Book 6: Chapter 103
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required.
Get the drive $127.00

Book 6: Chapter 103

The Mahabharata in Sanskrit

Book 6
Chapter 103

1 संजय उवाच
युध्यताम एव तेषां तु भास्करे ऽसतम उपागते
संध्या समभवद घॊरा नापश्याम ततॊ रणम
2 ततॊ युधिष्ठिरॊ राजा संध्यां संदृश्य भारत
वध्यमानं बलं चापि भीष्मेणामित्रघातिना
3 मुक्तशस्त्रं परावृत्तं पलायनपरायणम
भीष्मं च युधि संरब्धम अनुयान्तं महारथान
4 सॊमकांश च जितान दृष्ट्वा निरुत्साहान महारथान
चिन्तयित्वा चिरं धयात्वा अवहारम अरॊचयत
5 ततॊ ऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः
तथैव तव सैन्यानाम अवहारॊ हय अभूत तदा
6 ततॊ ऽवहारं सैन्यानां कृत्वा तत्र महारथाः
नयविशन्त कुरुश्रेष्ठ संग्रामे कषतविक्षताः
7 भीष्मस्य समरे कर्म चिन्तयानास तु पाण्डवाः
नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः
8 भीष्मॊ ऽपि समरे जित्वा पाण्डवान सह सृञ्जयैः
पूज्यमानस तव सुतैर वन्द्यमानश च भारत
9 नयविशत कुरुभिः सार्धं हृष्टरूपैः समन्ततः
ततॊ रात्रिः समभवत सर्वभूतप्रमॊहिनी
10 तस्मिन रात्रिमुखे घॊरे पाण्डवा वृष्णिभिः सह
सृञ्जयाश च दुराधर्षा मन्त्राय समुपाविशन
11 आत्मनिःश्रेयसं सर्वे पराप्तकालं महाबलाः
मन्त्रयाम आसुर अव्यग्रा मन्त्रनिश्चयकॊविदाः
12 ततॊ युधिष्ठिरॊ राजा मन्त्रयित्वा चिरं नृप
वासुदेवं समुद्वीक्ष्य वाक्यम एतद उवाच ह
13 पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम
गजं नलवनानीव विमृद्नन्तं बलं मम
14 न चैवैनं महात्मानम उत्सहामॊ निरीक्षितुम
लेलिह्यमानं सैन्येषु परवृद्धम इव पावकम
15 यथा घॊरॊ महानागस तक्षकॊ वै विषॊल्बणः
तथा भीष्मॊ रणे कृष्ण तीष्क्णशस्त्रः परतापवान
16 गृहीतचापः समरे विमुञ्चंश च शिताञ शरान
शक्यॊ जेतुं यमः करुद्धॊ वज्रपाणिश च देवराट
17 वरुणः पाशभृद वापि सगदॊ वा धनेश्वरः
न तु भीष्मः सुसंक्रुद्धः शक्यॊ जेतुं महाहवे
18 सॊ ऽहम एवं गते कृष्ण निमग्नः शॊकसागरे
आत्मनॊ बुद्धिदौर्बल्याद भीष्मम आसाद्य संयुगे
19 वनं यास्यामि दुर्धर्ष शरेयॊ मे तत्र वै गतम
न युद्धं रॊचये कृष्ण हन्ति भीष्मॊ हि नः सदा
20 यथा परज्वलितं वह्निं पतंगः समभिद्रवन
एकतॊ मृत्युम अभ्येति तथाहं भीष्मम ईयिवान
21 कषयं नीतॊ ऽसमि वार्ष्णेय राज्यहेतॊः पराक्रमी
भरातरश चैव मे शूराः सायकैर भृशपीडिताः
22 मत्कृते भरातृसौहार्दाद राज्यात परभ्रंशनं गताः
परिक्लिष्टा यथा कृष्णा मत्कृते मधुसूदन
23 जीवितं बहु मन्ये ऽहं जीवितं हय अद्य दुर्लभम
जीवितस्याद्य शेषेण चरिष्ये धर्मम उत्तमम
24 यदि ते ऽहम अनुग्राह्यॊ भरातृभिः सह केशव
सवधर्मस्याविरॊधेन तद उदाहर केशव
25 एतच छरुत्वा वचस तस्य कारुण्याद बहुविस्तरम
परत्युवाच ततः कृष्णः सान्त्वयानॊ युधिष्ठिरम
26 धर्मपुत्र विषादं तवं मा कृथाः सत्यसंगर
यस्य ते भरातरः शूरा दुर्जयाः शत्रुसूदनाः
27 अर्जुनॊ भीमसेनश च वाय्वग्निसमतेजसौ
माद्रीपुत्रौ च विक्रान्तौ तरिदशानाम इवेश्वरौ
