ यॊधं तत कृत्वा तव बलं बली
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः
58 तं कर्णः संयुगे राजन परत्यवारयद आशुगैः
मिषतॊ भीमसेनस्य सात्वतस्य च भारत
59 तं पार्थॊ दशभिर बाणैः परत्यविध्यद रणाजिरे
सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः
60 सात्वतश च तरिभिर बाणैः कर्णं विव्याध मारिष
भीमसेनस तरिभिश चैव पुनः पार्थश च सप्तभिः
61 तान कर्णः परतिविव्याध षष्ट्या षष्ट्या महारथः
तद युद्धम अभवद राजन कर्णस्य बहुभिः सह
62 तत्राद्भुतम अपश्याम सूतपुत्रस्य मारिष
यद एकः समरे करुद्धस तरीन रथान पर्यवारयत
63 फल्गुनस तु महाबाहुः कर्णं वैकर्तनं रणे
सायकानां शतेनैव सर्वमर्मस्व अताडयत
64 रुधिरॊक्षितसर्वाङ्गः सूतपुत्रः परतापवान
शरैः पञ्चाशता वीरः फल्गुनं परत्यविध्यत
तस्य तल लाघवं दृष्ट्वा नामृष्यत रणे ऽरजुनः
65 ततः पार्थॊ धनुश छित्त्वा विव्याधैनं सतनान्तरे
सायकैर नवभिर वीरस तवरमाणॊ धनंजयः
66 वधार्थं चास्य समरे सायकं सूर्यवर्चसम
चिक्षेप तवरया युक्तस तवरा काले धनंजयः
67 तम आपतन्तं वेगेन दरौणिश चिच्छेद सायकम
अर्धचन्द्रेण तीक्ष्णेन स छिन्नः परापतद भुवि
68 अथान्यद धनुर आदाय सूतपुत्रः परतापवान
कर्णॊ ऽपि दविषतां हन्ता छादयाम आस फल्गुनम
सायकैर बहुसाहस्रैः कृतप्रतिकृतेप्सया
69 तौ वृषाव इव नर्दन्तौ नरसिंहौ महारथौ
सायकौघप्रतिच्छन्नं चक्रतुः खम अजिह्मगैः
अदृश्यौ च शरौघैस तौ निघ्नताम इतरेतरम
70 पार्थॊ ऽहम अस्मि तिष्ठ तवं कर्णॊ ऽहं तिष्ठ फल्गुन
इत्य एवं तर्जयन्तौ तौ वाक्शल्यैस तुदतां तथा
71 युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च
परेक्षणीयौ चाभवतां सर्वयॊधसमागमे
72 परशस्यमानौ समरे सिद्धचारणवातिकैः
अयुध्येतां महाराज परस्परवधैषिणौ
73 ततॊ दुर्यॊधनॊ राजंस तावकान अभ्यभाषत
यत्ता रक्षत राधेयं नाहत्वा समरे ऽरजुनम
निवर्तिष्यति राधेय इति माम उक्तवान वृषः
74 एतस्मिन्न अन्तरे राजन दृष्ट्वा कर्णस्य विक्रमम
आकर्णमुक्तैर इषुभिः कर्णस्य चतुरॊ हयान
अनयन मृत्युलॊकाय चतुर्भिः सायकॊत्तमैः
75 सारथिं चास्य भल्लेन रथनीडाद अपाहरत
छादयाम आस च शरैस तव पुत्रस्य पश्यतः
76 स छाद्यमानः समरे हताश्वॊ हतसारथिः
मॊहितः शरजालेन कर्तव्यं नाभ्यपद्यत
77 तं तथा विरथं दृष्ट्वा रथम आरॊप्य सवं तदा
अश्वत्थामा महाराज भूयॊ ऽरजुनम अयॊघयत
78 मद्रराजस तु कौन्तेयम अविध्यत तरिंशता शरैः
शारद्वतस तु विंशत्या वासुदेवं समार्पयत
धनंजयं दवादशभिर आजघान शिलीमुखैः
79 चतुर्भिः सिन्धुराजश च वृषसेनश च सप्तभिः
पृथक पृथन महाराज कृष्ण पार्थाव अविध्यताम
80 तथैव तान परत्यविध्यत कुन्तीपुत्रॊ धनंजयः
दरॊणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च
81 सैन्धवं दशभिर भल्लैर वृषसेनं तरिभिः शरैः
शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत
82 ते परतिज्ञा परतीघातम इच्छन्तः सव्यसाचिनः
सहितास तावकास तूर्णम अभिपेतुर धनंजयम
83 अथार्जुनः सर्वतॊ धारम अस्त्रं; परादुश्चक्रे तरासयन धार्तराष्ट्रान
तं परत्युदीयुः कुरवः पाण्डुसूनुं; रथैर महार्हैः शरवर्षाण्य अवर्षन
