To view the original Internet Sacred Text Archive, visit archive.sacred-texts.com
Book 3: Chapter 281
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 3: Chapter 281

The Mahabharata in Sanskrit

Book 3
Chapter 281

1 [मार्क]
अथ भार्यासहायः स फलान्य आदाय वीर्यवान
कठिनं पूरयाम आस ततः काष्ठान्य अपाटयत
2 तस्य पाटयतः काष्ठं सवेदॊ वै समजायत
वयायामेन च तेनास्य जज्ञे शिरसि वेदना
3 सॊ ऽभिगम्य परियां भार्याम उवाच शरमपीडितः
वयायमेन ममानेन जाता शिरसि वेदना
4 अङ्गानि चैव सावित्रि हृदयं दूयतीव च
अस्वस्थम इव चात्मानं लक्षये मित भाषिणि
5 शूलैर इव शिरॊ विद्धम इदं संलक्षयाम्य अहम
तत सवप्तुम इच्छे कल्याणि न सथातुं शक्तिर अस्ति मे
6 समासाद्याथ सावित्री भर्तारम उपगूह्य च
उत्सङ्गे ऽसय शिरॊ कृत्वा निषसाद महीतले
7 ततः सा नारद वचॊ विमृशन्ती तपस्विनी
तं मुहूर्तं कषणं वेलां दिवसं च युयॊज ह
8 मुहूर्ताद इव चापश्यत पुरुषं पीतवाससम
बद्धमौलिं वपुष्मन्तम आदित्यसमतेजसम
9 शयामावदातं रक्ताक्षं पाशहस्तं भयावहम
सथितं सत्यवतः पार्श्वे निरीक्षन्तं तम एव च
10 तं दृष्ट्वा सहसॊत्थाय भर्तुर नयस्य शनैः शिरः
कृताञ्जलिर उवाचार्ता हृदयेन अप्रवेपता
11 दैवतं तवाभिजानामि वपुर एतद धयमानुषम
कामया बरूहि मे देवकस तवं किं च चिकीर्षसि
12 [यम]
पतिव्रतासि सावित्रि तथैव च तपॊऽनविता
अतस तवाम अभिभाषामि विद्धि मां तवं शुभे यमम
13 अयं ते सत्यवान भर्ता कषीणायुः पार्थिवात्मजः
नेष्याम्य एनम अहं बद्ध्वा विद्ध्य एतन मे चिकीर्षितम
14 [मार्क]
इत्य उक्त्वा पितृराजस तां भगवान सवं चिकीर्षितम
यथावत सर्वम आख्यातुं तत्प्रियार्थं परचक्रमे
15 अयं हि धर्मसंयुक्तॊ रूपवान गुणसागरः
नार्हॊ मत पुरुषैर नेतुम अतॊ ऽसमि सवयम आगतः
16 ततः सत्यवतः कायात पाशबद्धं वशंगतम
अङ्गुष्ठ मात्रं पुरुषं निश्चकर्ष यमॊ बलात
17 ततः समुद्धृतप्राणं गतश्वासं हतप्रभम
निर्विचेष्टं शरीरं तद बभूवाप्रियदर्शनम
18 यमस तु तं तथा बद्ध्वा परयातॊ दक्षिणामुखः
सावित्री चापि दुःखार्ता यमम एवान्वगच्छत
नियमव्रतसंसिद्धा महाभागा पतिव्रता
19 [यम]
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम
कृतं भर्तुस तवयानृण्यं यावद गम्यं गतं तवया
20 [सावित्री]
यत्र मे नीयते भर्ता सवयं वा यत्र गच्छति
मयापि तत्र गन्तव्यम एष धर्मः सनातनः
21 तपसा गुरुवृत्त्या च भर्तुः सनेहाद वरतेन च
तव चैव परसादेन न मे परतिहता गतिः
22 पराहुः सप्त पदं मित्रं बुधास तत्त्वार्थ दर्शिनः
मित्रतां च पुरस्कृत्य किं चिद वक्ष्यामि तच छृणु
23 नानात्मवन्तस तु वनेचरन्ति; धर्मं च वासं च परिश्रमं च
विज्ञानतॊ धर्मम उदाहरन्ति; तस्मात सन्तॊ धर्मम आहुः परधानम
24 एकस्य धर्मेण सतां मतेन; सर्वे सम तं मार्गम अनुप्रपन्नाः
मा वै दवितीयं मा तृतीयं च वाञ्छे; तस्मात सन्तॊ धर्मम आहुः परधानम
25 [यम]
निवर्त तुष्टॊ ऽसमि तवानया गिरा; सवराक्षर वयञ्जन हेतुयुक्तया
वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वम अनिन्दिते वरम
26 [सावित्री]
चयुतः सवराज्याद वनवासम आश्रितॊ; विनष्ट चक्षुः शवषुरॊ ममाश्रमे
स लब्धचक्षुर बलवान भवेन नृपस; तव परसादाज जवलनार्कसंनिभः
27 [यम]
ददानि ते सर्वम अनिन्दिते वरं; यथा तवयॊक्तं भविता च तत तथा
तवाध्वना गलानिम इवॊपलक्षये; निवर्त गच्छस्व न ते शरमॊ भवेत
28 [सावित्री]
कुतः शरमॊ भर्तृसमीपतॊ हि मे; यतॊ हि भर्ता मम सा गतिर धरुवा
यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयॊ च वचॊ निबॊध मे
