To view the original Internet Sacred Text Archive, visit archive.sacred-texts.com
Book 5: Chapter 34
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 5: Chapter 34

The Mahabharata in Sanskrit

Book 5
Chapter 34

1 [धृ]
जाग्रतॊ दह्यमानस्य यत कार्यम अनुपश्यसि
तद बरूहि तवं हि नस तात धर्मार्थकुशलः शुचिः
2 तवं मां यथावद विदुर परशाधि; परज्ञा पूर्वं सर्वम अजातशत्रॊः
यन मन्यसे पथ्यम अदीनसत्त्व; शरेयः करं बरूहि तद वै कुरूणाम
3 पापाशङ्गी पापम एव नौपश्यन; पृच्छामि तवां वयाकुलेनात्मनाहम
कवे तन मे बरूहि सर्वं यथावन; मनीषितं सर्वम अजातशत्रॊः
4 शुभं वा यदि वा पापं दवेष्यं वा यदि वा परियम
अपृष्टस तस्य तद बरूयाद यस्य नेच्छेत पराभवम
5 तस्माद वक्ष्यामि ते राजन भवम इच्छन कुरून परति
वचः शरेयः करं धर्म्यं बरुवतस तन निबॊध मे
6 मिथ्यॊपेतानि कर्माणि सिध्येयुर यानि भारत
अनुपाय परयुक्तानि मा सम तेषु मनः कृथाः
7 तथैव यॊगविहितं न सिध्येत कर्म यन नृप
उपाययुक्तं मेधावी न तत्र गलपयेन मनः
8 अनुबन्धान अवेक्षेत सानुबन्धेषु कर्मसु
संप्रधार्य च कुर्वीत न वेगेन समाचरेत
9 अनुबन्धं च संप्रेक्ष्य विपाकांश चैव कर्मणाम
उत्थानम आत्मनश चैव धीरः कुर्वीत वा न वा
10 यः परमाणं न जानाति सथाने वृद्धौ तथा कषये
कॊशे जनपदे दण्डे न स राज्यावतिष्ठते
11 यस तव एतानि परमाणानि यथॊक्तान्य अनुपश्यति
युक्तॊ धर्मार्थयॊर जञाने स राज्यम अधिगच्छति
12 न राज्यं पराप्तम इत्य एव वर्तितव्यम असांप्रतम
शरियं हय अविनयॊ हन्ति जरा रूपम इवॊत्तमम
13 भक्ष्यॊत्तम परतिच्छन्नं मत्स्यॊ बडिशम आयसम
रूपाभिपाती गरसते नानुबन्धम अवेक्षते
14 यच छक्यं गरसितुं गरस्यं गरस्तं परिणमेच च यत
हितं च परिणामे यत तद अद्यं भूतिम इच्छता
15 वनस्पतेर अपक्वानि फलानि परचिनॊति यः
स नाप्नॊति रसं तेभ्यॊ बीजं चास्य विनश्यति
16 यस तु पक्वम उपादत्ते काले परिणतं फलम
फलाद रसं स लभते बीजाच चैव फलं पुनः
17 यथा मधु समादत्ते रक्षन पुष्पाणि षट्पदः
तद्वद अर्थान मनुष्येभ्य आदद्याद अविहिंसया
18 पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत
माला कार इवारामे न यथाङ्गार कारकः
19 किं नु मे सयाद इदं कृत्वा किं नु मे सयाद अकुर्वतः
इति कर्माणि संचिन्त्य कुर्याद वा पुरुषॊ न वा
20 अनारभ्या भवन्त्य अर्थाः के चिन नित्यं तथागताः
कृतः पुरुषकारॊ ऽपि भवेद येषु निरर्थकः
21 कांश चिद अर्थान नरः पराज्ञॊ लभु मूलान महाफलान
कषिप्रम आरभते कर्तुं न विघ्नयति तादृशान
22 ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्न इव
आसीनम अपि तूष्णीकम अनुरज्यन्ति तं परजाः
23 चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम
परसादयति लॊकं यस तं लॊकॊ ऽनुप्रसीदति