84 ततस तु तस्मिंस तुमुले समुत्थिते; सुदारुणे भारत मॊहनीये
नामुह्यत पराप्य स राजपुत्रः; किरीटमालि विसृजन पृषत्कान
85 राज्यप्रेप्सुः सव्यसाची कुरूणां; समरन कलेशान दवादश वर्षवृत्तान
गाण्डीवमुक्तैर इषुभिर महात्मा; सर्वा दिशॊ वयावृणॊद अप्रमेयैः
86 परदीप्तॊल्कम अभवच चान्तरिक्षं; देहेषु भूरीण्य अपतन वयांसि
यत पिङ्गल जयेन किरीटमाली; करुद्धॊ रिपून आजगवेन हन्ति
87 किरीटमाली महता महायशाः; शरासनेनास्य शरान अनीकजित
हयप्रवेकॊत्तम नागधूर गतान; कुरुप्रवीरान इषुभिर नयपातयत
88 गदाश च गुर्वीः परिघान अयस्मयान; असींश च शक्तीश च रणे नराधिपाः
महान्ति शस्त्राणि च भीमदर्शनाः; परगृह्य पार्थं सहसाभिदुद्रुवुः
89 स तान उदीर्णान स रथाश्ववारणान; पदातिसंघांश च महाधनुर्धरः
विपन्नसर्वायुधजीवितान रणे; चकार वीरॊ यम राष्ट्रवर्धनान
1 [dhṛ]
tadavasthe hate tasmin bhūriśravasi kaurave
yathā bhūyo 'bhavad yuddhaṃ tan mamācakṣva saṃjaya
2 [s]
bhūriśravasi saṃkrānte paralokāya bhārata
vāsudevaṃ mahābāhur arjunaḥ samacūcudat
3 codayāśvān bhṛśaṃ kṛṣṇa yato rājā jayadrathaḥ
astam eti mahābāho tvaramāṇo divākaraḥ
4 etad dhi puruṣavyāghra mahad abhyudyataṃ mayā
kāryaṃ saṃrakṣyate caiṣa kuru senā mahārathaiḥ
5 nāstam eti yathā sūryo yathāsatyaṃ bhaved vacaḥ
codayāśvāṃs tathā kṛṣṇa yathā hanyāṃ jayadratham
6 tataḥ kṛṣṇo mahābāhū rajatapratimān hayān
hayajñaś codayām āsa jayadratharathaṃ prati
7 taṃ prayāntam amogheṣum utpatadbhir ivāśugaiḥ
tvaramāṇā mahārāja senāmukhyāḥ samāvrajan
8 duryodhanaś ca karṇaś ca vṛṣaseno 'tha madrarāṭ
aśvatthāmā kṛpaś caiva svayam eva ca saindhavaḥ
9 samāsādya tu bībhatsuḥ saindhavaṃ pramukhe sthitam
netrābhyāṃ krodhadīptābhyāṃ saṃpraikṣan nirdahann iva
10 tato duryodhano rājā rādheyaṃ tvarito 'bravīt
arjunaṃ vīkṣya saṃyāntaṃ jayadratharathaṃ prati
11 ayaṃ sa vaikartana yuddhakālo; vidarśayasvātmabalaṃ mahātman
yathā na vadhyeta raṇe 'rjunena; jayadrathaḥ karṇa tathā kuruṣva
12 alpāvaśiṣṭaṃ divasaṃ nṛvīra; vighātayasvādya ripuṃ śaraughaiḥ
dinakṣayaṃ prāpya narapravīra; dhruvaṃ hi naḥ karṇajayo bhaviṣyati
13 saindhave rakṣyamāṇe tu sūryasyāstamayaṃ prati
mithyāpratijñaḥ kaunteyaḥ pravekṣyati hutāśanam
14 anarjunāyāṃ ca bhuvi muhūrtam api mānada
jīvituṃ notsaheran vai bhrātaro 'sya sahānugāḥ
15 vinaṣṭaiḥ pāṇḍaveyaiś ca sa śailavanakānanām
vasuṃdharām imāṃ karṇa bhokṣyāmo hatakaṇṭakām
16 daivenopahataḥ pārtho viparītaś ca mānada
kāryākāryam ajānan vai pratijñāṃ kṛtavān raṇe
17 nūnam ātmavināśāya pāṇḍavena kirīṭinā
pratijñeyaṃ kṛtā karṇajayadrathavadhaṃ prati
18 kathaṃ jīvati durdharṣe tvayi rādheya phalgunaḥ
anastaṃ gata āditye hanyāt saindhavakaṃ nṛpam