29 सतां सकृत संगतम ईप्सितं परं; ततः परं मित्रम इति परचक्षते
न चाफलं सत्पुरुषेण संगतं; ततः सतां संनिवसेत समागमे
30 [यम]
मनॊ ऽनुकूलं बुध बुद्धिवर्धनं; तवयाहम उक्तॊ वचनं हिताश्रयम
विना पुनः सत्यवतॊ ऽसय जीवितं; वरं दवितीयं वरयस्व भामिनि
31 [सावित्री]
हृतं पुरा मे शवशुरस्य धीमतः; सवम एव राज्यं स लभेत पार्थिवः
जह्यात सवधर्मं न च मे गुरुर; यथा दवितीयम एतं वरयामि ते वरम
32 [यम]
सवम एव राज्यं परतिपत्स्यते ऽचिरान; न च सवधर्मात परिहास्यते नृपः
कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते शरमॊ भवेत
33 [सावित्री]
परजास तवयेमा नियमेन संयता; नियम्य चैता नयसे न कामया
अतॊ यमत्वं तव देव विश्रुतं; निबॊध चेमां गिरम ईरितां मया
34 अद्रॊहः सर्वभूतेषु कर्मणा मनसा गिरा
अनुग्रहश च दानं च सतां धर्मः सनातनः
35 एवं परायॊ च लॊकॊ ऽयं मनुष्याः शक्तिपेशलाः
सन्तस तव एवाप्य अमित्रेषु दयां पराप्तेषु कुर्वते
36 [यम]
पिपासितस्येव यथा भवेत पयस; तथा तवया वाक्यम इदं समीरितम
विना पुनः सत्यवतॊ ऽसय जीवितं; वरं वृणीष्वेह शुभे यद इच्छसि
37 [सावित्री]
ममानपत्यः पृथिवीपतिः पिता; भवेत पितुः पुत्रशतं ममौरसम
कुलस्य संतानकरं च यद भवेत; तृतीयम एतं वरयामि ते वरम
38 [यम]
कुलस्य संतानकरं सुवर्चसं; शतं सुतानां पितुर अस्तु ते शुभे
कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस तवम आगता
39 [सावित्री]
न दूरम एतन मम भर्तृसंनिधौ; मनॊ हि मे दूरतरं परधावति
तथा वरजन्न एव गिरं समुद्यतां; मयॊच्यमानां शृणु भूय एव च
40 विवस्वतस तवं तनयः परतापवांस; ततॊ हि वैवस्वत उच्यसे बुधैः
शमेन धर्मेण च रञ्जिताः परजास; ततस तवेहेश्वर धर्मराजता
41 आत्मन्य अपि न विश्वासस तावान भवति सत्सु यः
तस्मात सत्सु विशेषेण सर्वः परणयम इच्छति
42 सौहृदात सर्वभूतानां विश्वासॊ नाम जायते
तस्मात सत्सु विशेषेण विश्वासं कुरुते जनः
43 [यम]
उदहृतं ते वचनं यद अङ्गने; शुभे न तादृक तवदृते मया शरुतम
अनेन तुष्टॊ ऽसमि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च
44 [सावित्री]
ममात्मजं सत्यवतस तथौरसं; भवेद उभाभ्याम इह यत कुलॊद्वहम
शतं सुतानां बलवीर्यशालिनाम; इदं चतुर्थं वरयामि ते वरम
45 [यम]
शतं सुतानां बलवीर्यशालिनां; भविष्यति परीतिकरं तवाबले
परिश्रमस ते न भवेन नृपात्मजे; निवर्त दूरं हि पथस तवम आगता
46 [सावित्री]
सतां सदा शाश्वती धर्मवृत्तिः; सन्तॊ न सीदन्ति न च वयथन्ति
सतां सद्भिर नाफलः संगमॊ ऽसति; सद भयॊ भयं नानुवर्तन्ति सन्तः
47 सन्तॊ हि सत्येन नयन्ति सूर्यं; सन्तॊ भूमिं तपसा धारयन्ति
सन्तॊ गतिर भूतभव्यस्य राजन; सतां मध्ये नावसीदन्ति सन्तः
48 आर्य जुष्टम इदं वृत्तम इति विज्ञाय शाश्वतम
सन्तः परार्थं कुर्वाणा नावेक्षन्ते परतिक्रियाम
49 न च परसादः सत्पुरुषेषु मॊघॊ; न चाप्य अर्थॊ नश्यति नापि मानः
यस्माद एतन नियतं सत्सु नित्यं; तस्मात सन्तॊ रक्षितारॊ भवन्ति
50 [यम]
यथा यथा भाषसि धर्मसंहितं; मनॊ ऽनुकूलं सुपदं महार्थवत
तथा तथा मे तवयि भक्तिर उत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते
51 [सावित्री]
न ते ऽपवर्गः सुकृताद विनाकृतस; तथा यथान्येषु वरेषु मानद
वरं वृणे जीवतु सत्यवान अयं; यथा मृता हय एवम अहं विना पतिम
52 न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम
न कामये भर्तृविनाकृता शरियं; न भर्तृहीना वयवसामि जीवितुम
53 वरातिसर्गः शतपुत्रता मम; तवयैव दत्तॊ हरियते च मे पतिः
