To view the original Internet Sacred Text Archive, visit archive.sacred-texts.com
Book 3: Chapter 188
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 3: Chapter 188

The Mahabharata in Sanskrit

Book 3
Chapter 188

1 [वै]
एवम उक्तास तु ते पार्था यमौ च पुरुषर्षभौ
दरौपद्या कृष्णया सार्धं नमश चक्रुर जनार्दनम
2 स चैतान पुरुषव्याघ्र साम्ना परमवल्गुना
सान्त्वयाम आस मानार्हान मन्यमानॊ यथाविधि
3 युधिष्ठिरस तु कौन्तेयॊ मार्कण्डेयं महामुनिम
पुनः पप्रच्छ साम्राज्ये भविष्यां जगतॊ गतिम
4 आश्चर्यभूतं भवतः शरुतं नॊ वदतां वर
मुने भार्गव यद्वृत्तं युगादौ परभवाप्ययौ
5 अस्मिन कलियुगे ऽपय अस्ति पुनः कौतूहलं मम
समाकुलेषु धर्मेषु किं नु शेषं भविष्यति
6 किं वीर्या मानवास तत्र किमाहारविहारिणः
किमायुषः किं वसना भविष्यन्ति युगक्षये
7 कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम
विस्तरेण मुने बरूहि विचित्राणीह भाषसे
8 इत्य उक्तः स मुनिश्रेष्ठः पुनर एवाभ्यभाषत
रमयन वृष्णिशार्दूलं पाण्डवांश च महामुनिः
9 [मार्क]
भविष्यं सर्वलॊकस्य वृत्तान्तं भरतर्षभ
कलुषं कालम आसाद्य कथ्यमानं निबॊध मे
10 कृते चतुष्पात सकलॊ निर्व्याजॊपाधि वर्जितः
वृषः परतिष्ठितॊ धर्मॊ मनुष्येष्व अभवत पुरा
11 अधर्मपादविद्धस तु तरिभिर अंशैः परतिष्ठितः
तरेतायां दवापरे ऽरधेन वयामिश्रॊ धर्म उच्यते
12 तरिभिर अंशैर अधर्मस तु लॊकान आक्रम्य तिष्ठति
चतुर्थांशेन धर्मस तु मनुष्यान उपतिष्ठति
13 आयुर वीर्यम अथॊ बुद्धिर बलं तेजॊ च पाण्डव
मनुष्याणाम अनुयुगं हरसतीति निबॊध मे
14 राजानॊ बराह्मणा वैश्याः शूद्राश चैव युधिष्ठिर
वयाजैर धर्मं चरिष्यन्ति धर्मव्वैतंसिका नराः
15 सत्यं संक्षेप्स्यते लॊके नरैः पण्डितमानिभिः
सत्यहान्या ततस तेषाम आयुर अल्पं भविष्यति
16 आयुषः परक्षयाद विद्यां न शक्ष्यन्त्य उपशिक्षितुम
विद्या हीनान अविज्ञानाल लॊभॊ ऽपय अभिभविष्यति
17 लॊभक्रॊधपरा मूढाः कामसक्ताश च मानवाः
वैरबद्धा भविष्यन्ति परस्परवधेप्सवः
18 बराह्मणाः कषत्रिया वैश्याः संकीर्यन्तः परस्परम
शूद्र तुल्या भविष्यन्ति तपः सत्यविवर्जिताः
19 अन्त्या मध्या भविष्यन्ति मध्याश चान्तावसायिनः
ईदृशॊ भविता लॊकॊ युगान्ते पर्युपस्थिते
20 वस्त्राणां परवरा शाणी धान्यानां कॊर दूषकाः
भार्या मित्राश च पुरुषा भविष्यन्ति युगक्षये
21 मत्स्यामिषेण जीवन्तॊ दुहन्तश चाप्य अजैडकम
गॊषु नष्टासु पुरुषा भविष्यन्ति युगक्षये
22 अन्यॊन्यं परिमुष्णन्तॊ हिंसयन्तश च मानवाः
अजपा नास्तिकाः सतेना भविष्यन्ति युगक्षये
23 सरित तीरेषु कुद्दालैर वापयिष्यन्ति चौषधीः
ताश चाप्य अल्पफलास तेषां भविष्यन्ति युगक्षये
24 शराद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः
ते ऽपि लॊभसमायुक्ता भॊक्ष्यन्तीह परस्परम
25 पिता पुत्रस्य भॊक्ता च पितुः पुत्रस तथैव च
अतिक्रान्तानि भॊज्यानि भविष्यन्ति युगक्षये
26 न वरतानि चरिष्यन्ति बराह्मणा वेद निन्दकाः
न यक्ष्यन्ति न हॊष्यन्ति हेतुवादविलॊभिताः
27 निम्ने कृषिं करिष्यन्ति यॊक्ष्यन्ति धुरि धेनुकाः
एकहायन वत्सांश च वाहयिष्यन्ति मानवाः