28 मां वा नियुङ्क्ष्व सौहार्दाद यॊत्स्ये भीष्मेण पाण्डव
तवत्प्रयुक्तॊ हय अहं राजन किं न कुर्यां महाहवे
29 हनिष्यामि रणे भीष्मम आहूय पुरुषर्षभम
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः
30 यदि भीष्मे हते राजञ जयं पश्यसि पाण्डव
हन्तास्म्य एकरथेनाद्य कुरुवृद्धं पितामहम
31 पश्य मे विक्रमं राजन महेन्द्रस्येव संयुगे
विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात
32 यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः
मदर्था भवदर्था ये ये मदीयास तवैव ते
33 तव भराता मम सखा संबन्धी शिष्य एव च
मांसान्य उत्कृत्य वै दद्याम अर्जुनार्थे महीपते
34 एष चापि नरव्याघ्रॊ मत्कृते जीवितं तयजेत
एष नः समयस तात तारयेम परस्परम
स मां नियुङ्क्ष्व राजेन्द्र यावद दवीपॊ भवाम्य अहम
35 परतिज्ञातम उपप्लव्ये यत तत पार्थेन पूर्वतः
घातयिष्यामि गाङ्गेयम इत्य उलूकस्य संनिधौ
36 परिरक्ष्यं च मम तद वचः पार्थस्य धीमतः
अनुज्ञातं तु पार्थेन मया कार्यं न संशयः
37 अथ वा फल्गुनस्यैष भारः परिमितॊ रणे
निहनिष्यति संग्रामे भीष्मं परपुरंजयम
38 अशक्यम अपि कुर्याद धि रणे पार्थः समुद्यतः
तरिदशान वा समुद्युक्तान सहितान दैत्यदानवैः
निहन्याद अर्जुनः संख्ये किम उ भीष्मं नराधिप
39 विपरीतॊ महावीर्यॊ गतसत्त्वॊ ऽलपजीवितः
भीष्मः शांतनवॊ नूनं कर्तव्यं नावबुध्यते
40 युधिष्ठिर उवाच
एवम एतन महाबाहॊ यथा वदसि माधव
सर्वे हय एते न पर्याप्तास तव वेगनिवारणे
41 नियतं समवाप्स्यामि सर्वम एव यथेप्सितम
यस्य मे पुरुषव्याघ्र भवान नाथॊ महाबलः
42 सेन्द्रान अपि रणे देवाञ जयेयं जयतां वर
तवया नाथेन गॊविन्द किम उ भीष्मं महाहवे
43 न तु तवाम अनृतं कर्तुम उत्सहे सवार्थगौरवात
अयुध्यमानः साहाय्यं यथॊक्तं कुरु माधव
44 समयस तु कृतः कश चिद भीष्मेण मम माधव
मन्त्रयिष्ये तवार्थाय न तु यॊत्स्ये कथं चन
दुर्यॊधनार्थे यॊत्स्यामि सत्यम एतद इति परभॊ
45 स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव
तस्माद देवव्रतं भूयॊ वधॊपायार्थम आत्मनः
भवता सहिताः सर्वे पृच्छामॊ मधुसूदन
46 तद वयं सहिता गत्वा भीष्मम आशु नरॊत्तमम
रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम
47 स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन
यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे
48 स नॊ जयस्य दाता च मन्त्रस्य च धृतव्रतः
बालाः पित्रा विहीनाश च तेन संवर्धिता वयम
49 तं चेत पितामहं वृद्धं हन्तुम इच्छामि माधव
पितुः पितरम इष्टं वै धिग अस्तु कषत्रजीविकाम
50 संजय उवाच
ततॊ ऽबरवीन महाराज वार्ष्णेयः कुरुनन्दनम
रॊचते मे महाबाहॊ सततं तव भाषितम
51 देवव्रतः कृती भीष्मः परेक्षितेनापि निर्दहेत
गम्यतां स वधॊपायं परष्टुं सागरगासुतः
वक्तुम अर्हति सत्यं स तवया पृष्टॊ विशेषतः
52 ते वयं तत्र गच्छामः परष्टुं कुरुपितामहम
परणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव
स नॊ दास्यति यं मन्त्रं तेन यॊत्स्यामहे परान
