To view the original Internet Sacred Text Archive, visit archive.sacred-texts.com
Book 3: Chapter 198
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 3: Chapter 198

The Mahabharata in Sanskrit

Book 3
Chapter 198

1 [मार्क]
चिन्तयित्वा तद आश्चर्यं सत्रिया परॊक्तम अशेषतः
विनिन्दन स दविजॊ ऽऽतमानम आगः कृत इवाबभौ
2 चिन्तयानः स धर्मस्य सूक्ष्मां गतिम अथाब्रवीत
शरद्दधानेन भाव्यं वै गच्छामि मिथिलाम अहम
3 कृतात्मा धर्मवित तस्यां वयाधॊ निवसते किल
तं गच्छाम्य अहम अद्यैव धर्मं परष्टुं तपॊधनम
4 इति संचिन्त्य मनसा शरद्दधानः सत्रिया वचः
बलाका परत्ययेनासौ धर्म्यैश च वचनैः शुभैः
संप्रतस्थे स मिथिलां कौतूहलसमन्वितः
5 अतिक्रामन्न अरण्यानि गरामांश च नगराणि च
ततॊ जगाम मिथिलां जनकेन सुरक्षिताम
6 धर्मसेतु समाकीर्णां यज्ञॊत्सव वतीं शुभाम
गॊपुराट्टालकवतीं गृहप्राकारशॊभिताम
7 परविश्य स पुरीं रम्यां विमानैर बहुभिर वृताम
पण्यैश च बहुभिर युक्तां सुविभक्तमहापथाम
8 अश्वै रथैस तथा नागैर यानैश च बहुभिर वृताम
हृष्टपुष्ट जनाकीर्णां नित्यॊत्सव समाकुलाम
9 सॊ ऽपश्यद बहु वृत्तान्तां बराह्मणः समतिक्रमन
धर्मव्याधम अपृच्छच च स चास्य कथितॊ दविजैः
10 अपश्यत तत्र गत्वा तं सूना मध्ये वयवस्थितम
मार्गमाहिष मांसानि विक्रीणन्तं तपस्विनम
आकुलत्वात तु करेतॄणाम एकान्ते संस्थितॊ दविजः
11 स तु जञात्वा दविजं पराप्तं सहसा संभ्रमॊत्थितः
आजगाम यतॊ विप्रः सथित एकान्त आसने
12 [वयाध]
अभिवादये तवा भगवन सवागतं ते दविजॊत्तम
अहं वयाधस तु भद्रं ते किं करॊमि परशाधि माम
13 एकपत्न्या यद उक्तॊ ऽसि गच्छ तवं मिथिलाम इति
जानाम्य एतद अहं सर्वं यदर्थं तवम इहागतः
14 [मार्क]
शरुत्वा तु तस्य तद वाक्यं स विप्रॊ भृशहर्षितः
दवितीयम इदम आश्चर्यम इत्य अचिन्तयत दविजः
15 अदेशस्थं हि ते सथानम इति वयाधॊ ऽबरवीद दविजम
गृहं गच्छाव भगवन यदि रॊचयसे ऽनघ
16 बाढम इत्य एव संहृष्टॊ विप्रॊ वचनम अब्रवीत
अग्रतस तु दविजं कृत्वा स जगाम गरहान परति
17 परविश्य च गृहं रम्यम आसनेनाभिपूजितः
पाद्यम आचमनीयं च परतिगृह्य दविजॊत्तमः
18 ततः सुखॊपविष्टस तं वयाधं वचनम अब्रवीत
कर्मैतद वै न सदृशं भवतः परतिभाति मे
अनुतप्ये भृशं तात तव घॊरेण कर्मणा
19 [वयाध]
कुलॊचितम इदं कर्म पितृपैतामहं मम
वर्तमानस्य मे धर्मे सवे मन्युं मा कृथा दविज
20 धात्रा तु विहितं पूर्वं कर्म सवं पालयाम्य अहम
परयत्नाच च गुरू वृद्धौ शुश्रूषे ऽहं दविजॊत्तम
21 सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च
देवतातिथिभृत्यानाम अवशिष्टेन वर्तये
22 न कुत्सयाम्य अहं किं चिन न गर्हे बलवत्तरम
कृतम अन्वेति कर्तारं पुरा कर्म दविजॊत्तम
23 कृषिगॊरक्ष्य वाणिज्यम इह लॊकस्य जीवनम
दण्डनीतिस तरयी विद्या तेन लॊका भवन्त्य उत
24 कर्म शूद्रे कृषिर वैश्ये संग्रामः कषत्रिये समृतः
बरह्मचर्यं तपॊ मन्त्राः सत्यं च बराह्मणे सदा
25 राजा परशास्ति धर्मेण सवकर्म निरताः परजाः
विकर्माणश च ये के चित तान युनक्ति सवकर्मसु
26 भेतव्यं हि सदा राज्ञां परजानाम अधिपा हि ते
मारयन्ति विकर्मस्थं लुब्धा मृगम इवेषुभिः
27 जनकस्येह विप्रर्षे विकर्मस्थॊ न विद्यते
सवकर्म निरता वर्णाश चत्वारापि दविजॊत्तम
28 स एष जनकॊ राजा दुर्वृत्तम अपि चेत सुतम
दण्ड्यं दण्डे निक्षिपति तथा न गलाति धार्मिकम
