Book 5: Chapter 70
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 5: Chapter 70

The Mahabharata in Sanskrit

Book 5
Chapter 70

1 [व]
संजये परतियाते तु धर्मराजॊ युधिष्ठिरः
अभ्यभाषत दाशार्हम ऋषभं सर्वसात्वताम
2 अयं स कालः संप्राप्तॊ मित्राणां मे जनार्दन
न च तवदन्यं पश्यामि यॊ न आपत्सु तारयेत
3 तवां हि माधव संश्रित्य निर्भया मॊहदर्पितम
धार्तराष्ट्रं सहामात्यं सवम अंशम अनुयुञ्ज्महे
4 यथा हि सर्वास्व आपत्सु पासि वृष्णीन अरिंदम
तथा ते पाण्डवा रक्ष्याः पाह्य अस्मान महतॊ भयात
5 [भगवान]
अयम अस्मि महाबाहॊ बरूहि यत ते विवक्षितम
करिष्यामि हि तत सर्वं यत तवं वक्ष्यसि भारत
6 शरुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम
एतद धि सकलं कृष्ण संजयॊ मां यद अब्रवीत
7 तन मतं धृतराष्ट्रस्य सॊ ऽसयात्मा विवृतान्तरः
यथॊक्तं दूत आचष्टे वध्यः सयाद अन्यथा बरुवन
8 अप्रदानेन राज्यस्य शान्तिम अस्मासु मार्गति
लुब्धः पापेन मनसा चरन्न असमम आत्मनः
9 यत तद दवादश वर्षाणि वने निर्व्युषिता वयम
छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात
10 सथाता नः समये तस्मिन धृतराष्ट्र इति परभॊ
नाहास्म समयं कृष्ण तद धि नॊ बराह्मणा विदुः
11 वृद्धॊ राजा धृतराष्ट्रः सवधर्मं नानुपश्यति
पश्यन वा पुत्रगृद्धित्वान मन्दस्यान्वेति शासनम
12 सुयॊधन मते तिष्ठन राजास्मासु जनार्दन
मिथ्या चरति लुब्धः संश चरन परियम इवात्मनः
13 इतॊ दुःखतरं किं नु यत्राहं मातरं ततः
संविधातुं न शक्नॊमि मित्राणां वा जनार्दन
14 काशिभिश चेदिपाञ्चालैर मत्स्यैश च मधुसूदन
भवता चैव नाथेन पञ्च गरामा वृता मया
15 कुश सथलं वृकस्थलम आसन्दी वारणावतम
अवसानं च गॊविन्द किं चिद एवात्र पञ्चमम
16 पञ्च नस तात दीयन्तां गरामा वा नगराणि वा
वसेम सहिता येषु मा च नॊ भरता नशन
17 न च तान अपि दुष्टात्मा धार्तराष्ट्रॊ ऽनुमन्यते
सवाम्यम आत्मनि मत्वासाव अतॊ दुःखतरं नु किम
18 कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः
लॊभः परज्ञानम आहन्ति परज्ञा हन्ति हता हरियम
19 हरीर हता बाधते धर्मं धर्मॊ हन्ति हतः शरियम
शरीर हता पुरुषं हन्ति पुरुषस्यास्वता वधः
20 अस्वतॊ हि निवर्तन्ते जञातयः सुहृदर्त्विजः
अपुष्पाद अफलाद वृक्षाद यथा तात पतत्रिणः
21 एतच च मरणं तात यद अस्मात पतिताद इव
जञातयॊ विनिवर्तन्ते परेतसत्त्वाद इवासवः
22 नातः पापीयसीं कां चिद अवस्थां शम्बरॊ ऽबरवीत
यत्र नैवाद्य न परातर भॊजनं पतिदृश्यते
23 धनम आहुः परं धर्मं धने सर्वं परतिष्ठितम
जीवन्ति धनिनॊ लॊके मृता ये तव अधना नराः
24 ये धनाद अपकर्षन्ति नरं सवबलम आश्रिताः
ते धर्मम अर्थं कामं च परमथ्नन्ति नरं च तम
25 एताम अवस्थां पराप्यैके मरणं वव्रिरे जनाः
गरामायैके वनायैके नाशायैके पवव्रजुः
26 उन्मादम एके पुष्यन्ति यान्त्य अन्ये दविषतां वशम
दास्यम एके निगच्छन्ति परेषाम अर्थहेतुना
27 आपद एवास्य मरणात पुरुषस्य गरीयसी
शरियॊ विनाशस तद धयस्य निमित्तं धर्मकामयॊः
28 यद अस्य धर्म्यं मरणं शाश्वतं लॊकवर्त्म तत