19 rakṣitaṃ madrarājena kṛpeṇa ca mahātmanā
jayadrathaṃ raṇamukhe kathaṃ hanyād dhanaṃjayaḥ
20 drauṇinā rakṣyamāṇaṃ ca mayā duḥśāsanena ca
kathaṃ prāpsyati bībhatsuḥ saindhavaṃ kālacoditaḥ
21 yudhyane bahavaḥ śūrā lambate ca divākaraḥ
śaṅke jayadrathaṃ pārtho naiva prāpsyati mānada
22 sa tvaṃ karṇa mayā sārdhaṃ śūraiś cānyair mahārathaiḥ
yudhyasva yatnam āsthāya paraṃ pārthena saṃyuge
23 evam uktas tu rādheyas tava putreṇa māriṣa
duryodhanam idaṃ vākyaṃ patyuvāca kurūttamam
24 dṛḍhalakṣyeṇa śūreṇa bhīmasenena dhanvinā
bhṛśam udvejitaḥ saṃkhye śarajālair anekaśaḥ
25 sthātavyam iti tiṣṭhāmi raṇe saṃprati mānada
naivāṅgam iṅgati kiṃ cin me saṃtaptasya raṇeṣubhiḥ
26 yotsyāmi tu tathā rājañ śaktyāhaṃ parayā raṇe
yathā pāṇḍavamukhyo 'sau na haniṣyati saindhavam
27 na hi me yudhyamānasya sāyakāṃś cāsyataḥ śitān
saindhavaṃ prāpsyate vīraḥ savyasācī dhanaṃjayaḥ
28 yat tu śaktimatā kāryaṃ satataṃ hitakāriṇā
tat kariṣyāmi kauravya jayo daive pratiṣṭhitaḥ
29 adya yotsye 'rjunam ahaṃ pauruṣaṃ svaṃ vyapāśritaḥ
tvadarthaṃ puruṣavyāghra jayo daive pratiṣṭhitaḥ
30 adya yuddhaṃ kuruśreṣṭha mama pārthasya cobhayoḥ
paśyantu sarvabhūtāni dāruṇaṃ lomaharṣaṇam
31 karṇa kauravayor evaṃ raṇe saṃbhāṣamāṇayoḥ
arjuno niśitair bāṇair jaghāna tava vāhinīm
32 ciccheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām
bhujān parighasaṃkāśān hastihastopamān raṇe
33 śirāṃsi ca mahābāhuś ciccheda niśitaiḥ śaraiḥ
hastihastān hayagrīvā rathākṣāṃś ca samantataḥ
34 śoṇitākṣān hayārohān gṛhītaprāsa tomarān
kṣuraiś ciccheda bībhatsur dvidhaikaikaṃ tridhaiva ca
35 hayavāraṇamuhyāś ca prāpayanta sahasraśaḥ
dhvajāś chatrāṇi cāpāni cāmarāṇi śirāṃsi ca
36 kakṣam agnim ivoddhūtaḥ pradahaṃs tava vāhinīm
acireṇa mahīṃ pārthaś cakāra rudhirottarām
37 hatabhūyiṣṭha yodhaṃ tat kṛtvā tava balaṃ balī
āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ
38 bībhatsur bhīmasenena sātvatena ca rakṣitaḥ
sa babhau bharataśreṣṭha jvalann iva hutāśanaḥ
39 taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ
nāmṛṣyanta maheṣvāsāḥ phalgunaṃ puruṣarṣabhāḥ
40 duryodhanaś ca karṇaś ca vṛṣaseno 'tha madrarāṭ
aśvatthāmā kṛpaś caiva svayam eva ca saindhavaḥ
41 saṃrabdhāḥ saindhavasyārthe samāvṛṇvan kirīṭinam
nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ
42 saṃgrāmakovidaṃ pārthaṃ sarve yuddhaviśāradāḥ
abhītāḥ paryavartanta vyāditāsyam ivāntakam
43 saindhavaṃ pṛṣṭhataḥ kṛtvā jighāṃsanto 'rjunācyutau
sūryāstamayam icchanto lohitāyati bhāskare
44 te bhujair bhogi bhogābhair dhanūṃṣy āyamya sāyakān
mumucuḥ sūryaraśmy ābhāñ śataśaḥ phalgunaṃ prati