28 पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा
निरुद्वेगॊ बृहद वादी न निन्दाम उपलप्स्यते
29 मलेच्छ भूतं जगत सर्वं निश्क्रियं यज्ञवर्जितम
भविष्यति निरानन्दम अनुत्सवम अथॊ तथा
30 परायशः कृपणानां हि तथा बन्धुमताम अपि
विधवानां च वित्तानि हरिष्यन्तीह मानवाः
31 अल्पवीर्यबलाः सतब्धा लॊभमॊहपरायणाः
तत्कथादानसंतुष्टा दुष्टानाम अपि मानवाः
परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः
32 संघातयन्तः कौन्तेय राजानः पापबुद्धयः
परस्परवधॊद्युक्ता मूर्खाः पण्डितमानिनः
भविष्यन्ति युगस्यान्ते कषत्रिया लॊककण्टकाः
33 अरक्षितारॊ लुब्धाश च मानाहंकार दर्पिताः
केवलं दण्डरुचयॊ भविष्यन्ति युगक्षये
34 आक्रम्याक्रम्य साधूनां दारांश चैव धनानि च
भॊक्ष्यन्ते निरनुक्रॊशा रुदताम अपि भारत
35 न कन्यां याचते कश चिन नापि कन्या परदीयते
सवयं गराहा भविष्यन्ति युगान्ते पर्युपस्थिते
36 राजानश चाप्य असंतुष्टाः परार्थान मूढचेतसः
सर्वॊपायैर हरिष्यन्ति युगान्ते पर्युपस्थिते
37 मलेच्छी भूतं जगत सर्वं भविष्यति च भारत
हस्तॊ हस्तं परिमुषेद युगान्ते पर्युपस्थिते
38 सत्यं संक्षिप्यते लॊके नरैः पण्डितमानिभिः
सथविरा बालमतयॊ बालाः सथविर बुद्धयः
39 भीरवः शूरमानीनः शूरा भीरु विषादिनः
न विश्वसन्ति चान्यॊन्यं युगान्ते पर्युपस्थिते
40 एकाहार्यं जगत सर्वं लॊभमॊहव्यवस्थितम
अधर्मॊ वर्धति महान न च धर्मः परवर्तते
41 बराह्मणाः कषत्रिया वैश्या न शिष्यन्ति जनाधिप
एकवर्णस तदा लॊकॊ भविष्यति युगक्षये
42 न कषंस्यति पिता पुत्रं पुत्रश च पितरं तथा
भार्या च पतिशुश्रूषां न करिष्यति का चन
43 ये यवान्ना जनपदा गॊधूमान्नास तथैव च
तान देशान संश्रयिष्यन्ति युगान्ते पर्युपस्थिते
44 सवैराहाराश च पुरुषा यॊषितश च विशां पते
अन्यॊन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते
45 मलेच्छ भूतं जगत सर्वं भविष्यति युधिष्ठिर
न शराद्धैर हि पितॄंश चापि तर्पयिष्यन्ति मानवाः
46 न कश चित कस्य चिच छरॊता न कश चित कस्य चिद गुरुः
तमॊ गरस्तस तदा लॊकॊ भविष्यति नराधिप
47 परमायुश च भविता तदा वर्षाणि षॊडश
ततः पराणान विमॊक्ष्यन्ति युगान्ते पर्युपस्थिते
48 पञ्चमे वाथ षष्ठे वा वर्षे कन्या परसूयते
सप्त वर्षाष्ट वर्षाश च परजास्यन्ति नरास तदा
49 पत्यौ सत्री तु तदा राजन पुरुषॊ वा सत्रियं परति
युगान्ते राजशार्दूल न तॊषम उपयास्यति
50 अल्पद्रव्या वृथा लिङ्गा हिंसा च परभविष्यति
न कश चित कस्य चिद दाता भविष्यति युगक्षये
51 अट्टशूला जनपदाः शिव शूलाश चतुष्पथाः
केशशूलाः सत्रियश चापि भविष्यन्ति युगक्षये
52 मलेच्छाः करूराः सर्वभक्षा दारुणाः सर्वकर्मसु
भाविनः पश्चिमे काले मनुष्या नात्र संशयः
53 करयविक्रयकाले च सर्वः सर्वस्य वञ्चनम
युगान्ते भरतश्रेष्ठ वृत्ति लॊभात करिष्यति
54 जञानानि चाप्य अविज्ञाय करिष्यन्ति करियास तथा
आत्मछन्देन वर्तन्ते युगान्ते पर्युपस्थिते
55 सवभावात करूरकर्माणश चान्यॊन्यम अभिशङ्किनः
भवितारॊ जनाः सर्वे संप्राप्ते युगसंक्षये
56 आरामांश चैव वृक्षांश च नाशयिष्यन्ति निर्व्यथाः
भविता संक्षयॊ लॊके जीवितस्य च देहिनाम