समन्तात सर्वभूतानां न तद अत्येति कश चन
29 न तथा बाध्यते कृष्ण परकृत्या निर्धनॊ जनः
यथा भद्रां शरियं पराप्य तया हीनः सुखैधितः
30 स तदात्मापराधेन संप्राप्तॊ वयसनं महत
सेन्द्रान गर्हयते देवान नात्मानं च कथं चन
31 न चास्मिन सर्वशास्त्राणि परतरन्ति निगर्हणाम
सॊ ऽभिक्रुध्यति भृत्यानां सुहृदश चाभ्यसूयति
32 तं तदा मन्युर एवैति स भूयः संप्रमुह्यति
स मॊहवशम आपन्नः करूरं कर्म निषेवते
33 पापकर्मात्ययायैव संकरं तेन पुष्यति
संकरॊ नरकायैव सा काष्ठा पापकर्मणाम
34 न चेत परबुध्यते कृष्ण नरकायैव गच्छति
तस्य परबॊधः परज्ञैव परज्ञा चक्षुर न रिष्यति
35 परज्ञा लाभे हि पुरुषः शास्त्राण्य एवान्ववेक्षते
शास्त्रनित्यः पुनर धर्मं तस्य हरीर अङ्गम उत्तमम
36 हरीमान हि पापं परद्वेष्टि तस्य शरीर अभिवर्धते
शरीमान स यावद भवति तावद भवति पूरुषः
37 धर्मनित्यः परशान्तात्मा कार्ययॊगवहः सदा
नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते
38 अह्रीकॊ वा विमूढॊ वा नैव सत्री न पुनः पुमान
नास्याधिकारॊ धर्मे ऽसति यथा शूद्रस तथैव सः
39 हरीमान अवति देवांश च पितॄन आत्मानम एव च
तेनामृतत्वं वरजति सा काष्ठा पुण्यकर्मणाम
40 तद इदं मयि ते दृष्टं परत्यक्षं मधुसूदन
यथा राज्यात परिभ्रष्टॊ वसामि वसतीर इमाः
41 ते वयं न शरियं हातुम अलं नयायेन केन चित
अत्र नॊ यतमानानां वधश चेद अपि साधु तत
42 तत्र नः परथमः कल्पॊ यद वयं ते च माधव
परशान्ताः समभूताश च शरियं तान अश्नुवीमहि
43 तत्रैषा परमा काष्ठा रौद्रकर्म कषयॊदया
यद वयं हौरवान हत्वा तानि राष्ट्राण्य अशीमहि
44 ये पुनः सयुर असंबद्धा अनार्याः कृष्ण शत्रवः
तेषाम अप्य अवधः कार्यः किं पुनर ये सयुर ईदृशाः
45 जञातयश च हि भूयिष्ठाः सहाया गुरवश च नः
तेषां वधॊ ऽतिपापीयान किं नु युद्धे ऽसति शॊभनम
46 पापः कषत्रिय धर्मॊ ऽयं वयं च कषत्रबान्धवाः
स नः सवधर्मॊ ऽधर्मॊ वा वृत्तिर अन्या विगर्हिता
47 शूद्रः करॊति शुश्रूषां वैश्या विपणि जीविनः
वयं वधेन जीवामः कपालं बराह्मणैर वृतम
48 कषत्रियः कषत्रियं हन्ति मत्स्यॊ मत्स्येन जीवति
शवा शवानं हन्ति दाशार्ह पश्य धर्मॊ यथागतः
49 युद्धे कृष्ण कलिर नित्यं पराणाः सीदन्ति संयुगे
बलं तु नीतिमात्राय हठे जयपराजयौ
50 नात्मच छन्देन भूतानां जीवितं मरणं तथा
नाप्य अकाले सुखं पराप्यं दुःखं वापि यदूत्तम
51 एकॊ हय अपि बहून हन्ति घनन्त्य एकं बहवॊ ऽपय उत
शूरं कापुरुषॊ हन्ति अयशस्वी यशस्विनम
52 जयश चैवॊभयॊर दृष्ट उभयॊश च पराजयः
तथैवापचयॊ दृष्टॊ वयपयाने कषयव्ययौ
53 सर्वथा वृजिनं युद्धं कॊ घनन न परतिहन्यते
हतस्य च हृषीकेश समौ जयपराजयौ
54 पराजयश च मरणान मन्ये नैव विशिष्यते
यस्य सयाद विजयः कृष्ण तस्याप्य अपचयॊ धरुवम
55 अन्ततॊ दयितं घनन्ति के चिद अप्य अपरे जनाः
तस्याङ्गबलहीनस्य पुत्रान भरातॄन अपश्यतः
निर्वेदॊ जीविते कृष्ण सर्वतश चॊपजायते
56 ये हय एव वीरा हरीमन्त आर्याः करुणवेदिनः
त एव युद्धे हन्यन्ते यवीयान मुच्यते जनः
57 हत्वाप्य अनुशयॊ नित्यं परान अपि जनार्दन
