To view the original Internet Sacred Text Archive, visit archive.sacred-texts.com
Book 3: Chapter 186
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 3: Chapter 186

The Mahabharata in Sanskrit

Book 3
Chapter 186

1 [वै]
ततः स पुनर एवाथ मार्कण्डेयं यशस्विनम
पप्रच्छ विनयॊपेतॊ धर्मराजॊ युधिष्ठिरः
2 नैके युगसहस्रान्तास तवया दृष्टा महामुने
न चापीह समः कश चिद आयुषा तव विद्यते
वर्जयित्वा महात्मानं बराह्मणं परमेष्ठिनम
3 अनन्तरिक्षे लॊके ऽसमिन देवदानव वर्जिते
तवम एव परलये विप्र बराह्मणम उपतिष्ठसि
4 परलये चापि निर्वृत्ते परबुद्धे च पितामहे
तवम एव सृज्यमानानि भूतानीह परपश्यसि
5 चतुर्विधानि विप्रर्षे यथावत परमेष्ठिना
वायुभूता दिशः कृत्वा विक्षिप्यापस ततस ततः
6 तवया लॊकगुरुः साक्षात सर्वलॊकपितामहः
आराधितॊ दविजश्रेष्ठ तत्परेण समाधिना
7 तस्मात सर्वान्तकॊ मृत्युर जरा वा देहनाशिनी
न तवा विशति विप्रर्षे परसादात परमेष्ठिनः
8 यदा नैव रविर नाग्निर न वायुर न च चन्द्रमः
नैवान्तरिक्षं नैवॊर्वी शेषं भवति किं चन
9 तस्मिन्न एकार्णवे लॊके नष्टे सथावरजङ्गमे
नष्टे देवासुरगणे समुत्सन्न महॊरगे
10 शयानम अमितात्मानं पद्मे पद्मनिकेतनम
तवम एकः सर्वभूतेशं बरह्माणम उपतिष्ठसि
11 एतत परत्यक्षतः सर्वं पूर्ववृत्तं दविजॊत्तम
तस्माद इच्छामहे शरॊतुं सर्वहेत्व आत्मिकां कथाम
12 अनुभूतं हि बहुशस तवयैकेन दविजॊत्तम
न ते ऽसत्य अविदितं किं चित सर्वलॊकेषु नित्यदा
13 [मार्क]
हन्त ते कथयिष्यामि नमस्कृत्वा सवयम्भुवे
पुरुषाय पुराणाय शाश्वतायाव्ययाय च
14 य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः
एष कर्ता विकर्ता च सर्वभावन भूतकृत
15 अचिन्त्यं महद आश्चर्यं पवित्रम अपि चॊत्तमम
अनादि निधनं भूतं विश्वम अक्षयम अव्ययम
16 एष कर्ता न करियते कारणं चापि पौरुषे
यॊ हय एनं पुरुषं वेत्ति देवा अपि न तं विदुः
17 सर्वम आश्चर्यम एवैतन निर्वृत्तं राजसत्तम
आदितॊ मनुजव्याघ्रकृत्स्नस्य जगतः कषये
18 चत्वार्य आहुः सहस्राणि वर्षाणां तत कृतं युगम
तस्य तावच छती संध्या संध्यांशश च ततः परम
19 तरीणि वर्षसहस्राणि तरेया युगम इहॊच्यते
तस्य तावच छती संध्या संध्यांशश च ततः परम
20 तथा वर्षसहस्रे दवे दवापरं परिमाणतः
तस्यापि दविशती संध्या संख्यांशश च ततः परम
21 सहस्रम एकं वर्षाणां ततः कलियुगं समृतम
तस्य वर्षशतं संध्या संध्यांशश च ततः परम
संध्यासंध्यांशयॊस तुल्यं परमाणम उपधारय
22 कषीणे कलियुगे चैव परवर्तति कृतं युगम
एषा दवादश साहस्री युगाख्या परिकीर्तिता
23 एतत सहस्रपर्यन्तम अहर बराह्मम उदाहृतम
विश्वं हि बरह्मभवने सर्वशः परिवर्तते
लॊकानां मनुजव्याघ्रप्रलयं तं विदुर बुधाः
24 अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ
सहस्रान्ते नराः सर्वे परायशॊ ऽनृतवादिनः
25 यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस तथा
वरतप्रति निधिश चैव तस्मिन काले परवर्तते
26 बराह्मणाः शूद्र कर्माणस तथा शूद्रा धनार्जकाः
कषत्रधर्मेण वाप्य अत्र वर्तयन्ति गते युगे
