To view the original Internet Sacred Text Archive, visit archive.sacred-texts.com
Book 5: Chapter 36
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 5: Chapter 36

The Mahabharata in Sanskrit

Book 5
Chapter 36

1 [वि]
अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
आत्रेयस्य च संवादं साध्यानां चेति नः शरुतम
2 चरन्तं हंसरूपेण महर्षिं संशितव्रतम
साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा
3 साध्या देवा वयम अस्मॊ महर्षे; दृष्ट्वा भवन्तं न शक्नुमॊ ऽनुमातुम
शरुतेन धीरॊ बुद्धिमांस तवं मतॊ नः; काव्यां वाचं वक्तुम अर्हस्य उदाराम
4 एतत कार्यम अमराः संश्रुतं मे; धृतिः शमः सत्यधर्मानुवृत्तिः
गरन्थिं विनीय हृदयस्य सर्वं; परियाप्रिये चात्मवशं नयीत
5 आक्रुश्यमानॊ नाक्रॊशेन मन्युर एव तितिक्षितः
आक्रॊष्टारं निर्दहति सुकृतं चास्य विन्दति
6 नाक्रॊशी सयान नावमानी परस्य; मित्रद्रॊही नॊत नीचॊपसेवी
न चातिमानी न च हीनवृत्तॊ; रूक्षां वाचं रुशतीं वर्जयीत
7 मर्माण्य अस्थीनि हृदयं तथासून; घॊरा वाचॊ निर्दहन्तीह पुंसाम
तस्माद वाचं रुशतीं रूक्षरूपां; धर्मारामॊ नित्यशॊ वर्जयीत
8 अरुं तुरं परुषं रूक्षवाचं; वाक कण्टकैर वितुदन्तं मनुष्यान
विद्याद अलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम
9 परश चेद एनम अधिविध्येत बाणैर; भृशं सुतीक्ष्णैर अनलार्क दीप्तैः
विरिच्यमानॊ ऽपय अतिरिच्यमानॊ; विद्यात कविः सुकृतं मे दधाति
10 यदि सन्तं सेवते यद्य असन्तं; तपस्विनं यदि वा सतेनम एव
वासॊ यथा रङ्ग वशं परयाति; तथा स तेषां वशम अभ्युपैति
11 वादं तु यॊ न परवदेन न वादयेद; यॊ नाहतः परतिहन्यान न घातयेत
यॊ हन्तुकामस्य न पापम इच्छेत; तस्मै देवाः सपृहयन्त्य आगताय
12 अव्याहृतं वयाहृताच छरेय आहुः; सत्यं वदेद वयाहृतं तद दवितीयम
परियंवदेद वयाहृतं तत तृतीयं; धर्म्यं वदेद वयाहृतं तच चतुर्थम
13 यादृशैः संविवदते यादृशांश चॊपसेवते
यादृग इच्छेच च भवितुं तादृग भवति पूरुषः
14 यतॊ यतॊ निवर्तते ततस ततॊ विमुच्यते
निवर्तनाद धि सर्वतॊ न वेत्ति दुःखम अण्व अपि
15 न जीयते नॊत जिगीषते ऽनयान; न वैरक्कृच चाप्रतिघातकश च
निन्दा परशंसासु समस्वभावॊ; न शॊचते हृष्यति नैव चायम
16 भावम इच्छति सर्वस्य नाभावे कुरुते मतिम
सत्यवादी मृदुर दान्तॊ यः स उत्तमपूरुषः
17 नानर्थकं सान्त्वयति परतिज्ञाय ददाति च
राद्धापराद्धे जानाति यः स मध्यमपूरुषः
18 दुःशासनस तूपहन्ता न शास्ता; नावर्तते मन्युवशात कृतघ्नः
न कस्य चिन मित्रम अथॊ दुरात्मा; कलाश चैता अधमस्येह पुंसः
19 न शरद्दधाति कल्याणं परेभ्यॊ ऽपय आत्मशङ्कितः
निराकरॊति मित्राणि यॊ वै सॊ ऽधम पूरुषः
20 उत्तमान एव सेवेत पराप्ते काले तु मध्यमान
अधमांस तु न सेवेत य इच्छेच छरेय आत्मनः
21 पराप्नॊति वै वित्तम असद बलेन; नित्यॊत्थानात परज्ञया पौरुषेण
न तव एव सम्यग लभते परशंसां; न वृत्तम आप्नॊति महाकुलानाम
22 महाकुलानां सपृहयन्ति देवा; धर्मार्थवृद्धाश च बहुश्रुताश च
पृच्छामि तवां विदुर परश्नम एतं; भवन्ति वै कानि महाकुलानि
23 तमॊ दमॊ बरह्मवित तवं वितानाः; पुण्या विवाहाः सततान्न दानम
येष्व एवैते सप्तगुणा भवन्ति; सम्यग वृत्तास तानि महाकुलानि