57 तथा लॊभाभिभूताश च चरिष्यन्ति महीम इमाम
बराह्मणाश च भविष्यन्ति बरह्म सवानि च भुञ्जते
58 हाहाकृता दविजाश चैव भयार्ता वृषलार्दिताः
तरातारम अलभन्तॊ वै भरमिष्यन्ति महीम इमाम
59 जीवितान्तकरा रौद्राः करूराः पराणिविहिंसकाः
यदा भविष्यन्ति नरास तदा संक्षेप्स्यते युगम
60 आश्रयिष्यन्ति च नदीः पर्वतान विषमाणि च
परधावमाना वित्रस्ता दविजाः कुरुकुलॊद्वह
61 दस्यु परपीडिता राजन काका इव दविजॊत्तमाः
कुराजभिश च सततं करभार परपीडिताः
62 धैर्यं तयक्त्वा महीपाल दारुणे युगसंक्षये
विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः
63 शूद्रा धर्मं परवक्ष्यन्ति बराह्मणाः पर्युपासकाः
शरॊतारश च भविष्यन्ति परामाण्येन वयवस्थिताः
64 विपरीतश च लॊकॊ ऽयं भविष्यत्य अधरॊत्तरः
एडूकान पूजयिष्यन्ति वर्जयिष्यन्ति देवताः
शूद्राः परिचरिष्यन्ति न दविजान युगसंक्षये
65 आश्रमेषु महर्षीणां बराह्मणावसथेषु च
देवस्थानेषु चैत्येषु नागानाम आलयेषु च
66 एडूक चिह्ना पृथिवी न देव गृहभूषिता
भविष्यति युगे कषीणे तद युगान्तस्य लक्षणम
67 यदा रौद्रा धर्महीना मांसादाः पानपास तथा
भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम
68 पुष्पे पुष्पं यदा राजन फले फलम उपाश्रितम
परजास्यति महाराज तदा संक्षेप्स्यते युगम
69 अकालवर्षी पर्जन्यॊ भविष्यति गते युगे
अक्रमेण मनुष्याणां भविष्यति तदा करिया
विरॊधम अथ यास्यन्ति वृषला बराह्मणैः सह
70 मही मलेच्छ समाकीर्णा भविष्यति ततॊ ऽचिरात
करभार भयाद विप्रा भजिष्यन्ति दिशॊ दश
71 निर्विशेषा जनपदा नरावृष्टिभिर अर्दिताः
आश्रमान अभिपत्स्यन्ति फलमूलॊपजीविनः
72 एवं पर्याकुले लॊके मर्यादा न भविष्यति
न सथास्यन्त्य उपदेशे च शिष्या विप्रियकारिणः
73 आचार्यॊपनिधिश चैव वत्स्यते तदनन्तरम
अर्थयुक्त्या परवत्स्यन्ति मित्र संबन्धिबान्धवाः
अभावः सर्वभूतानां युगान्ते च भविष्यति
74 दिशः परज्वलिताः सर्वा नक्षत्राणि चलानि च
जयॊतींषि परतिकूलानि वाताः पर्याकुलास तथा
उल्का पाताश च बहवॊ महाभयनिदर्शकाः
75 षड्भिर अन्यैश च सहितॊ भास्करः परतपिष्यति
तुमुलाश चापि निर्ह्रादा दिग दाहाश चापि सर्वशः
कबन्धान्तर्हितॊ भानुर उदयास्तमये तदा
76 अकालवर्षी च तदा भविष्यति सहस्रदृक
सस्यानि च न रॊक्ष्यन्ति युगान्ते पर्युपस्थिते
77 अभीक्ष्णं करूर वादिन्यः परुषा रुदितप्रियाः
भर्तॄणां वचने चैव न सथास्यन्ति तदा सत्रियः
78 पुत्राश च मातापितरौ हनिष्यन्ति युगक्षये
सूदयिष्यन्ति च पतीन सत्रियः पुत्रान अपाश्रिताः
79 अपर्वणि महाराज सूर्यं राहुर उपैष्यति
युगान्ते हुतभुक चापि सर्वतः परज्वलिष्यति
80 पानीयं भॊजनं चैव याचमानास तदाध्वगाः
न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते
81 निर्घातवायसा नागाः शकुनाः समृगद्विजाः
रूक्षा वाचॊ विमॊक्ष्यन्ति युगान्ते पर्युपस्थिते
82 मित्र संबन्धिनश चापि संत्यक्ष्यन्ति नरास तदा
जनं परिजनं चापि युगान्ते पर्युपस्थिते
83 अथ देशान दिशश चापि पत्तनानि पुराणि च
करमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते
84 हा तात हा सुतेत्य एवं तदा वाचः सुदारुणाः
विक्रॊशमानश चान्यॊन्यं जनॊ गां पर्यटिष्यति
