To view the original Internet Sacred Text Archive, visit archive.sacred-texts.com
Book 3: Chapter 190
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 3: Chapter 190

The Mahabharata in Sanskrit

Book 3
Chapter 190

1 [वै]
भूय एव बराह्मणमहाभाग्यं वक्तुम अर्हसीत्य अब्रवीत पाण्डवेयॊ मार्कण्डेयम
2 अथाचष्ट मार्कण्डेयः
3 अयॊध्यायाम इक्षुवाकु कुलॊत्पन्नः पार्थिवः परिक्षिन नाम मृगयाम अगमत
4 तम एकाश्वेन मृगम अनुसरन्तं मृगॊ दूरम अपाहरत
5 अथाध्वनि जातश्रमः कषुत्तृष्णाभिभूतश च कस्मिंश चिद उद्देशे नीलं वनषण्डम अपश्यत
तच च विवेश
6 ततस तस्य वनषण्डस्य मध्ये ऽतीव रमणीयं सरॊ दृष्ट्वा साश्वैव वयगाहत
7 अथाश्वस्तः स बिस मृणालम अश्वस्याग्रे निक्षिप्य पुष्करिणी तीरे समाविशत
8 ततः शयानॊ मधुरं गीतशब्दम अशृणॊत
9 स शरुत्वा अचिन्तयत
नेह मनुष्यगतिं पश्यामि
कस्य खल्व अयं गीतशब्देति
10 अथापश्यत कन्यां परमरूपदर्शनीयां पुष्पाण्य अवचिन्वतीं गायन्तीं च
11 अथ सा राज्ञः समीपे पर्यक्रामत
12 ताम अब्रवीद राजा
कस्यासि सुभगे तवम इति
13 सा परत्युवाच
14 तां राजॊवाच
अर्थी तवयाहम इति
15 अथॊवाच कन्या समयेनाहं शक्या तवया लब्धुम
नान्यथेति
16 तां राजा समयम अपृच्छत
17 ततः कन्येदम उवाच
उदकं मे न दर्शयितव्यम इति
18 स राजा बाढम इत्य उक्त्वा तां समागम्य तया सहास्ते
19 तत्रैवासीने राजनि सेनान्वगच्छत
पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत
20 पर्याश्वस्तश च राजा तयैव सह शिबिकया परायाद अविघाटितया
सवनगरम अनुप्राप्य रहसि तया सह रमन्न आस्ते
नान्यत किं चनापश्यत
21 अथ परधानामात्यस तस्याभ्याश चराः सत्रियॊ ऽपृच्छत
किम अत्र परयॊजनं वर्ततेति
22 अथाब्रुवंस ताः सत्रियः
अपूर्वम इव पश्यामॊदकं नात्र नीयतेति
23 अथामात्यॊ ऽनुदकं वनं कारयित्वॊदार वृक्षं बहुमूलपुष्पफलं रहस्य उपगम्य राजानम अब्रवीत
वनम इदम उदारम अनुदकम
साध्व अत्र रम्यताम इति
24 स तस्य वचनात तयैव सहदेव्या तद वनं पराविशत
स कदा चित तस्मिन वने रम्ये तयैव सह वयवहरत
अथ कषुत तृष्णार्दितः शरान्तॊ ऽतिमात्रम अतिमुक्तागारम अपश्यत
25 तत परविश्य राजा सह परियया सुधा तलसुकृतां विमलसलिलपूर्णां वापीम अपश्यत
26 दृष्ट्वैव च तां तस्यैव तीरे सहैव तया देव्या वयतिष्ठत
27 अथ तां देवीं स राजाब्रवीत
साधुव अवतर वापी सलिलम इति
28 सा तद वचॊ शरुत्वावतीर्य वापीं नयमज्जत
न पुनर उदमज्जत
29 तां मृगयमाणॊ राजा नापश्यत
30 वापीम अपि निःस्राव्य मण्डूकं शवभ्रमुखे दृष्ट्वा करुद्धाज्ञापयाम आस
सर्वमण्डूक वधः करियताम इति
यॊ मयार्थी स मृतकरि मण्डूकैर उपायनैर माम उपतिष्ठेद इति
31 अथ मण्डूकवधे घॊरे करियमाणे दिक्षु सर्वासु मण्डूकान भयम आविशत
ते भीता मण्डूकराज्ञे यथावृत्तं नयवेदयन
32 ततॊ मण्डूकराट तापस वेषधारी राजानम अभ्यगच्छत
33 उपेत्य चैनम उवाच