वरं वृणे जीवतु सत्यवान अयं; तवैव सत्यं वचनं भविष्यति
54 [मार्क]
तथेत्य उक्त्वा तु तान पाशान मुक्त्वा वैवस्वतॊ यमः
धर्मराजः परहृष्टात्मा सावित्रीम इदम अब्रवीत
55 एष भद्रे मया मुक्तॊ भर्ता ते कुलनन्दिनि
अरॊगस तव नेयश च सिद्धार्थश च भविष्यति
56 चतुर्वर्ष शतं चायुस तवया सार्धम अवाप्स्यति
इष्ट्वा यज्ञैश च धर्मेण खयातिं लॊके गमिष्यति
57 तवयि पुत्रशतं चैव सत्यवाञ जनयिष्यति
ते चापि सर्वे राजानः कषत्रियाः पुत्रपौत्रिणः
खयातास तवन नामधेयाश च भविष्यन्तीह शाश्वताः
58 पितुश च ते पुत्रशतं भविता तव मातरि
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः
भरातरस ते भविष्यन्ति कषत्रियास तरिदशॊपमाः
59 एवं तस्यै वरं दत्त्वा धर्मराजः परतापवान
निवर्तयित्वा सावित्रीं सवम एव भवनं ययौ
60 सावित्र्य अपि यमे याते भर्तारं परतिलभ्य च
जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम
61 सा भूमौ परेक्ष्य भर्तारम उपसृत्यॊपगूह्य च
उत्सङ्गे शिर आरॊप्य भूमाव उपविवेश ह
62 संज्ञां च सत्यवाँल लब्ध्वा सावित्रीम अभ्यभाषत
परॊष्यागत इव परेम्णा पुनः पुनर उदीक्ष्य वै
63 [सत्यवान]
सुचिरं बत सुप्तॊ ऽसमि किमर्थं नावबॊधितः
कव चासौ पुरुषः शयामॊ यॊ ऽसौ मां संचकर्ष ह
64 [सावित्री]
सुचिरं बत सुप्तॊ ऽसि ममाङ्के पुरुषर्षभ
गतः स भगवान देवः परजा संयमनॊ यमः
65 विश्रान्तॊ ऽसि महाभाग विनिद्रश च नृपात्मज
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम
66 [मार्क]
उपलभ्य ततः संज्ञां सुखसुप्त इवॊत्थितः
दिशः सर्वा वनान्तांश च निरीक्ष्यॊवाच सत्यवान
67 फलाहारॊ ऽसमि निष्क्रान्तस तवया सह सुमध्यमे
ततः पाटयतः काष्ठं शिरसॊ मे रुजाभवत
68 शिरॊ ऽभिताप संतप्तः सथातुं चिरम अशक्नुवन
तवॊत्सङ्गे परसुप्तॊ ऽहम इति सर्वं समरे शुभे
69 तवयॊपगूढस्य च मे निद्रयापहृतं मनः
ततॊ ऽपश्यं तमॊ घॊरं पुरुषं च महौजसम
70 तद यदि तवं विजानासि किं तद बरूहि सुमध्यमे
सवप्नॊ मे यदि वा दृष्टॊ यदि वा सत्यम एव तत
71 तम उवाचाथ सावित्री रजनी वयवगाहते
शवस्ते सर्वं यथावृत्तम आख्यास्यामि नृपात्मज
72 उत्थिष्ठॊत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत
विगाढा रजनी चेयं निवृत्तश च दिवाकरः
73 नक्तंचराश चरन्त्य एते हृष्टाः करूराभिभाषिणः
शरूयन्ते पर्णशब्दाश च मृगाणां चरतां वने
74 एताः शिवा घॊरनादा दिशं दक्षिणपश्चिमाम
आस्थाय विरुवन्त्य उग्राः कम्पयन्त्यॊ मनॊ मम
75 [सत्यवान]
वनं परतिभयाकारं घनेन तमसा वृतम
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि
76 [साविती]
अस्मिन्न अद्य वने दग्धे शुष्कवृक्षः सथितॊ जवलन
वायुना धम्यमानॊ ऽगनिर दृश्यते ऽतर कव चित कव चित
77 ततॊ ऽगनिम आनयित्वेह जवालयिष्यामि सर्वतः
काष्ठानीमानि सन्तीह जहि संतापम आत्मनः
78 यदि नॊत्सहसे गन्तुं सरुजं तवाभिलक्षये
न च जञास्यसि पन्थानं तमसा संवृते वने
79 शवःप्रभाते वने दृश्ये यास्यावॊ ऽनुमते तव
वसावेह कषपाम एतां रुचितं यदि ते ऽनघ
80 [सत्यवान]
शिरॊ रुजा निवृत्ता मे सवस्थान्य अङ्गानि लक्षये
माता पितृभ्याम इच्छामि संगमं तवत्प्रसादजम
81 न कदा चिद विकाले हि गतपूर्वॊ मयाश्रमः
अनागतायां संध्यायां माता मे पररुणद्धि माम
82 दिवापि मयि निष्क्रान्ते संतप्येते गुरू मम
विचिनॊति च मां तातः सहैवाश्रमवासिभिः
83 मात्रा पित्रा च सुभृशं दुःखिताभ्याम अहं पुरा
उपालब्धः सुबहुशश चिरेणागच्छसीति ह
84 का तव अवस्था तयॊर अद्य मदर्थम इति चिन्तये
