Book 3: Chapter 34
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 3: Chapter 34

The Mahabharata in Sanskrit

Book 3
Chapter 34

1 [वै]
याज्ञसेन्या वचः शरुत्वा भीमसेनॊ ऽतयमर्षणः
निःश्वसन्न उपसंगम्य करुद्धॊ राजानम अब्रवीत
2 राज्यस्य पदवीं धर्म्यां वरज सत्पुरुषॊचिताम
धर्मकामार्थ हीनानां किं नॊ वस्तुं तपॊवने
3 नैव धर्मेण तद राज्यं नार्जवेन न चौजसा
अक्षकूटम अधिष्ठाय हृतं दुर्यॊधनेन नः
4 गॊमायुनेव सिंहानां दुर्बलेन बलीयसाम
आमिषं विघसाशेन तद्वद राज्यं हि नॊ हृतम
5 धर्मलेश परतिच्छन्नः परभवं धर्मकामयॊः
अर्थम उत्सृज्य किं राजन दुर्गेषु परितप्यसे
6 भवतॊ ऽनुविधानेन राज्यं नः पश्यतां हृतम
अहार्यम अपि शक्रेण गुप्तं गाण्डीवधन्वना
7 कुणीनाम इव बिल्वानि पङ्गूनाम इव धेनवः
हृतम ऐश्वर्यम अस्माकं जीवतां भवतः कृते
8 भवतः परियम इत्य एवं महद वयसनम ईदृशम
धर्मकामे परतीतस्य परतिपन्नाः सम भारत
9 कर्शयामः सवमित्राणि नन्दयामश च शात्रवान
आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ
10 यद वयं न तदैवैतान धार्तराष्ट्रान निहन्महि
भवतः शास्त्रम आदाय तन नस तपति दुष्कृतम
11 अथैनाम अन्ववेक्षस्व मृगचर्याम इवात्मनः
अवीराचरितां राजन न बलस्थैर निषेविताम
12 यां न कृष्णॊ न बीभत्सुर नाभिमन्युर न सृञ्जयः
न चाहम अभिनन्दामि न च माद्री सुताव उभौ
13 भवान धर्मॊ धर्म इति सततं वरतकर्शितः
कच चिद राजन न निर्वेदाद आपन्नः कलीब जीविकाम
14 दुर्मनुष्यां हि निर्वेदम अफलं सर्वघातिनाम
अशक्ताः शरियम आहर्तुम आत्मनः कुर्वते परियम
15 स भवान दृष्टिमाञ शक्तः पश्यन्न आत्मनि पौरुषम
आनृशंस्य परॊ राजन नानर्थम अवबुध्यसे
16 अस्मान अमी धार्तराष्ट्राः कषममाणान अलं सतः
अशक्तान एव मन्यन्ते तद्दुःखं नाहवे वधः
17 तत्र चेद युध्यमानानाम अजिह्मम अनिवर्तिनाम
सर्वशॊ हि वधः शरेयान परेत्य लॊकाँल लभेमहि
18 अथ वा वयम एवैतान निहत्य भरतर्षभ
आददीमहि गां सर्वां तथापि शरेय एव नः
19 सर्वथा कार्यम एतन नः सवधर्मम अनुतिष्ठताम
काङ्क्षतां विपुलां कीर्तिं वैरं परतिचिकीर्षताम
20 आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे
अन्यैर अपहृते राज्ये परशंसैव न गर्हणा
21 कर्शनार्थॊ हि यॊ धर्मॊ मित्राणाम आत्मनस तथा
वयसनं नाम तद राजन न सा धर्मः कुधर्म तत
22 सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम
जहतस तात धर्मार्थौ परेतं दुःखसुखे यथा
23 यस्य धर्मॊ हि धर्मार्थं कलेशभान न स पण्डितः
न स धर्मस्य वेदार्थं सूर्यस्यान्धः परभाम इव
24 यस्य चार्थार्थम एवार्थः स च नार्थस्य कॊविदः
रक्षते भृतकॊ ऽरण्यं यथा सयात तादृग एव सः
25 अतिवेलं हि यॊ ऽरथार्थी नेतराव अनुतिष्ठति
स वध्यः सर्वभूतानां बरह्महेव जुगुप्सितः
26 सततं यश च कामार्थी नेतराव अनुतिष्ठति
मित्राणि तस्य नश्यन्ति धर्मार्थाब्भ्यां च हीयते
27 तस्य धर्मार्थहीनस्य कामान्ते निधनं धरुवम
कामतॊ रममाणस्य मीनस्येवाम्भसः कषये
28 तस्माद धर्मार्थयॊर नित्यं न परमाद्यन्ति पण्डिताः
परकृतिः सा हि कामस्य पावकस्यारणिर यथा
29 सर्वथा धर्ममूलॊ ऽरथॊ धर्मश चार्थपरिग्रहः
इतरेतर यॊनी तौ विद्धि मेघॊदधी यथा
30 दरव्यार्थ सपर्शसंयॊगे या परीतिर उपजायते
स कामश चित्तसंकल्पः शरीरं नास्य विद्यते