53 एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज
जग्मुस ते सहिताः सर्वे वासुदेवश च वीर्यवान
विमुक्तशस्त्रकवचा भीष्मस्य सदनं परति
54 परविश्य च तदा भीष्मं शिरॊभिः परतिपेदिरे
पूजयन्तॊ महाराज पाण्डवा भरतर्षभ
परणम्य शिरसा चैनं भीष्मं शरणम अन्वयुः
55 तान उवाच महाबाहुर भीष्मः कुरुपितामहः
सवागतं तव वार्ष्णेय सवागतं ते धनंजय
सवागतं धर्मपुत्राय भीमाय यमयॊस तथा
56 किं कार्यं वः करॊम्य अद्य युष्मत्प्रीतिविवर्धनम
सर्वात्मना च कर्तास्मि यद्य अपि सयात सुदुष्करम
57 तथा बरुवाणं गाङ्गेयं परीतियुक्तं पुनः पुनः
उवाच वाक्यं दीनात्मा धर्मपुत्रॊ युधिष्ठिरः
58 कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि
परजानां संक्षयॊ न सयात कथं तन मे वदाभिभॊ
59 भवान हि नॊ वधॊपायं बरवीतु सवयम आत्मनः
भवन्तं समरे राजन विषहेम कथं वयम
60 न हि ते सूक्ष्मम अप्य अस्ति रन्ध्रं कुरुपितामह
मण्डलेनैव धनुषा सदा दृश्यॊ ऽसि संयुगे
61 नाददानम संदधानं विकर्षन्तं धनुर न च
पश्यामस तवा महाबाहॊ रथे सूर्यम इव सथितम
62 नराश्वरथनागानां हन्तारं परवीरहन
क इवॊत्सहते हन्तुं तवां पुमान भरतर्षभ
63 वर्षता शरवर्षाणि महान्ति पुरुषॊत्तम
कषयं नीता हि पृतना भवता महती मम
64 यथा युधि जयेयं तवां यथा राज्यं भवेन मम
भवेत सैन्यस्य वा शान्तिस तन मे बरूहि पितामह
65 ततॊ ऽबरवीच छांतनवः पाण्डवान पाण्डुपूर्वज
न कथं चन कौन्तेय मयि जीवति संयुगे
युष्मासु दृश्यते वृद्धिः सत्यम एतद बरवीमि वः
66 निर्जिते मयि युद्धे तु धरुवं जेष्यथ कौरवान
कषिप्रं मयि परहरत यदीच्छथ रणे जयम
अनुजानामि वः पार्थाः परहरध्वं यथासुखम
67 एवं हि सुकृतं मन्ये भवतां विदितॊ हय अहम
हते मयि हतं सर्वं तस्माद एवं विधीयताम
68 युधिष्ठिर उवाच
बरूहि तस्माद उपायं नॊ यथा युद्धे जयेमहि
भवन्तं समरे करुद्धं दण्डपाणिम इवान्तकम
69 शक्यॊ वज्रधरॊ जेतुं वरुणॊ ऽथ यमस तथा
न भवान समरे शक्यः सेन्द्रैर अपि सुरासुरैः
70 भीष्म उवाच
सत्यम एतन महाबाहॊ यथा वदसि पाण्डव
नाहं शक्यॊ रणे जेतुं सेन्द्रैर अपि सुरासुरैः
71 आत्तशस्त्रॊ रणे यत्तॊ गृहीतवरकार्मुकः
नयस्तशस्त्रं तु मां राजन हन्युर युधि महारथाः
72 निष्किप्तशस्त्रे पतिते विमुक्तकवचध्वजे
दरवमाणे च भीते च तवास्मीति च वादिनि
73 सत्रियां सत्रीनामधेये च विकले चैकपुत्रके
अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रॊचते मम
74 इमं च शृणु मे पार्थ संकल्पं पूर्वचिन्तितम
अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथं चन
75 य एष दरौपदॊ राजंस तव सैन्ये महारथः
शिखण्डी समराकाङ्क्षी शूरश च समितिंजयः
76 यथाभवच च सत्री पूर्वं पश्चात पुंस्त्वम उपागतः
जानन्ति च भवन्तॊ ऽपि सर्वम एतद यथातथम
77 अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम
माम एव विशिखैस तूर्णम अभिद्रवतु दंशितः
78 अमङ्गल्यध्वजे तस्मिन सत्रीपूर्वे च विशेषतः
न परहर्तुम अभीप्सामि गृहीतेषुं कथं चन
79 तद अन्तरं समासाद्य पाण्डवॊ मां धनंजयः