85 ततस तुमुलसंघाते वर्तमाने युगक्षये
दविजातिपूर्वकॊ लॊकः करमेण परभविष्यति
86 ततः कालान्तरे ऽनयस्मिन पुनर लॊकविवृद्धये
भविष्यति पुनर दैवम अनुकूलं यदृच्छया
87 यदा चन्द्रश च सूर्यश च तथा तिष्यबृहस्पती
एकाराशौ समेष्यन्ति परपत्स्यति तदा कृतम
88 कालवर्षी च पर्जन्यॊ नक्षत्राणि शुभानि च
परदक्षिणा गरहाश चापि भविष्यन्त्य अनुलॊमगाः
कषेमं सुभिक्षम आरॊग्यं भविष्यति निरामयम
89 कल्किर विष्णुयशा नाम दविजः कालप्रचॊदितः
उत्पत्स्यते महावीर्यॊ महाबुद्धिपराक्रमः
90 संभूतः संभल गरामे बराह्मणावसथे शुभे
मनसा तस्य सर्वाणि वाहनान्य आयुधानि च
उपस्थास्यन्ति यॊधाश च शस्त्राणि कवचानि च
91 स धर्मविजयी राजा चक्रवर्ती भविष्यति
स चेमं संकुलं लॊकं परसादम उपनेष्यति
92 उत्थितॊ बराह्मणॊ दीप्तः कषयान्तकृद उदारधीः
स संक्षेपॊ हि सर्वस्य युगस्य परिवर्तकः
93 स सर्वत्रगतान कषुद्रान बराह्मणैः परिवारितः
उत्सादयिष्यति तदा सर्वान मलेच्छ गणान दविजः
1 [vai]
evam uktās tu te pārthā yamau ca puruṣarṣabhau
draupadyā kṛṣṇayā sārdhaṃ namaś cakrur janārdanam
2 sa caitān puruṣavyāghra sāmnā paramavalgunā
sāntvayām āsa mānārhān manyamāno yathāvidhi
3 yudhiṣṭhiras tu kaunteyo mārkaṇḍeyaṃ mahāmunim
punaḥ papraccha sāmrājye bhaviṣyāṃ jagato gatim
4 āścaryabhūtaṃ bhavataḥ śrutaṃ no vadatāṃ vara
mune bhārgava yadvṛttaṃ yugādau prabhavāpyayau
5 asmin kaliyuge 'py asti punaḥ kautūhalaṃ mama
samākuleṣu dharmeṣu kiṃ nu śeṣaṃ bhaviṣyati
6 kiṃ vīryā mānavās tatra kimāhāravihāriṇaḥ
kimāyuṣaḥ kiṃ vasanā bhaviṣyanti yugakṣaye
7 kāṃ ca kāṣṭhāṃ samāsādya punaḥ saṃpatsyate kṛtam
vistareṇa mune brūhi vicitrāṇīha bhāṣase
8 ity uktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata
ramayan vṛṣṇiśārdūlaṃ pāṇḍavāṃś ca mahāmuniḥ
9 [mārk]
bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha
kaluṣaṃ kālam āsādya kathyamānaṃ nibodha me
10 kṛte catuṣpāt sakalo nirvyājopādhi varjitaḥ
vṛṣaḥ pratiṣṭhito dharmo manuṣyeṣv abhavat purā
11 adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ
tretāyāṃ dvāpare 'rdhena vyāmiśro dharma ucyate
12 tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati
caturthāṃśena dharmas tu manuṣyān upatiṣṭhati
13 āyur vīryam atho buddhir balaṃ tejo ca pāṇḍava
manuṣyāṇām anuyugaṃ hrasatīti nibodha me
14 rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira
vyājair dharmaṃ cariṣyanti dharmavvaitaṃsikā narāḥ
15 satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ
satyahānyā tatas teṣām āyur alpaṃ bhaviṣyati
16 āyuṣaḥ prakṣayād vidyāṃ na śakṣyanty upaśikṣitum
vidyā hīnān avijñānāl lobho 'py abhibhaviṣyati
17 lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ
vairabaddhā bhaviṣyanti parasparavadhepsavaḥ
18 brāhmaṇāḥ kṣatriyā vaiśyāḥ saṃkīryantaḥ parasparam