तयॊर अदृश्ये मयि च महद दुःखं भविष्यति
85 पुरा माम ऊचतुश चैव रात्राव अस्रायमाणकौ
भृशं सुदुःखितौ वृद्धौ बहुशः परीतिसंयुतौ
86 तवया हीनौ न जीवाव मुहूर्तम अपि पुत्रक
यावद धरिष्यसे पुत्र तावन नौ जीवितं धरुवम
87 वृद्धयॊर अन्धयॊर यष्टिस तवयि वंशः परतिष्ठितः
तवयि पिण्डश च कीर्तिश च संतानं चावयॊर इति
88 माता वृद्धा पिता वृद्धस तयॊर यष्टिर अहं किल
तौ रात्रौ माम अपश्यन्तौ काम अवस्थां गमिष्यतः
89 निद्रायाश चाभ्यसूयामि यस्या हेतॊः पिता मम
माता च संशयं पराप्ता मत्कृते ऽनपकारिणी
90 अहं च संशयं पराप्तः कृच्छ्राम आपदम आस्थितः
माता पितृभ्यां हि विना नाहं जीवितुम उत्सहे
91 वयक्तम आकुलया बुद्ध्या परज्ञा चक्षुः पिता मम
एकैकम अस्यां वेलायां पृच्छत्य आश्रमवासिनम
92 नात्मानम अनुशॊचामि यथाहं पितरं शुभे
भर्तारं चाप्य अनुगतां मातरं परिदुर्बलाम
93 मत्कृतेन हि ताव अद्य संतापं परम एष्यतः
जीवन्ताव अनुजीवामि भर्तव्यौ तौ मयेति ह
तयॊः परियं मे कर्तव्यम इति जीवामि चाप्य अहम
94 [मार्क]
एवम उक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः
उच्छ्रित्य बाहू दुःखार्तः सस्वरं पररुरॊद ह
95 ततॊ ऽबरवीत तथा दृष्ट्वा भर्तारं शॊककर्शितम
परमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी
96 यदि मे ऽसति तपस तप्तं यदि दत्तं हुतं यदि
शवश्रू शवशुर भर्तॄणां मम पुण्यास तु शर्वरी
97 न समराम्य उक्तपूर्वां वै सवैरेष्व अप्य अनृतां गिरम
तेन सत्येन ताव अद्य धरियेतां शवशुरौ मम
98 [सत्यवान]
कामये दर्शनं पित्रॊर याहि सावित्रि माचिरम
पुरा मातुः पितुर वापि यदि पश्यामि विप्रियम
न जीविष्ये वरारॊहे सत्येनात्मानम आलभे
99 यदि धर्मे च ते बुद्धिर मां चेज जीवन्तम इच्छसि
मम परियं वा कर्तव्यं गच्छस्वाश्रमम अन्तिकात
100 [मार्क]
सावित्री तत उत्थाय केशान संयम्य भामिनी
पतिम उत्थापयाम आस बाहुभ्यां परिगृह्य वै
101 उत्थाय सत्यवांश चापि परमृज्याङ्गानि पाणिना
दिशः सर्वाः समालॊक्य कठिने दृष्टिम आदधे
102 तम उवाचाथ सावित्री शवः फलानीह नेष्यसि
यॊगक्षेमार्थम एतत ते नेष्यामि परशुं तव अहम
103 कृत्वा कठिन भारं सा वृक्षशाखावलम्बिनम
गृहीत्वा परशुं भर्तुः सकाशं पुनर आगमत
104 वामे सकन्धे तु वामॊरुर भर्तुर बाहुं निवेश्य सा
दक्षिणेन परिष्वज्य जगाम मृदु गामिनी
105 [सत्यवान]
अभ्यासगमनाद भीरु पन्थानॊ विदिता मम
वृक्षान्तरालॊकितया जयॊत्स्नया चापि लक्षये
106 आगतौ सवः पथा येन फलान्य अवचितानि च
यथागतं शुभे गच्छ पन्थानं मा विचारय
107 पलाशषण्डे चैतस्मिन पन्था वयावर्तते दविधा
तस्यॊत्तरेण यः पन्थास तेन गच्छ तवरस्व च
सवस्थॊ ऽसमि बलवान अस्मि दिदृक्षुः पितराव उभौ
108 [मार्क]
बरुवन्न एवं तवरायुक्तः स परायाद आश्रमं परति
1 [mārk]
atha bhāryāsahāyaḥ sa phalāny ādāya vīryavān
kaṭhinaṃ pūrayām āsa tataḥ kāṣṭhāny apāṭayat
2 tasya pāṭayataḥ kāṣṭhaṃ svedo vai samajāyata
vyāyāmena ca tenāsya jajñe śirasi vedanā
3 so 'bhigamya priyāṃ bhāryām uvāca śramapīḍitaḥ
vyāyamena mamānena jātā śirasi vedanā
4 aṅgāni caiva sāvitri hṛdayaṃ dūyatīva ca
asvastham iva cātmānaṃ lakṣaye mita bhāṣiṇi
5 śūlair iva śiro viddham idaṃ saṃlakṣayāmy aham
tat svaptum icche kalyāṇi na sthātuṃ śaktir asti me
6 samāsādyātha sāvitrī bhartāram upagūhya ca
utsaṅge 'sya śiro kṛtvā niṣasāda mahītale
7 tataḥ sā nārada vaco vimṛśantī tapasvinī
taṃ muhūrtaṃ kṣaṇaṃ velāṃ divasaṃ ca yuyoja ha