45 tān astān asyamānāṃś ca kirīṭī yuddhadurmadaḥ
dvidhā tridhāṣṭadhaikaikaṃ chittvā vivyādha tān raṇe
46 siṃhalāṅgūla ketus tu darśayañ śaktim ātmanaḥ
śāradvatī suto rājann arjunaṃ pratyavārayat
47 sa viddhvā daśabhiḥ pārthaṃ vāsudevaṃ ca saptabhiḥ
atiṣṭhad rathamārgeṣu saindhavaṃ paripālayan
48 athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ
mahatā rathavaṃśena sarvataḥ paryavārayan
49 visphārayantaś cāpāni visṛjantaś ca sāyakān
saindhavaṃ paryarakṣanta śāsanāt tanayasya te
50 tatra pārthasya śūrasya bāhvor balam adṛśyata
ṛṣūṇām akṣayatvaṃ ca dhanuṣo gāṇḍivasya ca
51 astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca
ekaikaṃ navabhir bāṇaiḥ sarvān eva samarpayat
52 taṃ drauṇiḥ pañcaviṃśatyā vṛṣasenaś ca saptabhiḥ
duryodhanaś ca viṃśatyā karṇa śalyau tribhis tribhiḥ
53 ta enam abhigarjanto vidhyantaś ca punaḥ punaḥ
vidhunvantaś ca cāpāni sarvataḥ paryavārayan
54 śliṣṭaṃ tu sarvataś cakrū rathamaṇḍalam āśu te
sūryāstamayam icchantas travamāṇā mahārathāḥ
55 ta enam abhinardanto vidhunvānā dhanūṃṣi ca
siṣicur mārgaṇair ghorair giriṃ meghā ivāmbubhiḥ
56 te mahāstrāṇi divyāni tatra rājan vyadarśayan
dhanaṃjayasya gātreṣu śūrāḥ parighabāhavaḥ
57 hatabhūyiṣṭha yodhaṃ tat kṛtvā tava balaṃ balī
āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ
58 taṃ karṇaḥ saṃyuge rājan pratyavārayad āśugaiḥ
miṣato bhīmasenasya sātvatasya ca bhārata
59 taṃ pārtho daśabhir bāṇaiḥ pratyavidhyad raṇājire
sūtaputraṃ mahābāhuḥ sarvasainyasya paśyataḥ
60 sātvataś ca tribhir bāṇaiḥ karṇaṃ vivyādha māriṣa
bhīmasenas tribhiś caiva punaḥ pārthaś ca saptabhiḥ
61 tān karṇaḥ prativivyādha ṣaṣṭyā ṣaṣṭyā mahārathaḥ
tad yuddham abhavad rājan karṇasya bahubhiḥ saha
62 tatrādbhutam apaśyāma sūtaputrasya māriṣa
yad ekaḥ samare kruddhas trīn rathān paryavārayat
63 phalgunas tu mahābāhuḥ karṇaṃ vaikartanaṃ raṇe
sāyakānāṃ śatenaiva sarvamarmasv atāḍayat
64 rudhirokṣitasarvāṅgaḥ sūtaputraḥ pratāpavān
śaraiḥ pañcāśatā vīraḥ phalgunaṃ pratyavidhyata
tasya tal lāghavaṃ dṛṣṭvā nāmṛṣyata raṇe 'rjunaḥ
65 tataḥ pārtho dhanuś chittvā vivyādhainaṃ stanāntare
sāyakair navabhir vīras tvaramāṇo dhanaṃjayaḥ
66 vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam
cikṣepa tvarayā yuktas tvarā kāle dhanaṃjayaḥ
67 tam āpatantaṃ vegena drauṇiś ciccheda sāyakam
ardhacandreṇa tīkṣṇena sa chinnaḥ prāpatad bhuvi
68 athānyad dhanur ādāya sūtaputraḥ pratāpavān
karṇo 'pi dviṣatāṃ hantā chādayām āsa phalgunam
sāyakair bahusāhasraiḥ kṛtapratikṛtepsayā
69 tau vṛṣāv iva nardantau narasiṃhau mahārathau