मा राजन करॊधवशं गमः
परसादं कुरु
नार्हसि मण्डूकानाम अनपराधिनां वधं कर्तुम इति
34 शलॊकौ चात्र भवतः
मा मण्डूकाञ जिघांस तवं कॊपं संधार्ययाच्युत
परक्षीयते धनॊद्रेकॊ जनानाम अविजानताम
35 परतिजानीहि नैतांस तवं पराप्य करॊधं विमॊक्ष्यसे
अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर हि ते
36 तम एवं वादिनम इष्टजनशॊकपरीतात्मा राजा परॊवाच
न हि कषम्यते तन मया
हनिष्याम्य एतान
एतैर दुरात्मभिः परिया मे भक्षिता
सर्वथैव मे वध्या मण्डूकाः
नार्हसि विद्वन माम उपरॊद्धुम इति
37 स तद वाक्यम उपलभ्य वयथितेन्द्रिय मनः परॊवाच
परसीद राजन
अहम आयुर नाम मण्डूकराजः
मम सा दुहिता सुशॊभना नाम
तस्या दौःशील्यम एतत
बहवॊ हि राजानस तया विप्रलब्ध पूर्वेति
38 तम अब्रवीद राजा
तयास्म्य अर्थी
स मे दीयताम इति
39 अथैनां राज्ञे पितादात
अब्रवीच चैनाम
एनं राजानं शुश्रूषस्वेति
40 सॊवाच दुहितरम
यस्मात तवया राजानॊ विप्रलब्धास तस्माद अब्रह्मण्यानि तवापत्यानि भविष्यन्त्य अनृतकत्वात तवेति
41 स च राजा ताम उपलभ्य तस्यां सुरत गुणनिबद्धहृदयॊ लॊकत्रयैश्वर्यम इवॊपलभ्य हर्षबाष्पकलया वाच परणिपत्याभिपूज्य मण्डूकराजानम अब्रवीत
अनुगृहीतॊ ऽसमीति
42 स च मण्डूकराजॊ जामातरम अनुज्ञाप्य यथागतम अगच्छत
43 अथ कस्य चित कालस्य तस्यां कुमारास तरयस तस्य राज्ञः संबभूवुः शलॊ दलॊ बलश चेति
ततस तेषां जयेष्ठं शलं समये पिता राज्ये ऽभिषिच्य तपसि धृतात्मा वनं जगाम
44 अथ कदा चिच छिलॊ मृगयाम अचरत
मृगं चासाद्य रथेनान्वधावत
45 सूतं चॊवाच
शीघ्रं मां वहस्वेति
46 स तथॊक्तः सूतॊ राजानम अब्रवीत
मा करियताम अनुबन्धः
नैष शक्यस तवया मृगॊ गरहीतुं यद्य अपि ते रथे युक्तौ वाम्य सयाताम इति
47 ततॊ ऽबरवीद राजा सूतम
आचक्ष्व मे वाम्य
हन्मि वा तवाम इति
48 सैवम उक्तॊ राजभयभीतॊ वामदेव शापभीतश च सन्न आचख्यौ राज्ञे
वामदेवस्याश्वौ वाम्य मनॊजवाव इति
49 अथैनम एवं बरुवाणम अब्रवीद राजा
वामदेवाश्रमं याहीति
50 स गत्वा वामदेवाश्रमं तम ऋषिम अब्रवीत
भगवन मृगॊ मया विद्धः पालयते
तं संभावयेयम
अर्हसि मे वाम्य दातुम इति
51 तम अब्रवीद ऋषिः
ददानि ते वाम्य
कृतकार्येण भवता ममैव निर्यात्यौ कषिप्रम इति
52 स च ताव अश्वौ परतिगृह्यानुज्ञाप्य चर्षिं परायाद वाम्य संयुक्तेन रथेन मृगं परति
गच्छंश चाब्रवीत सूतम
अश्वरत्नाव इमाव अयॊग्यौ बराह्मणानाम
नैतौ परतिदेयौ वामदेवायेति
53 एवम उक्त्वा मृगम अवाप्य सवनगरम एत्याश्वावन्तःपुरे ऽसथापयत
54 अथर्षिश चिन्तयाम आस
तरुणॊ राजपुत्रः कल्याणं पत्रम आसाद्य रमते
न मे परतिनिर्यातयति
अहॊ कष्टम इति
55 मनसा निश्चित्य मासि पूर्णे शिष्यम अब्रवीत
गच्छात्रेय
राजानं बरूहि
यदि पर्याप्तं निर्यातयॊपाध्याय वाम्येति
56 स गत्वैवं तं राजानम अब्रवीत
57 तं राजा परत्युवाच
राज्ञाम एतद वाहनम
अनर्हा बराह्मणा रत्नानाम एवंविधानाम
किं च बराह्मणानाम अश्वैः कार्यम