शरैर घातयतु कषिप्रं समन्ताद भरतर्षभ
80 न तं पश्यामि लॊकेषु यॊ मां हन्यात समुद्यतम
ऋते कृष्णान महाभागात पाण्डवाद वा धनंजयात
81 एष तस्मात पुरॊधाय कं चिद अन्यं ममाग्रतः
मां पातयतु बीभत्सुर एवं ते विजयॊ भवेत
82 एतत कुरुष्व कौन्तेय यथॊक्तं वचनं मम
ततॊ जेष्यसि संग्रामे धार्तराष्ट्रान समागतान
83 संजय उवाच
ते ऽनुज्ञातास ततः पार्था जग्मुः सवशिबिरं परति
अभिवाद्य महात्मानं भीष्मं कुरुपितामहम
84 तथॊक्तवति गाङ्गेये परलॊकाय दीक्षिते
अर्जुनॊ दुःखसंतप्तः सव्रीडम इदम अब्रवीत
85 गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता
पितामहेन संग्रामे कथं यॊत्स्यामि माधव
86 करीडता हि मया बाल्ये वासुदेव महामनाः
पांसुरूषितगात्रेण महात्मा परुषीकृतः
87 यस्याहम अधिरुह्याङ्कं बालः किल गदाग्रज
तातेत्य अवॊचं पितरं पितुः पाण्डॊर महात्मनः
88 नाहं तातस तव पितुस तातॊ ऽसमि तव भारत
इति माम अब्रवीद बाल्ये यः स वध्यः कथं मया
89 कामं वध्यतु मे सैन्यं नाहं यॊत्स्ये महात्मना
जयॊ वास्तु वधॊ वा मे कथं वा कृष्ण मन्यसे
90 शरीकृष्ण उवाच
परतिज्ञाय वधं जिष्णॊ पुरा भीष्मस्य संयुगे
कषत्रधर्मे सथितः पार्थ कथं नैनं हनिष्यसि
91 पातयैनं रथात पार्थ वज्राहतम इव दरुमम
नाहत्वा युधि गाङ्गेयं विजयस ते भविष्यति
92 दिष्टम एतत पुरा देवैर भविष्यत्य अवशस्य ते
हन्ता भीष्मस्य पूर्वेन्द्र इति तन न तद अन्यथा
93 न हि भीष्मं दुराधर्षं वयात्ताननम इवान्तकम
तवदन्यः शक्नुयाद धन्तुम अपि वज्रधरः सवयम
94 जहि भीष्मं महाबाहॊ शृणु चेदं वचॊ मम
यथॊवाच पुरा शक्रं महाबुद्धिर बृहस्पतिः
95 जयायांसम अपि चेच छक्र गुणैर अपि समन्वितम
आततायिनम आमन्त्र्य हन्याद घातकम आगतम
96 शाश्वतॊ ऽयं सथितॊ धर्मः कषत्रियाणां धनंजय
यॊद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः
97 अर्जुन उवाच
शिखण्डी निधनं कृष्ण भीष्मस्य भविता धरुवम
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते
98 ते वयं परमुखे तस्य सथापयित्वा शिखण्डिनम
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः
99 अहम अन्यान महेष्वासान वारयिष्यामि सायकैः
शिखण्ड्य अपि युधां शरेष्ठॊ भीष्मम एवाभियास्यतु
100 शरुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम
कन्या हय एषा पुरा जाता पुरुषः समपद्यत
101 संजय उवाच
इत्य एवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः
शयनानि यथास्वानि भेजिरे पुरुषर्षभाः
1 saṃjaya uvāca
yudhyatām eva teṣāṃ tu bhāskare 'stam upāgate
saṃdhyā samabhavad ghorā nāpaśyāma tato raṇam
2 tato yudhiṣṭhiro rājā saṃdhyāṃ saṃdṛśya bhārata
vadhyamānaṃ balaṃ cāpi bhīṣmeṇāmitraghātinā
3 muktaśastraṃ parāvṛttaṃ palāyanaparāyaṇam
bhīṣmaṃ ca yudhi saṃrabdham anuyāntaṃ mahārathān
4 somakāṃś ca jitān dṛṣṭvā nirutsāhān mahārathān
cintayitvā ciraṃ dhyātvā avahāram arocayat
5 tato 'vahāraṃ sainyānāṃ cakre rājā yudhiṣṭhiraḥ