śūdra tulyā bhaviṣyanti tapaḥ satyavivarjitāḥ
19 antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ
īdṛśo bhavitā loko yugānte paryupasthite
20 vastrāṇāṃ pravarā śāṇī dhānyānāṃ kora dūṣakāḥ
bhāryā mitrāś ca puruṣā bhaviṣyanti yugakṣaye
21 matsyāmiṣeṇa jīvanto duhantaś cāpy ajaiḍakam
goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye
22 anyonyaṃ parimuṣṇanto hiṃsayantaś ca mānavāḥ
ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye
23 sarit tīreṣu kuddālair vāpayiṣyanti cauṣadhīḥ
tāś cāpy alpaphalās teṣāṃ bhaviṣyanti yugakṣaye
24 śrāddhe daive ca puruṣā ye ca nityaṃ dhṛtavratāḥ
te 'pi lobhasamāyuktā bhokṣyantīha parasparam
25 pitā putrasya bhoktā ca pituḥ putras tathaiva ca
atikrāntāni bhojyāni bhaviṣyanti yugakṣaye
26 na vratāni cariṣyanti brāhmaṇā veda nindakāḥ
na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ
27 nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ
ekahāyana vatsāṃś ca vāhayiṣyanti mānavāḥ
28 putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā
nirudvego bṛhad vādī na nindām upalapsyate
29 mleccha bhūtaṃ jagat sarvaṃ niśkriyaṃ yajñavarjitam
bhaviṣyati nirānandam anutsavam atho tathā
30 prāyaśaḥ kṛpaṇānāṃ hi tathā bandhumatām api
vidhavānāṃ ca vittāni hariṣyantīha mānavāḥ
31 alpavīryabalāḥ stabdhā lobhamohaparāyaṇāḥ
tatkathādānasaṃtuṣṭā duṣṭānām api mānavāḥ
parigrahaṃ kariṣyanti pāpācāraparigrahāḥ
32 saṃghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ
parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ
bhaviṣyanti yugasyānte kṣatriyā lokakaṇṭakāḥ
33 arakṣitāro lubdhāś ca mānāhaṃkāra darpitāḥ
kevalaṃ daṇḍarucayo bhaviṣyanti yugakṣaye
34 ākramyākramya sādhūnāṃ dārāṃś caiva dhanāni ca
bhokṣyante niranukrośā rudatām api bhārata
35 na kanyāṃ yācate kaś cin nāpi kanyā pradīyate
svayaṃ grāhā bhaviṣyanti yugānte paryupasthite
36 rājānaś cāpy asaṃtuṣṭāḥ parārthān mūḍhacetasaḥ
sarvopāyair hariṣyanti yugānte paryupasthite
37 mlecchī bhūtaṃ jagat sarvaṃ bhaviṣyati ca bhārata
hasto hastaṃ parimuṣed yugānte paryupasthite
38 satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ
sthavirā bālamatayo bālāḥ sthavira buddhayaḥ
39 bhīravaḥ śūramānīnaḥ śūrā bhīru viṣādinaḥ
na viśvasanti cānyonyaṃ yugānte paryupasthite
40 ekāhāryaṃ jagat sarvaṃ lobhamohavyavasthitam
adharmo vardhati mahān na ca dharmaḥ pravartate
41 brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa
ekavarṇas tadā loko bhaviṣyati yugakṣaye
42 na kṣaṃsyati pitā putraṃ putraś ca pitaraṃ tathā
bhāryā ca patiśuśrūṣāṃ na kariṣyati kā cana
43 ye yavānnā janapadā godhūmānnās tathaiva ca
tān deśān saṃśrayiṣyanti yugānte paryupasthite