29 सुयुक्तचारॊ नृपतिः सर्वं धर्मेण पश्यति
शरीश च राज्यं च दण्डश च कषत्रियाणां दविजॊत्तम
30 राजानॊ हि सवधर्मेण शरियम इच्छन्ति भूयसीम
सर्वेषाम एव वर्णानां तराता राजा भवत्य उत
31 परेण हि हतान बरह्मन वराहमहिषान अहम
न सवयं हन्मि विप्रर्षे विक्रीणामि सदा तव अहम
32 न भक्षयामि मांसानि ऋतुगामी तथा हय अहम
सदॊपवासी च तथा नक्तभॊजी तथा दविज
33 अशीलश चापि पुरुषॊ भूत्वा भवति शीलवान
पराणि हिंसा रतश चापि भवते धार्मिकः पुनः
34 वयभिचारान नरेन्द्राणां धर्मः संकीर्यते महान
अधर्मॊ वर्धते चापि संकीर्यन्ते तथा परजाः
35 उरुण्डा वामनाः कुब्जाः सथूलशीर्षास तथैव च
कलीबाश चान्धाश च जायन्ते बधिरा लम्बचूचुकाः
पार्थिवानाम अधर्मत्वात परजानाम अभवः सदा
36 स एष राजा जनकः सर्वं धर्मेण पश्यति
अनुगृह्णन परजाः सर्वाः सवधर्मनिरताः सदा
37 ये चैव मां परशंसन्ति ये च निन्दन्ति मानवाः
सर्वान सुपरिणीतेन कर्मणा तॊषयाम्य अहम
38 ये जीवन्ति सवधर्मेण संभुञ्जन्ते च पार्थिवाः
न किं चिद उपजीवन्ति दक्षा उत्थान शीलिनः
39 शक्त्यान्न दानं सततं तितिक्षा धर्मनित्यता
यथार्हं परतिपूजा च सर्वभूतेषु वै दया
तयागान नान्यत्र मर्त्यानां गुणास तिष्ठन्ति पूरुषे
40 मृषावादं परिहरेत कुर्यात परियम अयाचितः
न च कामान न संरम्भान न दवेषाद धर्मम उत्सृजेत
41 परिये नातिभृशं हृष्येद अप्रिये न च संज्वरेत
न मुह्येद अर्थकृच्छ्रेषु न च धर्मं परित्यजेत
42 कर्म चेत किं चिद अन्यत सयाद इतरन न समाचरेत
यत कल्याणम अभिध्यायेत तत्रात्मानं नियॊजयेत
43 न पापं परति पापः सयात साधुर एव सदा भवेत
आत्मनैव हतः पापॊ यः पापं कर्तुम इच्छति
44 कर्म चैतद असाधूनां वृजिनानाम असाधुवत
न धर्मॊ ऽसतीति मन्वानाः शुचीन अवहसन्ति ये
अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः
45 महादृतिर इवाध्मातः पापॊ भवति नित्यदा
मूढानाम अवलिप्तानाम असारं भाषितं भवेत
दर्शयत्य अन्तरात्मानं दिवा रूपम इवांशुमान
46 न लॊके राजते मूर्खः केवलात्म परशंसया
अपि चेह मृजा हीनः कृतविद्यः परकाशते
47 अब्रुवन कस्य चिन निन्दाम आत्मपूजाम अवर्णयन
न कश चिद गुणसंपन्नः परकाशॊ भुवि दृश्यते
48 विकर्मणा तप्यमानः पापाद विपरिमुच्यते
नैतत कुर्यां पुनर इति दवितीयात परिमुच्यते
49 कर्मणा येन तेनेह पापाद दविज वरॊत्तम
एवं शरुतिर इयं बरह्मन धर्मेषु परिदृश्यते
50 पापान्य अबुद्ध्वेह पुरा कृतानि; पराग धर्मशीलॊ विनिहन्ति पश्चात
धर्मॊ बरह्मन नुदते पूरुषाणां; यत कुर्वते पापम इह परमादात
51 पापं कृत्वा हि मन्येत नाहम अस्मीति पूरुषः
चिकीर्षेद एव कल्याणं शरद्दधानॊ ऽनसूयकः
52 वसनस्येव छिद्राणि साधूनां विवृणॊति यः
पापं चेत पुरुषः कृत्वा कल्याणम अभिपद्यते
मुच्यते सर्वपापेभ्यॊ महाभ्रैर इव चन्द्रमाः
53 यथादित्यः समुद्यन वै तमॊ सर्वं वयपॊहति
एवं कल्याणम आतिष्ठन सर्वपापैः परमुच्यते
54 पापानां विद्ध्य अधिष्ठानं लॊभम एव दविजॊत्तम
लुब्धाः पापं वयवस्यन्ति नरा नातिबहु शरुताः
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः
55 तेषां दमः पवित्राणि परलापा धर्मसंश्रिताः
सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः
56 [मार्क]
स तु विप्रॊ महाप्राज्ञॊ धर्मव्याधम अपृच्छत
शिष्टाचारं कथम अहं विद्याम इति नरॊत्तम
एतन महामते वयाध परब्रवीहि यथातथम
57 [वयाध]
