Book 6: Chapter 55
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required.
Get the drive $127.00

Book 6: Chapter 55

The Mahabharata in Sanskrit

Book 6
Chapter 55

1 धृतराष्ट्र उवाच
परतिज्ञाते तु भीष्मेण तस्मिन युद्धे सुदारुणे
करॊधितॊ मम पुत्रेण दुःखितेन विशेषतः
2 भीष्मः किम अकरॊत तत्र पाण्डवेयेषु संजय
पितामहे वा पाञ्चालास तन ममाचक्ष्व संजय
3 संजय उवाच
गतपूर्वाह्णभूयिष्ठे तस्मिन्न अहनि भारत
जयं पराप्तेषु हृष्टेषु पाण्डवेषु महात्मसु
4 सर्वधर्मविशेषज्ञः पिता देवव्रतस तव
अभ्ययाज जवनैर अश्वैः पाण्डवानाम अनीकिनीम
महत्या सेनया गुप्तस तव पुत्रैश च सर्वशः
5 परावर्तत ततॊ युद्धं तुमुलं लॊमहर्षणम
अस्माकं पाण्डवैः सार्धम अनयात तव भारत
6 धनुषां कूजतां तत्र तलानां चाभिहन्यताम
महान समभवच छब्दॊ गिरीणाम इव दीर्यताम
7 तिष्ठ सथितॊ ऽसमि विद्ध्य एनं निवर्तस्व सथिरॊ भव
सथितॊ ऽसमि परहरस्वेति शब्दाः शरूयन्त सर्वशः
8 काञ्चनेषु तनुत्रेषु किरीटेषु धवजेषु च
शिलानाम इव शैलेषु पतितानाम अभूत सवनः
9 पतितान्य उत्तमाङ्गानि बाहवश च विभूषिताः
वयचेष्टन्त महीं पराप्य शतशॊ ऽथ सहस्रशः
10 हृतॊत्तमाङ्गाः के चित तु तथैवॊद्यतकार्मुकाः
परगृहीतायुधाश चापि तस्थुः पुरुषसत्तमाः
11 परावर्तत महावेगा नदी रुधिरवाहिनी
मातङ्गाङ्गशिलारौद्रा मांसशॊणितकर्दमा
12 वराश्वनरनागानां शरीरप्रभवा तदा
परलॊकार्णवमुखी गृध्रगॊमायुमॊदिनी
13 न दृष्टं न शरुतं चापि युद्धम एतादृशं नृप
यथा तव सुतानां च पाण्डवानां च भारत
14 नासीद रथपथस तत्र यॊधैर युधि निपातितैः
गजैश च पतितैर नीलैर गिरिशृङ्गैर इवावृतम
15 विकीर्णैः कवचैश चित्रैर धवजैश छत्रैश च मारिष
शुशुभे तद रणस्थानं शरदीव नभस्तलम
16 विनिर्भिन्नाः शरैः के चिद अन्तपीडाविकर्षिणः
अभीताः समरे शत्रून अभ्यधावन्त दंशिताः
17 तात भरातः सखे बन्धॊ वयस्य मम मातुल
मा मां परित्यजेत्य अन्ये चुक्रुशुः पतिता रणे
18 आधावाभ्येहि मा गच्छ किं भीतॊ ऽसि कव यास्यसि
सथितॊ ऽहं समरे मा भैर इति चान्ये विचुक्रुशुः
19 तत्र भीष्मः शांतनवॊ नित्यं मण्डलकार्मुकः
मुमॊच बाणान दीप्ताग्रान अहीन आशीविषान इव
20 शरैर एकायनीकुर्वन दिशः सर्वा यतव्रतः
जघान पाण्डवरथान आदिश्यादिश्य भारत
21 स नृत्यन वै रथॊपस्थे दर्शयन पाणिलाघवम
अलातचक्रवद राजंस तत्र तत्र सम दृश्यते
22 तम एकं समरे शूरं पाण्डवाः सृञ्जयास तथा
अनेकशतसाहस्रं समपश्यन्त लाघवात
23 मायाकृतात्मानम इव भीष्मं तत्र सम मेनिरे
पूर्वस्यां दिशि तं दृष्ट्वा परतीच्यां ददृशुर जनाः
24 उदीच्यां चैनम आलॊक्य दक्षिणस्यां पुनः परभॊ
एवं स समरे वीरॊ गाङ्गेयः परत्यदृश्यत
25 न चैनं पाण्डवेयानां कश चिच छक्नॊति वीक्षितुम
विशिखान एव पश्यन्ति भीष्मचापच्युतान बहून
26 कुर्वाणं समरे कर्म सूदयानं च वाहिनीम
वयाक्रॊशन्त रणे तत्र वीरा बहुविधं बहु
अमानुषेण रूपेण चरन्तं पितरं तव
27 शलभा इव राजानः पतन्ति विधिचॊदिताः
भीष्माग्निम अभि संक्रुद्धं विनाशाय सहस्रशः
28 न हि मॊघः शरः कश चिद आसीद भीष्मस्य संयुगे
नरनागाश्वकायेषु बहुत्वाल लघुवेधिनः
29 भिनत्त्य एकेन बाणेन सुमुक्तेन पतत्रिणा
गजकङ्कटसंनाहं वज्रेणेवाचलॊत्तमम
30 दवौ तरीन अपि गजारॊहान पिण्डितान वर्मितान अपि
नाराचेन सुतीक्ष्णेन निजघान पिता तव
31 यॊ यॊ भीष्मं नरव्याघ्रम अभ्येति युधि कश चन
मुहूर्तदृष्टः स मया पातितॊ भुवि दृश्यते
32 एवं सा धर्मराजस्य वध्यमाना महाचमूः
भीष्मेणातुलवीर्येण वयशीर्यत सहस्रधा
33 परकीर्यत महासेना शरवर्षाभितापिता
पश्यतॊ वासुदेवस्य पार्थस्य च महात्मनः
34 यतमानापि ते वीरा दरवमाणान महारथान
नाशक्नुवन वारयितुं भीष्मबाणप्रपीडिताः
35 महेन्द्रसमवीर्येण वध्यमाना महाचमूः
अभज्यत महाराज न च दवौ सह धावतः
36 आविद्धनरनागाश्वं पतितध्वजकूबरम
अनीकं पाण्डुपुत्राणां हाहाभूतम अचेतनम
37 जघानात्र पिता पुत्रं पुत्रश च पितरं तथा
परियं सखायं चाक्रन्दे सखा दैवबलात्कृतः
38 विमुच्य कवचान अन्ये पाण्डुपुत्रस्य सैनिकाः
परकीर्य केशान धावन्तः परत्यदृश्यन्त भारत
39 तद गॊकुलम इवॊद्भ्रान्तम उद्भ्रान्तरथयूथपम
ददृशे पाण्डुपुत्रस्य सैन्यम आर्तस्वरं तदा
40 परभज्यमानं तत सैन्यं दृष्ट्वा देवकिनन्दनः
उवाच पार्थं बीभत्सुं निगृह्य रथम उत्तमम
41 अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस तवया
परहरास्मै नरव्याघ्र न चेन मॊहाद विमुह्यसे
42 यत तवया कथितं वीर पुरा राज्ञां समागमे
भीष्मद्रॊणमुखान सर्वान धार्तराष्ट्रस्य सैनिकान