tathaiva tava sainyānām avahāro hy abhūt tadā
6 tato 'vahāraṃ sainyānāṃ kṛtvā tatra mahārathāḥ
nyaviśanta kuruśreṣṭha saṃgrāme kṣatavikṣatāḥ
7 bhīṣmasya samare karma cintayānās tu pāṇḍavāḥ
nālabhanta tadā śāntiṃ bhṛśaṃ bhīṣmeṇa pīḍitāḥ
8 bhīṣmo 'pi samare jitvā pāṇḍavān saha sṛñjayaiḥ
pūjyamānas tava sutair vandyamānaś ca bhārata
9 nyaviśat kurubhiḥ sārdhaṃ hṛṣṭarūpaiḥ samantataḥ
tato rātriḥ samabhavat sarvabhūtapramohinī
10 tasmin rātrimukhe ghore pāṇḍavā vṛṣṇibhiḥ saha
sṛñjayāś ca durādharṣā mantrāya samupāviśan
11 ātmaniḥśreyasaṃ sarve prāptakālaṃ mahābalāḥ
mantrayām āsur avyagrā mantraniścayakovidāḥ
12 tato yudhiṣṭhiro rājā mantrayitvā ciraṃ nṛpa
vāsudevaṃ samudvīkṣya vākyam etad uvāca ha
13 paśya kṛṣṇa mahātmānaṃ bhīṣmaṃ bhīmaparākramam
gajaṃ nalavanānīva vimṛdnantaṃ balaṃ mama
14 na caivainaṃ mahātmānam utsahāmo nirīkṣitum
lelihyamānaṃ sainyeṣu pravṛddham iva pāvakam
15 yathā ghoro mahānāgas takṣako vai viṣolbaṇaḥ
tathā bhīṣmo raṇe kṛṣṇa tīṣkṇaśastraḥ pratāpavān
16 gṛhītacāpaḥ samare vimuñcaṃś ca śitāñ śarān
śakyo jetuṃ yamaḥ kruddho vajrapāṇiś ca devarāṭ
17 varuṇaḥ pāśabhṛd vāpi sagado vā dhaneśvaraḥ
na tu bhīṣmaḥ susaṃkruddhaḥ śakyo jetuṃ mahāhave
18 so 'ham evaṃ gate kṛṣṇa nimagnaḥ śokasāgare
ātmano buddhidaurbalyād bhīṣmam āsādya saṃyuge
19 vanaṃ yāsyāmi durdharṣa śreyo me tatra vai gatam
na yuddhaṃ rocaye kṛṣṇa hanti bhīṣmo hi naḥ sadā
20 yathā prajvalitaṃ vahniṃ pataṃgaḥ samabhidravan
ekato mṛtyum abhyeti tathāhaṃ bhīṣmam īyivān
21 kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī
bhrātaraś caiva me śūrāḥ sāyakair bhṛśapīḍitāḥ
22 matkṛte bhrātṛsauhārdād rājyāt prabhraṃśanaṃ gatāḥ
parikliṣṭā yathā kṛṣṇā matkṛte madhusūdana
23 jīvitaṃ bahu manye 'haṃ jīvitaṃ hy adya durlabham
jīvitasyādya śeṣeṇa cariṣye dharmam uttamam
24 yadi te 'ham anugrāhyo bhrātṛbhiḥ saha keśava
svadharmasyāvirodhena tad udāhara keśava
25 etac chrutvā vacas tasya kāruṇyād bahuvistaram
pratyuvāca tataḥ kṛṣṇaḥ sāntvayāno yudhiṣṭhiram
26 dharmaputra viṣādaṃ tvaṃ mā kṛthāḥ satyasaṃgara
yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ
27 arjuno bhīmasenaś ca vāyvagnisamatejasau
mādrīputrau ca vikrāntau tridaśānām iveśvarau
28 māṃ vā niyuṅkṣva sauhārdād yotsye bhīṣmeṇa pāṇḍava
tvatprayukto hy ahaṃ rājan kiṃ na kuryāṃ mahāhave
29 haniṣyāmi raṇe bhīṣmam āhūya puruṣarṣabham
paśyatāṃ dhārtarāṣṭrāṇāṃ yadi necchati phalgunaḥ
30 yadi bhīṣme hate rājañ jayaṃ paśyasi pāṇḍava
hantāsmy ekarathenādya kuruvṛddhaṃ pitāmaham
31 paśya me vikramaṃ rājan mahendrasyeva saṃyuge