अनुबन्धश च पापॊ ऽतर शेषश चाप्य अवशिष्यते
58 शेषे हि बलम आसाद्य न शेषम अवषेषयेत
सर्वॊच्छेदे च यतते वैरस्यान्त विधित्सया
59 जयॊ वैरं परसृजति दुःखम आस्ते पराजितः
सुखं परशान्तः सवपिति हित्वा जयपराजयौ
60 जातवैरश च पुरुषॊ दुःखं सवपिति नित्यदा
अनिर्वृतेन मनसा स सर्प इव वेश्मनि
61 उत्सादयति यः सर्वं यशसा स वियुज्यते
अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति
62 न हि वैराणि शाम्यन्ति दीर्घकालकृतान्य अपि
आख्यातारश च विद्यन्ते पुमांश चॊत्पद्यते कुले
63 न चापि वैरं वैरेण केशव वयुपशाम्यति
हविषाग्निर यथा कृष्ण भूय एवाभिवर्धते
64 अतॊ ऽनयथा नास्ति शान्तिर नित्यम अन्तरम अन्ततः
अन्तरं लिप्समानानाम अयं दॊषॊ निरन्तरः
65 पौरुषेयॊ हि बलवान आधिर हृदयबाधनः
तस्य तयागेन वा शान्तिर निवृत्त्या मनसॊ ऽपि वा
66 अथ वा मूलघातेन दविषतां मधुसूदन
फलनिर्वृत्तिर इद्धा सयात तन नृशंसतरं भवेत
67 या तु तयागेन शान्तिः सयात तद ऋते वध एव सः
संशयाच च समुच्छेदाद दविषताम आत्मनस तथा
68 न च तयक्तुं तद इच्छामॊ न चेच्छामः कुलक्षयम
अत्र या परणिपातेन शान्तिः सैव गरीयसी
69 सर्वथा यतमानानाम अयुद्धम अभिकाङ्क्षताम
सान्त्वे परतिहते युद्धं परसिद्धम अपराक्रमम
70 परतिघातेन सान्त्वस्य दारुणं संप्रवर्तते
तच छुनाम इव गॊपादे पण्डितैर उपलक्षितम
71 लाङ्गूलचालनं कष्वेडः परतिरावॊ विवर्तनम
दन्तदर्शनम आरावस ततॊ युद्धं परवर्तते
72 तत्र यॊ बलवान कृष्ण जित्वा सॊ ऽतति तद आमिषम
एवम एव मनुष्येषु विशेषॊ नास्ति कश चन
73 सर्वथा तव एतद उचितं दुर्बलेषु बलीयसाम
अनादरॊ विरॊधश च परणिपाती हि दुर्बलः
74 पिता राजा च वृद्धश च सर्वथा मानम अर्हति
तस्मान मान्यश च पूज्यश च धृतराष्ट्रॊ जनार्दन
75 पुत्रस्नेहस तु बलवान धृतराष्ट्रस्य माधव
सपुत्रवशम आपन्नः परणिपातं परहास्यति
76 तत्र किं मन्यसे कृष्ण पराप्तकालम अनन्तरम
कथम अर्थाच च धर्माच च न हीयेमहि माधव
77 ईदृशे हय अर्थकृच्छ्रे ऽसमिन कम अन्यं मधुसूदन
उपसंप्रष्टुम अर्हामि तवाम ऋते पुरुषॊत्तम
78 परियश च परियकामश च गतिज्ञः सर्वकर्मणाम
कॊ हि कृष्णास्ति नस तवादृक सर्वनिश्चयवित सुहृत
79 एवम उक्तः परत्युवाच धर्मराजं जनार्दनः
उभयॊर एव वाम अर्थे यास्यामि कुरुसंसदम
80 शमं तत्र लभेयं चेद युष्मदर्थम अहापयन
पुण्यं मे सुमहद राजंश चरितं सयान महाफलम
81 मॊचयेयं मृत्युपाशात संरब्धान कुरुसृञ्जयान
पाण्डवान धार्तराष्ट्रांश च सर्वां च पृथिवीम इमाम
82 न ममैतन मतं कृष्ण यत तवं यायाः कुरून परति
सुयॊधनः सूक्तम अपि न करिष्यति ते वचः
83 समेतं पार्थिवं कषत्रं सुयॊधन वशानुगम
तेषां मध्यावतरणं तव कृष्ण न रॊचये
84 न हि नः परीणयेद दरव्यं न देवत्वं कुतः सुखम
न च सर्वामरैश्वर्यं तव रॊधेन माधव
85 [भगवान]
जानाम्य एतां महाराज धार्तराष्ट्रस्य पापताम
अवाच्यास तु भविष्यामः सर्वलॊके महीक्षिताम
86 न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः
करुद्धस्य परमुखे सथातुं सिंहस्येवेतरे मृगाः
87 अथ चेत ते परवर्तेरन मयि किं चिद असांप्रतम