8 muhūrtād iva cāpaśyat puruṣaṃ pītavāsasam
baddhamauliṃ vapuṣmantam ādityasamatejasam
9 śyāmāvadātaṃ raktākṣaṃ pāśahastaṃ bhayāvaham
sthitaṃ satyavataḥ pārśve nirīkṣantaṃ tam eva ca
10 taṃ dṛṣṭvā sahasotthāya bhartur nyasya śanaiḥ śiraḥ
kṛtāñjalir uvācārtā hṛdayen apravepatā
11 daivataṃ tvābhijānāmi vapur etad dhyamānuṣam
kāmayā brūhi me devakas tvaṃ kiṃ ca cikīrṣasi
12 [yama]
pativratāsi sāvitri tathaiva ca tapo'nvitā
atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam
13 ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ
neṣyāmy enam ahaṃ baddhvā viddhy etan me cikīrṣitam
14 [mārk]
ity uktvā pitṛrājas tāṃ bhagavān svaṃ cikīrṣitam
yathāvat sarvam ākhyātuṃ tatpriyārthaṃ pracakrame
15 ayaṃ hi dharmasaṃyukto rūpavān guṇasāgaraḥ
nārho mat puruṣair netum ato 'smi svayam āgataḥ
16 tataḥ satyavataḥ kāyāt pāśabaddhaṃ vaśaṃgatam
aṅguṣṭha mātraṃ puruṣaṃ niścakarṣa yamo balāt
17 tataḥ samuddhṛtaprāṇaṃ gataśvāsaṃ hataprabham
nirviceṣṭaṃ śarīraṃ tad babhūvāpriyadarśanam
18 yamas tu taṃ tathā baddhvā prayāto dakṣiṇāmukhaḥ
sāvitrī cāpi duḥkhārtā yamam evānvagacchata
niyamavratasaṃsiddhā mahābhāgā pativratā
19 [yama]
nivarta gaccha sāvitri kuruṣvāsyaurdhvadehikam
kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā
20 [sāvitrī]
yatra me nīyate bhartā svayaṃ vā yatra gacchati
mayāpi tatra gantavyam eṣa dharmaḥ sanātanaḥ
21 tapasā guruvṛttyā ca bhartuḥ snehād vratena ca
tava caiva prasādena na me pratihatā gatiḥ
22 prāhuḥ sapta padaṃ mitraṃ budhās tattvārtha darśinaḥ
mitratāṃ ca puraskṛtya kiṃ cid vakṣyāmi tac chṛṇu
23 nānātmavantas tu vanecaranti; dharmaṃ ca vāsaṃ ca pariśramaṃ ca
vijñānato dharmam udāharanti; tasmāt santo dharmam āhuḥ pradhānam
24 ekasya dharmeṇa satāṃ matena; sarve sma taṃ mārgam anuprapannāḥ
mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche; tasmāt santo dharmam āhuḥ pradhānam
25 [yama]
nivarta tuṣṭo 'smi tavānayā girā; svarākṣara vyañjana hetuyuktayā
varaṃ vṛṇīṣveha vināsya jīvitaṃ; dadāni te sarvam anindite varam
26 [sāvitrī]
cyutaḥ svarājyād vanavāsam āśrito; vinaṣṭa cakṣuḥ śvaṣuro mamāśrame
sa labdhacakṣur balavān bhaven nṛpas; tava prasādāj jvalanārkasaṃnibhaḥ
27 [yama]
dadāni te sarvam anindite varaṃ; yathā tvayoktaṃ bhavitā ca tat tathā
tavādhvanā glānim ivopalakṣaye; nivarta gacchasva na te śramo bhavet
28 [sāvitrī]
kutaḥ śramo bhartṛsamīpato hi me; yato hi bhartā mama sā gatir dhruvā
yataḥ patiṃ neṣyasi tatra me gatiḥ; sureśa bhūyo ca vaco nibodha me
29 satāṃ sakṛt saṃgatam īpsitaṃ paraṃ; tataḥ paraṃ mitram iti pracakṣate
na cāphalaṃ satpuruṣeṇa saṃgataṃ; tataḥ satāṃ saṃnivaset samāgame
30 [yama]
mano 'nukūlaṃ budha buddhivardhanaṃ; tvayāham ukto vacanaṃ hitāśrayam
vinā punaḥ satyavato 'sya jīvitaṃ; varaṃ dvitīyaṃ varayasva bhāmini
31 [sāvitrī]
hṛtaṃ purā me śvaśurasya dhīmataḥ; svam eva rājyaṃ sa labheta pārthivaḥ
jahyāt svadharmaṃ na ca me gurur; yathā dvitīyam etaṃ varayāmi te varam
