Book 3: Chapter 61
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 3: Chapter 61

The Mahabharata in Sanskrit

Book 3
Chapter 61

1 बृहदश्व उवाच
सा निहत्य मृगव्याधं परतस्थे कमलेक्षणा
वनं परतिभयं शून्यं झिल्लिकागणनादितम
2 सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम
नानापक्षिगणाकीर्णं मलेच्छतस्करसेवितम
3 शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः
अर्जुनारिष्टसंछन्नं चन्दनैश च सशाल्मलैः
4 जम्ब्वाम्रलॊध्रखदिरशाकवेत्रसमाकुलम
काश्मर्यामलकप्लक्षकदम्बॊदुम्बरावृतम
5 बदरीबिल्वसंछन्नं नयग्रॊधैश च समाकुलम
परियालतालखर्जूरहरीतकबिभीतकैः
6 नानाधातुशतैर नद्धान विविधान अपि चाचलान
निकुञ्जान पक्षिसंघुष्टान दरीश चाद्भुतदर्शनाः
नदीः सरांसि वापीश च विविधांश च मृगद्विजान
7 सा बहून भीमरूपांश च पिशाचॊरगराक्षसान
पल्वलानि तडागानि गिरिकूटानि सर्वशः
सरितः सागरांश चैव ददर्शाद्भुतदर्शनान
8 यूथशॊ ददृशे चात्र विदर्भाधिपनन्दिनी
महिषान वराहान गॊमायून ऋक्षवानरपन्नगान
9 तेजसा यशसा सथित्या शरिया च परया युता
वैदर्भी विचरत्य एका नलम अन्वेषती तदा
10 नाबिभ्यत सा नृपसुता भैमी तत्राथ कस्य चित
दारुणाम अटवीं पराप्य भर्तृव्यसनकर्शिता
11 विदर्भतनया राजन विललाप सुदुःखिता
भर्तृशॊकपरीताङ्गी शिलातलसमाश्रिता
12 दमयन्त्य उवाच
सिंहॊरस्क महाबाहॊ निषधानां जनाधिप
कव नु राजन गतॊ ऽसीह तयक्त्वा मां निर्जने वने
13 अश्वमेधादिभिर वीर करतुभिः सवाप्तदक्षिणैः
कथम इष्ट्वा नरव्याघ्र मयि मिथ्या परवर्तसे
14 यत तवयॊक्तं नरव्याघ्र मत्समक्षं महाद्युते
कर्तुम अर्हसि कल्याण तद ऋतं पार्थिवर्षभ
15 यथॊक्तं विहगैर हंसैः समीपे तव भूमिप
मत्सकाशे च तैर उक्तं तद अवेक्षितुम अर्हसि
16 चत्वार एकतॊ वेदाः साङ्गॊपाङ्गाः सविस्तराः
सवधीता मानवश्रेष्ठ सत्यम एकं किलैकतः
17 तस्माद अर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर
उक्तवान असि यद वीर मत्सकाशे पुरा वचः
18 हा वीर ननु नामाहम इष्टा किल तवानघ
अस्याम अटव्यां घॊरायां किं मां न परतिभाषसे
19 भर्त्सयत्य एष मां रौद्रॊ वयात्तास्यॊ दारुणाकृतिः
अरण्यराट कषुधाविष्टः किं मां न तरातुम अर्हसि
20 न मे तवदन्या सुभगे परिया इत्य अब्रवीस तदा
ताम ऋतां कुरु कल्याणपुरॊक्तां भारतीं नृप
21 उन्मत्तां विलपन्तीं मां भार्याम इष्टां नराधिप
ईप्सिताम ईप्सितॊ नाथ किं मां न परतिभाषसे
22 कृशां दीनां विवर्णां च मलिनां वसुधाधिप
वस्त्रार्धप्रावृताम एकां विलपन्तीम अनाथवत
23 यूथभ्रष्टाम इवैकां मां हरिणीं पृथुलॊचन
न मानयसि मानार्ह रुदतीम अरिकर्शन
24 महाराज महारण्ये माम इहैकाकिनीं सतीम
आभाषमाणां सवां पत्नीं किं मां न परतिभाषसे
25 कुलशीलॊपसंपन्नं चारुसर्वाङ्गशॊभनम
नाद्य तवाम अनुपश्यामि गिराव अस्मिन नरॊत्तम
वने चास्मिन महाघॊरे सिंहव्याघ्रनिषेविते
26 शयानम उपविष्टं वा सथितं वा निषधाधिप
परस्थितं वा नरश्रेष्ठ मम शॊकविवर्धन
27 कं नु पृच्छामि दुःखार्ता तवदर्थे शॊककर्शिता
कच चिद दृष्टस तवयारण्ये संगत्येह नलॊ नृपः
28 कॊ नु मे कथयेद अद्य वने ऽसमिन विष्ठितं नलम
अभिरूपं महात्मानं परव्यूहविनाशनम
29 यम अन्वेषसि राजानं नलं पद्मनिभेक्षणम
अयं स इति कस्याद्य शरॊष्यामि मधुरां गिरम
30 अरण्यराड अयं शरीमांश चतुर्दंष्ट्रॊ महाहनुः
शार्दूलॊ ऽभिमुखः परैति पृच्छाम्य एनम अशङ्किता
31 भवान मृगाणाम अधिपस तवम अस्मिन कानने परभुः
विदर्भराजतनयां दमयन्तीति विद्धि माम
32 निषधाधिपतेर भार्यां नलस्यामित्रघातिनः
पतिम अन्वेषतीम एकां कृपणां शॊककर्शिताम
आश्वासय मृगेन्द्रेह यदि दृष्टस तवया नलः
33 अथ वारण्यनृपते नलं यदि न शंससि
माम अदस्व मृगश्रेष्ठ विशॊकां कुरु दुःखिताम