43 सानुबन्धान हनिष्यामि ये मां यॊत्स्यन्ति संयुगे
इति तत कुरु कौन्तेय सत्यं वाक्यम अरिंदम
44 बीभत्सॊ पश्य सैन्यं सवं भज्यमानं समन्ततः
दरवतश च महीपालान सर्वान यौधिष्ठिरे बले
45 दृष्ट्वा हि समरे भीष्मं वयात्ताननम इवान्तकम
भयार्ताः संप्रणश्यन्ति सिंहं कषुद्रमृगा इव
46 एवम उक्तः परत्युवाच वासुदेवं धनंजयः
चॊदयाश्वान यतॊ भीष्मॊ विगाह्यैतद बलार्णवम
47 ततॊ ऽशवान रजतप्रख्यांश चॊदयाम आस माघवः
यतॊ भीष्मरथॊ राजन दुष्प्रेक्ष्यॊ रश्मिमान इव
48 ततस तत पुनर आवृत्तं युधिष्ठिरबलं महत
दृष्ट्वा पार्थं महाबाहुं भीष्मायॊद्यन्तम आहवे
49 ततॊ भीष्मः कुरुश्रेष्ठः सिंहवद विनदन मुहुः
धनंजयरथं तूर्णं शरवर्षैर अवाकिरत
50 कषणेन स रथस तस्य सहयः सहसारथिः
शरवर्षेण महता संछन्नॊ न परकाशते
51 वासुदेवस तव असंभ्रान्तॊ धैर्यम आस्थाय सत्त्ववान
चॊदयाम आस तान अश्वान वितुन्नान भीष्मसायकैः
52 ततः पार्थॊ धनुर गृह्य दिव्यं जलदनिस्वनम
पातयाम आस भीष्मस्य धनुश छित्त्वा तरिभिः शरैः
53 स छिन्नधन्वा कौरव्यः पुनर अन्यन महद धनुः
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव
54 विचकर्ष ततॊ दॊर्भ्यां धनुर जलदनिस्वनम
अथास्य तद अपि करुद्धश चिच्छेद धनुर अर्जुनः
55 तस्य तत पूजयाम आस लाघवं शंतनॊः सुतः
साधु पार्थ महाबाहॊ साधु भॊ पाण्डुनन्दन
56 तवय्य एवैतद युक्तरूपं महत कर्म धनंजय
परीतॊ ऽसमि सुदृढं पुत्र कुरु युद्धं मया सह
57 इति पार्थं परशस्याथ परगृह्यान्यन महद धनुः
मुमॊच समरे वीरः शरान पार्थरथं परति
58 अदर्शयद वासुदेवॊ हययाने परं बलम
मॊघान कुर्वञ शरांस तस्य मण्डलान्य अचरल लघु
59 तथापि भीष्मः सुदृढं वासुदेवधनंजयौ
विव्याध निशितैर बाणैः सर्वगात्रेषु मारिष
60 शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ
गॊवृषाव इव नर्दन्तौ विषाणॊल्लिखिताङ्कितौ
61 पुनश चापि सुसंक्रुद्धः शरैः संनतपर्वभिः
कृष्णयॊर युधि संरब्धॊ भीष्मॊ वयावारयद दिशः
62 वार्ष्णेयं च शरैस तीक्ष्णैः कम्पयाम आस रॊषितः
मुहुर अभ्युत्स्मयन भीष्मः परहस्य सवनवत तदा
63 ततः कृष्णस तु समरे दृष्ट्वा भीष्मपराक्रमम
संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम
64 भीष्मं च शरवर्षाणि सृजन्तम अनिशं युधि
परतपन्तम इवादित्यं मध्यम आसाद्य सेनयॊः
65 वरान वरान विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान
युगान्तम इव कुर्वाणं भीष्मं यौधिष्ठिरे बले
66 अमृष्यमाणॊ भगवान केशवः परवीरहा
अचिन्तयद अमेयात्मा नास्ति यौधिष्ठिरं बलम
67 एकाह्ना हि रणे भीष्मॊ नाशयेद देवदानवान
किम उ पाण्डुसुतान युद्धे सबलान सपदानुगान
68 दरवते च महत सैन्यं पाण्डवस्य महात्मनः
एते च कौरवास तूर्णं परभग्नान दृश्य सॊमकान
आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम
69 सॊ ऽहं भीष्मं निहन्म्य अद्य पाण्डवार्थाय दंशितः
भारम एतं विनेष्यामि पाण्डवानां महात्मनाम
70 अर्जुनॊ ऽपि शरैस तीक्ष्णैर वध्यमानॊ हि संयुगे
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात
71 तथा चिन्तयतस तस्य भूय एव पितामहः
परेषयाम आस संक्रुद्धः शरान पार्थरथं परति
72 तेषां बहुत्वाद धि भृशं शराणां; दिशॊ ऽथ सर्वाः पिहिता बभूवुः
न चान्तरिक्षं न दिशॊ न भूमिर; न भास्करॊ ऽदृश्यत रश्मिमाली
ववुश च वातास तुमुलाः सधूमा; दिशश च सर्वाः कषुभिता बभूवुः
73 दरॊणॊ विकर्णॊ ऽथ जयद्रथश च; भूरिश्रवाः कृतवर्मा कृपश च
शरुतायुर अम्बष्ठपतिश च राजा; विन्दानुविन्दौ च सुदक्षिणश च
74 पराच्याश च सौवीरगणाश च सर्वे; वसातयः कषुद्रकमालवाश च
किरीटिनं तवरमाणाभिसस्रुर; निदेशगाः शांतनवस्य राज्ञः
75 तं वाजिपादातरथौघजालैर; अनेकसाहस्रशतैर ददर्श
किरीटिनं संपरिवार्यमाणं; शिनेर नप्ता वारणयूथपैश च
76 ततस तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरॊ ऽभिससार तूर्णम
77 स तान्य अनीकानि महाधनुष्माञ; शिनिप्रवीरः सहसाभिपत्य
चकार साहाय्यम अथार्जुनस्य; विष्णुर यथा वृत्रनिषूदनस्य
78 विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयॊधम
युधिष्ठिरानीकम अभिद्रवन्तं; परॊवाच संदृश्य शिनिप्रवीरः
79 कव कषत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात कथितः पुराणैः
मा सवां परतिज्ञां जहत परवीराः; सवं वीरधर्मं परिपालयध्वम
80 तान वासवान अन्तरजॊ निशम्य; नरेन्द्रमुख्यान दरवतः समन्तात
पार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च संख्ये समुदीर्यमाणम