vimuñcantaṃ mahāstrāṇi pātayiṣyāmi taṃ rathāt
32 yaḥ śatruḥ pāṇḍuputrāṇāṃ macchatruḥ sa na saṃśayaḥ
madarthā bhavadarthā ye ye madīyās tavaiva te
33 tava bhrātā mama sakhā saṃbandhī śiṣya eva ca
māṃsāny utkṛtya vai dadyām arjunārthe mahīpate
34 eṣa cāpi naravyāghro matkṛte jīvitaṃ tyajet
eṣa naḥ samayas tāta tārayema parasparam
sa māṃ niyuṅkṣva rājendra yāvad dvīpo bhavāmy aham
35 pratijñātam upaplavye yat tat pārthena pūrvataḥ
ghātayiṣyāmi gāṅgeyam ity ulūkasya saṃnidhau
36 parirakṣyaṃ ca mama tad vacaḥ pārthasya dhīmataḥ
anujñātaṃ tu pārthena mayā kāryaṃ na saṃśayaḥ
37 atha vā phalgunasyaiṣa bhāraḥ parimito raṇe
nihaniṣyati saṃgrāme bhīṣmaṃ parapuraṃjayam
38 aśakyam api kuryād dhi raṇe pārthaḥ samudyataḥ
tridaśān vā samudyuktān sahitān daityadānavaiḥ
nihanyād arjunaḥ saṃkhye kim u bhīṣmaṃ narādhipa
39 viparīto mahāvīryo gatasattvo 'lpajīvitaḥ
bhīṣmaḥ śāṃtanavo nūnaṃ kartavyaṃ nāvabudhyate
40 yudhiṣṭhira uvāca
evam etan mahābāho yathā vadasi mādhava
sarve hy ete na paryāptās tava veganivāraṇe
41 niyataṃ samavāpsyāmi sarvam eva yathepsitam
yasya me puruṣavyāghra bhavān nātho mahābalaḥ
42 sendrān api raṇe devāñ jayeyaṃ jayatāṃ vara
tvayā nāthena govinda kim u bhīṣmaṃ mahāhave
43 na tu tvām anṛtaṃ kartum utsahe svārthagauravāt
ayudhyamānaḥ sāhāyyaṃ yathoktaṃ kuru mādhava
44 samayas tu kṛtaḥ kaś cid bhīṣmeṇa mama mādhava
mantrayiṣye tavārthāya na tu yotsye kathaṃ cana
duryodhanārthe yotsyāmi satyam etad iti prabho
45 sa hi rājyasya me dātā mantrasyaiva ca mādhava
tasmād devavrataṃ bhūyo vadhopāyārtham ātmanaḥ
bhavatā sahitāḥ sarve pṛcchāmo madhusūdana
46 tad vayaṃ sahitā gatvā bhīṣmam āśu narottamam
rucite tava vārṣṇeya mantraṃ pṛcchāma kauravam
47 sa vakṣyati hitaṃ vākyaṃ tathyaṃ caiva janārdana
yathā sa vakṣyate kṛṣṇa tathā kartāsmi saṃyuge
48 sa no jayasya dātā ca mantrasya ca dhṛtavrataḥ
bālāḥ pitrā vihīnāś ca tena saṃvardhitā vayam
49 taṃ cet pitāmahaṃ vṛddhaṃ hantum icchāmi mādhava
pituḥ pitaram iṣṭaṃ vai dhig astu kṣatrajīvikām
50 saṃjaya uvāca
tato 'bravīn mahārāja vārṣṇeyaḥ kurunandanam
rocate me mahābāho satataṃ tava bhāṣitam
51 devavrataḥ kṛtī bhīṣmaḥ prekṣitenāpi nirdahet
gamyatāṃ sa vadhopāyaṃ praṣṭuṃ sāgaragāsutaḥ
vaktum arhati satyaṃ sa tvayā pṛṣṭo viśeṣataḥ
52 te vayaṃ tatra gacchāmaḥ praṣṭuṃ kurupitāmaham
praṇamya śirasā cainaṃ mantraṃ pṛcchāma mādhava
sa no dāsyati yaṃ mantraṃ tena yotsyāmahe parān
53 evaṃ saṃmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja
jagmus te sahitāḥ sarve vāsudevaś ca vīryavān