32 [yama]
svam eva rājyaṃ pratipatsyate 'cirān; na ca svadharmāt parihāsyate nṛpaḥ
kṛtena kāmena mayā nṛpātmaje; nivarta gacchasva na te śramo bhavet
33 [sāvitrī]
prajās tvayemā niyamena saṃyatā; niyamya caitā nayase na kāmayā
ato yamatvaṃ tava deva viśrutaṃ; nibodha cemāṃ giram īritāṃ mayā
34 adrohaḥ sarvabhūteṣu karmaṇā manasā girā
anugrahaś ca dānaṃ ca satāṃ dharmaḥ sanātanaḥ
35 evaṃ prāyo ca loko 'yaṃ manuṣyāḥ śaktipeśalāḥ
santas tv evāpy amitreṣu dayāṃ prāpteṣu kurvate
36 [yama]
pipāsitasyeva yathā bhavet payas; tathā tvayā vākyam idaṃ samīritam
vinā punaḥ satyavato 'sya jīvitaṃ; varaṃ vṛṇīṣveha śubhe yad icchasi
37 [sāvitrī]
mamānapatyaḥ pṛthivīpatiḥ pitā; bhavet pituḥ putraśataṃ mamaurasam
kulasya saṃtānakaraṃ ca yad bhavet; tṛtīyam etaṃ varayāmi te varam
38 [yama]
kulasya saṃtānakaraṃ suvarcasaṃ; śataṃ sutānāṃ pitur astu te śubhe
kṛtena kāmena narādhipātmaje; nivarta dūraṃ hi pathas tvam āgatā
39 [sāvitrī]
na dūram etan mama bhartṛsaṃnidhau; mano hi me dūrataraṃ pradhāvati
tathā vrajann eva giraṃ samudyatāṃ; mayocyamānāṃ śṛṇu bhūya eva ca
40 vivasvatas tvaṃ tanayaḥ pratāpavāṃs; tato hi vaivasvata ucyase budhaiḥ
śamena dharmeṇa ca rañjitāḥ prajās; tatas taveheśvara dharmarājatā
41 ātmany api na viśvāsas tāvān bhavati satsu yaḥ
tasmāt satsu viśeṣeṇa sarvaḥ praṇayam icchati
42 sauhṛdāt sarvabhūtānāṃ viśvāso nāma jāyate
tasmāt satsu viśeṣeṇa viśvāsaṃ kurute janaḥ
43 [yama]
udahṛtaṃ te vacanaṃ yad aṅgane; śubhe na tādṛk tvadṛte mayā śrutam
anena tuṣṭo 'smi vināsya jīvitaṃ; varaṃ caturthaṃ varayasva gaccha ca
44 [sāvitrī]
mamātmajaṃ satyavatas tathaurasaṃ; bhaved ubhābhyām iha yat kulodvaham
śataṃ sutānāṃ balavīryaśālinām; idaṃ caturthaṃ varayāmi te varam
45 [yama]
śataṃ sutānāṃ balavīryaśālināṃ; bhaviṣyati prītikaraṃ tavābale
pariśramas te na bhaven nṛpātmaje; nivarta dūraṃ hi pathas tvam āgatā
46 [sāvitrī]
satāṃ sadā śāśvatī dharmavṛttiḥ; santo na sīdanti na ca vyathanti
satāṃ sadbhir nāphalaḥ saṃgamo 'sti; sad bhyo bhayaṃ nānuvartanti santaḥ
47 santo hi satyena nayanti sūryaṃ; santo bhūmiṃ tapasā dhārayanti
santo gatir bhūtabhavyasya rājan; satāṃ madhye nāvasīdanti santaḥ
48 ārya juṣṭam idaṃ vṛttam iti vijñāya śāśvatam
santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām
49 na ca prasādaḥ satpuruṣeṣu mogho; na cāpy artho naśyati nāpi mānaḥ
yasmād etan niyataṃ satsu nityaṃ; tasmāt santo rakṣitāro bhavanti
50 [yama]
yathā yathā bhāṣasi dharmasaṃhitaṃ; mano 'nukūlaṃ supadaṃ mahārthavat
tathā tathā me tvayi bhaktir uttamā; varaṃ vṛṇīṣvāpratimaṃ yatavrate
51 [sāvitrī]
na te 'pavargaḥ sukṛtād vinākṛtas; tathā yathānyeṣu vareṣu mānada
varaṃ vṛṇe jīvatu satyavān ayaṃ; yathā mṛtā hy evam ahaṃ vinā patim
52 na kāmaye bhartṛvinākṛtā sukhaṃ; na kāmaye bhartṛvinākṛtā divam
na kāmaye bhartṛvinākṛtā śriyaṃ; na bhartṛhīnā vyavasāmi jīvitum
53 varātisargaḥ śataputratā mama; tvayaiva datto hriyate ca me patiḥ