31 अर्थार्थी पुरुषॊ राजन बृहन्तं धर्मम ऋच्छति
अर्थम ऋच्छति कामार्थी न कामाद अन्यम ऋच्छती
32 न हि कामेन कामॊ ऽनयः साध्यते फलम एव तत
उपयॊगात फलस्येव काष्ठाद भस्मेव पण्डितः
33 इमाञ शकुनिकान राजन हन्ति वैतंसिकॊ यथा
एतद रूपम अधर्मस्य भूतेषु च विहिंसताम
34 कामाल लॊभाच च धर्मस्य परवृत्तिं यॊ न पश्यति
स वध्यः सर्वभूतानां परेत्य चेह च दुर्मतिः
35 वयक्तं ते विदितॊ राजन्न अर्थॊ दरव्यपरिग्रहः
परकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम
36 तस्य नाशं विनाशं वा जरया मरणेन वा
अनर्थम इति मन्यन्ते सॊ ऽयम अस्मासु वर्तते
37 इन्द्रियाणां च पञ्चानां मनसॊ हृदयस्य च
विषये वर्तमानानां या परीतिर उपजायते
स काम इति मे बुद्धिः कर्मणां फलम उत्तमम
38 एवम एव पृथग दृष्ट्वा धर्मार्थौ कामम एव च
न धर्मपर एव सयान नाथार्थ परमॊ नरः
न कामपरमॊ वा सयात सर्वान सेवेत सर्वदा
39 धर्मं पूर्वं धनं मध्ये जघन्ये कामम आचरेत
अहन्य अनुचरेद एवम एष शास्त्रकृतॊ विधिः
40 कामं पूर्वं धनं मध्ये जघन्ये धर्मम आचरेत
वयस्य अनुचरेद एवम एष शास्त्रकृतॊ विधिः
41 धर्मं चार्थं च कामं च यथावद वदतां वर
विभज्य काले कालज्ञः सर्वान सेवेत पण्डितः
42 मॊक्षॊ वा परमं शरेय एष राजन सुखार्थिनाम
पराप्तिर वा बुद्धिम आस्थाय सॊपायं कुरुनन्दन
43 तद वाशु करियतां राजन पराप्तिर वाप्य अधिगम्यताम
जीवितं हय आतुरस्येव दुःखम अन्तरवर्तिनः
44 विदितश चैव ते धर्मः सततं चरितश च ते
जानते तवयि शंसन्ति सुहृदः कर्मचॊदनाम
45 दानं यज्ञं सतां पूजा वेद धारणम आर्जवम
एष धर्मः परॊ राजन फलवान परेत्य चेह च
46 एष नार्थविहीनेन शक्यॊ राजन निषेवितुम
अखिलाः पुरुषव्याघ्र गुणाः सयुर यद्य अपीतरे
47 धर्ममूलं जगद राजन नान्यद धर्माद विशिष्यते
धर्मश चार्थेन महता शक्यॊ राजन निषेवितुम
48 न चार्थॊ भैक्ष चर्येण नापि कलैब्येन कर्हि चित
वेत्तुं शक्यः सदा राजन केवलं धर्मबुद्धिना
49 परतिषिद्धा हि ते याच्ञा यया सिध्यति वै दविजः
तेजसैवार्थ लिप्सायां यतस्व पुरुषर्षभ
50 भैक्ष चर्या न विहिता न च विट शूद्र जीविका
कषत्रियस्य विशेषेण धर्मस तु बलम औरसम
51 उदारम एव विद्वांसॊ धर्मं पराहुर मनीषिणः
उदारं परतिपद्यस्व नावरे सथातुम अर्हसि
52 अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान सनातनान
करूरकर्माभिजातॊ ऽसि यस्माद उद्विजते जनः
53 परजापालनसंभूतं फलं तव न गर्हितम
एष ते विहितॊ राजन धात्रा धर्मः सनातनः
54 तस्माद विचलितः पार्थ लॊके हास्यं गमिष्यसि
सवधर्माद धि मनुष्याणां चलनं न परशस्यते
55 स कषात्रं हृदयं कृत्वा तयक्त्वेदं शिथिलं मनः
वीर्यम आस्थाय कौन्तेय धुरम उद्वह धुर्यवत
56 न हि केवलधर्मात्मा पृथिवीं जातु कश चन
पार्थिवॊ वयजयद राजन न भूतिं न पुनः शरियम
57 जिह्वां दत्त्वा बहूनां हि कषुद्राणां लुब्ध चेतसाम
निकृत्या लभते राज्यम आहारम इव शल्यकः
58 भरातरः पूर्वजाताश च सुसमृद्धाश च सर्वशः
निकृत्या निर्जिता देवैर असुराः पाण्डवर्षभ
59 एवं बलवतः सर्वम इति बुद्ध्वा महीपते
जहि शत्रून महाबाहॊ परां निकृतिम आस्थितः
60 न हय अर्जुन समः कश चिद युधि यॊद्धा धनुर्धरः
भविता वा पुमान कश चिन मत्समॊ वा गदाधरः
61 सत्त्वेन कुरुते युद्धं राजन सुबलवान अपि
न परमाणेन नॊत्साहात सत्त्वस्थॊ भव पाण्डव