यज्ञॊ दानं तपॊ वेदाः सत्यं च दविजसत्तम
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा
58 कामक्रॊधौ वशे कृत्वा दम्भं लॊभम अनार्जवम
धर्म इत्य एव संतुष्टास ते शिष्टाः शिष्टसंमताः
59 न तेषां विद्यते ऽवृत्तं यज्ञस्वाध्यायशीलिनाम
आचार पालनं चैव दवितीयं शिष्टलक्षणम
60 गुरुशुश्रूषणं सत्यम अक्रॊधॊ दानम एव च
एतच चतुष्टयं बरह्मञ शिष्टाचारेषु नित्यदा
61 शिष्टाचारे मनॊ कृत्वा परतिष्ठाप्य च सर्वशः
याम अयं लभते तुष्टिं सा न शक्या हय अतॊ ऽनयथा
62 वेदस्यॊपनिषत सत्यं सत्यस्यॊपनिषद दमः
दमस्यॊपनिषत तयागः शिष्टाचारेषु नित्यदा
63 ये तु धर्मम असूयन्ते बुद्धिमॊहान्विता नराः
अपथा गच्छतां तेषाम अनुयातापि पीड्यते
64 ये तु शिष्टाः सुनियताः शरुतित्यागपरायणाः
धर्म्यं पन्थानम आरूढाः सत्यधर्मपरायणाः
65 नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः
उपाध्याय मते युक्ताः सथित्या धर्मार्थदर्शिनः
66 नास्तिकान भिन्नमर्यादान करूरान पापमतौ सथितान
तयज ताञ जञानम आश्रित्य धार्मिकान उपसेव्य च
67 काललॊभ गरहाकीर्णां पञ्चेन्द्रिय जलां नदीम
नावं धृतिमयीं कृत्वा जन्म दुर्गाणि संतर
68 करमेण संचितॊ धर्मॊ बुद्धियॊगमयॊ महान
शिष्टाचारे भवेत साधू रागः शुक्लेव वाससि
69 अहिंसा सत्यवचनं सर्वभूतहितं परम
अहिंसा परमॊ धर्मः स च सत्ये परतिष्ठितः
सत्ये कृत्वा परतिष्ठां तु परवर्तन्ते परवृत्तयः
70 सत्यम एव गरीयस तु शिष्टाचार निषेवितम
आचारश च सतां धर्मः सन्तश चाचार लक्षणः
71 यॊ यथा परकृतिर जन्तुः सवां सवां परकृतिम अश्नुते
पापात्मा करॊधकामादीन दॊषान आप्नॊत्य अनात्मवान
72 आरम्भॊ नयाययुक्तॊ यः स हि धर्म इति समृतः
अनाचारस तव अधर्मेति एतच छिष्टानुशासनम
73 अक्रुध्यन्तॊ ऽनसूयन्तॊ निरहंकार मत्सराः
ऋजवः शम संपन्नाः शिष्टाचारा भवन्ति ते
74 तरैविद्य वृद्धाः शुचयश वृत्तवन्तॊ मनस्विनः
गुरुशुश्रूषवॊ दान्ताः शिष्टाचारा भवन्त्य उत
75 तेषाम अदीनसत्त्वानां दुष्कराचार कर्मणाम
सवैः कर्मभिः सत्कृतानां घॊरत्वं संप्रणश्यति
76 तं सद आचारम आश्चर्यं पुराणं शाश्वतं धरुवम
धर्मं धर्मेण पश्यन्तः सवर्गं यान्ति मनीषिणः
77 आस्तिका मानहीनाश च दविजातिजनपूजकाः
शरुतवृत्तॊपसंपन्नास ते सन्तः सवर्गगामिनः
78 वेदॊक्तः परमॊ धर्मॊ धर्मशास्त्रेषु चापरः
शिष्टाचीर्णश च शिष्टानां तरिविधं धर्मलक्षणम
79 पारणं चापि विद्यानां तीर्थानाम अवगाहनम
कषमा सत्यार्जवं शौचं शिष्टाचार निदर्शनम
80 सर्वभूतदयावन्तॊ अहिंसा निरताः सदा
परुषं न परभाषन्ते सदा सन्तॊ दविज परियाः
81 शुभानाम अशुभानां च कर्मणां फलसंचये
विपाकम अभिजानन्ति ते शिष्टाः शिष्टसंमताः
82 नयायॊपेता गुणॊपेताः सर्वलॊकहितैषिणः
सन्तः सवर्गजितः शुक्लाः संनिविष्टाश च सत्पथे
83 दातारः संविभक्तारॊ दीनानुग्रह कारिणः
सर्वभूतदयावन्तस ते शिष्टाः शिष्टसंमताः
84 सर्वपूज्याः शरुतधनास तथैव च तपस्विनः
दाननित्याः सुखाँल लॊकान आप्नुवन्तीह च शरियम
85 पीडया च कलत्रस्य भृत्यानां च समाहिताः
अतिशक्त्या परयच्छन्ति सन्तः सद्भिः समागताः
86 लॊकयात्रां च पश्यन्तॊ धर्मम आत्महितानि च
एवं सन्तॊ वर्तमाना एधन्ते शाश्वतीः समाः
87 अहिंसा सत्यवचनम आनृशंस्यम अथार्जवम
अद्रॊहॊ नातिमानश च हरीस तितिक्षा दमः शमः
88 धीमन्तॊ धृतिमन्तश च भूतानाम अनुकम्पकाः
अकाम दवेषसंयुक्तास ते सन्तॊ लॊकसत्कृताः