34 शरुत्वारण्ये विलपितं ममैष मृगराट सवयम
यात्य एतां मृष्टसलिलाम आपगां सागरंगमाम
35 इमं शिलॊच्चयं पुण्यं शृङ्गैर बहुभिर उच्छ्रितैः
विराजद्भिर दिवस्पृग्भिर नैकवर्णैर मनॊरमैः
36 नानाधातुसमाकीर्णं विविधॊपलभूषितम
अस्यारण्यस्य महतः केतुभूतम इवॊच्छ्रितम
37 सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम
पतत्रिभिर बहुविधैः समन्ताद अनुनादितम
38 किंशुकाशॊकबकुलपुंनागैर उपशॊभितम
सरिद्भिः सविहंगाभिः शिखरैश चॊपशॊभितम
गिरिराजम इमं तावत पृच्छामि नृपतिं परति
39 भगवन्न अचलश्रेष्ठ दिव्यदर्शनविश्रुत
शरण्य बहुकल्याण नमस ते ऽसतु महीधर
40 परणमे तवाभिगम्याहं राजपुत्रीं निबॊध माम
राज्ञः सनुषां राजभार्यां दमयन्तीति विश्रुताम
41 राजा विदर्भाधिपतिः पिता मम महारथः
भीमॊ नाम कषितिपतिश चातुर्वर्ण्यस्य रक्षिता
42 राजसूयाश्वमेधानां करतूनां दक्षिणावताम
आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः
43 बरह्मण्यः साधुवृत्तश च सत्यवाग अनसूयकः
शीलवान सुसमाचारः पृथुश्रीर धर्मविच छुचिः
44 सम्यग गॊप्ता विदर्भाणां निर्जितारिगणः परभुः
तस्य मां विद्धि तनयां भगवंस तवाम उपस्थिताम
45 निषधेषु महाशैल शवशुरॊ मे नृपॊत्तमः
सुगृहीतनामा विख्यातॊ वीरसेन इति सम ह
46 तस्य राज्ञः सुतॊ वीरः शरीमान सत्यपराक्रमः
करमप्राप्तं पितुः सवं यॊ राज्यं समनुशास्ति ह
47 नलॊ नामारिदमनः पुण्यश्लॊक इति शरुतः
बरह्मण्यॊ वेदविद वाग्मी पुण्यकृत सॊमपॊ ऽगनिचित
48 यष्टा दाता च यॊद्धा च सम्यक चैव परशासिता
तस्य माम अचलश्रेष्ठ विद्धि भार्याम इहागताम
49 तयक्तश्रियं भर्तृहीनाम अनाथां वयसनान्विताम
अन्वेषमाणां भर्तारं तं वै नरवरॊत्तमम
50 खम उल्लिखद्भिर एतैर हि तवया शृङ्गशतैर नृपः
कच चिद दृष्टॊ ऽचलश्रेष्ठ वने ऽसमिन दारुणे नलः
51 गजेन्द्रविक्रमॊ धीमान दीर्घबाहुर अमर्षणः
विक्रान्तः सत्यवाग धीरॊ भर्ता मम महायशाः
निषधानाम अधिपतिः कच चिद दृष्टस तवया नलः
52 किं मां विलपतीम एकां पर्वतश्रेष्ठ दुःखिताम
गिरा नाश्वासयस्य अद्य सवां सुताम इव दुःखिताम
53 वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते
यद्य अस्य अस्मिन वने राजन दर्शयात्मानम आत्मना
54 कदा नु सनिग्धगम्भीरां जीमूतस्वनसंनिभाम
शरॊष्यामि नैषधस्याहं वाचं ताम अमृतॊपमाम
55 वैदर्भीत्य एव कथितां शुभां राज्ञॊ महात्मनः
आम्नायसारिणीम ऋद्धां मम शॊकनिबर्हिणीम
56 इति सा तं गिरिश्रेष्ठम उक्त्वा पार्थिवनन्दिनी
दमयन्ती ततॊ भूयॊ जगाम दिशम उत्तराम
57 सा गत्वा तरीन अहॊरात्रान ददर्श परमाङ्गना
तापसारण्यम अतुलं दिव्यकाननदर्शनम
58 वसिष्ठभृग्वत्रिसमैस तापसैर उपशॊभितम
नियतैः संयताहारैर दमशौचसमन्वितैः
59 अब्भक्षैर वायुभक्षैश च पत्राहारैस तथैव च
जितेन्द्रियैर महाभागैः सवर्गमार्गदिदृक्षुभिः
60 वल्कलाजिनसंवीतैर मुनिभिः संयतेन्द्रियैः
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम
61 सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम
शाखामृगगणैश चैव तापसैश च समन्वितम
62 सुभ्रूः सुकेशी सुश्रॊणी सुकुचा सुद्विजानना
वर्चस्विनी सुप्रतिष्ठा सवञ्चितॊद्यतगामिनी
63 सा विवेशाश्रमपदं वीरसेनसुतप्रिया
यॊषिद्रत्नं महाभागा दमयन्ती मनस्विनी
64 साभिवाद्य तपॊवृद्धान विनयावनता सथिता
सवागतं त इति परॊक्ता तैः सर्वैस तापसैश च सा
65 पूजां चास्या यथान्यायं कृत्वा तत्र तपॊधनाः
आस्यताम इत्य अथॊचुस ते बरूहि किं करवामहे
66 तान उवाच वरारॊहा कच चिद भवगताम इह
तपस्य अग्निषु धर्मेषु मृगपक्षिषु चानघाः
कुशलं वॊ महाभागाः सवधर्मचरणेषु च
67 तैर उक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी
बरूहि सर्वानवद्याङ्गि का तवं किं च चिकीर्षसि