निर्दहेयं कुरून सर्वान इति मे धीयते मतिः
88 न जातु गमनं तत्र भवेत पार्थ निरर्थकम
अर्थप्राप्तिः कदा चित सयाद अन्ततॊ वाप्य अवाच्यता
89 यत तुभ्यं रॊचते कृष्ण सवस्ति पराप्नुहि कौरवान
कृतार्थं सवस्तिमन्तं तवां दरक्ष्यामि पुनरागतम
90 विष्वक्सेन कुरून गत्वा भारताञ शमयेः परभॊ
यथा सर्वे सुमनसः सह सयामः सुचेतसः
91 भराता चासि सखा चासि बीभत्सॊर मम च परियः
सौहृदेनाविशङ्क्यॊ ऽसि सवस्ति पराप्नुहि भूतये
92 अस्मान वेत्थ परान वेत्थ वेत्थार्थं वेत्थ भाषितम
यद यद अस्मद्धितं कृष्ण तत तद वाच्यः सुयॊधनः
93 यद यद धर्मेण संयुक्तम उपपद्येद धितं वचः
तत तत केशव भाषेथाः सान्त्वं वा यदि वेतरत
1 [v]
saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ
abhyabhāṣata dāśārham ṛṣabhaṃ sarvasātvatām
2 ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ me janārdana
na ca tvadanyaṃ paśyāmi yo na āpatsu tārayet
3 tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam
dhārtarāṣṭraṃ sahāmātyaṃ svam aṃśam anuyuñjmahe
4 yathā hi sarvāsv āpatsu pāsi vṛṣṇīn ariṃdama
tathā te pāṇḍavā rakṣyāḥ pāhy asmān mahato bhayāt
5 [bhagavān]
ayam asmi mahābāho brūhi yat te vivakṣitam
kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata
6 śrutaṃ te dhṛtarāṣṭrasya saputrasya cikīrṣitam
etad dhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt
7 tan mataṃ dhṛtarāṣṭrasya so 'syātmā vivṛtāntaraḥ
yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan
8 apradānena rājyasya śāntim asmāsu mārgati
lubdhaḥ pāpena manasā carann asamam ātmanaḥ
9 yat tad dvādaśa varṣāṇi vane nirvyuṣitā vayam
chadmanā śaradaṃ caikāṃ dhṛtarāṣṭrasya śāsanāt
10 sthātā naḥ samaye tasmin dhṛtarāṣṭra iti prabho
nāhāsma samayaṃ kṛṣṇa tad dhi no brāhmaṇā viduḥ
11 vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati
paśyan vā putragṛddhitvān mandasyānveti śāsanam
12 suyodhana mate tiṣṭhan rājāsmāsu janārdana
mithyā carati lubdhaḥ saṃś caran priyam ivātmanaḥ
13 ito duḥkhataraṃ kiṃ nu yatrāhaṃ mātaraṃ tataḥ
saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana
14 kāśibhiś cedipāñcālair matsyaiś ca madhusūdana
bhavatā caiva nāthena pañca grāmā vṛtā mayā
15 kuśa sthalaṃ vṛkasthalam āsandī vāraṇāvatam
avasānaṃ ca govinda kiṃ cid evātra pañcamam
16 pañca nas tāta dīyantāṃ grāmā vā nagarāṇi vā
vasema sahitā yeṣu mā ca no bharatā naśan
17 na ca tān api duṣṭātmā dhārtarāṣṭro 'numanyate
svāmyam ātmani matvāsāv ato duḥkhataraṃ nu kim
18 kule jātasya vṛddhasya paravitteṣu gṛdhyataḥ
lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam
19 hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam
śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ
20 asvato hi nivartante jñātayaḥ suhṛdartvijaḥ
apuṣpād aphalād vṛkṣād yathā tāta patatriṇaḥ
21 etac ca maraṇaṃ tāta yad asmāt patitād iva
jñātayo vinivartante pretasattvād ivāsavaḥ
22 nātaḥ pāpīyasīṃ kāṃ cid avasthāṃ śambaro 'bravīt
yatra naivādya na prātar bhojanaṃ patidṛśyate
23 dhanam āhuḥ paraṃ dharmaṃ dhane sarvaṃ pratiṣṭhitam
jīvanti dhanino loke mṛtā ye tv adhanā narāḥ
24 ye dhanād apakarṣanti naraṃ svabalam āśritāḥ
te dharmam arthaṃ kāmaṃ ca pramathnanti naraṃ ca tam
25 etām avasthāṃ prāpyaike maraṇaṃ vavrire janāḥ
grāmāyaike vanāyaike nāśāyaike pavavrajuḥ
26 unmādam eke puṣyanti yānty anye dviṣatāṃ vaśam
dāsyam eke nigacchanti pareṣām arthahetunā
27 āpad evāsya maraṇāt puruṣasya garīyasī
śriyo vināśas tad dhyasya nimittaṃ dharmakāmayoḥ
28 yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat
samantāt sarvabhūtānāṃ na tad atyeti kaś cana
29 na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ
yathā bhadrāṃ śriyaṃ prāpya tayā hīnaḥ sukhaidhitaḥ
30 sa tadātmāparādhena saṃprāpto vyasanaṃ mahat
sendrān garhayate devān nātmānaṃ ca kathaṃ cana
31 na cāsmin sarvaśāstrāṇi prataranti nigarhaṇām
so 'bhikrudhyati bhṛtyānāṃ suhṛdaś cābhyasūyati
32 taṃ tadā manyur evaiti sa bhūyaḥ saṃpramuhyati
sa mohavaśam āpannaḥ krūraṃ karma niṣevate
33 pāpakarmātyayāyaiva saṃkaraṃ tena puṣyati
saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām
34 na cet prabudhyate kṛṣṇa narakāyaiva gacchati
tasya prabodhaḥ prajñaiva prajñā cakṣur na riṣyati
35 prajñā lābhe hi puruṣaḥ śāstrāṇy evānvavekṣate
śāstranityaḥ punar dharmaṃ tasya hrīr aṅgam uttamam
36 hrīmān hi pāpaṃ pradveṣṭi tasya śrīr abhivardhate
śrīmān sa yāvad bhavati tāvad bhavati pūruṣaḥ
37 dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā
nādharme kurute buddhiṃ na ca pāpeṣu vartate
38 ahrīko vā vimūḍho vā naiva strī na punaḥ pumān
nāsyādhikāro dharme 'sti yathā śūdras tathaiva saḥ
39 hrīmān avati devāṃś ca pitṝn ātmānam eva ca
tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām
40 tad idaṃ mayi te dṛṣṭaṃ pratyakṣaṃ madhusūdana
yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ
41 te vayaṃ na śriyaṃ hātum alaṃ nyāyena kena cit
atra no yatamānānāṃ vadhaś ced api sādhu tat
42 tatra naḥ prathamaḥ kalpo yad vayaṃ te ca mādhava
praśāntāḥ samabhūtāś ca śriyaṃ tān aśnuvīmahi
43 tatraiṣā paramā kāṣṭhā raudrakarma kṣayodayā
yad vayaṃ hauravān hatvā tāni rāṣṭrāṇy aśīmahi
44 ye punaḥ syur asaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ
teṣām apy avadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ
45 jñātayaś ca hi bhūyiṣṭhāḥ sahāyā guravaś ca naḥ
teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam
46 pāpaḥ kṣatriya dharmo 'yaṃ vayaṃ ca kṣatrabāndhavāḥ
sa naḥ svadharmo 'dharmo vā vṛttir anyā vigarhitā
47 śūdraḥ karoti śuśrūṣāṃ vaiśyā vipaṇi jīvinaḥ
vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇair vṛtam
48 kṣatriyaḥ kṣatriyaṃ hanti matsyo matsyena jīvati
śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ
49 yuddhe kṛṣṇa kalir nityaṃ prāṇāḥ sīdanti saṃyuge
balaṃ tu nītimātrāya haṭhe jayaparājayau
50 nātmac chandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā
nāpy akāle sukhaṃ prāpyaṃ duḥkhaṃ vāpi yadūttama
51 eko hy api bahūn hanti ghnanty ekaṃ bahavo 'py uta
śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam
52 jayaś caivobhayor dṛṣṭa ubhayoś ca parājayaḥ
tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau
53 sarvathā vṛjinaṃ yuddhaṃ ko ghnan na pratihanyate
hatasya ca hṛṣīkeśa samau jayaparājayau
54 parājayaś ca maraṇān manye naiva viśiṣyate
yasya syād vijayaḥ kṛṣṇa tasyāpy apacayo dhruvam
55 antato dayitaṃ ghnanti ke cid apy apare janāḥ
tasyāṅgabalahīnasya putrān bhrātṝn apaśyataḥ
nirvedo jīvite kṛṣṇa sarvataś copajāyate
56 ye hy eva vīrā hrīmanta āryāḥ karuṇavedinaḥ
ta eva yuddhe hanyante yavīyān mucyate janaḥ
57 hatvāpy anuśayo nityaṃ parān api janārdana
anubandhaś ca pāpo 'tra śeṣaś cāpy avaśiṣyate
58 śeṣe hi balam āsādya na śeṣam avaṣeṣayet
sarvocchede ca yatate vairasyānta vidhitsayā
59 jayo vairaṃ prasṛjati duḥkham āste parājitaḥ
sukhaṃ praśāntaḥ svapiti hitvā jayaparājayau
60 jātavairaś ca puruṣo duḥkhaṃ svapiti nityadā
anirvṛtena manasā sa sarpa iva veśmani
61 utsādayati yaḥ sarvaṃ yaśasā sa viyujyate
akīrtiṃ sarvabhūteṣu śāśvatīṃ sa niyacchati
62 na hi vairāṇi śāmyanti dīrghakālakṛtāny api
ākhyātāraś ca vidyante pumāṃś cotpadyate kule
63 na cāpi vairaṃ vaireṇa keśava vyupaśāmyati
haviṣāgnir yathā kṛṣṇa bhūya evābhivardhate
64 ato 'nyathā nāsti śāntir nityam antaram antataḥ
antaraṃ lipsamānānām ayaṃ doṣo nirantaraḥ
65 pauruṣeyo hi balavān ādhir hṛdayabādhanaḥ
tasya tyāgena vā śāntir nivṛttyā manaso 'pi vā
66 atha vā mūlaghātena dviṣatāṃ madhusūdana
phalanirvṛttir iddhā syāt tan nṛśaṃsataraṃ bhavet
67 yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ
saṃśayāc ca samucchedād dviṣatām ātmanas tathā
68 na ca tyaktuṃ tad icchāmo na cecchāmaḥ kulakṣayam
atra yā praṇipātena śāntiḥ saiva garīyasī
69 sarvathā yatamānānām ayuddham abhikāṅkṣatām
sāntve pratihate yuddhaṃ prasiddham aparākramam