62 सत्त्वं हि मूलम अर्थस्य वितथं यद अयॊ ऽनयथा
न तु परसक्तं भवति वृक्षच छायेव हैमनी
63 अर्थत्यागॊ हि कार्यः सयाद अर्थं शरेयांसम इच्छता
बीजौपम्येन कौन्तेय मा ते भूद अत्र संशयः
64 अर्थेन तु समॊ ऽनर्थॊ यत्र लभ्येत नॊदयः
न तत्र विपणः कार्यः खरकण्डूयितं हि तत
65 एवम एव मनुष्येन्द्र धर्मं तयक्त्वाल्पकं नरः
बृहन्तं धर्मम आप्नॊति स बुद्ध इति निश्चितः
66 अमित्रं मित्रसंपन्नं मित्रैर भिन्दन्ति पण्डिताः
भिन्नैर मित्रैः परित्यक्तं दुर्बलं कुरुते वशे
67 सत्त्वेन कुरुते युद्धं राजन सुबलवान अपि
नॊद्यमेन न हॊत्राब्भिः सर्वाः सवीकुरुते परजाः
68 सर्वथा संहतैर एव दुर्बलैर बलवान अपि
अमित्रः शक्यते हन्तुं मधुहा भरमरैर इव
69 यथा राजन परजाः सर्वाः सूर्यः पाति गभस्तिभिः
अत्ति चैव तथैव तवं सवितुः सदृशॊ भव
70 एतद धयपि तपॊ राजन पुराणम इति नः शरुतम
विधिना पालनं भूमेर यत्कृतं नः पितामहैः
71 अपेयात किल भाः सूर्याल लक्ष्मीश चन्द्रमसस तथा
इति लॊके वयवसितॊ दृष्ट्वेमां भवतॊ वयथाम
72 भवतश च परशंसाभिर निन्दाभिर इतरस्य च
कथा युक्ताः परिषदः पृथग राजन समागताः
73 इदम अभ्यधिकं राजन बराह्मणा गुरवश च ते
समेताः कथयन्तीह मुदिताः सत्यसंधताम
74 यन न मॊहान न कार्पण्यान न लॊभान न भयाद अपि
अनृतं किं चिद उक्तं ते न कामान नार्थकारणात
75 यद एनः कुरुते किं चिद राजा भूमिम इवाप्नुवन
सर्वं तन नुदते पश्चाद यज्ञैर विपुलदक्षिणैः
76 बराह्मणेभ्यॊ ददद गरामान गाश च राजन सहस्रशः
मुच्यते सर्वपापेभ्यस तमॊभ्य इव चन्द्रमाः
77 पौरजानपदाः सर्वे परायशः कुरुनन्दन
सवृद्धबालाः सहिताः शंसन्ति तवां युधिष्ठिर
78 शवदृतौ कषीरम आसक्तं बरह्म वा वृषले यथा
सत्यं सतेने बलं नार्यां राज्यं दुर्यॊधने तथा
79 इति निर्वचनं लॊके चिरं चरति भारत
अपि चैतत सत्रियॊ बालाः सवाध्यायम इव कुर्वते
80 स भवान रथम आस्थाय सर्वॊपकरणान्वितम
तवरमाणॊ ऽभिनिर्यातु चिरम अर्थॊपपादकम
81 वाचयित्वा दविजश्रेष्ठान अद्यैव गजसाह्वयम
अस्त्रविद्भिः परिवृतॊ भरातृभिर दृठ धन्विभिः
आशीविषसमैर वीरैर मरुद्भिर इव वृत्रहा
82 शरियम आदत्स्व कौन्तेय धार्तराष्ट्रान महाबल
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम
83 सपर्शम आशीविषाभानां मर्त्यः कश चन संसहेत
न स वीरॊ न मातङ्गॊ न सदश्वॊ ऽसति भारत
84 यः सहेत गदा वेगं मम करुद्धस्य संयुगे
सृञ्जयैः सह कैकेयैर वृष्णीनाम ऋषभेण च
85 कथं सविद युधि कौन्तेय राज्यं न पराप्नुयामहे
1 [vai]
yājñasenyā vacaḥ śrutvā bhīmaseno 'tyamarṣaṇaḥ
niḥśvasann upasaṃgamya kruddho rājānam abravīt
2 rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām
dharmakāmārtha hīnānāṃ kiṃ no vastuṃ tapovane
3 naiva dharmeṇa tad rājyaṃ nārjavena na caujasā
akṣakūṭam adhiṣṭhāya hṛtaṃ duryodhanena naḥ
4 gomāyuneva siṃhānāṃ durbalena balīyasām
āmiṣaṃ vighasāśena tadvad rājyaṃ hi no hṛtam
5 dharmaleśa praticchannaḥ prabhavaṃ dharmakāmayoḥ
artham utsṛjya kiṃ rājan durgeṣu paritapyase
6 bhavato 'nuvidhānena rājyaṃ naḥ paśyatāṃ hṛtam
ahāryam api śakreṇa guptaṃ gāṇḍīvadhanvanā
7 kuṇīnām iva bilvāni paṅgūnām iva dhenavaḥ
hṛtam aiśvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte
8 bhavataḥ priyam ity evaṃ mahad vyasanam īdṛśam
dharmakāme pratītasya pratipannāḥ sma bhārata
9 karśayāmaḥ svamitrāṇi nandayāmaś ca śātravān
ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha
10 yad vayaṃ na tadaivaitān dhārtarāṣṭrān nihanmahi
bhavataḥ śāstram ādāya tan nas tapati duṣkṛtam
11 athainām anvavekṣasva mṛgacaryām ivātmanaḥ
avīrācaritāṃ rājan na balasthair niṣevitām
12 yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ
na cāham abhinandāmi na ca mādrī sutāv ubhau
13 bhavān dharmo dharma iti satataṃ vratakarśitaḥ
kac cid rājan na nirvedād āpannaḥ klība jīvikām
14 durmanuṣyāṃ hi nirvedam aphalaṃ sarvaghātinām
aśaktāḥ śriyam āhartum ātmanaḥ kurvate priyam
15 sa bhavān dṛṣṭimāñ śaktaḥ paśyann ātmani pauruṣam
ānṛśaṃsya paro rājan nānartham avabudhyase
16 asmān amī dhārtarāṣṭrāḥ kṣamamāṇān alaṃ sataḥ
aśaktān eva manyante tadduḥkhaṃ nāhave vadhaḥ
17 tatra ced yudhyamānānām ajihmam anivartinām
sarvaśo hi vadhaḥ śreyān pretya lokāṁl labhemahi
18 atha vā vayam evaitān nihatya bharatarṣabha
ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ
19 sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām
kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām
20 ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe
anyair apahṛte rājye praśaṃsaiva na garhaṇā
21 karśanārtho hi yo dharmo mitrāṇām ātmanas tathā
vyasanaṃ nāma tad rājan na sā dharmaḥ kudharma tat
22 sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam
jahatas tāta dharmārthau pretaṃ duḥkhasukhe yathā
23 yasya dharmo hi dharmārthaṃ kleśabhān na sa paṇḍitaḥ
na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva
24 yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ
rakṣate bhṛtako 'raṇyaṃ yathā syāt tādṛg eva saḥ
25 ativelaṃ hi yo 'rthārthī netarāv anutiṣṭhati
sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ
26 satataṃ yaś ca kāmārthī netarāv anutiṣṭhati
mitrāṇi tasya naśyanti dharmārthābbhyāṃ ca hīyate
27 tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam
kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye
28 tasmād dharmārthayor nityaṃ na pramādyanti paṇḍitāḥ
prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā
29 sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ
itaretara yonī tau viddhi meghodadhī yathā
30 dravyārtha sparśasaṃyoge yā prītir upajāyate
sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate
31 arthārthī puruṣo rājan bṛhantaṃ dharmam ṛcchati
artham ṛcchati kāmārthī na kāmād anyam ṛcchatī
32 na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat
upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ
33 imāñ śakunikān rājan hanti vaitaṃsiko yathā
etad rūpam adharmasya bhūteṣu ca vihiṃsatām