vimuktaśastrakavacā bhīṣmasya sadanaṃ prati
54 praviśya ca tadā bhīṣmaṃ śirobhiḥ pratipedire
pūjayanto mahārāja pāṇḍavā bharatarṣabha
praṇamya śirasā cainaṃ bhīṣmaṃ śaraṇam anvayuḥ
55 tān uvāca mahābāhur bhīṣmaḥ kurupitāmahaḥ
svāgataṃ tava vārṣṇeya svāgataṃ te dhanaṃjaya
svāgataṃ dharmaputrāya bhīmāya yamayos tathā
56 kiṃ kāryaṃ vaḥ karomy adya yuṣmatprītivivardhanam
sarvātmanā ca kartāsmi yady api syāt suduṣkaram
57 tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ
uvāca vākyaṃ dīnātmā dharmaputro yudhiṣṭhiraḥ
58 kathaṃ jayema dharmajña kathaṃ rājyaṃ labhemahi
prajānāṃ saṃkṣayo na syāt kathaṃ tan me vadābhibho
59 bhavān hi no vadhopāyaṃ bravītu svayam ātmanaḥ
bhavantaṃ samare rājan viṣahema kathaṃ vayam
60 na hi te sūkṣmam apy asti randhraṃ kurupitāmaha
maṇḍalenaiva dhanuṣā sadā dṛśyo 'si saṃyuge
61 nādadānam saṃdadhānaṃ vikarṣantaṃ dhanur na ca
paśyāmas tvā mahābāho rathe sūryam iva sthitam
62 narāśvarathanāgānāṃ hantāraṃ paravīrahan
ka ivotsahate hantuṃ tvāṃ pumān bharatarṣabha
63 varṣatā śaravarṣāṇi mahānti puruṣottama
kṣayaṃ nītā hi pṛtanā bhavatā mahatī mama
64 yathā yudhi jayeyaṃ tvāṃ yathā rājyaṃ bhaven mama
bhavet sainyasya vā śāntis tan me brūhi pitāmaha
65 tato 'bravīc chāṃtanavaḥ pāṇḍavān pāṇḍupūrvaja
na kathaṃ cana kaunteya mayi jīvati saṃyuge
yuṣmāsu dṛśyate vṛddhiḥ satyam etad bravīmi vaḥ
66 nirjite mayi yuddhe tu dhruvaṃ jeṣyatha kauravān
kṣipraṃ mayi praharata yadīcchatha raṇe jayam
anujānāmi vaḥ pārthāḥ praharadhvaṃ yathāsukham
67 evaṃ hi sukṛtaṃ manye bhavatāṃ vidito hy aham
hate mayi hataṃ sarvaṃ tasmād evaṃ vidhīyatām
68 yudhiṣṭhira uvāca
brūhi tasmād upāyaṃ no yathā yuddhe jayemahi
bhavantaṃ samare kruddhaṃ daṇḍapāṇim ivāntakam
69 śakyo vajradharo jetuṃ varuṇo 'tha yamas tathā
na bhavān samare śakyaḥ sendrair api surāsuraiḥ
70 bhīṣma uvāca
satyam etan mahābāho yathā vadasi pāṇḍava
nāhaṃ śakyo raṇe jetuṃ sendrair api surāsuraiḥ
71 āttaśastro raṇe yatto gṛhītavarakārmukaḥ
nyastaśastraṃ tu māṃ rājan hanyur yudhi mahārathāḥ
72 niṣkiptaśastre patite vimuktakavacadhvaje
dravamāṇe ca bhīte ca tavāsmīti ca vādini
73 striyāṃ strīnāmadheye ca vikale caikaputrake
aprasūte ca duṣprekṣye na yuddhaṃ rocate mama
74 imaṃ ca śṛṇu me pārtha saṃkalpaṃ pūrvacintitam
amaṅgalyadhvajaṃ dṛṣṭvā na yudhyeyaṃ kathaṃ cana
75 ya eṣa draupado rājaṃs tava sainye mahārathaḥ
śikhaṇḍī samarākāṅkṣī śūraś ca samitiṃjayaḥ
76 yathābhavac ca strī pūrvaṃ paścāt puṃstvam upāgataḥ
jānanti ca bhavanto 'pi sarvam etad yathātatham
77 arjunaḥ samare śūraḥ puraskṛtya śikhaṇḍinam