varaṃ vṛṇe jīvatu satyavān ayaṃ; tavaiva satyaṃ vacanaṃ bhaviṣyati
54 [mārk]
tathety uktvā tu tān pāśān muktvā vaivasvato yamaḥ
dharmarājaḥ prahṛṣṭātmā sāvitrīm idam abravīt
55 eṣa bhadre mayā mukto bhartā te kulanandini
arogas tava neyaś ca siddhārthaś ca bhaviṣyati
56 caturvarṣa śataṃ cāyus tvayā sārdham avāpsyati
iṣṭvā yajñaiś ca dharmeṇa khyātiṃ loke gamiṣyati
57 tvayi putraśataṃ caiva satyavāñ janayiṣyati
te cāpi sarve rājānaḥ kṣatriyāḥ putrapautriṇaḥ
khyātās tvan nāmadheyāś ca bhaviṣyantīha śāśvatāḥ
58 pituś ca te putraśataṃ bhavitā tava mātari
mālavyāṃ mālavā nāma śāśvatāḥ putrapautriṇaḥ
bhrātaras te bhaviṣyanti kṣatriyās tridaśopamāḥ
59 evaṃ tasyai varaṃ dattvā dharmarājaḥ pratāpavān
nivartayitvā sāvitrīṃ svam eva bhavanaṃ yayau
60 sāvitry api yame yāte bhartāraṃ pratilabhya ca
jagāma tatra yatrāsyā bhartuḥ śāvaṃ kalevaram
61 sā bhūmau prekṣya bhartāram upasṛtyopagūhya ca
utsaṅge śira āropya bhūmāv upaviveśa ha
62 saṃjñāṃ ca satyavāṁl labdhvā sāvitrīm abhyabhāṣata
proṣyāgata iva premṇā punaḥ punar udīkṣya vai
63 [satyavān]
suciraṃ bata supto 'smi kimarthaṃ nāvabodhitaḥ
kva cāsau puruṣaḥ śyāmo yo 'sau māṃ saṃcakarṣa ha
64 [sāvitrī]
suciraṃ bata supto 'si mamāṅke puruṣarṣabha
gataḥ sa bhagavān devaḥ prajā saṃyamano yamaḥ
65 viśrānto 'si mahābhāga vinidraś ca nṛpātmaja
yadi śakyaṃ samuttiṣṭha vigāḍhāṃ paśya śarvarīm
66 [mārk]
upalabhya tataḥ saṃjñāṃ sukhasupta ivotthitaḥ
diśaḥ sarvā vanāntāṃś ca nirīkṣyovāca satyavān
67 phalāhāro 'smi niṣkrāntas tvayā saha sumadhyame
tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat
68 śiro 'bhitāpa saṃtaptaḥ sthātuṃ ciram aśaknuvan
tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe
69 tvayopagūḍhasya ca me nidrayāpahṛtaṃ manaḥ
tato 'paśyaṃ tamo ghoraṃ puruṣaṃ ca mahaujasam
70 tad yadi tvaṃ vijānāsi kiṃ tad brūhi sumadhyame
svapno me yadi vā dṛṣṭo yadi vā satyam eva tat
71 tam uvācātha sāvitrī rajanī vyavagāhate
śvaste sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja
72 utthiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata
vigāḍhā rajanī ceyaṃ nivṛttaś ca divākaraḥ
73 naktaṃcarāś caranty ete hṛṣṭāḥ krūrābhibhāṣiṇaḥ
śrūyante parṇaśabdāś ca mṛgāṇāṃ caratāṃ vane
74 etāḥ śivā ghoranādā diśaṃ dakṣiṇapaścimām
āsthāya viruvanty ugrāḥ kampayantyo mano mama
75 [satyavān]
vanaṃ pratibhayākāraṃ ghanena tamasā vṛtam
na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi
76 [sāvitī]
asminn adya vane dagdhe śuṣkavṛkṣaḥ sthito jvalan
vāyunā dhamyamāno 'gnir dṛśyate 'tra kva cit kva cit
77 tato 'gnim ānayitveha jvālayiṣyāmi sarvataḥ
kāṣṭhānīmāni santīha jahi saṃtāpam ātmanaḥ
78 yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye
na ca jñāsyasi panthānaṃ tamasā saṃvṛte vane
79 śvaḥprabhāte vane dṛśye yāsyāvo 'numate tava
vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha
80 [satyavān]
śiro rujā nivṛttā me svasthāny aṅgāni lakṣaye
mātā pitṛbhyām icchāmi saṃgamaṃ tvatprasādajam