साधु परतिगम्यताम इति
58 स गत्वैवम उपाध्यायायाचष्ट
59 तच छरुत्वा वचनम अप्रियं वामदेवः करॊधपरीतात्मा सवयम एव राजानम अभिगम्याश्वार्थम अभ्यचॊदयत
न चादाद राजा
60 [वाम]
परयच्छ वाम्यौ मम पार्थिव तवं; कृतं हि ते कार्यम अन्यैर अशक्यम
मा तवा वधीद वरुणॊ घॊरपाशैर; बरह्मक्षत्रस्यान्तरे वर्तमानः
61 [राजा]
अनड्वाहौ सुव्रतौ साधु दान्ताव; एतद विप्राणां वाहनं वामदेव
ताभ्यां याहि तवं यत्र कामॊ महर्षे; छन्दांसि वै तवादृशं संवहन्ति
62 [वाम]
छन्दांसि वै मादृशं संवहन्ति; लॊके ऽमुष्मिन पार्थिव यानि सन्ति
अस्मिंस तु लॊके मम यानम एतद; अस्मद्विधानाम अपरेषां च राजन
63 [राजा]
चत्वारॊ वा गर्दभास तवां वहन्तु; शरेष्ठाश्वतर्यॊ हरयॊ वा तुरंगाः
तैस तवं याहि कषत्रियस्यैष वाहॊ; मम वाम्यौ न तवैतौ हि विद्धि
64 [वाम]
घॊरं वरतं बराह्मणस्यैतद आहुर; एतद राजन यद इहाजीवमानः
अयस्मया घॊररूपा महान्तॊ; वहन्तु तवां शितशूलाश चतुर्धा
65 [राजा]
ये तवा विदुर बराह्मणं वामदेव; वाचा हन्तुं मनसा कर्मणा वा
ते तवां सशिष्यम इह पातयन्तु; मद्वाक्यनुन्नाः शितशूलासि हस्ताः
66 [वाम]
नानुयॊगा बराह्मणानां भवन्ति; वाचा राजन मनसा कर्मणा वा
यस तव एवं बरह्म तपसान्वेति; विद्वांस तेन शरेष्ठॊ भवति हि जीवमानः
67 [मार्क]
एवम उक्ते वामदेवेन राजन; समुत्तस्थू राक्षसा घॊररूपाः
तैः शूलहस्तैर वध्यमानः स राजा; परॊवाचेदं वाक्यम उच्चैस तदानीम
68 इक्ष्वाकवॊ यदि बरह्मन दलॊ वा; विधेया मे यदि वान्ये विशॊ ऽपि
नॊत्स्रक्ष्ये ऽहं वामदेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति
69 एवं बरुवन्न एव स यातुधानैर; हतॊ जगामाशु महीं कषितीशः
ततॊ विदित्वा नृपतिं निपातितम; इक्ष्वाकवॊ वै दलम अभ्यषिञ्चन
70 राज्ये तदा तत्र गत्वा स विप्रः; परॊवाचेदं वचनं वामदेवः
दलं राजानं बराह्मणानां हि देयम; एवं राजन सर्वधर्मेषु दृष्टम
71 बिभेषि चेत तवम अधर्मान नरेन्द्र; परयच्छ मे शीघ्रम एवाद्य वाम्यौ
एतच छरुत्वा वामदेवस्य वाक्यं; स पार्थिवः सूतम उवाच रॊषात
72 एकं हि मे सायकं चित्ररूपं; दिग्धं विषेणाहर संगृहीतम
येन विद्धॊ वामदेवः शयीत; संदश्यमानः शवभिर आर्तरूपः
73 [वाम]
जानामि पुत्रं दशवर्षं तवाहं; जातं महिष्यां शयेनजितं नरेन्द्र
तं जहि तवं मद्वचनात परणुन्नस; तूर्णं परियं सायकैर घॊररूपैः
74 [मार्क]
एवम उक्तॊ वामदेवेन राजन्न; अन्तःपुरे राजपुत्रं जघान
स सायकस तिग्मतेजा विसृष्टः; शरुत्वा दलस तच च वाक्यं बभाषे
75 इक्ष्वाकवॊ हन्त चरामि वः परियं; निहन्मीमं विप्रम अद्य परमथ्य
आनीयताम अपरस तिग्मतेजाः; पश्यध्वं मे वीर्यम अद्य कषितीशाः
76 [वाम]
यं तवम एनं सायकं घॊररूपं; विषेण दिग्धं मम संदधासि
न तवम एनं शरवर्यं विमॊक्तुं; संधातुं वा शक्ष्यसि मानवेन्द्र
77 [राजा]
इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नॊम्य एष शरं विमॊक्तुम