mām eva viśikhais tūrṇam abhidravatu daṃśitaḥ
78 amaṅgalyadhvaje tasmin strīpūrve ca viśeṣataḥ
na prahartum abhīpsāmi gṛhīteṣuṃ kathaṃ cana
79 tad antaraṃ samāsādya pāṇḍavo māṃ dhanaṃjayaḥ
śarair ghātayatu kṣipraṃ samantād bharatarṣabha
80 na taṃ paśyāmi lokeṣu yo māṃ hanyāt samudyatam
ṛte kṛṣṇān mahābhāgāt pāṇḍavād vā dhanaṃjayāt
81 eṣa tasmāt purodhāya kaṃ cid anyaṃ mamāgrataḥ
māṃ pātayatu bībhatsur evaṃ te vijayo bhavet
82 etat kuruṣva kaunteya yathoktaṃ vacanaṃ mama
tato jeṣyasi saṃgrāme dhārtarāṣṭrān samāgatān
83 saṃjaya uvāca
te 'nujñātās tataḥ pārthā jagmuḥ svaśibiraṃ prati
abhivādya mahātmānaṃ bhīṣmaṃ kurupitāmaham
84 tathoktavati gāṅgeye paralokāya dīkṣite
arjuno duḥkhasaṃtaptaḥ savrīḍam idam abravīt
85 guruṇā kulavṛddhena kṛtaprajñena dhīmatā
pitāmahena saṃgrāme kathaṃ yotsyāmi mādhava
86 krīḍatā hi mayā bālye vāsudeva mahāmanāḥ
pāṃsurūṣitagātreṇa mahātmā paruṣīkṛtaḥ
87 yasyāham adhiruhyāṅkaṃ bālaḥ kila gadāgraja
tātety avocaṃ pitaraṃ pituḥ pāṇḍor mahātmanaḥ
88 nāhaṃ tātas tava pitus tāto 'smi tava bhārata
iti mām abravīd bālye yaḥ sa vadhyaḥ kathaṃ mayā
89 kāmaṃ vadhyatu me sainyaṃ nāhaṃ yotsye mahātmanā
jayo vāstu vadho vā me kathaṃ vā kṛṣṇa manyase
90 śrīkṛṣṇa uvāca
pratijñāya vadhaṃ jiṣṇo purā bhīṣmasya saṃyuge
kṣatradharme sthitaḥ pārtha kathaṃ nainaṃ haniṣyasi
91 pātayainaṃ rathāt pārtha vajrāhatam iva drumam
nāhatvā yudhi gāṅgeyaṃ vijayas te bhaviṣyati
92 diṣṭam etat purā devair bhaviṣyaty avaśasya te
hantā bhīṣmasya pūrvendra iti tan na tad anyathā
93 na hi bhīṣmaṃ durādharṣaṃ vyāttānanam ivāntakam
tvadanyaḥ śaknuyād dhantum api vajradharaḥ svayam
94 jahi bhīṣmaṃ mahābāho śṛṇu cedaṃ vaco mama
yathovāca purā śakraṃ mahābuddhir bṛhaspatiḥ
95 jyāyāṃsam api cec chakra guṇair api samanvitam
ātatāyinam āmantrya hanyād ghātakam āgatam
96 śāśvato 'yaṃ sthito dharmaḥ kṣatriyāṇāṃ dhanaṃjaya
yoddhavyaṃ rakṣitavyaṃ ca yaṣṭavyaṃ cānasūyubhiḥ
97 arjuna uvāca
śikhaṇḍī nidhanaṃ kṛṣṇa bhīṣmasya bhavitā dhruvam
dṛṣṭvaiva hi sadā bhīṣmaḥ pāñcālyaṃ vinivartate
98 te vayaṃ pramukhe tasya sthāpayitvā śikhaṇḍinam
gāṅgeyaṃ pātayiṣyāma upāyeneti me matiḥ
99 aham anyān maheṣvāsān vārayiṣyāmi sāyakaiḥ
śikhaṇḍy api yudhāṃ śreṣṭho bhīṣmam evābhiyāsyatu
100 śrutaṃ te kurumukhyasya nāhaṃ hanyāṃ śikhaṇḍinam
kanyā hy eṣā purā jātā puruṣaḥ samapadyata
101 saṃjaya uvāca
ity evaṃ niścayaṃ kṛtvā pāṇḍavāḥ sahamādhavāḥ
śayanāni yathāsvāni bhejire puruṣarṣabhāḥ

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

969 of 2013 Book 48% ~12 min left