81 na kadā cid vikāle hi gatapūrvo mayāśramaḥ
anāgatāyāṃ saṃdhyāyāṃ mātā me praruṇaddhi mām
82 divāpi mayi niṣkrānte saṃtapyete gurū mama
vicinoti ca māṃ tātaḥ sahaivāśramavāsibhiḥ
83 mātrā pitrā ca subhṛśaṃ duḥkhitābhyām ahaṃ purā
upālabdhaḥ subahuśaś cireṇāgacchasīti ha
84 kā tv avasthā tayor adya madartham iti cintaye
tayor adṛśye mayi ca mahad duḥkhaṃ bhaviṣyati
85 purā mām ūcatuś caiva rātrāv asrāyamāṇakau
bhṛśaṃ suduḥkhitau vṛddhau bahuśaḥ prītisaṃyutau
86 tvayā hīnau na jīvāva muhūrtam api putraka
yāvad dhariṣyase putra tāvan nau jīvitaṃ dhruvam
87 vṛddhayor andhayor yaṣṭis tvayi vaṃśaḥ pratiṣṭhitaḥ
tvayi piṇḍaś ca kīrtiś ca saṃtānaṃ cāvayor iti
88 mātā vṛddhā pitā vṛddhas tayor yaṣṭir ahaṃ kila
tau rātrau mām apaśyantau kām avasthāṃ gamiṣyataḥ
89 nidrāyāś cābhyasūyāmi yasyā hetoḥ pitā mama
mātā ca saṃśayaṃ prāptā matkṛte 'napakāriṇī
90 ahaṃ ca saṃśayaṃ prāptaḥ kṛcchrām āpadam āsthitaḥ
mātā pitṛbhyāṃ hi vinā nāhaṃ jīvitum utsahe
91 vyaktam ākulayā buddhyā prajñā cakṣuḥ pitā mama
ekaikam asyāṃ velāyāṃ pṛcchaty āśramavāsinam
92 nātmānam anuśocāmi yathāhaṃ pitaraṃ śubhe
bhartāraṃ cāpy anugatāṃ mātaraṃ paridurbalām
93 matkṛtena hi tāv adya saṃtāpaṃ param eṣyataḥ
jīvantāv anujīvāmi bhartavyau tau mayeti ha
tayoḥ priyaṃ me kartavyam iti jīvāmi cāpy aham
94 [mārk]
evam uktvā sa dharmātmā guruvartī gurupriyaḥ
ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha
95 tato 'bravīt tathā dṛṣṭvā bhartāraṃ śokakarśitam
pramṛjyāśrūṇi netrābhyāṃ sāvitrī dharmacāriṇī
96 yadi me 'sti tapas taptaṃ yadi dattaṃ hutaṃ yadi
śvaśrū śvaśura bhartṝṇāṃ mama puṇyās tu śarvarī
97 na smarāmy uktapūrvāṃ vai svaireṣv apy anṛtāṃ giram
tena satyena tāv adya dhriyetāṃ śvaśurau mama
98 [satyavān]
kāmaye darśanaṃ pitror yāhi sāvitri māciram
purā mātuḥ pitur vāpi yadi paśyāmi vipriyam
na jīviṣye varārohe satyenātmānam ālabhe
99 yadi dharme ca te buddhir māṃ cej jīvantam icchasi
mama priyaṃ vā kartavyaṃ gacchasvāśramam antikāt
100 [mārk]
sāvitrī tata utthāya keśān saṃyamya bhāminī
patim utthāpayām āsa bāhubhyāṃ parigṛhya vai
101 utthāya satyavāṃś cāpi pramṛjyāṅgāni pāṇinā
diśaḥ sarvāḥ samālokya kaṭhine dṛṣṭim ādadhe
102 tam uvācātha sāvitrī śvaḥ phalānīha neṣyasi
yogakṣemārtham etat te neṣyāmi paraśuṃ tv aham
103 kṛtvā kaṭhina bhāraṃ sā vṛkṣaśākhāvalambinam
gṛhītvā paraśuṃ bhartuḥ sakāśaṃ punar āgamat
104 vāme skandhe tu vāmorur bhartur bāhuṃ niveśya sā
dakṣiṇena pariṣvajya jagāma mṛdu gāminī
105 [satyavān]
abhyāsagamanād bhīru panthāno viditā mama
vṛkṣāntarālokitayā jyotsnayā cāpi lakṣaye
106 āgatau svaḥ pathā yena phalāny avacitāni ca
yathāgataṃ śubhe gaccha panthānaṃ mā vicāraya
107 palāśaṣaṇḍe caitasmin panthā vyāvartate dvidhā
tasyottareṇa yaḥ panthās tena gaccha tvarasva ca
svastho 'smi balavān asmi didṛkṣuḥ pitarāv ubhau
108 [mārk]
bruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

581 of 2013 Book 29% ~15 min left