24 येषां न वृत्तं वयथते न यॊनिर; वृत्तप्रसादेन चरन्ति धर्मम
ये कीर्तिम इच्छन्ति कुले विशिष्टां; तयक्तानृतास तानि महाकुलानि
25 अनिज्ययाविवाहैर्श च वेदस्यॊत्सादनेन च
कुलान्य अकुलतां यान्ति धर्मस्यातिक्रमेण च
26 देव दरव्यविनाशेन बरह्म सवहरणेन च
कुलान्य अकुलतां यान्ति बराह्मणातिक्रमेण च
27 बराह्मणानां परिभवात परिवादाच च भारत
कुलान्य अकुलतां यान्ति नयासापहरणेन च
28 कुलानि समुपेतानि गॊभिः पुरुषतॊ ऽशवतः
कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः
29 वृत्ततस तव अविहीनानि कुलान्य अल्पधनान्य अपि
कुलसंख्यां तु गच्छन्ति कर्षन्ति च मयद यशः
30 मा नः कुले वैरकृत कश चिद अस्तु; राजामात्यॊ मा परस्वापहारी
मित्रद्रॊही नैकृतिकॊ ऽनृती वा; पूर्वाशी वा पितृदेवातिथिभ्यः
31 यश च नॊ बराह्मणं हन्याद यश च नॊ बराह्मणान दविषेत
न नः स समितिं गच्छेद यश च नॊ निर्वपेत कृषिम
32 तृणानि भूमिर उदकं वाक चतुर्थी च सूनृता
सताम एतानि गेहेषु नॊच्छिद्यन्ते कदा चन
33 शरद्धया परया राजन्न उपनीतानि सत्कृतिम
परवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम
34 सूक्ष्मॊ ऽपि भारं नृपते सयन्दनॊ वै; शक्तॊ वॊढुं न तथान्ये महीजाः
एवं युक्ता भारसहा भवन्ति; महाकुलीना न तथान्ये मनुष्याः
35 न तन मित्रं यस्य कॊपाद बिभेति; यद वा मित्रं शङ्कितेनॊपचर्यम
यस्मिन मित्रे पितरीवाश्वसीत; तद वै मित्रं संगतानीतराणि
36 यदि चेद अप्य असंबन्धॊ मित्रभावेन वर्तते
स एव बन्धुस तन मित्रं सा गतिस तत्परायणम
37 चलचित्तस्य वै पुंसॊ वृद्धान अनुपसेवतः
पारिप्लवमतेर नित्यम अध्रुवॊ मित्र संग्रहः
38 चलचित्तम अनात्मानम इन्द्रियाणां वशानुगम
अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरॊ यथा
39 अकस्माद एव कुप्यन्ति परसीदन्त्य अनिमित्ततः
शीलम एतद असाधूनाम अभ्रं पारिप्लवं यथा
40 सत्कृताश च कृतार्थाश च मित्राणां न भवन्ति ये
तान मृतान अपि करव्यादाः कृतघ्नान नॊपभुञ्जते
41 अर्थयेद एव मित्राणि सति वासति वा धने
नानर्थयन विजानाति मित्राणां सारफल्गुताम
42 संतापाद भरश्यते रूपं संतापाद भरश्यते बलम
संतापाद भरश्यते जञानं संतापाद वयाधिम ऋच्छति
43 अनवाप्यं च शॊकेन शरीरं चॊपतप्यते
अमित्राश च परहृष्यन्ति मा सम शॊके मनः कृथाः
44 पुनर नरॊ मरियते जायते च; पुनर नरॊ हीयते वर्धते पुनः
पुनर नरॊ याचति याच्यते च; पुनर नरः शॊचति शॊच्यते पुनः
45 सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च
पर्यायशः सर्वम इह सपृशन्ति; तस्माद धीरॊ नैव हृष्येन न शॊचेत
46 चलानि हीमानि षडिन्द्रियाणि; तेषां यद यद वर्तते यत्र यत्र
ततस ततः सरवते बुद्धिर अस्य; छिद्रॊद कुम्भाद इव नित्यम अम्भः
47 तनुर उच्छः शिखी राजा मिथ्यॊपचरितॊ मया
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति
48 नित्यॊद्विग्नम इदं सर्वं नित्यॊद्विग्नम इदं मनः
यत तत पदम अनुद्विग्नं तन मे वद महामते
49 नान्यत्र विद्या तपसॊर नान्यत्रेन्द्रिय निग्रहात
नान्यत्र लॊभसंत्यागाच छान्तिं पश्याम ते ऽनघ
50 बुद्ध्या भयं परणुदति तपसा विन्दते महत
गुरुशुश्रूषया जञानं शान्तिं तयागेन विन्दति
51 अनाश्रिता दानपुण्यं वेद पुण्यम अनाश्रिताः