68 दृष्ट्वैव ते परं रूपं दयुतिं च परमाम इह
विस्मयॊ नः समुत्पन्नः समाश्वसिहि मा शुचः
69 अस्यारण्यस्य महती देवता वा महीभृतः
अस्या नु नद्याः कल्याणि वद सत्यम अनिन्दिते
70 साब्रवीत तान ऋषीन नाहम अरण्यस्यास्य देवता
न चाप्य अस्य गिरेर विप्रा न नद्या देवताप्य अहम
71 मानुषीं मां विजानीत यूयं सर्वे तपॊधनाः
विस्तरेणाभिधास्यामि तन मे शृणुत सर्वशः
72 विदर्भेषु महीपालॊ भीमॊ नाम महाद्युतिः
तस्य मां तनयां सर्वे जानीत दविजसत्तमाः
73 निषधाधिपतिर धीमान नलॊ नाम महायशाः
वीरः संग्रामजिद विद्वान मम भर्ता विशां पतिः
74 देवताभ्यर्चनपरॊ दविजातिजनवत्सलः
गॊप्ता निषधवंशस्य महाभागॊ महाद्युतिः
75 सत्यवाग धर्मवित पराज्ञः सत्यसंधॊ ऽरिमर्दनः
बरह्मण्यॊ दैवतपरः शरीमान परपुरंजयः
76 नलॊ नाम नृपश्रेष्ठॊ देवराजसमद्युतिः
मम भर्ता विशालाक्षः पूर्णेन्दुवदनॊ ऽरिहा
77 आहर्ता करतुमुख्यानां वेदवेदाङ्गपारगः
सपत्नानां मृधे हन्ता रविसॊमसमप्रभः
78 स कैश चिन निकृतिप्रज्ञैर अकल्याणैर नराधमैः
आहूय पृथिवीपालः सत्यधर्मपरायणः
देवने कुशलैर जिह्मैर जितॊ राज्यं वसूनि च
79 तस्य माम अवगच्छध्वं भार्यां राजर्षभस्य वै
दमयन्तीति विख्यातां भर्तृदर्शनलालसाम
80 सा वनानि गिरींश चैव सरांसि सरितस तथा
पल्वलानि च रम्याणि तथारण्यानि सर्वशः
81 अन्वेषमाणा भर्तारं नलं रणविशारदम
महात्मानं कृतास्त्रं च विचरामीह दुःखिता
82 कच चिद भगवतां पुण्यं तपॊवनम इदं नृपः
भवेत पराप्तॊ नलॊ नाम निषधानां जनाधिपः
83 यत्कृते ऽहम इदं विप्राः परपन्ना भृशदारुणम
वनं परतिभयं घॊरं शार्दूलमृगसेवितम
84 यदि कैश चिद अहॊरात्रैर न दरक्ष्यामि नलं नृपम
आत्मानं शरेयसा यॊक्ष्ये देहस्यास्य विमॊचनात
85 कॊ नु मे जीवितेनार्थस तम ऋते पुरुषर्षभम
कथं भविष्याम्य अद्याहं भर्तृशॊकाभिपीडिता
86 एवं विलपतीम एकाम अरण्ये भीमनन्दिनीम
दमयन्तीम अथॊचुस ते तापसाः सत्यवादिनः
87 उदर्कस तव कल्याणि कल्याणॊ भविता शुभे
वयं पश्याम तपसा कषिप्रं दरक्ष्यसि नैषधम
88 निषधानाम अधिपतिं नलं रिपुनिघातिनम
भैमि धर्मभृतां शरेष्ठं दरक्ष्यसे विगतज्वरम
89 विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम
तद एव नगरश्रेष्ठं परशासन्तम अरिंदमम
90 दविषतां भयकर्तारं सुहृदां शॊकनाशनम
पतिं दरक्ष्यसि कल्याणि कल्याणाभिजनं नृपम
91 एवम उक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम
अन्तर्हितास तापसास ते साग्निहॊत्राश्रमास तदा
92 सा दृष्ट्वा महद आश्चर्यं विस्मिता अभवत तदा
दमयन्त्य अनवद्याङ्गी वीरसेननृपस्नुषा
93 किं नु सवप्नॊ मया दृष्टः कॊ ऽयं विधिर इहाभवत
कव नु ते तापसाः सर्वे कव तद आश्रममण्डलम
94 कव सा पुण्यजला रम्या नानाद्विजनिषेविता
नदी ते च नगा हृद्याः फलपुष्पॊपशॊभिताः
95 धयात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता
भर्तृशॊकपरा दीना विवर्णवदनाभवत
96 सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा
विललापाश्रुपूर्णाक्षी दृष्ट्वाशॊकतरुं ततः
97 उपगम्य तरुश्रेष्ठम अशॊकं पुष्पितं तदा
पल्लवापीडितं हृद्यं विहंगैर अनुनादितम
98 अहॊ बतायम अगमः शरीमान अस्मिन वनान्तरे
आपीडैर बहुभिर भाति शरीमान दरमिडराड इव
99 विशॊकां कुरु मां कषिप्रम अशॊक परियदर्शन
वीतशॊकभयाबाधं कच चित तवं दृष्टवान नृपम
100 नलं नामारिदमनं दमयन्त्याः परियं पतिम
निषधानाम अधिपतिं दृष्टवान असि मे परियम
101 एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम
वयसनेनार्दितं वीरम अरण्यम इदम आगतम
102 यथा विशॊका गच्छेयम अशॊकनग तत कुरु
सत्यनामा भवाशॊक मम शॊकविनाशनात
103 एवं साशॊकवृक्षं तम आर्ता तरिः परिगम्य ह
जगाम दारुणतरं देशं भैमी वराङ्गना