sāyakaughapraticchannaṃ cakratuḥ kham ajihmagaiḥ
adṛśyau ca śaraughais tau nighnatām itaretaram
70 pārtho 'ham asmi tiṣṭha tvaṃ karṇo 'haṃ tiṣṭha phalguna
ity evaṃ tarjayantau tau vākśalyais tudatāṃ tathā
71 yudhyetāṃ samare vīrau citraṃ laghu ca suṣṭhu ca
prekṣaṇīyau cābhavatāṃ sarvayodhasamāgame
72 praśasyamānau samare siddhacāraṇavātikaiḥ
ayudhyetāṃ mahārāja parasparavadhaiṣiṇau
73 tato duryodhano rājaṃs tāvakān abhyabhāṣata
yattā rakṣata rādheyaṃ nāhatvā samare 'rjunam
nivartiṣyati rādheya iti mām uktavān vṛṣaḥ
74 etasminn antare rājan dṛṣṭvā karṇasya vikramam
ākarṇamuktair iṣubhiḥ karṇasya caturo hayān
anayan mṛtyulokāya caturbhiḥ sāyakottamaiḥ
75 sārathiṃ cāsya bhallena rathanīḍād apāharat
chādayām āsa ca śarais tava putrasya paśyataḥ
76 sa chādyamānaḥ samare hatāśvo hatasārathiḥ
mohitaḥ śarajālena kartavyaṃ nābhyapadyata
77 taṃ tathā virathaṃ dṛṣṭvā ratham āropya svaṃ tadā
aśvatthāmā mahārāja bhūyo 'rjunam ayoghayat
78 madrarājas tu kaunteyam avidhyat triṃśatā śaraiḥ
śāradvatas tu viṃśatyā vāsudevaṃ samārpayat
dhanaṃjayaṃ dvādaśabhir ājaghāna śilīmukhaiḥ
79 caturbhiḥ sindhurājaś ca vṛṣasenaś ca saptabhiḥ
pṛthak pṛthan mahārāja kṛṣṇa pārthāv avidhyatām
80 tathaiva tān pratyavidhyat kuntīputro dhanaṃjayaḥ
droṇaputraṃ catuḥṣaṣṭyā madrarājaṃ śatena ca
81 saindhavaṃ daśabhir bhallair vṛṣasenaṃ tribhiḥ śaraiḥ
śāradvataṃ ca viṃśatyā viddhvā pārthaḥ samunnadat
82 te pratijñā pratīghātam icchantaḥ savyasācinaḥ
sahitās tāvakās tūrṇam abhipetur dhanaṃjayam
83 athārjunaḥ sarvato dhāram astraṃ; prāduścakre trāsayan dhārtarāṣṭrān
taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ; rathair mahārhaiḥ śaravarṣāṇy avarṣan
84 tatas tu tasmiṃs tumule samutthite; sudāruṇe bhārata mohanīye
nāmuhyata prāpya sa rājaputraḥ; kirīṭamāli visṛjan pṛṣatkān
85 rājyaprepsuḥ savyasācī kurūṇāṃ; smaran kleśān dvādaśa varṣavṛttān
gāṇḍīvamuktair iṣubhir mahātmā; sarvā diśo vyāvṛṇod aprameyaiḥ
86 pradīptolkam abhavac cāntarikṣaṃ; deheṣu bhūrīṇy apatan vayāṃsi
yat piṅgala jyena kirīṭamālī; kruddho ripūn ājagavena hanti
87 kirīṭamālī mahatā mahāyaśāḥ; śarāsanenāsya śarān anīkajit
hayapravekottama nāgadhūr gatān; kurupravīrān iṣubhir nyapātayat
88 gadāś ca gurvīḥ parighān ayasmayān; asīṃś ca śaktīś ca raṇe narādhipāḥ
mahānti śastrāṇi ca bhīmadarśanāḥ; pragṛhya pārthaṃ sahasābhidudruvuḥ
89 sa tān udīrṇān sa rathāśvavāraṇān; padātisaṃghāṃś ca mahādhanurdharaḥ
vipannasarvāyudhajīvitān raṇe; cakāra vīro yama rāṣṭravardhanān

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1104 of 2013 Book 55% ~10 min left