न चास्य कर्तुं नाशम अभ्युत्सहामि; आयुष्मान वै जीवतु वामदेवः
78 [वाम]
संस्पृशैनां महिषीं सायकेन; ततस तस्माद एनसॊ मॊक्ष्यसे तवम
79 [मार्क]
ततस तथा कृतवान पार्थिवस तु; ततॊ मुनिं राजपुत्री बभाषे
यथा युक्तं वामदेवाहम एनं; दिने दिने संविशन्ती वयशंसम
बराह्मणेभ्यॊ मृगयन्ती सूनृतानि; तथा बरह्मन पुण्यलॊकं लभेयम
80 [वाम]
तवया तरातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं ददानि ते
परशाधीमं सवजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच चाप्य अनिन्द्ये
81 [राजपुत्री]
वरं वृणे भगवन्न एकम एव; विमुच्यतां किल्बिषाद अद्य भर्ता
शिवेन चाध्याहि सपुत्रबान्धवं; वरॊ वृतॊ हय एष मया दविजाग्र्य
82 [मार्क]
शरुत्वा वचॊ स मुनी राजपुत्र्यास; तथास्त्व इति पराह कुरुप्रवीर
ततः स राजा मुदितॊ बभूव; वाम्यौ चास्मै संप्रददौ परणम्य
1 [vai]
bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasīty abravīt pāṇḍaveyo mārkaṇḍeyam
2 athācaṣṭa mārkaṇḍeyaḥ
3 ayodhyāyām ikṣuvāku kulotpannaḥ pārthivaḥ parikṣin nāma mṛgayām agamat
4 tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat
5 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaś ca kasmiṃś cid uddeśe nīlaṃ vanaṣaṇḍam apaśyat
tac ca viveśa
6 tatas tasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśvaiva vyagāhata
7 athāśvastaḥ sa bisa mṛṇālam aśvasyāgre nikṣipya puṣkariṇī tīre samāviśat
8 tataḥ śayāno madhuraṃ gītaśabdam aśṛṇot
9 sa śrutvā acintayat
neha manuṣyagatiṃ paśyāmi
kasya khalv ayaṃ gītaśabdeti
10 athāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇy avacinvatīṃ gāyantīṃ ca
11 atha sā rājñaḥ samīpe paryakrāmat
12 tām abravīd rājā
kasyāsi subhage tvam iti
13 sā pratyuvāca
14 tāṃ rājovāca
arthī tvayāham iti
15 athovāca kanyā samayenāhaṃ śakyā tvayā labdhum
nānyatheti
16 tāṃ rājā samayam apṛcchat
17 tataḥ kanyedam uvāca
udakaṃ me na darśayitavyam iti
18 sa rājā bāḍham ity uktvā tāṃ samāgamya tayā sahāste
19 tatraivāsīne rājani senānvagacchat
padenānupadaṃ dṛṣṭvā rājānaṃ parivāryātiṣṭhat
20 paryāśvastaś ca rājā tayaiva saha śibikayā prāyād avighāṭitayā
svanagaram anuprāpya rahasi tayā saha ramann āste
nānyat kiṃ canāpaśyat
21 atha pradhānāmātyas tasyābhyāśa carāḥ striyo 'pṛcchat
kim atra prayojanaṃ vartateti
22 athābruvaṃs tāḥ striyaḥ
apūrvam iva paśyāmodakaṃ nātra nīyateti
23 athāmātyo 'nudakaṃ vanaṃ kārayitvodāra vṛkṣaṃ bahumūlapuṣpaphalaṃ rahasy upagamya rājānam abravīt
vanam idam udāram anudakam
sādhv atra ramyatām iti