104 सा ददर्श नगान नैकान नैकाश च सरितस तथा
नैकांश च पर्वतान रम्यान नैकांश च मृगपक्षिणः
105 कन्दरांश च नितम्बांश च नदांश चाद्भुतदर्शनान
ददर्श सा भीमसुता पतिम अन्वेषती तदा
106 गत्वा परकृष्टम अध्वानं दमयन्ती शुचिस्मिता
ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम
107 उत्तरन्तं नदीं रम्यां परसन्नसलिलां शुभाम
सुशीततॊयां विस्तीर्णां हरदिनीं वेतसैर वृताम
108 परॊद्घुष्टां करौञ्चकुररैश चक्रवाकॊपकूजिताम
कूर्मग्राहझषाकीर्णां पुलिनद्वीपशॊभिताम
109 सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी
उपसर्प्य वरारॊहा जनमध्यं विवेश ह
110 उन्मत्तरूपा शॊकार्ता तथा वस्त्रार्धसंवृता
कृशा विवर्णा मलिना पांसुध्वस्तशिरॊरुहा
111 तां दृष्ट्वा तत्र मनुजाः के चिद भीताः परदुद्रुवुः
के चिच चिन्तापरास तस्थुः के चित तत्र विचुक्रुशुः
112 परहसन्ति सम तां के चिद अभ्यसूयन्त चापरे
चक्रुस तस्यां दयां के चित पप्रच्छुश चापि भारत
113 कासि कस्यासि कल्याणि किं वा मृगयसे वने
तवां दृष्ट्वा वयथिताः समेह कच चित तवम असि मानुषी
114 वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः
देवता तवं हि कल्याणि तवां वयं शरणं गताः
115 यक्षी वा राक्षसी वा तवम उताहॊ ऽसि वराङ्गना
सर्वथा कुरु नः सवस्ति रक्षस्वास्मान अनिन्दिते
116 यथायं सर्वथा सार्थः कषेमी शीघ्रम इतॊ वरजेत
तथा विधत्स्व कल्याणि तवां वयं शरणं गताः
117 परत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता
सार्थवाहं च सार्थं च जना ये चात्र के चन
118 मानुषीं मां विजानीत मनुजाधिपतेः सुताम
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम
119 विदर्भराण मम पिता भर्ता राजा च नैषधः
नलॊ नाम महाभागस तं मार्गाम्य अपराजितम
120 यदि जानीत नृपतिं कषिप्रं शंसत मे परियम
नलं पार्थिवशार्दूलम अमित्रगणसूदनम
121 ताम उवाचानवद्याङ्गीं सार्थस्य महतः परभुः
सार्थवाहः शुचिर नाम शृणु कल्याणि मद्वचः
122 अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते
मनुष्यं नलनामानं न पश्यामि यशस्विनि
123 कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगान अपि
पश्याम्य अस्मिन वने कष्टे अमनुष्यनिषेविते
तथा नॊ यक्षराड अद्य मणिभद्रः परसीदतु
124 साब्रवीद वणिजः सर्वान सार्थवाहं च तं ततः
कव नु यास्यसि सार्थॊ ऽयम एतद आख्यातुम अर्हथ
125 सार्थवाह उवाच
सार्थॊ ऽयं चेदिराजस्य सुबाहॊर सत्यवादिनः
कषिप्रं जनपदं गन्ता लाभाय मनुजात्मजे
1 bṛhadaśva uvāca
sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā
vanaṃ pratibhayaṃ śūnyaṃ jhillikāgaṇanāditam
2 siṃhavyāghravarāharkṣarurudvīpiniṣevitam
nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam
3 śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ
arjunāriṣṭasaṃchannaṃ candanaiś ca saśālmalaiḥ
4 jambvāmralodhrakhadiraśākavetrasamākulam
kāśmaryāmalakaplakṣakadambodumbarāvṛtam
5 badarībilvasaṃchannaṃ nyagrodhaiś ca samākulam
priyālatālakharjūraharītakabibhītakaiḥ
6 nānādhātuśatair naddhān vividhān api cācalān
nikuñjān pakṣisaṃghuṣṭān darīś cādbhutadarśanāḥ
nadīḥ sarāṃsi vāpīś ca vividhāṃś ca mṛgadvijān
7 sā bahūn bhīmarūpāṃś ca piśācoragarākṣasān
palvalāni taḍāgāni girikūṭāni sarvaśaḥ
saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān
8 yūthaśo dadṛśe cātra vidarbhādhipanandinī
mahiṣān varāhān gomāyūn ṛkṣavānarapannagān
9 tejasā yaśasā sthityā śriyā ca parayā yutā
vaidarbhī vicaraty ekā nalam anveṣatī tadā
10 nābibhyat sā nṛpasutā bhaimī tatrātha kasya cit