44 svairāhārāś ca puruṣā yoṣitaś ca viśāṃ pate
anyonyaṃ na sahiṣyanti yugānte paryupasthite
45 mleccha bhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira
na śrāddhair hi pitṝṃś cāpi tarpayiṣyanti mānavāḥ
46 na kaś cit kasya cic chrotā na kaś cit kasya cid guruḥ
tamo grastas tadā loko bhaviṣyati narādhipa
47 paramāyuś ca bhavitā tadā varṣāṇi ṣoḍaśa
tataḥ prāṇān vimokṣyanti yugānte paryupasthite
48 pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate
sapta varṣāṣṭa varṣāś ca prajāsyanti narās tadā
49 patyau strī tu tadā rājan puruṣo vā striyaṃ prati
yugānte rājaśārdūla na toṣam upayāsyati
50 alpadravyā vṛthā liṅgā hiṃsā ca prabhaviṣyati
na kaś cit kasya cid dātā bhaviṣyati yugakṣaye
51 aṭṭaśūlā janapadāḥ śiva śūlāś catuṣpathāḥ
keśaśūlāḥ striyaś cāpi bhaviṣyanti yugakṣaye
52 mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu
bhāvinaḥ paścime kāle manuṣyā nātra saṃśayaḥ
53 krayavikrayakāle ca sarvaḥ sarvasya vañcanam
yugānte bharataśreṣṭha vṛtti lobhāt kariṣyati
54 jñānāni cāpy avijñāya kariṣyanti kriyās tathā
ātmachandena vartante yugānte paryupasthite
55 svabhāvāt krūrakarmāṇaś cānyonyam abhiśaṅkinaḥ
bhavitāro janāḥ sarve saṃprāpte yugasaṃkṣaye
56 ārāmāṃś caiva vṛkṣāṃś ca nāśayiṣyanti nirvyathāḥ
bhavitā saṃkṣayo loke jīvitasya ca dehinām
57 tathā lobhābhibhūtāś ca cariṣyanti mahīm imām
brāhmaṇāś ca bhaviṣyanti brahma svāni ca bhuñjate
58 hāhākṛtā dvijāś caiva bhayārtā vṛṣalārditāḥ
trātāram alabhanto vai bhramiṣyanti mahīm imām
59 jīvitāntakarā raudrāḥ krūrāḥ prāṇivihiṃsakāḥ
yadā bhaviṣyanti narās tadā saṃkṣepsyate yugam
60 āśrayiṣyanti ca nadīḥ parvatān viṣamāṇi ca
pradhāvamānā vitrastā dvijāḥ kurukulodvaha
61 dasyu prapīḍitā rājan kākā iva dvijottamāḥ
kurājabhiś ca satataṃ karabhāra prapīḍitāḥ
62 dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye
vikarmāṇi kariṣyanti śūdrāṇāṃ paricārakāḥ
63 śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ
śrotāraś ca bhaviṣyanti prāmāṇyena vyavasthitāḥ
64 viparītaś ca loko 'yaṃ bhaviṣyaty adharottaraḥ
eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ
śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye
65 āśrameṣu maharṣīṇāṃ brāhmaṇāvasatheṣu ca
devasthāneṣu caityeṣu nāgānām ālayeṣu ca
66 eḍūka cihnā pṛthivī na deva gṛhabhūṣitā
bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam
67 yadā raudrā dharmahīnā māṃsādāḥ pānapās tathā
bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam
68 puṣpe puṣpaṃ yadā rājan phale phalam upāśritam
prajāsyati mahārāja tadā saṃkṣepsyate yugam
69 akālavarṣī parjanyo bhaviṣyati gate yuge
akrameṇa manuṣyāṇāṃ bhaviṣyati tadā kriyā