81 अमृष्यमाणः स ततॊ महात्मा; यशस्विनं सर्वदशार्हभर्ता
उवाच शैनेयम अभिप्रशंसन; दृष्ट्वा कुरून आपततः समन्तात
82 ये यान्ति यान्त्व एव शिनिप्रवीर; ये ऽपि सथिताः सात्वत ते ऽपि यान्तु
भीष्मं रथात पश्य निपात्यमानं; दरॊणं च संख्ये सगणं मयाद्य
83 नासौ रथः सात्वत कौरवाणां; करुद्धस्य मुच्येत रणे ऽदय कश चित
तस्माद अहं गृह्य रथाङ्गम उग्रं; पराणं हरिष्यामि महाव्रतस्य
84 निहत्य भीष्मं सगणं तथाजौ; दरॊणं च शैनेय रथप्रवीरम
परीतिं करिष्यामि धनंजयस्य; राज्ञश च भीमस्य तथाश्विनॊश च
85 निह्यत्य सर्वान धृतराष्ट्रपुत्रांस; तत्पक्षिणॊ ये च नरेन्द्रमुख्याः
राज्येन राजानम अजातशत्रुं; संपादयिष्याम्य अहम अद्य हृष्टः
86 ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम
कषुरान्तम उद्यम्य भुजेन चक्रं; रथाद अवप्लुत्य विसृज्य वाहान
87 संकम्पयन गां चरणैर महात्मा; वेगेन कृष्णः परससार भीष्मम
मदान्धम आजौ समुदीर्णदर्पः; सिंहॊ जिघांसन्न इव वारणेन्द्रम
88 सॊ ऽभयद्रवद भीष्मम अनीकमध्ये; करुद्धॊ महेन्द्रावरजः परमाथी
वयालम्बिपीतान्तपटश चकाशे; घनॊ यथा खे ऽचिरभापिनद्धः
89 सुदर्शनं चास्य रराज शौरेस; तच चक्रपद्मं सुभुजॊरुनालम
यथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम
90 तत कृष्णकॊपॊदयसूर्यबुद्धं; कषुरान्ततीक्ष्णाग्रसुजातपत्रम
तस्यैव देहॊरुसरः पररूढं; रराज नारायणबाहुनालम
91 तम आत्तचक्रं परणदन्तम उच्चैः; करुद्धं महेन्द्रावरजं समीक्ष्य
सर्वाणि भूतानि भृशं विनेदुः; कषयं कुरूणाम इति चिन्तयित्वा
92 स वासुदेवः परगृहीत चक्रः; संवर्तयिष्यन्न इव जीवलॊकम
अभ्युत्पतँल लॊकगुरुर बभासे; भूतानि धक्ष्यन्न इव कालवह्निः
93 तम आपतन्तं परगृहीतचक्रं; समीक्ष्य देवं दविपदां वरिष्ठम
असंभ्रमात कार्मुकबाणपाणी; रथे सथितः शांतनवॊ ऽभयुवाच
94 एह्य एहि देवेश जगन्निवास; नमॊ ऽसतु ते शार्ङ्गरथाङ्गपाणे
परसह्य मां पातय लॊकनाथ; रथॊत्तमाद भूतशरण्य संख्ये
95 तवया हतस्येह ममाद्य कृष्ण; शरेयः परस्मिन्न इह चैव लॊके
संभावितॊ ऽसम्य अन्धकवृष्णिनाथ; लॊकैस तरिभिर वीर तवाभियानात
96 रथाद अवप्लुत्य ततस तवरावान; पार्थॊ ऽपय अनुद्रुत्य यदुप्रवीरम
जग्राह पीनॊत्तमलम्बबाहुं; बाह्वॊर हरिं वयायतपीनबाहुः
97 निगृह्यमाणश च तदादिदेवॊ; भृशं सरॊषः किल नाम यॊगी
आदाय वेगेन जगाम विष्णुर; जिष्णुं महावात इवैकवृक्षम
98 पार्थस तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णम अभिद्रवन्तम
बलान निजग्राह किरीटमाली; पदे ऽथ राजन दशमे कथं चित
99 अवस्थितं च परणिपत्य कृष्णं; परीतॊ ऽरजुनः काञ्चनचित्रमाली
उवाच कॊपं परतिसंहरेति; गतिर भवान केशव पाण्डवानाम
100 न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सॊदरैश च
अन्तं करिष्यामि यथा कुरूणां; तवयाहम इन्द्रानुज संप्रयुक्तः
101 ततः परतिज्ञां समयं च तस्मै; जनार्दनः परीतमना निशम्य
सथितः परिये कौरवसत्तमस्य; रथं सचक्रः पुनर आरुरॊह
102 स तान अभीषून पुनर आददानः; परगृह्य शङ्खं दविषतां निहन्ता
विनादयाम आस ततॊ दिशश च; स पाञ्चजन्यस्य रवेण शौरिः
103 वयाविद्धनिष्काङ्गदकुण्डलं तं; रजॊ विकीर्णाश चित पक्ष्म नेत्रम
विशुद्धदंष्ट्रं परगृहीतशङ्खं; विचुक्रुशुः परेक्ष्य कुरुप्रवीराः
104 मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश च
ससिंहनादाश च बभूवुर उग्राः; सर्वेष्व अनीकेषु ततः कुरूणाम
105 गाण्डीवघॊषः सतनयित्नुकल्पॊ; जगाम पार्थस्य नभॊ दिशश च
जग्मुश च बाणा विमलाः परसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः
106 तं कौरवाणाम अधिपॊ बलेन; भीष्मेण भूरिश्रवसा च सार्धम
अभ्युद्ययाव उद्यतबाणपाणिः; कक्षं दिधक्षन्न इव धूमकेतुः
107 अथार्जुनाय परजहार भल्लान; भूरिश्रवाः सप्त सुवर्णपुङ्खान
दुर्यॊधनस तॊमरम उग्रवेगं; शल्यॊ गदां शांतनवश च शक्तिम
108 स सप्तभिः सप्त शरप्रवेकान; संवार्य भूरिश्रवसा विसृष्टान
शितेन दुर्यॊधनबाहुमुक्तं; कषुरेण तत तॊमरम उन्ममाथ
109 ततः शुभाम आपततीं स शक्तिं; विद्युत्प्रभां शांतनवेन मुक्ताम
गदां च मद्राधिपबाहुमुक्तां; दवाभ्यां शराभ्यां निचकर्त वीरः
110 ततॊ भुजाभ्यां बलवद विकृष्य; चित्रं धनुर गाण्डिवम अप्रमेयम
माहेन्द्रम अस्त्रं विधिवत सुघॊरं; परादुश्चकाराद्भुतम अन्तरिक्षे
111 तेनॊत्तमास्त्रेण ततॊ महात्मा; सर्वाण्य अनीकानि महाधनुष्मान
शरौघजालैर विमलाग्निवर्णैर; निवारयाम आस किरीटमाली
112 शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान धवजाग्राणि धनूंषि बाहून