dāruṇām aṭavīṃ prāpya bhartṛvyasanakarśitā
11 vidarbhatanayā rājan vilalāpa suduḥkhitā
bhartṛśokaparītāṅgī śilātalasamāśritā
12 damayanty uvāca
siṃhoraska mahābāho niṣadhānāṃ janādhipa
kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane
13 aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ
katham iṣṭvā naravyāghra mayi mithyā pravartase
14 yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute
kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha
15 yathoktaṃ vihagair haṃsaiḥ samīpe tava bhūmipa
matsakāśe ca tair uktaṃ tad avekṣitum arhasi
16 catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ
svadhītā mānavaśreṣṭha satyam ekaṃ kilaikataḥ
17 tasmād arhasi śatrughna satyaṃ kartuṃ nareśvara
uktavān asi yad vīra matsakāśe purā vacaḥ
18 hā vīra nanu nāmāham iṣṭā kila tavānagha
asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase
19 bhartsayaty eṣa māṃ raudro vyāttāsyo dāruṇākṛtiḥ
araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi
20 na me tvadanyā subhage priyā ity abravīs tadā
tām ṛtāṃ kuru kalyāṇapuroktāṃ bhāratīṃ nṛpa
21 unmattāṃ vilapantīṃ māṃ bhāryām iṣṭāṃ narādhipa
īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase
22 kṛśāṃ dīnāṃ vivarṇāṃ ca malināṃ vasudhādhipa
vastrārdhaprāvṛtām ekāṃ vilapantīm anāthavat
23 yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana
na mānayasi mānārha rudatīm arikarśana
24 mahārāja mahāraṇye mām ihaikākinīṃ satīm
ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase
25 kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam
nādya tvām anupaśyāmi girāv asmin narottama
vane cāsmin mahāghore siṃhavyāghraniṣevite
26 śayānam upaviṣṭaṃ vā sthitaṃ vā niṣadhādhipa
prasthitaṃ vā naraśreṣṭha mama śokavivardhana
27 kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā
kac cid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ
28 ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam
abhirūpaṃ mahātmānaṃ paravyūhavināśanam
29 yam anveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam
ayaṃ sa iti kasyādya śroṣyāmi madhurāṃ giram
30 araṇyarāḍ ayaṃ śrīmāṃś caturdaṃṣṭro mahāhanuḥ
śārdūlo 'bhimukhaḥ praiti pṛcchāmy enam aśaṅkitā
31 bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ
vidarbharājatanayāṃ damayantīti viddhi mām
32 niṣadhādhipater bhāryāṃ nalasyāmitraghātinaḥ
patim anveṣatīm ekāṃ kṛpaṇāṃ śokakarśitām
āśvāsaya mṛgendreha yadi dṛṣṭas tvayā nalaḥ
33 atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi
mām adasva mṛgaśreṣṭha viśokāṃ kuru duḥkhitām
34 śrutvāraṇye vilapitaṃ mamaiṣa mṛgarāṭ svayam
yāty etāṃ mṛṣṭasalilām āpagāṃ sāgaraṃgamām
35 imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ
virājadbhir divaspṛgbhir naikavarṇair manoramaiḥ
36 nānādhātusamākīrṇaṃ vividhopalabhūṣitam
asyāraṇyasya mahataḥ ketubhūtam ivocchritam
37 siṃhaśārdūlamātaṅgavarāharkṣamṛgāyutam
patatribhir bahuvidhaiḥ samantād anunāditam
38 kiṃśukāśokabakulapuṃnāgair upaśobhitam
saridbhiḥ savihaṃgābhiḥ śikharaiś copaśobhitam
girirājam imaṃ tāvat pṛcchāmi nṛpatiṃ prati
39 bhagavann acalaśreṣṭha divyadarśanaviśruta