70 pratighātena sāntvasya dāruṇaṃ saṃpravartate
tac chunām iva gopāde paṇḍitair upalakṣitam
71 lāṅgūlacālanaṃ kṣveḍaḥ pratirāvo vivartanam
dantadarśanam ārāvas tato yuddhaṃ pravartate
72 tatra yo balavān kṛṣṇa jitvā so 'tti tad āmiṣam
evam eva manuṣyeṣu viśeṣo nāsti kaś cana
73 sarvathā tv etad ucitaṃ durbaleṣu balīyasām
anādaro virodhaś ca praṇipātī hi durbalaḥ
74 pitā rājā ca vṛddhaś ca sarvathā mānam arhati
tasmān mānyaś ca pūjyaś ca dhṛtarāṣṭro janārdana
75 putrasnehas tu balavān dhṛtarāṣṭrasya mādhava
saputravaśam āpannaḥ praṇipātaṃ prahāsyati
76 tatra kiṃ manyase kṛṣṇa prāptakālam anantaram
katham arthāc ca dharmāc ca na hīyemahi mādhava
77 īdṛśe hy arthakṛcchre 'smin kam anyaṃ madhusūdana
upasaṃpraṣṭum arhāmi tvām ṛte puruṣottama
78 priyaś ca priyakāmaś ca gatijñaḥ sarvakarmaṇām
ko hi kṛṣṇāsti nas tvādṛk sarvaniścayavit suhṛt
79 evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ
ubhayor eva vām arthe yāsyāmi kurusaṃsadam
80 śamaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan
puṇyaṃ me sumahad rājaṃś caritaṃ syān mahāphalam
81 mocayeyaṃ mṛtyupāśāt saṃrabdhān kurusṛñjayān
pāṇḍavān dhārtarāṣṭrāṃś ca sarvāṃ ca pṛthivīm imām
82 na mamaitan mataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati
suyodhanaḥ sūktam api na kariṣyati te vacaḥ
83 sametaṃ pārthivaṃ kṣatraṃ suyodhana vaśānugam
teṣāṃ madhyāvataraṇaṃ tava kṛṣṇa na rocaye
84 na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham
na ca sarvāmaraiśvaryaṃ tava rodhena mādhava
85 [bhagavān]
jānāmy etāṃ mahārāja dhārtarāṣṭrasya pāpatām
avācyās tu bhaviṣyāmaḥ sarvaloke mahīkṣitām
86 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ
kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ
87 atha cet te pravarteran mayi kiṃ cid asāṃpratam
nirdaheyaṃ kurūn sarvān iti me dhīyate matiḥ
88 na jātu gamanaṃ tatra bhavet pārtha nirarthakam
arthaprāptiḥ kadā cit syād antato vāpy avācyatā
89 yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān
kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam
90 viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho
yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ
91 bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ
sauhṛdenāviśaṅkyo 'si svasti prāpnuhi bhūtaye
92 asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam
yad yad asmaddhitaṃ kṛṣṇa tat tad vācyaḥ suyodhanaḥ
93 yad yad dharmeṇa saṃyuktam upapadyed dhitaṃ vacaḥ
tat tat keśava bhāṣethāḥ sāntvaṃ vā yadi vetarat

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

738 of 2013 Book 37% ~11 min left