89 तरीण्य एव तु पदान्य आहुः सतां वृत्तम अनुत्तमम
न दरुह्येच चैव दद्याच च सत्यं चैव सदा वदेत
90 सर्वत्र च दयावन्तः सन्तः करुणवेदिनः
गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानम उत्तमम
शिष्टाचारा महात्मानॊ येषां धर्मः सुनिश्चितः
91 अनसूया कषमा शान्तिः संतॊषः परियवादिता
कामक्रॊधपरित्यागः शिष्टाचार निषेवणम
92 कर्मणा शरुतसंपन्नं सतां मार्गम अनुत्तमम
शिष्टाचारं निषेवन्ते नित्यं धर्मेष्व अतन्द्रिताः
93 परज्ञा परासादम आरुह्य मुह्यतॊ महतॊ जनान
परेक्षन्तॊ लॊकवृत्तानि विविधानि दविजॊत्तम
अतिपुण्यानि पापानि तानि दविज वरॊत्तम
94 एतत ते सर्वम आख्यातं यथा परज्ञं यथा शरुतम
शिष्टाचार गुणान बरह्मन पुरस्कृत्य दविजर्षभ
1 [mārk]
cintayitvā tad āścaryaṃ striyā proktam aśeṣataḥ
vinindan sa dvijo ''tmānam āgaḥ kṛta ivābabhau
2 cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt
śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham
3 kṛtātmā dharmavit tasyāṃ vyādho nivasate kila
taṃ gacchāmy aham adyaiva dharmaṃ praṣṭuṃ tapodhanam
4 iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ
balākā pratyayenāsau dharmyaiś ca vacanaiḥ śubhaiḥ
saṃpratasthe sa mithilāṃ kautūhalasamanvitaḥ
5 atikrāmann araṇyāni grāmāṃś ca nagarāṇi ca
tato jagāma mithilāṃ janakena surakṣitām
6 dharmasetu samākīrṇāṃ yajñotsava vatīṃ śubhām
gopurāṭṭālakavatīṃ gṛhaprākāraśobhitām
7 praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām
paṇyaiś ca bahubhir yuktāṃ suvibhaktamahāpathām
8 aśvai rathais tathā nāgair yānaiś ca bahubhir vṛtām
hṛṣṭapuṣṭa janākīrṇāṃ nityotsava samākulām
9 so 'paśyad bahu vṛttāntāṃ brāhmaṇaḥ samatikraman
dharmavyādham apṛcchac ca sa cāsya kathito dvijaiḥ
10 apaśyat tatra gatvā taṃ sūnā madhye vyavasthitam
mārgamāhiṣa māṃsāni vikrīṇantaṃ tapasvinam
ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ
11 sa tu jñātvā dvijaṃ prāptaṃ sahasā saṃbhramotthitaḥ
ājagāma yato vipraḥ sthita ekānta āsane
12 [vyādha]
abhivādaye tvā bhagavan svāgataṃ te dvijottama
ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām
13 ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti
jānāmy etad ahaṃ sarvaṃ yadarthaṃ tvam ihāgataḥ
14 [mārk]
śrutvā tu tasya tad vākyaṃ sa vipro bhṛśaharṣitaḥ
dvitīyam idam āścaryam ity acintayata dvijaḥ
15 adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam
gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha
16 bāḍham ity eva saṃhṛṣṭo vipro vacanam abravīt
agratas tu dvijaṃ kṛtvā sa jagāma grahān prati
17 praviśya ca gṛhaṃ ramyam āsanenābhipūjitaḥ
pādyam ācamanīyaṃ ca pratigṛhya dvijottamaḥ
18 tataḥ sukhopaviṣṭas taṃ vyādhaṃ vacanam abravīt
karmaitad vai na sadṛśaṃ bhavataḥ pratibhāti me
anutapye bhṛśaṃ tāta tava ghoreṇa karmaṇā
19 [vyādha]
kulocitam idaṃ karma pitṛpaitāmahaṃ mama
vartamānasya me dharme sve manyuṃ mā kṛthā dvija
20 dhātrā tu vihitaṃ pūrvaṃ karma svaṃ pālayāmy aham