निकृत्य देहान विविशुः परेषां; नरेन्द्रनागेन्द्रतुरंगमाणाम
113 ततॊ दिशश चानुदिशश च पार्थः; शरैः सुधारैर निशितैर वितत्य
गाण्डीवशब्देन मनांसि तेषां; किरीटमाली वयथयां चकार
114 तस्मिंस तथा घॊरतमे परवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश च
अन्तर्हिता गाण्डिवनिस्वनेन; भभूवुर उग्राश च रणप्रणादाः
115 गाण्डीवशब्दं तम अथॊ विदित्वा; विराटराजप्रमुखा नृवीराः
पाञ्चालराजॊ दरुपदश च वीरस; तं देशम आजग्मुर अदीनसत्त्वाः
116 सर्वाणि सैन्यानि तु तावकानि; यतॊ यतॊ गाण्डिवजः परणादः
ततस ततः संनतिम एव जग्मुर; न तं परतीपॊ ऽभिससार कश चित
117 तस्मिन सुघॊरे नृपसंप्रहारे; हताः परवीराः सरथाः ससूताः
गजाश च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः
118 परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः
दृढाहताः पत्रिभिर उग्रवेगैः; पार्थेन भल्लैर निशितैः शिताग्रैः
119 निकृत्तयन्त्रा निहतेन्द्रकीला; धवजा महान्तॊ धवजिनीमुखेषु
पदातिसंघाश च रथाश च संख्ये; हयाश च नागाश च धनंजयेन
120 बाणाहतास तूर्णम अपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुर उर्व्याम
ऐन्द्रेण तेनास्त्रवरेण राजन; महाहवे भिन्नतनुत्रदेहाः
121 ततः शरौघैर निशितैः किरीटिना; नृदेहशस्त्रक्षतलॊहितॊदा
नदी सुघॊरा नरदेहफेना; परवर्तिता तत्र रणाजिरे वै
122 वेगेन सातीव पृथुप्रवाहा; परसुस्रुता भैरवारावरूपा
परेतनागाश्वशरीररॊधा; नरान्त्रमज्जाभृतमांसपङ्का
123 परभूतरक्षॊगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला
शरीरसंघातसहस्रवाहिनी; विशीर्णनानाकवचॊर्मिसंकुला
124 नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा
तां कङ्कमालावृतगृध्रकह्वैः; करव्यादसंघैश च तरक्षुभिश च
125 उपेतकूलां ददृशुः समन्तात; करूरां महावैतरणीप्रकाशाम
परवर्तिताम अर्जुनबाणसंघैर; मेदॊवसासृक्प्रवहां सुभीमाम
126 ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश च सर्वे सहिताः परणेदुः
वित्रास्य सेनां धवजिनीपतीनां; सिंहॊ मृगाणाम इव यूथसंघान
विनेदतुस ताव अतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश च
127 ततॊ रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः
तद ऐन्द्रम अस्त्रं विततं सुघॊरम; असह्यम उद्वीक्ष्य युगान्तकल्पम
128 अथापयानं कुरवः सभीष्माः; सद्रॊणदुर्यॊधनबाह्लिकाश च
चक्रुर निशां संधिगतां समीक्ष्य; विभावसॊर लॊहितराजियुक्ताम
129 अवाप्य कीर्तिं च यशश च लॊके; विजित्य शत्रूंश च धनंजयॊ ऽपि
ययौ नरेन्द्रैः सह सॊदरैश च; समाप्तकर्मा शिबिरं निशायाम
ततः परजज्ञे तुमुलः कुरूणां; निशामुखे घॊरतरः परणादः
130 रणे रथानाम अयुतं निहत्य; हता गजाः सप्तशतार्जुनेन
पराच्याश च सौवीरगणाश च सर्वे; निपातिताः कषुद्रकमालवाश च
महत कृतं कर्म धनंजयेन; कर्तुं यथा नार्हति कश चिद अन्यः
131 शरुतायुर अम्बष्ठपतिश च राजा; तथैव दुर्मर्षणचित्रसेनौ
दरॊणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन
सवबाहुवीर्येण जिताः सभीष्माः; किरीटिना लॊकमहारथेन
132 इति बरुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये तवदीयाः
उल्कासहस्रैश च सुसंप्रदीप्तैर; विभ्राजमानैश च तथा परदीपैः
किरीटिवित्रासितसर्वयॊधा; चक्रे निवेशं धवजिनी कुरूणाम
1 dhṛtarāṣṭra uvāca
pratijñāte tu bhīṣmeṇa tasmin yuddhe sudāruṇe
krodhito mama putreṇa duḥkhitena viśeṣataḥ
2 bhīṣmaḥ kim akarot tatra pāṇḍaveyeṣu saṃjaya
pitāmahe vā pāñcālās tan mamācakṣva saṃjaya
3 saṃjaya uvāca
gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata
jayaṃ prāpteṣu hṛṣṭeṣu pāṇḍaveṣu mahātmasu
4 sarvadharmaviśeṣajñaḥ pitā devavratas tava
abhyayāj javanair aśvaiḥ pāṇḍavānām anīkinīm
mahatyā senayā guptas tava putraiś ca sarvaśaḥ
5 prāvartata tato yuddhaṃ tumulaṃ lomaharṣaṇam
asmākaṃ pāṇḍavaiḥ sārdham anayāt tava bhārata
6 dhanuṣāṃ kūjatāṃ tatra talānāṃ cābhihanyatām
mahān samabhavac chabdo girīṇām iva dīryatām
7 tiṣṭha sthito 'smi viddhy enaṃ nivartasva sthiro bhava
sthito 'smi praharasveti śabdāḥ śrūyanta sarvaśaḥ
8 kāñcaneṣu tanutreṣu kirīṭeṣu dhvajeṣu ca
śilānām iva śaileṣu patitānām abhūt svanaḥ
9 patitāny uttamāṅgāni bāhavaś ca vibhūṣitāḥ
vyaceṣṭanta mahīṃ prāpya śataśo 'tha sahasraśaḥ
10 hṛtottamāṅgāḥ ke cit tu tathaivodyatakārmukāḥ