24 यस्मात तरस्यन्ति भूतानि मृगव्याधान मृगा इव
सागरान्ताम अपि महीं लब्ध्वा स परिहीयते
25 पितृपैतामहं राज्यं पराप्तवान सवेन तेजसा
वायुर अभ्रम इवासाद्य भरंशयत्य अनये सथितः
26 धर्मम आचरतॊ राज्ञः सद्भिश चरितम आदितः
वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी
27 अथ संत्यजतॊ धर्मम अधर्मं चानुतिष्ठतः
परतिसंवेष्टते भूमिर अग्नौ चर्माहितं यथा
28 य एव यत्नः करियते परर राष्ट्रावमर्दने
स एव यत्नः कर्तव्यः सवराष्ट्र परिपालने
29 धर्मेण राज्यं विन्देत धर्मेण परिपालयेत
धर्ममूलां शरियं पराप्य न जहाति न हीयते
30 अप्य उन्मत्तात परलपतॊ बालाच च परिसर्पतः
सर्वतः सारम आदद्याद अश्मभ्य इव काञ्चनम
31 सुव्याहृतानि सुधियां सुकृतानि ततस ततः
संचिन्वन धीर आसीत शिला हारी शिलं यथा
32 गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति बराह्मणाः
चारैः पश्यन्ति राजानश चक्षुर्भ्याम इतरे जनाः
33 भूयांसं लभते कलेशं या गौर भवति दुर्दुहा
अथ या सुदुहा राजन नैव तां विनयन्त्य अपि
34 यद अतप्तं परणमति न तत संतापयन्त्य अपि
यच च सवयं नतं दारु न तत संनामयन्त्य अपि
35 एतयॊपमया धीरः संनमेत बलीयसे
इन्द्राय स परणमते नमते यॊ बलीयसे
36 पर्जन्यनाथाः पशवॊ राजानॊ मित्र बान्धवाः
पतयॊ बान्धवाः सत्रीणां बराह्मणा वेद बान्धवाः
37 सत्येन रक्ष्यते धर्मॊ विया यॊगेन रक्ष्यते
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते
38 मानेन रक्ष्यते धान्यम अश्वान रक्ष्यत्य अनुक्रमः
अभीक्ष्णदर्शनाद गावः सत्रियॊ रक्ष्याः कुचेलतः
39 न कुलं वृत्ति हीनस्य परमाणम इति मे मतिः
अन्त्येष्व अपि हि जातानां वृत्तम एव विशिष्यते
40 य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये
सुखे सौभाग्यसत्कारे तस्य वयाधिर अनन्तकः
41 अकार्य करणाद भीतः कार्याणां च विवर्जनात
अकाले मन्त्रभेदाच च येन माद्येन न तत पिबेत
42 विद्यामदॊ धनमदस तृतीयॊ ऽभिजनॊ मदः
एते मदावलिप्तानाम एत एव सतां दमाः
43 असन्तॊ ऽभयर्थिताः सद्भिः किं चित कार्यं कदा चन
मन्यन्ते सन्तम आत्मानम असन्तम अपि विश्रुतम
44 गतिर आत्मवतां सन्तः सन्त एव सतां गतिः
असतां च गतिः सन्तॊ न तव असन्तः सतां गतिः
45 जिता सभा वस्त्रवता समाशा गॊमता जिता
अध्वा जितॊ यानवता सर्वं शीलवता जितम
46 शीलं परधानं पुरुषे तद यस्येह परणश्यति
न तस्य जीवितेनार्थॊ न धनेन न बन्धुभिः
47 आढ्यानां मांसपरमं मध्यानां गॊरसॊत्तरम
लवणॊत्तरं दरिद्राणां भॊजनं भरतर्षभ
48 संपन्नतरम एवान्नं दरिद्रा भुञ्जते सदा
कषुत सवादुतां जनयति सा चाढ्येषु सुदुर्लभा
49 परायेण शरीमतां लॊके भॊक्तुं शक्तिर न विद्यते
दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते
50 अवृत्तिर भयम अन्त्यानां मध्यानां मरणाद भयम
उत्तमानां तु मर्त्यानाम अवमानात परं भयम
51 ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः
ऐश्वर्यमदमत्तॊ हि नापतित्वा विबुध्यते
52 इन्द्रियौर इन्द्रियार्थेषु वर्तमानैर अनिग्रहैः
तैर अयं ताप्यते लॊकॊ नक्षत्राणि गरहैर इव
53 यॊ जितः पञ्चवर्गेण सहजेनात्म कर्शिना
आपदस तस्य वर्धन्ते शुक्लपक्ष इवॊडुराड
54 अविजित्य य आत्मानम अमात्यान विजिगीषते
अमित्रान वाजितामात्यः सॊ ऽवशः परिहीयते
55 आत्मानम एव परथमं देशरूपेण यॊ जयेत
ततॊ ऽमात्यान अमित्रांश च न मॊघं विजिगीषते
56 वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु
परीक्ष्य कारिणं धीरम अत्यन्तं शरीर निषेवते
57 रथः शरीरं पुरुषस्य राजन; नात्मा नियन्तेन्द्रियाण्य अस्य चाश्वाः
तैर अप्रमत्तः कुशलः सदश्वैर; दान्तैः सुखं याति रथीव धीरः
58 एतान्य अनिगृहीतानि वयापादयितुम अप्य अलम
अविधेया इवादान्ता हयाः पथि कुसारथिम
59 अनर्थम अर्थतः पश्यन्न अर्तं चैवाप्य अनर्थतः
इन्द्रियैः परसृतॊ बालः सुदुःखं मन्यते सुखम
60 धर्मार्थौ यः परित्यज्य सयाद इन्द्रियवशानुगः
शरीप्राणधनदारेभ्य कषिप्रं स परिहीयते
61 अर्थानाम ईश्वरॊ यः सयाद इन्द्रियाणाम अनीश्वरः
इन्द्रियाणाम अनैश्वर्याद ऐश्वर्याद भरश्यते हि सः
62 आत्मनात्मानम अन्विच्छेन मनॊ बुद्धीन्द्रियैर यतैः
आत्मैव हय आत्मनॊ बन्धुर आत्मैव रिपुर आत्मनः
63 कषुद्राक्षेणेव जालेन झषाव अपिहिताव उभौ
कामश च राजन करॊधश च तौ पराज्ञानं विलुम्पतः
64 समवेक्ष्येह धर्मार्थौ संभारान यॊ ऽधिगच्छति
स वै संभृत संभारः सततं सुखम एधते
65 यः पञ्चाभ्यन्तराञ शत्रून अविजित्य मतिक्षयान
जिगीषति रिपून अन्यान रिपवॊ ऽभिभवन्ति तम
66 दृश्यन्ते हि दुरात्मानॊ वध्यमानाः सवकर्म भिः
इन्द्रियाणाम अनीशत्वाद राजानॊ राज्यविभ्रमैः
67 असंत्यागात पापकृताम अपापांस; तुल्यॊ दण्डः सपृशते मिश्रभावात
शुष्केणार्द्रं दह्यते मिश्रभावात; तस्मात पापैः सह संधिं न कुर्यात
68 निजान उत्पततः शत्रून पञ्च पञ्च परयॊजनान
यॊ मॊहान न निघृह्णाति तम आपद गरसते नरम
69 अनसूयार्जवं शौचं संतॊषः परियवादिता
दमः सत्यम अनायासॊ न भवन्ति दुरात्मनाम
70 आत्मज्ञानम अनायासस तितिक्षा धर्मनित्यता
वाक चैव गुप्ता दानं च नैतान्य अन्त्येषु भारत
71 आक्रॊश परिवादाभ्यां विहिंसन्त्य अबुधा बुधान
वक्ता पापम उपादत्ते कषममाणॊ विमुच्यते
72 हिंसा बलम असाधूनां राज्ञां दण्डविधिर बलम
शुश्रूषा तु बलं सत्रीणां कषमागुणवतां बलम
73 वाक संयमॊ हि नृपते सुदुष्करतमॊ मतः
अर्थवच च विचित्रं च न शक्यं बहुभाषितुम
74 अभ्यावहति कल्याणं विविधा वाक सुभाषिता
सैव दुर्भाषिता राजन्न अनर्थायॊपपद्यते
75 संरॊहति शरैर विद्धं वनं परशुना हतम