prayatnāc ca gurū vṛddhau śuśrūṣe 'haṃ dvijottama
21 satyaṃ vade nābhyasūye yathāśakti dadāmi ca
devatātithibhṛtyānām avaśiṣṭena vartaye
22 na kutsayāmy ahaṃ kiṃ cin na garhe balavattaram
kṛtam anveti kartāraṃ purā karma dvijottama
23 kṛṣigorakṣya vāṇijyam iha lokasya jīvanam
daṇḍanītis trayī vidyā tena lokā bhavanty uta
24 karma śūdre kṛṣir vaiśye saṃgrāmaḥ kṣatriye smṛtaḥ
brahmacaryaṃ tapo mantrāḥ satyaṃ ca brāhmaṇe sadā
25 rājā praśāsti dharmeṇa svakarma niratāḥ prajāḥ
vikarmāṇaś ca ye ke cit tān yunakti svakarmasu
26 bhetavyaṃ hi sadā rājñāṃ prajānām adhipā hi te
mārayanti vikarmasthaṃ lubdhā mṛgam iveṣubhiḥ
27 janakasyeha viprarṣe vikarmastho na vidyate
svakarma niratā varṇāś catvārāpi dvijottama
28 sa eṣa janako rājā durvṛttam api cet sutam
daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam
29 suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati
śrīś ca rājyaṃ ca daṇḍaś ca kṣatriyāṇāṃ dvijottama
30 rājāno hi svadharmeṇa śriyam icchanti bhūyasīm
sarveṣām eva varṇānāṃ trātā rājā bhavaty uta
31 pareṇa hi hatān brahman varāhamahiṣān aham
na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tv aham
32 na bhakṣayāmi māṃsāni ṛtugāmī tathā hy aham
sadopavāsī ca tathā naktabhojī tathā dvija
33 aśīlaś cāpi puruṣo bhūtvā bhavati śīlavān
prāṇi hiṃsā rataś cāpi bhavate dhārmikaḥ punaḥ
34 vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān
adharmo vardhate cāpi saṃkīryante tathā prajāḥ
35 uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣās tathaiva ca
klībāś cāndhāś ca jāyante badhirā lambacūcukāḥ
pārthivānām adharmatvāt prajānām abhavaḥ sadā
36 sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati
anugṛhṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā
37 ye caiva māṃ praśaṃsanti ye ca nindanti mānavāḥ
sarvān supariṇītena karmaṇā toṣayāmy aham
38 ye jīvanti svadharmeṇa saṃbhuñjante ca pārthivāḥ
na kiṃ cid upajīvanti dakṣā utthāna śīlinaḥ
39 śaktyānna dānaṃ satataṃ titikṣā dharmanityatā
yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā
tyāgān nānyatra martyānāṃ guṇās tiṣṭhanti pūruṣe
40 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ
na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet
41 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret
na muhyed arthakṛcchreṣu na ca dharmaṃ parityajet
42 karma cet kiṃ cid anyat syād itaran na samācaret
yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet
43 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet
ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati
44 karma caitad asādhūnāṃ vṛjinānām asādhuvat
na dharmo 'stīti manvānāḥ śucīn avahasanti ye
aśraddadhānā dharmasya te naśyanti na saṃśayaḥ
45 mahādṛtir ivādhmātaḥ pāpo bhavati nityadā
mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bhavet