24 sa tasya vacanāt tayaiva sahadevyā tad vanaṃ prāviśat
sa kadā cit tasmin vane ramye tayaiva saha vyavaharat
atha kṣut tṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat
25 tata praviśya rājā saha priyayā sudhā talasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat
26 dṛṣṭvaiva ca tāṃ tasyaiva tīre sahaiva tayā devyā vyatiṣṭhat
27 atha tāṃ devīṃ sa rājābravīt
sādhuv avatara vāpī salilam iti
28 sā tad vaco śrutvāvatīrya vāpīṃ nyamajjat
na punar udamajjat
29 tāṃ mṛgayamāṇo rājā nāpaśyat
30 vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddhājñāpayām āsa
sarvamaṇḍūka vadhaḥ kriyatām iti
yo mayārthī sa mṛtakari maṇḍūkair upāyanair mām upatiṣṭhed iti
31 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat
te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan
32 tato maṇḍūkarāṭ tāpasa veṣadhārī rājānam abhyagacchat
33 upetya cainam uvāca
mā rājan krodhavaśaṃ gamaḥ
prasādaṃ kuru
nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti
34 ślokau cātra bhavataḥ
mā maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhāryayācyuta
prakṣīyate dhanodreko janānām avijānatām
35 pratijānīhi naitāṃs tvaṃ prāpya krodhaṃ vimokṣyase
alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te
36 tam evaṃ vādinam iṣṭajanaśokaparītātmā rājā provāca
na hi kṣamyate tan mayā
haniṣyāmy etān
etair durātmabhiḥ priyā me bhakṣitā
sarvathaiva me vadhyā maṇḍūkāḥ
nārhasi vidvan mām uparoddhum iti
37 sa tad vākyam upalabhya vyathitendriya manaḥ provāca
prasīda rājan
aham āyur nāma maṇḍūkarājaḥ
mama sā duhitā suśobhanā nāma
tasyā dauḥśīlyam etat
bahavo hi rājānas tayā vipralabdha pūrveti
38 tam abravīd rājā
tayāsmy arthī
sa me dīyatām iti
39 athaināṃ rājñe pitādāt
abravīc cainām
enaṃ rājānaṃ śuśrūṣasveti
40 sovāca duhitaram
yasmāt tvayā rājāno vipralabdhās tasmād abrahmaṇyāni tavāpatyāni bhaviṣyanty anṛtakatvāt taveti
41 sa ca rājā tām upalabhya tasyāṃ surata guṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vāca praṇipatyābhipūjya maṇḍūkarājānam abravīt
anugṛhīto 'smīti
42 sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat
43 atha kasya cit kālasya tasyāṃ kumārās trayas tasya rājñaḥ saṃbabhūvuḥ śalo dalo balaś ceti
tatas teṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma
44 atha kadā cic chilo mṛgayām acarat
mṛgaṃ cāsādya rathenānvadhāvat
45 sūtaṃ covāca
śīghraṃ māṃ vahasveti
46 sa tathoktaḥ sūto rājānam abravīt