34 kāmāl lobhāc ca dharmasya pravṛttiṃ yo na paśyati
sa vadhyaḥ sarvabhūtānāṃ pretya ceha ca durmatiḥ
35 vyaktaṃ te vidito rājann artho dravyaparigrahaḥ
prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm
36 tasya nāśaṃ vināśaṃ vā jarayā maraṇena vā
anartham iti manyante so 'yam asmāsu vartate
37 indriyāṇāṃ ca pañcānāṃ manaso hṛdayasya ca
viṣaye vartamānānāṃ yā prītir upajāyate
sa kāma iti me buddhiḥ karmaṇāṃ phalam uttamam
38 evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca
na dharmapara eva syān nāthārtha paramo naraḥ
na kāmaparamo vā syāt sarvān seveta sarvadā
39 dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmam ācaret
ahany anucared evam eṣa śāstrakṛto vidhiḥ
40 kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmam ācaret
vayasy anucared evam eṣa śāstrakṛto vidhiḥ
41 dharmaṃ cārthaṃ ca kāmaṃ ca yathāvad vadatāṃ vara
vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ
42 mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām
prāptir vā buddhim āsthāya sopāyaṃ kurunandana
43 tad vāśu kriyatāṃ rājan prāptir vāpy adhigamyatām
jīvitaṃ hy āturasyeva duḥkham antaravartinaḥ
44 viditaś caiva te dharmaḥ satataṃ caritaś ca te
jānate tvayi śaṃsanti suhṛdaḥ karmacodanām
45 dānaṃ yajñaṃ satāṃ pūjā veda dhāraṇam ārjavam
eṣa dharmaḥ paro rājan phalavān pretya ceha ca
46 eṣa nārthavihīnena śakyo rājan niṣevitum
akhilāḥ puruṣavyāghra guṇāḥ syur yady apītare
47 dharmamūlaṃ jagad rājan nānyad dharmād viśiṣyate
dharmaś cārthena mahatā śakyo rājan niṣevitum
48 na cārtho bhaikṣa caryeṇa nāpi klaibyena karhi cit
vettuṃ śakyaḥ sadā rājan kevalaṃ dharmabuddhinā
49 pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ
tejasaivārtha lipsāyāṃ yatasva puruṣarṣabha
50 bhaikṣa caryā na vihitā na ca viṭ śūdra jīvikā
kṣatriyasya viśeṣeṇa dharmas tu balam aurasam
51 udāram eva vidvāṃso dharmaṃ prāhur manīṣiṇaḥ
udāraṃ pratipadyasva nāvare sthātum arhasi
52 anubudhyasva rājendra vettha dharmān sanātanān
krūrakarmābhijāto 'si yasmād udvijate janaḥ
53 prajāpālanasaṃbhūtaṃ phalaṃ tava na garhitam
eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ
54 tasmād vicalitaḥ pārtha loke hāsyaṃ gamiṣyasi
svadharmād dhi manuṣyāṇāṃ calanaṃ na praśasyate
55 sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ
vīryam āsthāya kaunteya dhuram udvaha dhuryavat
56 na hi kevaladharmātmā pṛthivīṃ jātu kaś cana
pārthivo vyajayad rājan na bhūtiṃ na punaḥ śriyam
57 jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdha cetasām
nikṛtyā labhate rājyam āhāram iva śalyakaḥ
58 bhrātaraḥ pūrvajātāś ca susamṛddhāś ca sarvaśaḥ
nikṛtyā nirjitā devair asurāḥ pāṇḍavarṣabha
59 evaṃ balavataḥ sarvam iti buddhvā mahīpate
jahi śatrūn mahābāho parāṃ nikṛtim āsthitaḥ