वाचा दुरुक्तं बीभत्सं न संरॊहति वाक कषतम
76 कर्णिनालीकनाराचा निर्हरन्ति शरीरतः
वाक्शल्यस तु न निर्हर्तुं शक्यॊ हृदि शयॊ हि सः
77 वाक सायका वदनान निष्पतन्ति; यैर आहतः शॊचति रत्र्य अहानि
परस्य नामर्मसु ते पतन्ति; तान पण्डितॊ नावसृजेत परेषु
78 यस्मै देवाः परयच्छन्ति पुरुषाय पराभवम
बुद्धिं तस्यापकर्षन्ति सॊ ऽपाचीनानि पश्यति
79 बुद्धौ कलुष भूतायां विनाशे परत्युपस्थिते
अनयॊ नयसंकाशॊ हृदयान नापसर्पति
80 सेयं बुद्धिः परीता ते पुत्राणां तव भारत
पाण्डवानां विरॊधेन न चैनाम अवबुध्यसे
81 राजा लक्षणसंपन्नस तरैलॊक्यस्यापि यॊ भवेत
शिष्यस ते शासिता सॊ ऽसतु धृतराष्ट्र युधिष्ठिरः
82 अतीव सर्वान पुत्रांस ते भागधेय पुरस्कृतः
तेजसा परज्ञया चैव युक्तॊ धर्मार्थतत्त्ववित
83 आनृशंस्याद अनुक्रॊशाद यॊ ऽसौ धर्मभृतां वरः
गौरवात तव राजेन्द्र बहून कलेशांस तितिक्षति
1 [dhṛ]
jāgrato dahyamānasya yat kāryam anupaśyasi
tad brūhi tvaṃ hi nas tāta dharmārthakuśalaḥ śuciḥ
2 tvaṃ māṃ yathāvad vidura praśādhi; prajñā pūrvaṃ sarvam ajātaśatroḥ
yan manyase pathyam adīnasattva; śreyaḥ karaṃ brūhi tad vai kurūṇām
3 pāpāśaṅgī pāpam eva naupaśyan; pṛcchāmi tvāṃ vyākulenātmanāham
kave tan me brūhi sarvaṃ yathāvan; manīṣitaṃ sarvam ajātaśatroḥ
4 śubhaṃ vā yadi vā pāpaṃ dveṣyaṃ vā yadi vā priyam
apṛṣṭas tasya tad brūyād yasya necchet parābhavam
5 tasmād vakṣyāmi te rājan bhavam icchan kurūn prati
vacaḥ śreyaḥ karaṃ dharmyaṃ bruvatas tan nibodha me
6 mithyopetāni karmāṇi sidhyeyur yāni bhārata
anupāya prayuktāni mā sma teṣu manaḥ kṛthāḥ
7 tathaiva yogavihitaṃ na sidhyet karma yan nṛpa
upāyayuktaṃ medhāvī na tatra glapayen manaḥ
8 anubandhān avekṣeta sānubandheṣu karmasu
saṃpradhārya ca kurvīta na vegena samācaret
9 anubandhaṃ ca saṃprekṣya vipākāṃś caiva karmaṇām
utthānam ātmanaś caiva dhīraḥ kurvīta vā na vā
10 yaḥ pramāṇaṃ na jānāti sthāne vṛddhau tathā kṣaye
kośe janapade daṇḍe na sa rājyāvatiṣṭhate
11 yas tv etāni pramāṇāni yathoktāny anupaśyati
yukto dharmārthayor jñāne sa rājyam adhigacchati
12 na rājyaṃ prāptam ity eva vartitavyam asāṃpratam
śriyaṃ hy avinayo hanti jarā rūpam ivottamam
13 bhakṣyottama praticchannaṃ matsyo baḍiśam āyasam
rūpābhipātī grasate nānubandham avekṣate
14 yac chakyaṃ grasituṃ grasyaṃ grastaṃ pariṇamec ca yat
hitaṃ ca pariṇāme yat tad adyaṃ bhūtim icchatā
15 vanaspater apakvāni phalāni pracinoti yaḥ