mā kriyatām anubandhaḥ
naiṣa śakyas tvayā mṛgo grahītuṃ yady api te rathe yuktau vāmya syātām iti
47 tato 'bravīd rājā sūtam
ācakṣva me vāmya
hanmi vā tvām iti
48 saivam ukto rājabhayabhīto vāmadeva śāpabhītaś ca sann ācakhyau rājñe
vāmadevasyāśvau vāmya manojavāv iti
49 athainam evaṃ bruvāṇam abravīd rājā
vāmadevāśramaṃ yāhīti
50 sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt
bhagavan mṛgo mayā viddhaḥ pālayate
taṃ saṃbhāvayeyam
arhasi me vāmya dātum iti
51 tam abravīd ṛṣiḥ
dadāni te vāmya
kṛtakāryeṇa bhavatā mamaiva niryātyau kṣipram iti
52 sa ca tāv aśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmya saṃyuktena rathena mṛgaṃ prati
gacchaṃś cābravīt sūtam
aśvaratnāv imāv ayogyau brāhmaṇānām
naitau pratideyau vāmadevāyeti
53 evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat
54 atharṣiś cintayām āsa
taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate
na me pratiniryātayati
aho kaṣṭam iti
55 manasā niścitya māsi pūrṇe śiṣyam abravīt
gacchātreya
rājānaṃ brūhi
yadi paryāptaṃ niryātayopādhyāya vāmyeti
56 sa gatvaivaṃ taṃ rājānam abravīt
57 taṃ rājā pratyuvāca
rājñām etad vāhanam
anarhā brāhmaṇā ratnānām evaṃvidhānām
kiṃ ca brāhmaṇānām aśvaiḥ kāryam
sādhu pratigamyatām iti
58 sa gatvaivam upādhyāyāyācaṣṭa
59 tac chrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat
na cādād rājā
60 [vāma]
prayaccha vāmyau mama pārthiva tvaṃ; kṛtaṃ hi te kāryam anyair aśakyam
mā tvā vadhīd varuṇo ghorapāśair; brahmakṣatrasyāntare vartamānaḥ
61 [rājā]
anaḍvāhau suvratau sādhu dāntāv; etad viprāṇāṃ vāhanaṃ vāmadeva
tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe; chandāṃsi vai tvādṛśaṃ saṃvahanti
62 [vāma]
chandāṃsi vai mādṛśaṃ saṃvahanti; loke 'muṣmin pārthiva yāni santi
asmiṃs tu loke mama yānam etad; asmadvidhānām apareṣāṃ ca rājan
63 [rājā]
catvāro vā gardabhās tvāṃ vahantu; śreṣṭhāśvataryo harayo vā turaṃgāḥ
tais tvaṃ yāhi kṣatriyasyaiṣa vāho; mama vāmyau na tavaitau hi viddhi
64 [vāma]
ghoraṃ vrataṃ brāhmaṇasyaitad āhur; etad rājan yad ihājīvamānaḥ
ayasmayā ghorarūpā mahānto; vahantu tvāṃ śitaśūlāś caturdhā
65 [rājā]
ye tvā vidur brāhmaṇaṃ vāmadeva; vācā hantuṃ manasā karmaṇā vā
te tvāṃ saśiṣyam iha pātayantu; madvākyanunnāḥ śitaśūlāsi hastāḥ
66 [vāma]
nānuyogā brāhmaṇānāṃ bhavanti; vācā rājan manasā karmaṇā vā
yas tv evaṃ brahma tapasānveti; vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ
67 [mārk]
evam ukte vāmadevena rājan; samuttasthū rākṣasā ghorarūpāḥ
taiḥ śūlahastair vadhyamānaḥ sa rājā; provācedaṃ vākyam uccais tadānīm
68 ikṣvākavo yadi brahman dalo vā; vidheyā me yadi vānye viśo 'pi
notsrakṣye 'haṃ vāmadevasya vāmyau; naivaṃvidhā dharmaśīlā bhavanti
69 evaṃ bruvann eva sa yātudhānair; hato jagāmāśu mahīṃ kṣitīśaḥ
tato viditvā nṛpatiṃ nipātitam; ikṣvākavo vai dalam abhyaṣiñcan
70 rājye tadā tatra gatvā sa vipraḥ; provācedaṃ vacanaṃ vāmadevaḥ
dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam; evaṃ rājan sarvadharmeṣu dṛṣṭam
71 bibheṣi cet tvam adharmān narendra; prayaccha me śīghram evādya vāmyau
etac chrutvā vāmadevasya vākyaṃ; sa pārthivaḥ sūtam uvāca roṣāt
72 ekaṃ hi me sāyakaṃ citrarūpaṃ; digdhaṃ viṣeṇāhara saṃgṛhītam
yena viddho vāmadevaḥ śayīta; saṃdaśyamānaḥ śvabhir ārtarūpaḥ
73 [vāma]
jānāmi putraṃ daśavarṣaṃ tavāhaṃ; jātaṃ mahiṣyāṃ śyenajitaṃ narendra
taṃ jahi tvaṃ madvacanāt praṇunnas; tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ
74 [mārk]
evam ukto vāmadevena rājann; antaḥpure rājaputraṃ jaghāna
sa sāyakas tigmatejā visṛṣṭaḥ; śrutvā dalas tac ca vākyaṃ babhāṣe
75 ikṣvākavo hanta carāmi vaḥ priyaṃ; nihanmīmaṃ vipram adya pramathya
ānīyatām aparas tigmatejāḥ; paśyadhvaṃ me vīryam adya kṣitīśāḥ
76 [vāma]
yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ; viṣeṇa digdhaṃ mama saṃdadhāsi
na tvam enaṃ śaravaryaṃ vimoktuṃ; saṃdhātuṃ vā śakṣyasi mānavendra
77 [rājā]
ikṣvākavaḥ paśyata māṃ gṛhītaṃ; na vai śaknomy eṣa śaraṃ vimoktum
na cāsya kartuṃ nāśam abhyutsahāmi; āyuṣmān vai jīvatu vāmadevaḥ
78 [vāma]
saṃspṛśaināṃ mahiṣīṃ sāyakena; tatas tasmād enaso mokṣyase tvam
79 [mārk]
tatas tathā kṛtavān pārthivas tu; tato muniṃ rājaputrī babhāṣe
yathā yuktaṃ vāmadevāham enaṃ; dine dine saṃviśantī vyaśaṃsam
brāhmaṇebhyo mṛgayantī sūnṛtāni; tathā brahman puṇyalokaṃ labheyam
80 [vāma]
tvayā trātaṃ rājakulaṃ śubhekṣaṇe; varaṃ vṛṇīṣvāpratimaṃ dadāni te
praśādhīmaṃ svajanaṃ rājaputri; ikṣvākurājyaṃ sumahac cāpy anindye
81 [rājaputrī]
varaṃ vṛṇe bhagavann ekam eva; vimucyatāṃ kilbiṣād adya bhartā
śivena cādhyāhi saputrabāndhavaṃ; varo vṛto hy eṣa mayā dvijāgrya
82 [mārk]
śrutvā vaco sa munī rājaputryās; tathāstv iti prāha kurupravīra
tataḥ sa rājā mudito babhūva; vāmyau cāsmai saṃpradadau praṇamya

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

490 of 2013 Book 24% ~10 min left