60 na hy arjuna samaḥ kaś cid yudhi yoddhā dhanurdharaḥ
bhavitā vā pumān kaś cin matsamo vā gadādharaḥ
61 sattvena kurute yuddhaṃ rājan subalavān api
na pramāṇena notsāhāt sattvastho bhava pāṇḍava
62 sattvaṃ hi mūlam arthasya vitathaṃ yad ayo 'nyathā
na tu prasaktaṃ bhavati vṛkṣac chāyeva haimanī
63 arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsam icchatā
bījaupamyena kaunteya mā te bhūd atra saṃśayaḥ
64 arthena tu samo 'nartho yatra labhyeta nodayaḥ
na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṃ hi tat
65 evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ
bṛhantaṃ dharmam āpnoti sa buddha iti niścitaḥ
66 amitraṃ mitrasaṃpannaṃ mitrair bhindanti paṇḍitāḥ
bhinnair mitraiḥ parityaktaṃ durbalaṃ kurute vaśe
67 sattvena kurute yuddhaṃ rājan subalavān api
nodyamena na hotrābbhiḥ sarvāḥ svīkurute prajāḥ
68 sarvathā saṃhatair eva durbalair balavān api
amitraḥ śakyate hantuṃ madhuhā bhramarair iva
69 yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ
atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava
70 etad dhyapi tapo rājan purāṇam iti naḥ śrutam
vidhinā pālanaṃ bhūmer yatkṛtaṃ naḥ pitāmahaiḥ
71 apeyāt kila bhāḥ sūryāl lakṣmīś candramasas tathā
iti loke vyavasito dṛṣṭvemāṃ bhavato vyathām
72 bhavataś ca praśaṃsābhir nindābhir itarasya ca
kathā yuktāḥ pariṣadaḥ pṛthag rājan samāgatāḥ
73 idam abhyadhikaṃ rājan brāhmaṇā guravaś ca te
sametāḥ kathayantīha muditāḥ satyasaṃdhatām
74 yan na mohān na kārpaṇyān na lobhān na bhayād api
anṛtaṃ kiṃ cid uktaṃ te na kāmān nārthakāraṇāt
75 yad enaḥ kurute kiṃ cid rājā bhūmim ivāpnuvan
sarvaṃ tan nudate paścād yajñair vipuladakṣiṇaiḥ
76 brāhmaṇebhyo dadad grāmān gāś ca rājan sahasraśaḥ
mucyate sarvapāpebhyas tamobhya iva candramāḥ
77 paurajānapadāḥ sarve prāyaśaḥ kurunandana
savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira
78 śvadṛtau kṣīram āsaktaṃ brahma vā vṛṣale yathā
satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā
79 iti nirvacanaṃ loke ciraṃ carati bhārata
api caitat striyo bālāḥ svādhyāyam iva kurvate
80 sa bhavān ratham āsthāya sarvopakaraṇānvitam
tvaramāṇo 'bhiniryātu ciram arthopapādakam
81 vācayitvā dvijaśreṣṭhān adyaiva gajasāhvayam
astravidbhiḥ parivṛto bhrātṛbhir dṛṭha dhanvibhiḥ
āśīviṣasamair vīrair marudbhir iva vṛtrahā
82 śriyam ādatsva kaunteya dhārtarāṣṭrān mahābala
na hi gāṇḍīvamuktānāṃ śarāṇāṃ gārdhravāsasām
83 sparśam āśīviṣābhānāṃ martyaḥ kaś cana saṃsahet
na sa vīro na mātaṅgo na sadaśvo 'sti bhārata
84 yaḥ saheta gadā vegaṃ mama kruddhasya saṃyuge
sṛñjayaiḥ saha kaikeyair vṛṣṇīnām ṛṣabheṇa ca
85 kathaṃ svid yudhi kaunteya rājyaṃ na prāpnuyāmahe

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

334 of 2013 Book 17% ~10 min left