virodham atha yāsyanti vṛṣalā brāhmaṇaiḥ saha
70 mahī mleccha samākīrṇā bhaviṣyati tato 'cirāt
karabhāra bhayād viprā bhajiṣyanti diśo daśa
71 nirviśeṣā janapadā narāvṛṣṭibhir arditāḥ
āśramān abhipatsyanti phalamūlopajīvinaḥ
72 evaṃ paryākule loke maryādā na bhaviṣyati
na sthāsyanty upadeśe ca śiṣyā vipriyakāriṇaḥ
73 ācāryopanidhiś caiva vatsyate tadanantaram
arthayuktyā pravatsyanti mitra saṃbandhibāndhavāḥ
abhāvaḥ sarvabhūtānāṃ yugānte ca bhaviṣyati
74 diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca
jyotīṃṣi pratikūlāni vātāḥ paryākulās tathā
ulkā pātāś ca bahavo mahābhayanidarśakāḥ
75 ṣaḍbhir anyaiś ca sahito bhāskaraḥ pratapiṣyati
tumulāś cāpi nirhrādā dig dāhāś cāpi sarvaśaḥ
kabandhāntarhito bhānur udayāstamaye tadā
76 akālavarṣī ca tadā bhaviṣyati sahasradṛk
sasyāni ca na rokṣyanti yugānte paryupasthite
77 abhīkṣṇaṃ krūra vādinyaḥ paruṣā ruditapriyāḥ
bhartṝṇāṃ vacane caiva na sthāsyanti tadā striyaḥ
78 putrāś ca mātāpitarau haniṣyanti yugakṣaye
sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ
79 aparvaṇi mahārāja sūryaṃ rāhur upaiṣyati
yugānte hutabhuk cāpi sarvataḥ prajvaliṣyati
80 pānīyaṃ bhojanaṃ caiva yācamānās tadādhvagāḥ
na lapsyante nivāsaṃ ca nirastāḥ pathi śerate
81 nirghātavāyasā nāgāḥ śakunāḥ samṛgadvijāḥ
rūkṣā vāco vimokṣyanti yugānte paryupasthite
82 mitra saṃbandhinaś cāpi saṃtyakṣyanti narās tadā
janaṃ parijanaṃ cāpi yugānte paryupasthite
83 atha deśān diśaś cāpi pattanāni purāṇi ca
kramaśaḥ saṃśrayiṣyanti yugānte paryupasthite
84 hā tāta hā sutety evaṃ tadā vācaḥ sudāruṇāḥ
vikrośamānaś cānyonyaṃ jano gāṃ paryaṭiṣyati
85 tatas tumulasaṃghāte vartamāne yugakṣaye
dvijātipūrvako lokaḥ krameṇa prabhaviṣyati
86 tataḥ kālāntare 'nyasmin punar lokavivṛddhaye
bhaviṣyati punar daivam anukūlaṃ yadṛcchayā
87 yadā candraś ca sūryaś ca tathā tiṣyabṛhaspatī
ekārāśau sameṣyanti prapatsyati tadā kṛtam
88 kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca
pradakṣiṇā grahāś cāpi bhaviṣyanty anulomagāḥ
kṣemaṃ subhikṣam ārogyaṃ bhaviṣyati nirāmayam
89 kalkir viṣṇuyaśā nāma dvijaḥ kālapracoditaḥ
utpatsyate mahāvīryo mahābuddhiparākramaḥ
90 saṃbhūtaḥ saṃbhala grāme brāhmaṇāvasathe śubhe
manasā tasya sarvāṇi vāhanāny āyudhāni ca
upasthāsyanti yodhāś ca śastrāṇi kavacāni ca
91 sa dharmavijayī rājā cakravartī bhaviṣyati
sa cemaṃ saṃkulaṃ lokaṃ prasādam upaneṣyati
92 utthito brāhmaṇo dīptaḥ kṣayāntakṛd udāradhīḥ
sa saṃkṣepo hi sarvasya yugasya parivartakaḥ
93 sa sarvatragatān kṣudrān brāhmaṇaiḥ parivāritaḥ
utsādayiṣyati tadā sarvān mleccha gaṇān dvijaḥ

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

488 of 2013 Book 24% ~10 min left