रागद्वेषविनिर्मुक्ता विचरन्तीह मॊक्षिणः
52 सवधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः
तपसश च सुतप्तस्य तस्यान्ते सुखम एधते
53 सवास्तीर्णानि शयनानि परपन्ना; न वै भिन्ना जातु निद्रां लभन्ते
न सत्रीषु राजन रतिम आप्नुवन्ति; न मागधैः सतूयमाना न सूतैः
54 न वै भिन्ना जातु चरन्ति धर्मं; न वै सुखं पराप्नुवन्तीह भिन्नाः
न वै भिन्ना गौरवं मानयन्ति; न वै भिन्नाः परशमं रॊचयन्ति
55 न वै तेषां सवदते पथ्यम उक्तं; यॊगक्षेमं कल्पते नॊत तेषाम
भिन्नानां वै मनुजेन्द्र परायणं; न विद्यते किं चिद अन्यद विनाशात
56 संभाव्यं गॊषु संपन्नं संभाव्यं बराह्मणे तपः
संभाव्यं सत्रीषु चापल्यं संभाव्यं जञातितॊ भयम
57 तन्तवॊ ऽपय आयता नित्यं तन्तवॊ बहुलाः समाः
बहून बहुत्वाद आयासान सहन्तीत्य उपमा सताम
58 धूमायन्ते वयपेतानि जवलन्ति सहितानि च
धृतराष्ट्रॊल्मुकानीव जञातयॊ भरतर्षभ
59 बराह्मणेषु च ये शूराः सत्रीषु जञातिषु गॊषु च
वृन्ताद इव फलं पक्वं धृतराष्ट्र पतन्ति ते
60 महान अप्य एकजॊ वृक्षॊ बलवान सुप्रतिष्ठितः
परसह्य एव वातेन शाखा सकन्धं विमर्दितुम
61 अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः
ते हि शीघ्रतमान वातान सहन्ते ऽनयॊन्यसंश्रयात
62 एवं मनुष्यम अप्य एकं गुणैर अपि समन्वितम
शक्यं दविषन्तॊ मन्यन्ते वायुर दरुमम इवौकजम
63 अन्यॊन्यसमुपष्टम्भाद अन्यॊन्यापाश्रयेण च
जञातयः संप्रवर्धन्ते सरसीवॊत्पलान्य उत
64 अवध्या बराह्मणा गावॊ सत्रियॊ बालाश च जञातयः
येषां चान्नानि भुञ्जीत ये च सयुः शरणागताः
65 न मनुष्ये गुणः कश चिद अन्यॊ धनवताम अपि
अनातुरत्वाद भद्रं ते मृतकल्पा हि रॊगिणः
66 अव्याधिजं कटुकं शीर्ष रॊगं; पापानुबन्धं परुषं तीक्ष्णम उग्रम
सतां पेयं यन न पिबन्त्य असन्तॊ; मन्युं महाराज पिब परशाम्य
67 रॊगार्दिता न फलान्य आद्रियन्ते; न वै लभन्ते विषयेषु तत्त्वम
दुःखॊपेता रॊगिणॊ नित्यम एव; न बुध्यन्ते धनभॊगान न सौख्यम
68 पुरा हय उक्तॊ नाकरॊस तवं वचॊ मे; दयूते जितां दरौपदीं परेक्ष्य राजन
दुर्यॊधनं वारयेत्य अक्षवत्यां; कितवत्वं पण्डिता वर्जयन्ति
69 न तद बलं यन मृदुना विरुध्यते; मिश्रॊ धर्मस तरसा सेवितव्यः
परध्वंसिनी करूरसमाहिता शरीर; मृदुप्रौढा गच्छति पुत्रपौत्रान
70 धार्तराष्ट्राः पाण्डवान पालयन्तु; पाण्डॊः सुतास तव पुत्रांश च पान्तु
एकारिमित्राः कुरवॊ हय एकमन्त्रा; जीवन्तु राजन सुखिनः समृद्धाः
71 मेढीभूतः कौरवाणां तवम अद्य; तवय्य आधीनं कुरु कुलम आजमीढ
पार्थान बालान वनवास परतप्तान; गॊपायस्व सवं यशस तात रक्षन
72 संधत्स्व तवं कौरवान पाण्डुपुत्रैर; मा ते ऽनतरं रिपवः परार्थयन्तु
सत्ये सथितास ते नरदेव सर्वे; दुर्यॊधनं सथापय तवं नरेन्द्र
1 [vi]
atraivodāharantīmam itihāsaṃ purātanam
ātreyasya ca saṃvādaṃ sādhyānāṃ ceti naḥ śrutam
2 carantaṃ haṃsarūpeṇa maharṣiṃ saṃśitavratam
sādhyā devā mahāprājñaṃ paryapṛcchanta vai purā
3 sādhyā devā vayam asmo maharṣe; dṛṣṭvā bhavantaṃ na śaknumo 'numātum
śrutena dhīro buddhimāṃs tvaṃ mato naḥ; kāvyāṃ vācaṃ vaktum arhasy udārām