sa nāpnoti rasaṃ tebhyo bījaṃ cāsya vinaśyati
16 yas tu pakvam upādatte kāle pariṇataṃ phalam
phalād rasaṃ sa labhate bījāc caiva phalaṃ punaḥ
17 yathā madhu samādatte rakṣan puṣpāṇi ṣaṭpadaḥ
tadvad arthān manuṣyebhya ādadyād avihiṃsayā
18 puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet
mālā kāra ivārāme na yathāṅgāra kārakaḥ
19 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ
iti karmāṇi saṃcintya kuryād vā puruṣo na vā
20 anārabhyā bhavanty arthāḥ ke cin nityaṃ tathāgatāḥ
kṛtaḥ puruṣakāro 'pi bhaved yeṣu nirarthakaḥ
21 kāṃś cid arthān naraḥ prājño labhu mūlān mahāphalān
kṣipram ārabhate kartuṃ na vighnayati tādṛśān
22 ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibann iva
āsīnam api tūṣṇīkam anurajyanti taṃ prajāḥ
23 cakṣuṣā manasā vācā karmaṇā ca caturvidham
prasādayati lokaṃ yas taṃ loko 'nuprasīdati
24 yasmāt trasyanti bhūtāni mṛgavyādhān mṛgā iva
sāgarāntām api mahīṃ labdhvā sa parihīyate
25 pitṛpaitāmahaṃ rājyaṃ prāptavān svena tejasā
vāyur abhram ivāsādya bhraṃśayaty anaye sthitaḥ
26 dharmam ācarato rājñaḥ sadbhiś caritam āditaḥ
vasudhā vasusaṃpūrṇā vardhate bhūtivardhanī
27 atha saṃtyajato dharmam adharmaṃ cānutiṣṭhataḥ
pratisaṃveṣṭate bhūmir agnau carmāhitaṃ yathā
28 ya eva yatnaḥ kriyate prara rāṣṭrāvamardane
sa eva yatnaḥ kartavyaḥ svarāṣṭra paripālane
29 dharmeṇa rājyaṃ vindeta dharmeṇa paripālayet
dharmamūlāṃ śriyaṃ prāpya na jahāti na hīyate
30 apy unmattāt pralapato bālāc ca parisarpataḥ
sarvataḥ sāram ādadyād aśmabhya iva kāñcanam
31 suvyāhṛtāni sudhiyāṃ sukṛtāni tatas tataḥ
saṃcinvan dhīra āsīta śilā hārī śilaṃ yathā
32 gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ
cāraiḥ paśyanti rājānaś cakṣurbhyām itare janāḥ
33 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā
atha yā suduhā rājan naiva tāṃ vinayanty api
34 yad ataptaṃ praṇamati na tat saṃtāpayanty api
yac ca svayaṃ nataṃ dāru na tat saṃnāmayanty api
35 etayopamayā dhīraḥ saṃnameta balīyase
indrāya sa praṇamate namate yo balīyase
36 parjanyanāthāḥ paśavo rājāno mitra bāndhavāḥ
patayo bāndhavāḥ strīṇāṃ brāhmaṇā veda bāndhavāḥ
37 satyena rakṣyate dharmo viyā yogena rakṣyate
mṛjayā rakṣyate rūpaṃ kulaṃ vṛttena rakṣyate
38 mānena rakṣyate dhānyam aśvān rakṣyaty anukramaḥ
abhīkṣṇadarśanād gāvaḥ striyo rakṣyāḥ kucelataḥ