pragṛhītāyudhāś cāpi tasthuḥ puruṣasattamāḥ
11 prāvartata mahāvegā nadī rudhiravāhinī
mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā
12 varāśvanaranāgānāṃ śarīraprabhavā tadā
paralokārṇavamukhī gṛdhragomāyumodinī
13 na dṛṣṭaṃ na śrutaṃ cāpi yuddham etādṛśaṃ nṛpa
yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata
14 nāsīd rathapathas tatra yodhair yudhi nipātitaiḥ
gajaiś ca patitair nīlair giriśṛṅgair ivāvṛtam
15 vikīrṇaiḥ kavacaiś citrair dhvajaiś chatraiś ca māriṣa
śuśubhe tad raṇasthānaṃ śaradīva nabhastalam
16 vinirbhinnāḥ śaraiḥ ke cid antapīḍāvikarṣiṇaḥ
abhītāḥ samare śatrūn abhyadhāvanta daṃśitāḥ
17 tāta bhrātaḥ sakhe bandho vayasya mama mātula
mā māṃ parityajety anye cukruśuḥ patitā raṇe
18 ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi
sthito 'haṃ samare mā bhair iti cānye vicukruśuḥ
19 tatra bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ
mumoca bāṇān dīptāgrān ahīn āśīviṣān iva
20 śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ
jaghāna pāṇḍavarathān ādiśyādiśya bhārata
21 sa nṛtyan vai rathopasthe darśayan pāṇilāghavam
alātacakravad rājaṃs tatra tatra sma dṛśyate
22 tam ekaṃ samare śūraṃ pāṇḍavāḥ sṛñjayās tathā
anekaśatasāhasraṃ samapaśyanta lāghavāt
23 māyākṛtātmānam iva bhīṣmaṃ tatra sma menire
pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśur janāḥ
24 udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho
evaṃ sa samare vīro gāṅgeyaḥ pratyadṛśyata
25 na cainaṃ pāṇḍaveyānāṃ kaś cic chaknoti vīkṣitum
viśikhān eva paśyanti bhīṣmacāpacyutān bahūn
26 kurvāṇaṃ samare karma sūdayānaṃ ca vāhinīm
vyākrośanta raṇe tatra vīrā bahuvidhaṃ bahu
amānuṣeṇa rūpeṇa carantaṃ pitaraṃ tava
27 śalabhā iva rājānaḥ patanti vidhicoditāḥ
bhīṣmāgnim abhi saṃkruddhaṃ vināśāya sahasraśaḥ
28 na hi moghaḥ śaraḥ kaś cid āsīd bhīṣmasya saṃyuge
naranāgāśvakāyeṣu bahutvāl laghuvedhinaḥ
29 bhinatty ekena bāṇena sumuktena patatriṇā
gajakaṅkaṭasaṃnāhaṃ vajreṇevācalottamam
30 dvau trīn api gajārohān piṇḍitān varmitān api
nārācena sutīkṣṇena nijaghāna pitā tava
31 yo yo bhīṣmaṃ naravyāghram abhyeti yudhi kaś cana
muhūrtadṛṣṭaḥ sa mayā pātito bhuvi dṛśyate
32 evaṃ sā dharmarājasya vadhyamānā mahācamūḥ
bhīṣmeṇātulavīryeṇa vyaśīryata sahasradhā
33 prakīryata mahāsenā śaravarṣābhitāpitā
paśyato vāsudevasya pārthasya ca mahātmanaḥ
34 yatamānāpi te vīrā dravamāṇān mahārathān
nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitāḥ
35 mahendrasamavīryeṇa vadhyamānā mahācamūḥ
abhajyata mahārāja na ca dvau saha dhāvataḥ
36 āviddhanaranāgāśvaṃ patitadhvajakūbaram
anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam
37 jaghānātra pitā putraṃ putraś ca pitaraṃ tathā
priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ
38 vimucya kavacān anye pāṇḍuputrasya sainikāḥ
prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata
39 tad gokulam ivodbhrāntam udbhrāntarathayūthapam
dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā
40 prabhajyamānaṃ tat sainyaṃ dṛṣṭvā devakinandanaḥ
uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam
41 ayaṃ sa kālaḥ saṃprāptaḥ pārtha yaḥ kāṅkṣitas tvayā
praharāsmai naravyāghra na cen mohād vimuhyase
42 yat tvayā kathitaṃ vīra purā rājñāṃ samāgame
bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān
43 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge
iti tat kuru kaunteya satyaṃ vākyam ariṃdama
44 bībhatso paśya sainyaṃ svaṃ bhajyamānaṃ samantataḥ
dravataś ca mahīpālān sarvān yaudhiṣṭhire bale
45 dṛṣṭvā hi samare bhīṣmaṃ vyāttānanam ivāntakam
bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva
46 evam uktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ
codayāśvān yato bhīṣmo vigāhyaitad balārṇavam
47 tato 'śvān rajataprakhyāṃś codayām āsa māghavaḥ
yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva
48 tatas tat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat
dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave
49 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadan muhuḥ
dhanaṃjayarathaṃ tūrṇaṃ śaravarṣair avākirat
50 kṣaṇena sa rathas tasya sahayaḥ sahasārathiḥ
śaravarṣeṇa mahatā saṃchanno na prakāśate
51 vāsudevas tv asaṃbhrānto dhairyam āsthāya sattvavān
codayām āsa tān aśvān vitunnān bhīṣmasāyakaiḥ
52 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam
pātayām āsa bhīṣmasya dhanuś chittvā tribhiḥ śaraiḥ
53 sa chinnadhanvā kauravyaḥ punar anyan mahad dhanuḥ
nimeṣāntaramātreṇa sajyaṃ cakre pitā tava
54 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam
athāsya tad api kruddhaś ciccheda dhanur arjunaḥ
55 tasya tat pūjayām āsa lāghavaṃ śaṃtanoḥ sutaḥ
sādhu pārtha mahābāho sādhu bho pāṇḍunandana
56 tvayy evaitad yuktarūpaṃ mahat karma dhanaṃjaya
prīto 'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha
57 iti pārthaṃ praśasyātha pragṛhyānyan mahad dhanuḥ
mumoca samare vīraḥ śarān pārtharathaṃ prati
58 adarśayad vāsudevo hayayāne paraṃ balam
moghān kurvañ śarāṃs tasya maṇḍalāny acaral laghu
59 tathāpi bhīṣmaḥ sudṛḍhaṃ vāsudevadhanaṃjayau
vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa
60 śuśubhāte naravyāghrau tau bhīṣmaśaravikṣatau
govṛṣāv iva nardantau viṣāṇollikhitāṅkitau
61 punaś cāpi susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ
kṛṣṇayor yudhi saṃrabdho bhīṣmo vyāvārayad diśaḥ
62 vārṣṇeyaṃ ca śarais tīkṣṇaiḥ kampayām āsa roṣitaḥ
muhur abhyutsmayan bhīṣmaḥ prahasya svanavat tadā
63 tataḥ kṛṣṇas tu samare dṛṣṭvā bhīṣmaparākramam
saṃprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām
64 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi
pratapantam ivādityaṃ madhyam āsādya senayoḥ
65 varān varān vinighnantaṃ pāṇḍuputrasya sainikān
yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale
66 amṛṣyamāṇo bhagavān keśavaḥ paravīrahā
acintayad ameyātmā nāsti yaudhiṣṭhiraṃ balam
67 ekāhnā hi raṇe bhīṣmo nāśayed devadānavān
kim u pāṇḍusutān yuddhe sabalān sapadānugān
68 dravate ca mahat sainyaṃ pāṇḍavasya mahātmanaḥ
ete ca kauravās tūrṇaṃ prabhagnān dṛśya somakān
ādravanti raṇe hṛṣṭā harṣayantaḥ pitāmaham
69 so 'haṃ bhīṣmaṃ nihanmy adya pāṇḍavārthāya daṃśitaḥ
bhāram etaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām
70 arjuno 'pi śarais tīkṣṇair vadhyamāno hi saṃyuge
kartavyaṃ nābhijānāti raṇe bhīṣmasya gauravāt
71 tathā cintayatas tasya bhūya eva pitāmahaḥ
preṣayām āsa saṃkruddhaḥ śarān pārtharathaṃ prati
72 teṣāṃ bahutvād dhi bhṛśaṃ śarāṇāṃ; diśo 'tha sarvāḥ pihitā babhūvuḥ
na cāntarikṣaṃ na diśo na bhūmir; na bhāskaro 'dṛśyata raśmimālī
vavuś ca vātās tumulāḥ sadhūmā; diśaś ca sarvāḥ kṣubhitā babhūvuḥ
73 droṇo vikarṇo 'tha jayadrathaś ca; bhūriśravāḥ kṛtavarmā kṛpaś ca
śrutāyur ambaṣṭhapatiś ca rājā; vindānuvindau ca sudakṣiṇaś ca
74 prācyāś ca sauvīragaṇāś ca sarve; vasātayaḥ kṣudrakamālavāś ca
kirīṭinaṃ tvaramāṇābhisasrur; nideśagāḥ śāṃtanavasya rājñaḥ
75 taṃ vājipādātarathaughajālair; anekasāhasraśatair dadarśa
kirīṭinaṃ saṃparivāryamāṇaṃ; śiner naptā vāraṇayūthapaiś ca
76 tatas tu dṛṣṭvārjunavāsudevau; padātināgāśvarathaiḥ samantāt
abhidrutau śastrabhṛtāṃ variṣṭhau; śinipravīro 'bhisasāra tūrṇam
77 sa tāny anīkāni mahādhanuṣmāñ; śinipravīraḥ sahasābhipatya
cakāra sāhāyyam athārjunasya; viṣṇur yathā vṛtraniṣūdanasya
78 viśīrṇanāgāśvarathadhvajaughaṃ; bhīṣmeṇa vitrāsitasarvayodham
yudhiṣṭhirānīkam abhidravantaṃ; provāca saṃdṛśya śinipravīraḥ
79 kva kṣatriyā yāsyatha naiṣa dharmaḥ; satāṃ purastāt kathitaḥ purāṇaiḥ
mā svāṃ pratijñāṃ jahata pravīrāḥ; svaṃ vīradharmaṃ paripālayadhvam