4 etat kāryam amarāḥ saṃśrutaṃ me; dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ
granthiṃ vinīya hṛdayasya sarvaṃ; priyāpriye cātmavaśaṃ nayīta
5 ākruśyamāno nākrośen manyur eva titikṣitaḥ
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati
6 nākrośī syān nāvamānī parasya; mitradrohī nota nīcopasevī
na cātimānī na ca hīnavṛtto; rūkṣāṃ vācaṃ ruśatīṃ varjayīta
7 marmāṇy asthīni hṛdayaṃ tathāsūn; ghorā vāco nirdahantīha puṃsām
tasmād vācaṃ ruśatīṃ rūkṣarūpāṃ; dharmārāmo nityaśo varjayīta
8 aruṃ turaṃ paruṣaṃ rūkṣavācaṃ; vāk kaṇṭakair vitudantaṃ manuṣyān
vidyād alakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam
9 paraś ced enam adhividhyeta bāṇair; bhṛśaṃ sutīkṣṇair analārka dīptaiḥ
viricyamāno 'py atiricyamāno; vidyāt kaviḥ sukṛtaṃ me dadhāti
10 yadi santaṃ sevate yady asantaṃ; tapasvinaṃ yadi vā stenam eva
vāso yathā raṅga vaśaṃ prayāti; tathā sa teṣāṃ vaśam abhyupaiti
11 vādaṃ tu yo na pravaden na vādayed; yo nāhataḥ pratihanyān na ghātayet
yo hantukāmasya na pāpam icchet; tasmai devāḥ spṛhayanty āgatāya
12 avyāhṛtaṃ vyāhṛtāc chreya āhuḥ; satyaṃ vaded vyāhṛtaṃ tad dvitīyam
priyaṃvaded vyāhṛtaṃ tat tṛtīyaṃ; dharmyaṃ vaded vyāhṛtaṃ tac caturtham
13 yādṛśaiḥ saṃvivadate yādṛśāṃś copasevate
yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ
14 yato yato nivartate tatas tato vimucyate
nivartanād dhi sarvato na vetti duḥkham aṇv api
15 na jīyate nota jigīṣate 'nyān; na vairakkṛc cāpratighātakaś ca
nindā praśaṃsāsu samasvabhāvo; na śocate hṛṣyati naiva cāyam
16 bhāvam icchati sarvasya nābhāve kurute matim
satyavādī mṛdur dānto yaḥ sa uttamapūruṣaḥ
17 nānarthakaṃ sāntvayati pratijñāya dadāti ca
rāddhāparāddhe jānāti yaḥ sa madhyamapūruṣaḥ
18 duḥśāsanas tūpahantā na śāstā; nāvartate manyuvaśāt kṛtaghnaḥ
na kasya cin mitram atho durātmā; kalāś caitā adhamasyeha puṃsaḥ
19 na śraddadhāti kalyāṇaṃ parebhyo 'py ātmaśaṅkitaḥ
nirākaroti mitrāṇi yo vai so 'dhama pūruṣaḥ
20 uttamān eva seveta prāpte kāle tu madhyamān
adhamāṃs tu na seveta ya icchec chreya ātmanaḥ
21 prāpnoti vai vittam asad balena; nityotthānāt prajñayā pauruṣeṇa
na tv eva samyag labhate praśaṃsāṃ; na vṛttam āpnoti mahākulānām
22 mahākulānāṃ spṛhayanti devā; dharmārthavṛddhāś ca bahuśrutāś ca
pṛcchāmi tvāṃ vidura praśnam etaṃ; bhavanti vai kāni mahākulāni
23 tamo damo brahmavit tvaṃ vitānāḥ; puṇyā vivāhāḥ satatānna dānam
yeṣv evaite saptaguṇā bhavanti; samyag vṛttās tāni mahākulāni
24 yeṣāṃ na vṛttaṃ vyathate na yonir; vṛttaprasādena caranti dharmam
ye kīrtim icchanti kule viśiṣṭāṃ; tyaktānṛtās tāni mahākulāni
25 anijyayāvivāhairś ca vedasyotsādanena ca
kulāny akulatāṃ yānti dharmasyātikrameṇa ca
26 deva dravyavināśena brahma svaharaṇena ca
kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca
27 brāhmaṇānāṃ paribhavāt parivādāc ca bhārata
kulāny akulatāṃ yānti nyāsāpaharaṇena ca
28 kulāni samupetāni gobhiḥ puruṣato 'śvataḥ
kulasaṃkhyāṃ na gacchanti yāni hīnāni vṛttataḥ
29 vṛttatas tv avihīnāni kulāny alpadhanāny api
kulasaṃkhyāṃ tu gacchanti karṣanti ca mayad yaśaḥ
30 mā naḥ kule vairakṛt kaś cid astu; rājāmātyo mā parasvāpahārī
mitradrohī naikṛtiko 'nṛtī vā; pūrvāśī vā pitṛdevātithibhyaḥ
31 yaś ca no brāhmaṇaṃ hanyād yaś ca no brāhmaṇān dviṣet
na naḥ sa samitiṃ gacched yaś ca no nirvapet kṛṣim
32 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā
satām etāni geheṣu nocchidyante kadā cana
33 śraddhayā parayā rājann upanītāni satkṛtim
pravṛttāni mahāprājña dharmiṇāṃ puṇyakarmaṇām
34 sūkṣmo 'pi bhāraṃ nṛpate syandano vai; śakto voḍhuṃ na tathānye mahījāḥ
evaṃ yuktā bhārasahā bhavanti; mahākulīnā na tathānye manuṣyāḥ
35 na tan mitraṃ yasya kopād bibheti; yad vā mitraṃ śaṅkitenopacaryam
yasmin mitre pitarīvāśvasīta; tad vai mitraṃ saṃgatānītarāṇi
36 yadi ced apy asaṃbandho mitrabhāvena vartate
sa eva bandhus tan mitraṃ sā gatis tatparāyaṇam
37 calacittasya vai puṃso vṛddhān anupasevataḥ
pāriplavamater nityam adhruvo mitra saṃgrahaḥ
38 calacittam anātmānam indriyāṇāṃ vaśānugam
arthāḥ samativartante haṃsāḥ śuṣkaṃ saro yathā
39 akasmād eva kupyanti prasīdanty animittataḥ
śīlam etad asādhūnām abhraṃ pāriplavaṃ yathā
40 satkṛtāś ca kṛtārthāś ca mitrāṇāṃ na bhavanti ye
tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate
41 arthayed eva mitrāṇi sati vāsati vā dhane
nānarthayan vijānāti mitrāṇāṃ sāraphalgutām
42 saṃtāpād bhraśyate rūpaṃ saṃtāpād bhraśyate balam
saṃtāpād bhraśyate jñānaṃ saṃtāpād vyādhim ṛcchati
43 anavāpyaṃ ca śokena śarīraṃ copatapyate
amitrāś ca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ
44 punar naro mriyate jāyate ca; punar naro hīyate vardhate punaḥ
punar naro yācati yācyate ca; punar naraḥ śocati śocyate punaḥ
45 sukhaṃ ca duḥkhaṃ ca bhavābhavau ca; lābhālābhau maraṇaṃ jīvitaṃ ca
paryāyaśaḥ sarvam iha spṛśanti; tasmād dhīro naiva hṛṣyen na śocet
46 calāni hīmāni ṣaḍindriyāṇi; teṣāṃ yad yad vartate yatra yatra
tatas tataḥ sravate buddhir asya; chidroda kumbhād iva nityam ambhaḥ
47 tanur ucchaḥ śikhī rājā mithyopacarito mayā
mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati
48 nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ
yat tat padam anudvignaṃ tan me vada mahāmate
49 nānyatra vidyā tapasor nānyatrendriya nigrahāt
nānyatra lobhasaṃtyāgāc chāntiṃ paśyāma te 'nagha
50 buddhyā bhayaṃ praṇudati tapasā vindate mahat
guruśuśrūṣayā jñānaṃ śāntiṃ tyāgena vindati
51 anāśritā dānapuṇyaṃ veda puṇyam anāśritāḥ
rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ
52 svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ
tapasaś ca sutaptasya tasyānte sukham edhate
53 svāstīrṇāni śayanāni prapannā; na vai bhinnā jātu nidrāṃ labhante
na strīṣu rājan ratim āpnuvanti; na māgadhaiḥ stūyamānā na sūtaiḥ
54 na vai bhinnā jātu caranti dharmaṃ; na vai sukhaṃ prāpnuvantīha bhinnāḥ
na vai bhinnā gauravaṃ mānayanti; na vai bhinnāḥ praśamaṃ rocayanti
55 na vai teṣāṃ svadate pathyam uktaṃ; yogakṣemaṃ kalpate nota teṣām
bhinnānāṃ vai manujendra parāyaṇaṃ; na vidyate kiṃ cid anyad vināśāt
56 saṃbhāvyaṃ goṣu saṃpannaṃ saṃbhāvyaṃ brāhmaṇe tapaḥ
saṃbhāvyaṃ strīṣu cāpalyaṃ saṃbhāvyaṃ jñātito bhayam
57 tantavo 'py āyatā nityaṃ tantavo bahulāḥ samāḥ
bahūn bahutvād āyāsān sahantīty upamā satām
58 dhūmāyante vyapetāni jvalanti sahitāni ca
dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha
59 brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca
vṛntād iva phalaṃ pakvaṃ dhṛtarāṣṭra patanti te
60 mahān apy ekajo vṛkṣo balavān supratiṣṭhitaḥ
prasahya eva vātena śākhā skandhaṃ vimarditum
61 atha ye sahitā vṛkṣāḥ saṃghaśaḥ supratiṣṭhitāḥ
te hi śīghratamān vātān sahante 'nyonyasaṃśrayāt
62 evaṃ manuṣyam apy ekaṃ guṇair api samanvitam
śakyaṃ dviṣanto manyante vāyur drumam ivaukajam
63 anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca
jñātayaḥ saṃpravardhante sarasīvotpalāny uta
64 avadhyā brāhmaṇā gāvo striyo bālāś ca jñātayaḥ
yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ
65 na manuṣye guṇaḥ kaś cid anyo dhanavatām api
anāturatvād bhadraṃ te mṛtakalpā hi rogiṇaḥ
66 avyādhijaṃ kaṭukaṃ śīrṣa rogaṃ; pāpānubandhaṃ paruṣaṃ tīkṣṇam ugram
satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya
67 rogārditā na phalāny ādriyante; na vai labhante viṣayeṣu tattvam
duḥkhopetā rogiṇo nityam eva; na budhyante dhanabhogān na saukhyam
68 purā hy ukto nākaros tvaṃ vaco me; dyūte jitāṃ draupadīṃ prekṣya rājan
duryodhanaṃ vārayety akṣavatyāṃ; kitavatvaṃ paṇḍitā varjayanti
69 na tad balaṃ yan mṛdunā virudhyate; miśro dharmas tarasā sevitavyaḥ
pradhvaṃsinī krūrasamāhitā śrīr; mṛduprauḍhā gacchati putrapautrān
70 dhārtarāṣṭrāḥ pāṇḍavān pālayantu; pāṇḍoḥ sutās tava putrāṃś ca pāntu
ekārimitrāḥ kuravo hy ekamantrā; jīvantu rājan sukhinaḥ samṛddhāḥ
71 meḍhībhūtaḥ kauravāṇāṃ tvam adya; tvayy ādhīnaṃ kuru kulam ājamīḍha
pārthān bālān vanavāsa prataptān; gopāyasva svaṃ yaśas tāta rakṣan
72 saṃdhatsva tvaṃ kauravān pāṇḍuputrair; mā te 'ntaraṃ ripavaḥ prārthayantu
satye sthitās te naradeva sarve; duryodhanaṃ sthāpaya tvaṃ narendra

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

704 of 2013 Book 35% ~10 min left