39 na kulaṃ vṛtti hīnasya pramāṇam iti me matiḥ
antyeṣv api hi jātānāṃ vṛttam eva viśiṣyate
40 ya īrṣyuḥ paravitteṣu rūpe vīrye kulānvaye
sukhe saubhāgyasatkāre tasya vyādhir anantakaḥ
41 akārya karaṇād bhītaḥ kāryāṇāṃ ca vivarjanāt
akāle mantrabhedāc ca yena mādyen na tat pibet
42 vidyāmado dhanamadas tṛtīyo 'bhijano madaḥ
ete madāvaliptānām eta eva satāṃ damāḥ
43 asanto 'bhyarthitāḥ sadbhiḥ kiṃ cit kāryaṃ kadā cana
manyante santam ātmānam asantam api viśrutam
44 gatir ātmavatāṃ santaḥ santa eva satāṃ gatiḥ
asatāṃ ca gatiḥ santo na tv asantaḥ satāṃ gatiḥ
45 jitā sabhā vastravatā samāśā gomatā jitā
adhvā jito yānavatā sarvaṃ śīlavatā jitam
46 śīlaṃ pradhānaṃ puruṣe tad yasyeha praṇaśyati
na tasya jīvitenārtho na dhanena na bandhubhiḥ
47 āḍhyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram
lavaṇottaraṃ daridrāṇāṃ bhojanaṃ bharatarṣabha
48 saṃpannataram evānnaṃ daridrā bhuñjate sadā
kṣut svādutāṃ janayati sā cāḍhyeṣu sudurlabhā
49 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate
daridrāṇāṃ tu rājendra api kāṣṭhaṃ hi jīryate
50 avṛttir bhayam antyānāṃ madhyānāṃ maraṇād bhayam
uttamānāṃ tu martyānām avamānāt paraṃ bhayam
51 aiśvaryamadapāpiṣṭhā madāḥ pānamadādayaḥ
aiśvaryamadamatto hi nāpatitvā vibudhyate
52 indriyaur indriyārtheṣu vartamānair anigrahaiḥ
tair ayaṃ tāpyate loko nakṣatrāṇi grahair iva
53 yo jitaḥ pañcavargeṇa sahajenātma karśinā
āpadas tasya vardhante śuklapakṣa ivoḍurāḍ
54 avijitya ya ātmānam amātyān vijigīṣate
amitrān vājitāmātyaḥ so 'vaśaḥ parihīyate
55 ātmānam eva prathamaṃ deśarūpeṇa yo jayet
tato 'mātyān amitrāṃś ca na moghaṃ vijigīṣate
56 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu
parīkṣya kāriṇaṃ dhīram atyantaṃ śrīr niṣevate
57 rathaḥ śarīraṃ puruṣasya rājan; nātmā niyantendriyāṇy asya cāśvāḥ
tair apramattaḥ kuśalaḥ sadaśvair; dāntaiḥ sukhaṃ yāti rathīva dhīraḥ
58 etāny anigṛhītāni vyāpādayitum apy alam
avidheyā ivādāntā hayāḥ pathi kusārathim
59 anartham arthataḥ paśyann artaṃ caivāpy anarthataḥ
indriyaiḥ prasṛto bālaḥ suduḥkhaṃ manyate sukham
60 dharmārthau yaḥ parityajya syād indriyavaśānugaḥ
śrīprāṇadhanadārebhya kṣipraṃ sa parihīyate
61 arthānām īśvaro yaḥ syād indriyāṇām anīśvaraḥ
indriyāṇām anaiśvaryād aiśvaryād bhraśyate hi saḥ
62 ātmanātmānam anvicchen mano buddhīndriyair yataiḥ
ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ
63 kṣudrākṣeṇeva jālena jhaṣāv apihitāv ubhau
kāmaś ca rājan krodhaś ca tau prājñānaṃ vilumpataḥ
64 samavekṣyeha dharmārthau saṃbhārān yo 'dhigacchati
sa vai saṃbhṛta saṃbhāraḥ satataṃ sukham edhate
65 yaḥ pañcābhyantarāñ śatrūn avijitya matikṣayān
jigīṣati ripūn anyān ripavo 'bhibhavanti tam
66 dṛśyante hi durātmāno vadhyamānāḥ svakarma bhiḥ
indriyāṇām anīśatvād rājāno rājyavibhramaiḥ
67 asaṃtyāgāt pāpakṛtām apāpāṃs; tulyo daṇḍaḥ spṛśate miśrabhāvāt
śuṣkeṇārdraṃ dahyate miśrabhāvāt; tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt
68 nijān utpatataḥ śatrūn pañca pañca prayojanān
yo mohān na nighṛhṇāti tam āpad grasate naram
69 anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā
damaḥ satyam anāyāso na bhavanti durātmanām
70 ātmajñānam anāyāsas titikṣā dharmanityatā
vāk caiva guptā dānaṃ ca naitāny antyeṣu bhārata
71 ākrośa parivādābhyāṃ vihiṃsanty abudhā budhān
vaktā pāpam upādatte kṣamamāṇo vimucyate
72 hiṃsā balam asādhūnāṃ rājñāṃ daṇḍavidhir balam
śuśrūṣā tu balaṃ strīṇāṃ kṣamāguṇavatāṃ balam
73 vāk saṃyamo hi nṛpate suduṣkaratamo mataḥ
arthavac ca vicitraṃ ca na śakyaṃ bahubhāṣitum
74 abhyāvahati kalyāṇaṃ vividhā vāk subhāṣitā
saiva durbhāṣitā rājann anarthāyopapadyate
75 saṃrohati śarair viddhaṃ vanaṃ paraśunā hatam
vācā duruktaṃ bībhatsaṃ na saṃrohati vāk kṣatam
76 karṇinālīkanārācā nirharanti śarīrataḥ
vākśalyas tu na nirhartuṃ śakyo hṛdi śayo hi saḥ
77 vāk sāyakā vadanān niṣpatanti; yair āhataḥ śocati ratry ahāni
parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu
78 yasmai devāḥ prayacchanti puruṣāya parābhavam
buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati
79 buddhau kaluṣa bhūtāyāṃ vināśe pratyupasthite
anayo nayasaṃkāśo hṛdayān nāpasarpati
80 seyaṃ buddhiḥ parītā te putrāṇāṃ tava bhārata
pāṇḍavānāṃ virodhena na cainām avabudhyase
81 rājā lakṣaṇasaṃpannas trailokyasyāpi yo bhavet
śiṣyas te śāsitā so 'stu dhṛtarāṣṭra yudhiṣṭhiraḥ
82 atīva sarvān putrāṃs te bhāgadheya puraskṛtaḥ
tejasā prajñayā caiva yukto dharmārthatattvavit
83 ānṛśaṃsyād anukrośād yo 'sau dharmabhṛtāṃ varaḥ
gauravāt tava rājendra bahūn kleśāṃs titikṣati

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

702 of 2013 Book 35% ~10 min left