80 tān vāsavān antarajo niśamya; narendramukhyān dravataḥ samantāt
pārthasya dṛṣṭvā mṛduyuddhatāṃ ca; bhīṣmaṃ ca saṃkhye samudīryamāṇam
81 amṛṣyamāṇaḥ sa tato mahātmā; yaśasvinaṃ sarvadaśārhabhartā
uvāca śaineyam abhipraśaṃsan; dṛṣṭvā kurūn āpatataḥ samantāt
82 ye yānti yāntv eva śinipravīra; ye 'pi sthitāḥ sātvata te 'pi yāntu
bhīṣmaṃ rathāt paśya nipātyamānaṃ; droṇaṃ ca saṃkhye sagaṇaṃ mayādya
83 nāsau rathaḥ sātvata kauravāṇāṃ; kruddhasya mucyeta raṇe 'dya kaś cit
tasmād ahaṃ gṛhya rathāṅgam ugraṃ; prāṇaṃ hariṣyāmi mahāvratasya
84 nihatya bhīṣmaṃ sagaṇaṃ tathājau; droṇaṃ ca śaineya rathapravīram
prītiṃ kariṣyāmi dhanaṃjayasya; rājñaś ca bhīmasya tathāśvinoś ca
85 nihyatya sarvān dhṛtarāṣṭraputrāṃs; tatpakṣiṇo ye ca narendramukhyāḥ
rājyena rājānam ajātaśatruṃ; saṃpādayiṣyāmy aham adya hṛṣṭaḥ
86 tataḥ sunābhaṃ vasudevaputraḥ; sūryaprabhaṃ vajrasamaprabhāvam
kṣurāntam udyamya bhujena cakraṃ; rathād avaplutya visṛjya vāhān
87 saṃkampayan gāṃ caraṇair mahātmā; vegena kṛṣṇaḥ prasasāra bhīṣmam
madāndham ājau samudīrṇadarpaḥ; siṃho jighāṃsann iva vāraṇendram
88 so 'bhyadravad bhīṣmam anīkamadhye; kruddho mahendrāvarajaḥ pramāthī
vyālambipītāntapaṭaś cakāśe; ghano yathā khe 'cirabhāpinaddhaḥ
89 sudarśanaṃ cāsya rarāja śaures; tac cakrapadmaṃ subhujorunālam
yathādipadmaṃ taruṇārkavarṇaṃ; rarāja nārāyaṇanābhijātam
90 tat kṛṣṇakopodayasūryabuddhaṃ; kṣurāntatīkṣṇāgrasujātapatram
tasyaiva dehorusaraḥ prarūḍhaṃ; rarāja nārāyaṇabāhunālam
91 tam āttacakraṃ praṇadantam uccaiḥ; kruddhaṃ mahendrāvarajaṃ samīkṣya
sarvāṇi bhūtāni bhṛśaṃ vineduḥ; kṣayaṃ kurūṇām iti cintayitvā
92 sa vāsudevaḥ pragṛhīta cakraḥ; saṃvartayiṣyann iva jīvalokam
abhyutpataṁl lokagurur babhāse; bhūtāni dhakṣyann iva kālavahniḥ
93 tam āpatantaṃ pragṛhītacakraṃ; samīkṣya devaṃ dvipadāṃ variṣṭham
asaṃbhramāt kārmukabāṇapāṇī; rathe sthitaḥ śāṃtanavo 'bhyuvāca
94 ehy ehi deveśa jagannivāsa; namo 'stu te śārṅgarathāṅgapāṇe
prasahya māṃ pātaya lokanātha; rathottamād bhūtaśaraṇya saṃkhye
95 tvayā hatasyeha mamādya kṛṣṇa; śreyaḥ parasminn iha caiva loke
saṃbhāvito 'smy andhakavṛṣṇinātha; lokais tribhir vīra tavābhiyānāt
96 rathād avaplutya tatas tvarāvān; pārtho 'py anudrutya yadupravīram
jagrāha pīnottamalambabāhuṃ; bāhvor hariṃ vyāyatapīnabāhuḥ
97 nigṛhyamāṇaś ca tadādidevo; bhṛśaṃ saroṣaḥ kila nāma yogī
ādāya vegena jagāma viṣṇur; jiṣṇuṃ mahāvāta ivaikavṛkṣam
98 pārthas tu viṣṭabhya balena pādau; bhīṣmāntikaṃ tūrṇam abhidravantam
balān nijagrāha kirīṭamālī; pade 'tha rājan daśame kathaṃ cit
99 avasthitaṃ ca praṇipatya kṛṣṇaṃ; prīto 'rjunaḥ kāñcanacitramālī
uvāca kopaṃ pratisaṃhareti; gatir bhavān keśava pāṇḍavānām
100 na hāsyate karma yathāpratijñaṃ; putraiḥ śape keśava sodaraiś ca
antaṃ kariṣyāmi yathā kurūṇāṃ; tvayāham indrānuja saṃprayuktaḥ
101 tataḥ pratijñāṃ samayaṃ ca tasmai; janārdanaḥ prītamanā niśamya
sthitaḥ priye kauravasattamasya; rathaṃ sacakraḥ punar āruroha
102 sa tān abhīṣūn punar ādadānaḥ; pragṛhya śaṅkhaṃ dviṣatāṃ nihantā
vinādayām āsa tato diśaś ca; sa pāñcajanyasya raveṇa śauriḥ
103 vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ; rajo vikīrṇāś cita pakṣma netram
viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ; vicukruśuḥ prekṣya kurupravīrāḥ
104 mṛdaṅgabherīpaṭahapraṇādā; nemisvanā dundubhinisvanāś ca
sasiṃhanādāś ca babhūvur ugrāḥ; sarveṣv anīkeṣu tataḥ kurūṇām
105 gāṇḍīvaghoṣaḥ stanayitnukalpo; jagāma pārthasya nabho diśaś ca
jagmuś ca bāṇā vimalāḥ prasannāḥ; sarvā diśaḥ pāṇḍavacāpamuktāḥ
106 taṃ kauravāṇām adhipo balena; bhīṣmeṇa bhūriśravasā ca sārdham
abhyudyayāv udyatabāṇapāṇiḥ; kakṣaṃ didhakṣann iva dhūmaketuḥ
107 athārjunāya prajahāra bhallān; bhūriśravāḥ sapta suvarṇapuṅkhān
duryodhanas tomaram ugravegaṃ; śalyo gadāṃ śāṃtanavaś ca śaktim