darśayaty antarātmānaṃ divā rūpam ivāṃśumān
46 na loke rājate mūrkhaḥ kevalātma praśaṃsayā
api ceha mṛjā hīnaḥ kṛtavidyaḥ prakāśate
47 abruvan kasya cin nindām ātmapūjām avarṇayan
na kaś cid guṇasaṃpannaḥ prakāśo bhuvi dṛśyate
48 vikarmaṇā tapyamānaḥ pāpād viparimucyate
naitat kuryāṃ punar iti dvitīyāt parimucyate
49 karmaṇā yena teneha pāpād dvija varottama
evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate
50 pāpāny abuddhveha purā kṛtāni; prāg dharmaśīlo vinihanti paścāt
dharmo brahman nudate pūruṣāṇāṃ; yat kurvate pāpam iha pramādāt
51 pāpaṃ kṛtvā hi manyeta nāham asmīti pūruṣaḥ
cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ
52 vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ
pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate
mucyate sarvapāpebhyo mahābhrair iva candramāḥ
53 yathādityaḥ samudyan vai tamo sarvaṃ vyapohati
evaṃ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate
54 pāpānāṃ viddhy adhiṣṭhānaṃ lobham eva dvijottama
lubdhāḥ pāpaṃ vyavasyanti narā nātibahu śrutāḥ
adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ
55 teṣāṃ damaḥ pavitrāṇi pralāpā dharmasaṃśritāḥ
sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ
56 [mārk]
sa tu vipro mahāprājño dharmavyādham apṛcchata
śiṣṭācāraṃ katham ahaṃ vidyām iti narottama
etan mahāmate vyādha prabravīhi yathātatham
57 [vyādha]
yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama
pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā
58 kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam
dharma ity eva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ
59 na teṣāṃ vidyate 'vṛttaṃ yajñasvādhyāyaśīlinām
ācāra pālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam
60 guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca
etac catuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā
61 śiṣṭācāre mano kṛtvā pratiṣṭhāpya ca sarvaśaḥ
yām ayaṃ labhate tuṣṭiṃ sā na śakyā hy ato 'nyathā
62 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ
damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā
63 ye tu dharmam asūyante buddhimohānvitā narāḥ
apathā gacchatāṃ teṣām anuyātāpi pīḍyate
64 ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ
dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ
65 niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ
upādhyāya mate yuktāḥ sthityā dharmārthadarśinaḥ
66 nāstikān bhinnamaryādān krūrān pāpamatau sthitān
tyaja tāñ jñānam āśritya dhārmikān upasevya ca
67 kālalobha grahākīrṇāṃ pañcendriya jalāṃ nadīm
nāvaṃ dhṛtimayīṃ kṛtvā janma durgāṇi saṃtara
68 krameṇa saṃcito dharmo buddhiyogamayo mahān
śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi
69 ahiṃsā satyavacanaṃ sarvabhūtahitaṃ param
ahiṃsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ
satye kṛtvā pratiṣṭhāṃ tu pravartante pravṛttayaḥ
70 satyam eva garīyas tu śiṣṭācāra niṣevitam
ācāraś ca satāṃ dharmaḥ santaś cācāra lakṣaṇaḥ
71 yo yathā prakṛtir jantuḥ svāṃ svāṃ prakṛtim aśnute
pāpātmā krodhakāmādīn doṣān āpnoty anātmavān
72 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ
anācāras tv adharmeti etac chiṣṭānuśāsanam
73 akrudhyanto 'nasūyanto nirahaṃkāra matsarāḥ
ṛjavaḥ śama saṃpannāḥ śiṣṭācārā bhavanti te
74 traividya vṛddhāḥ śucayaś vṛttavanto manasvinaḥ
guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavanty uta
75 teṣām adīnasattvānāṃ duṣkarācāra karmaṇām
svaiḥ karmabhiḥ satkṛtānāṃ ghoratvaṃ saṃpraṇaśyati
76 taṃ sad ācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam
dharmaṃ dharmeṇa paśyantaḥ svargaṃ yānti manīṣiṇaḥ
77 āstikā mānahīnāś ca dvijātijanapūjakāḥ
śrutavṛttopasaṃpannās te santaḥ svargagāminaḥ
78 vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ
śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam
79 pāraṇaṃ cāpi vidyānāṃ tīrthānām avagāhanam
kṣamā satyārjavaṃ śaucaṃ śiṣṭācāra nidarśanam
80 sarvabhūtadayāvanto ahiṃsā niratāḥ sadā
paruṣaṃ na prabhāṣante sadā santo dvija priyāḥ
81 śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye
vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ
82 nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ
santaḥ svargajitaḥ śuklāḥ saṃniviṣṭāś ca satpathe
83 dātāraḥ saṃvibhaktāro dīnānugraha kāriṇaḥ
sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ
84 sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ
dānanityāḥ sukhāṁl lokān āpnuvantīha ca śriyam
85 pīḍayā ca kalatrasya bhṛtyānāṃ ca samāhitāḥ
atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ
86 lokayātrāṃ ca paśyanto dharmam ātmahitāni ca
evaṃ santo vartamānā edhante śāśvatīḥ samāḥ
87 ahiṃsā satyavacanam ānṛśaṃsyam athārjavam
adroho nātimānaś ca hrīs titikṣā damaḥ śamaḥ
88 dhīmanto dhṛtimantaś ca bhūtānām anukampakāḥ
akāma dveṣasaṃyuktās te santo lokasatkṛtāḥ
89 trīṇy eva tu padāny āhuḥ satāṃ vṛttam anuttamam
na druhyec caiva dadyāc ca satyaṃ caiva sadā vadet
90 sarvatra ca dayāvantaḥ santaḥ karuṇavedinaḥ
gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam
śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ
91 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā
kāmakrodhaparityāgaḥ śiṣṭācāra niṣevaṇam
92 karmaṇā śrutasaṃpannaṃ satāṃ mārgam anuttamam
śiṣṭācāraṃ niṣevante nityaṃ dharmeṣv atandritāḥ
93 prajñā prāsādam āruhya muhyato mahato janān
prekṣanto lokavṛttāni vividhāni dvijottama
atipuṇyāni pāpāni tāni dvija varottama
94 etat te sarvam ākhyātaṃ yathā prajñaṃ yathā śrutam
śiṣṭācāra guṇān brahman puraskṛtya dvijarṣabha

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

498 of 2013 Book 25% ~11 min left