śaraṇya bahukalyāṇa namas te 'stu mahīdhara
40 praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām
rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām
41 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ
bhīmo nāma kṣitipatiś cāturvarṇyasya rakṣitā
42 rājasūyāśvamedhānāṃ kratūnāṃ dakṣiṇāvatām
āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ
43 brahmaṇyaḥ sādhuvṛttaś ca satyavāg anasūyakaḥ
śīlavān susamācāraḥ pṛthuśrīr dharmavic chuciḥ
44 samyag goptā vidarbhāṇāṃ nirjitārigaṇaḥ prabhuḥ
tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām
45 niṣadheṣu mahāśaila śvaśuro me nṛpottamaḥ
sugṛhītanāmā vikhyāto vīrasena iti sma ha
46 tasya rājñaḥ suto vīraḥ śrīmān satyaparākramaḥ
kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuśāsti ha
47 nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ
brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit
48 yaṣṭā dātā ca yoddhā ca samyak caiva praśāsitā
tasya mām acalaśreṣṭha viddhi bhāryām ihāgatām
49 tyaktaśriyaṃ bhartṛhīnām anāthāṃ vyasanānvitām
anveṣamāṇāṃ bhartāraṃ taṃ vai naravarottamam
50 kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ
kac cid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ
51 gajendravikramo dhīmān dīrghabāhur amarṣaṇaḥ
vikrāntaḥ satyavāg dhīro bhartā mama mahāyaśāḥ
niṣadhānām adhipatiḥ kac cid dṛṣṭas tvayā nalaḥ
52 kiṃ māṃ vilapatīm ekāṃ parvataśreṣṭha duḥkhitām
girā nāśvāsayasy adya svāṃ sutām iva duḥkhitām
53 vīra vikrānta dharmajña satyasaṃdha mahīpate
yady asy asmin vane rājan darśayātmānam ātmanā
54 kadā nu snigdhagambhīrāṃ jīmūtasvanasaṃnibhām
śroṣyāmi naiṣadhasyāhaṃ vācaṃ tām amṛtopamām
55 vaidarbhīty eva kathitāṃ śubhāṃ rājño mahātmanaḥ
āmnāyasāriṇīm ṛddhāṃ mama śokanibarhiṇīm
56 iti sā taṃ giriśreṣṭham uktvā pārthivanandinī
damayantī tato bhūyo jagāma diśam uttarām
57 sā gatvā trīn ahorātrān dadarśa paramāṅganā
tāpasāraṇyam atulaṃ divyakānanadarśanam
58 vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam
niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ
59 abbhakṣair vāyubhakṣaiś ca patrāhārais tathaiva ca
jitendriyair mahābhāgaiḥ svargamārgadidṛkṣubhiḥ
60 valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ
tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam
61 sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam
śākhāmṛgagaṇaiś caiva tāpasaiś ca samanvitam
62 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā
varcasvinī supratiṣṭhā svañcitodyatagāminī
63 sā viveśāśramapadaṃ vīrasenasutapriyā
yoṣidratnaṃ mahābhāgā damayantī manasvinī
64 sābhivādya tapovṛddhān vinayāvanatā sthitā
svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā
65 pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ
āsyatām ity athocus te brūhi kiṃ karavāmahe
66 tān uvāca varārohā kac cid bhavagatām iha
tapasy agniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ
kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca
67 tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī
brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi
68 dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha
vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ
69 asyāraṇyasya mahatī devatā vā mahībhṛtaḥ
asyā nu nadyāḥ kalyāṇi vada satyam anindite
70 sābravīt tān ṛṣīn nāham araṇyasyāsya devatā
na cāpy asya girer viprā na nadyā devatāpy aham
71 mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ
vistareṇābhidhāsyāmi tan me śṛṇuta sarvaśaḥ
72 vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ
tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ
73 niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ
vīraḥ saṃgrāmajid vidvān mama bhartā viśāṃ patiḥ
74 devatābhyarcanaparo dvijātijanavatsalaḥ
goptā niṣadhavaṃśasya mahābhāgo mahādyutiḥ
75 satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ
brahmaṇyo daivataparaḥ śrīmān parapuraṃjayaḥ
76 nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ
mama bhartā viśālākṣaḥ pūrṇenduvadano 'rihā
77 āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ
sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ
78 sa kaiś cin nikṛtiprajñair akalyāṇair narādhamaiḥ
āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ
devane kuśalair jihmair jito rājyaṃ vasūni ca
79 tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai
damayantīti vikhyātāṃ bhartṛdarśanalālasām
80 sā vanāni girīṃś caiva sarāṃsi saritas tathā
palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ
81 anveṣamāṇā bhartāraṃ nalaṃ raṇaviśāradam
mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā
82 kac cid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ
bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ
83 yatkṛte 'ham idaṃ viprāḥ prapannā bhṛśadāruṇam
vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam
84 yadi kaiś cid ahorātrair na drakṣyāmi nalaṃ nṛpam
ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt
85 ko nu me jīvitenārthas tam ṛte puruṣarṣabham
kathaṃ bhaviṣyāmy adyāhaṃ bhartṛśokābhipīḍitā
86 evaṃ vilapatīm ekām araṇye bhīmanandinīm
damayantīm athocus te tāpasāḥ satyavādinaḥ
87 udarkas tava kalyāṇi kalyāṇo bhavitā śubhe
vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham
88 niṣadhānām adhipatiṃ nalaṃ ripunighātinam
bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram
89 vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam
tad eva nagaraśreṣṭhaṃ praśāsantam ariṃdamam
90 dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam
patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam
91 evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām
antarhitās tāpasās te sāgnihotrāśramās tadā
92 sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā
damayanty anavadyāṅgī vīrasenanṛpasnuṣā
93 kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat
kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam
94 kva sā puṇyajalā ramyā nānādvijaniṣevitā
nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ
95 dhyātvā ciraṃ bhīmasutā damayantī śucismitā
bhartṛśokaparā dīnā vivarṇavadanābhavat
96 sā gatvāthāparāṃ bhūmiṃ bāṣpasaṃdigdhayā girā
vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ
97 upagamya taruśreṣṭham aśokaṃ puṣpitaṃ tadā
pallavāpīḍitaṃ hṛdyaṃ vihaṃgair anunāditam
98 aho batāyam agamaḥ śrīmān asmin vanāntare
āpīḍair bahubhir bhāti śrīmān dramiḍarāḍ iva
99 viśokāṃ kuru māṃ kṣipram aśoka priyadarśana
vītaśokabhayābādhaṃ kac cit tvaṃ dṛṣṭavān nṛpam
100 nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim
niṣadhānām adhipatiṃ dṛṣṭavān asi me priyam
101 ekavastrārdhasaṃvītaṃ sukumāratanutvacam
vyasanenārditaṃ vīram araṇyam idam āgatam
102 yathā viśokā gaccheyam aśokanaga tat kuru
satyanāmā bhavāśoka mama śokavināśanāt
103 evaṃ sāśokavṛkṣaṃ tam ārtā triḥ parigamya ha
jagāma dāruṇataraṃ deśaṃ bhaimī varāṅganā
104 sā dadarśa nagān naikān naikāś ca saritas tathā
naikāṃś ca parvatān ramyān naikāṃś ca mṛgapakṣiṇaḥ
105 kandarāṃś ca nitambāṃś ca nadāṃś cādbhutadarśanān
dadarśa sā bhīmasutā patim anveṣatī tadā
106 gatvā prakṛṣṭam adhvānaṃ damayantī śucismitā
dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam
107 uttarantaṃ nadīṃ ramyāṃ prasannasalilāṃ śubhām
suśītatoyāṃ vistīrṇāṃ hradinīṃ vetasair vṛtām
108 prodghuṣṭāṃ krauñcakuraraiś cakravākopakūjitām
kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām
109 sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī
upasarpya varārohā janamadhyaṃ viveśa ha
110 unmattarūpā śokārtā tathā vastrārdhasaṃvṛtā
kṛśā vivarṇā malinā pāṃsudhvastaśiroruhā
111 tāṃ dṛṣṭvā tatra manujāḥ ke cid bhītāḥ pradudruvuḥ
ke cic cintāparās tasthuḥ ke cit tatra vicukruśuḥ
112 prahasanti sma tāṃ ke cid abhyasūyanta cāpare
cakrus tasyāṃ dayāṃ ke cit papracchuś cāpi bhārata
113 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane
tvāṃ dṛṣṭvā vyathitāḥ smeha kac cit tvam asi mānuṣī
114 vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ
devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ
115 yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā
sarvathā kuru naḥ svasti rakṣasvāsmān anindite
116 yathāyaṃ sarvathā sārthaḥ kṣemī śīghram ito vrajet
tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ
117 pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā
sārthavāhaṃ ca sārthaṃ ca janā ye cātra ke cana
118 mānuṣīṃ māṃ vijānīta manujādhipateḥ sutām
nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām
119 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ
nalo nāma mahābhāgas taṃ mārgāmy aparājitam
120 yadi jānīta nṛpatiṃ kṣipraṃ śaṃsata me priyam
nalaṃ pārthivaśārdūlam amitragaṇasūdanam
121 tām uvācānavadyāṅgīṃ sārthasya mahataḥ prabhuḥ
sārthavāhaḥ śucir nāma śṛṇu kalyāṇi madvacaḥ
122 ahaṃ sārthasya netā vai sārthavāhaḥ śucismite
manuṣyaṃ nalanāmānaṃ na paśyāmi yaśasvini
123 kuñjaradvīpimahiṣaśārdūlarkṣamṛgān api
paśyāmy asmin vane kaṣṭe amanuṣyaniṣevite
tathā no yakṣarāḍ adya maṇibhadraḥ prasīdatu
124 sābravīd vaṇijaḥ sarvān sārthavāhaṃ ca taṃ tataḥ
kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha
125 sārthavāha uvāca
sārtho 'yaṃ cedirājasya subāhor satyavādinaḥ
kṣipraṃ janapadaṃ gantā lābhāya manujātmaje

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

361 of 2013 Book 18% ~13 min left