108 sa saptabhiḥ sapta śarapravekān; saṃvārya bhūriśravasā visṛṣṭān
śitena duryodhanabāhumuktaṃ; kṣureṇa tat tomaram unmamātha
109 tataḥ śubhām āpatatīṃ sa śaktiṃ; vidyutprabhāṃ śāṃtanavena muktām
gadāṃ ca madrādhipabāhumuktāṃ; dvābhyāṃ śarābhyāṃ nicakarta vīraḥ
110 tato bhujābhyāṃ balavad vikṛṣya; citraṃ dhanur gāṇḍivam aprameyam
māhendram astraṃ vidhivat sughoraṃ; prāduścakārādbhutam antarikṣe
111 tenottamāstreṇa tato mahātmā; sarvāṇy anīkāni mahādhanuṣmān
śaraughajālair vimalāgnivarṇair; nivārayām āsa kirīṭamālī
112 śilīmukhāḥ pārthadhanuḥpramuktā; rathān dhvajāgrāṇi dhanūṃṣi bāhūn
nikṛtya dehān viviśuḥ pareṣāṃ; narendranāgendraturaṃgamāṇām
113 tato diśaś cānudiśaś ca pārthaḥ; śaraiḥ sudhārair niśitair vitatya
gāṇḍīvaśabdena manāṃsi teṣāṃ; kirīṭamālī vyathayāṃ cakāra
114 tasmiṃs tathā ghoratame pravṛtte; śaṅkhasvanā dundubhinisvanāś ca
antarhitā gāṇḍivanisvanena; bhabhūvur ugrāś ca raṇapraṇādāḥ
115 gāṇḍīvaśabdaṃ tam atho viditvā; virāṭarājapramukhā nṛvīrāḥ
pāñcālarājo drupadaś ca vīras; taṃ deśam ājagmur adīnasattvāḥ
116 sarvāṇi sainyāni tu tāvakāni; yato yato gāṇḍivajaḥ praṇādaḥ
tatas tataḥ saṃnatim eva jagmur; na taṃ pratīpo 'bhisasāra kaś cit
117 tasmin sughore nṛpasaṃprahāre; hatāḥ pravīrāḥ sarathāḥ sasūtāḥ
gajāś ca nārācanipātataptā; mahāpatākāḥ śubharukmakakṣyāḥ
118 parītasattvāḥ sahasā nipetuḥ; kirīṭinā bhinnatanutrakāyāḥ
dṛḍhāhatāḥ patribhir ugravegaiḥ; pārthena bhallair niśitaiḥ śitāgraiḥ
119 nikṛttayantrā nihatendrakīlā; dhvajā mahānto dhvajinīmukheṣu
padātisaṃghāś ca rathāś ca saṃkhye; hayāś ca nāgāś ca dhanaṃjayena
120 bāṇāhatās tūrṇam apetasattvā; viṣṭabhya gātrāṇi nipetur urvyām
aindreṇa tenāstravareṇa rājan; mahāhave bhinnatanutradehāḥ
121 tataḥ śaraughair niśitaiḥ kirīṭinā; nṛdehaśastrakṣatalohitodā
nadī sughorā naradehaphenā; pravartitā tatra raṇājire vai
122 vegena sātīva pṛthupravāhā; prasusrutā bhairavārāvarūpā
paretanāgāśvaśarīrarodhā; narāntramajjābhṛtamāṃsapaṅkā
123 prabhūtarakṣogaṇabhūtasevitā; śiraḥkapālākulakeśaśādvalā
śarīrasaṃghātasahasravāhinī; viśīrṇanānākavacormisaṃkulā
124 narāśvanāgāsthinikṛttaśarkarā; vināśapātālavatī bhayāvahā
tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ; kravyādasaṃghaiś ca tarakṣubhiś ca
125 upetakūlāṃ dadṛśuḥ samantāt; krūrāṃ mahāvaitaraṇīprakāśām
pravartitām arjunabāṇasaṃghair; medovasāsṛkpravahāṃ subhīmām
126 te cedipāñcālakarūṣamatsyāḥ; pārthāś ca sarve sahitāḥ praṇeduḥ
vitrāsya senāṃ dhvajinīpatīnāṃ; siṃho mṛgāṇām iva yūthasaṃghān
vinedatus tāv atiharṣayuktau; gāṇḍīvadhanvā ca janārdanaś ca
127 tato raviṃ saṃhṛtaraśmijālaṃ; dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ
tad aindram astraṃ vitataṃ sughoram; asahyam udvīkṣya yugāntakalpam
128 athāpayānaṃ kuravaḥ sabhīṣmāḥ; sadroṇaduryodhanabāhlikāś ca
cakrur niśāṃ saṃdhigatāṃ samīkṣya; vibhāvasor lohitarājiyuktām
129 avāpya kīrtiṃ ca yaśaś ca loke; vijitya śatrūṃś ca dhanaṃjayo 'pi
yayau narendraiḥ saha sodaraiś ca; samāptakarmā śibiraṃ niśāyām
tataḥ prajajñe tumulaḥ kurūṇāṃ; niśāmukhe ghorataraḥ praṇādaḥ
130 raṇe rathānām ayutaṃ nihatya; hatā gajāḥ saptaśatārjunena
prācyāś ca sauvīragaṇāś ca sarve; nipātitāḥ kṣudrakamālavāś ca
mahat kṛtaṃ karma dhanaṃjayena; kartuṃ yathā nārhati kaś cid anyaḥ
131 śrutāyur ambaṣṭhapatiś ca rājā; tathaiva durmarṣaṇacitrasenau
droṇaḥ kṛpaḥ saindhavabāhlikau ca; bhūriśravāḥ śalyaśalau ca rājan
svabāhuvīryeṇa jitāḥ sabhīṣmāḥ; kirīṭinā lokamahārathena
132 iti bruvantaḥ śibirāṇi jagmuḥ; sarve gaṇā bhārata ye tvadīyāḥ
ulkāsahasraiś ca susaṃpradīptair; vibhrājamānaiś ca tathā pradīpaiḥ
kirīṭivitrāsitasarvayodhā; cakre niveśaṃ dhvajinī kurūṇām

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

921 of 2013 Book 46% ~16 min left