27 निवृत्तयज्ञस्वाध्यायाः पिण्डॊदकविवर्जिताः
बराह्मणाः सर्वभक्षाश च भविष्यन्ति कलौ युगे
28 अजपा बराह्मणास तात शूद्रा जप परायणाः
विपरीते तदा लॊके पूर्वरूपं कषयस्य तत
29 बहवॊ मेच्छ राजानः पृथिव्यां मनुजाधिप
मिथ्यानुशासिनः पापा मृषावादपरायणाः
30 आन्ध्राः शकाः पुलिन्दाश च यवनाश च नराधिपाः
काम्बॊजा और्णिकाः शूद्रास तथाभीरा नरॊत्तम
31 न तदा बराह्मणः कश चित सवधर्मम उपजीवति
कषत्रिया अपि वैश्याश च विकर्मस्था नराधिप
32 अल्पायुषः सवल्प बला अल्पतेजः पराक्रमाः
अल्पदेहाल्प साराश च तथा सत्याल्प भाषिणः
33 बहु शून्या जनपदा मृगव्यालावृता दिशः
युगान्ते समनुप्राप्ते वृथा च बरह्मचारिणः
भॊगादिनस तथा शूद्रा बराह्मणाश चार्यवादिनः
34 युगान्ते मनुजव्याघ्रभवन्ति बहु जन्तवः
न तथा घराणयुक्ताश च सर्वगन्धा विशां पते
रसाश च मनुजव्याघ्रन तथा सवादु यॊगिनः
35 बहु परजा हरस्वदेहाः शीलाचार विवर्जिताः
मुखे भगाः सत्रियॊ राजन भविष्यन्ति युगक्षये
36 अट्टशूला जनपदाः शिव शूलाश चतुष्पथाः
केशशूलाः सत्रियॊ राजन भविष्यन्ति युगक्षये
37 अल्पक्षीरास तथा गावॊ भविष्यन्ति जनाधिप
अल्पपुष्पफलाश चापि पादपा बहु वायसाः
38 बरह्म वध्यावलॊप्तानां तथा मिथ्याभिशंसिनाम
नृपाणां पृथिवीपाल परतिगृह्णन्ति वै दविजाः
39 लॊभमॊहपरीताश च मिथ्या धर्मध्वजावृताः
भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते दविजैर दिशः
40 करभार भयात पुंसॊ गृहस्थाः परिमॊषकाः
मुनिछद्माकृति छन्ना वाणिज्यम उपजीवते
41 मिथ्या च नखरॊमाणि धारयन्ति नरास तदा
अर्थलॊभान नरव्याघ्र वृथा च बरह्मचारिणः
42 आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः
ऐह लौकिकम ईहन्ते मांसशॊणितवर्धनम
43 बहु पाषण्ड संकीर्णाः परान्न गुणवादिनः
आश्रमा मनुजव्याघ्रन भवन्ति युगक्षये
44 यथर्तु वर्षी भगवान न तथा पाकशासनः
न तदा सर्वबीजानि सम्यग रॊहन्ति भारत
अधर्मफलम अत्यर्थं तदा भवति चानघ
45 तथा च पृथिवीपाल यॊ भवेद धर्मसंयुतः
अल्पायुः स हि मन्तव्यॊ न हि धर्मॊ ऽसति कश चन
46 भूयिष्ठं कूटमानैश च पण्यं विक्रीणते जनाः
वणिजश च नरव्याघ्र बहु माया भवन्त्य उत
47 धर्मिष्ठाः परिहीयन्ते पापीयान वर्धते जनः
धर्मस्य बलहानिः सयाद अधर्मश च बली तथा
48 अल्पायुषॊ दरिद्राश च धर्मिष्ठा मानवास तदा
दीर्घायुषः समृद्धाश च विधर्माणॊ युगक्षये
49 अधर्मिष्ठैर उपायैश च परजा वयवहरन्त्य उत
संचयेनापि चाल्पेन भवन्त्य आढ्या मदान्विताः
50 धनं विश्वासतॊ नयस्तं मिथॊ भूयिष्ठशॊ नराः
हर्तुं वयवसिता राजन मायाचार समन्विताः
51 पुरुषादानि सत्त्वानि पक्षिणॊ ऽथ मृगास तथा
नगराणां विहारेषु चैत्येष्व अपि च शेरते
52 सप्त वर्षाष्ट वर्षाश च सत्रियॊ गर्भधरा नृप
दश दवादश वर्षाणां पुंसां पुत्रः परजायते
53 भवन्ति षॊडशे वर्षे नराः पलितिनस तथा
आयुः कषयॊ मनुष्याणां कषिप्रम एव परपद्यते
54 कषीणे युगे महाराज तरुणा वृद्धशीलिनः
तरुणानां च यच छीलं तद वृद्धेषु परजायते
55 विपरीतास तदा नार्यॊ वञ्चयित्वा रहॊ पतीन
वयुच्चरन्त्य अपि दुःशीला दासैः पशुभिर एव च
56 तस्मिन युगसहस्रान्ते संप्राप्ते चायुषः कषये
अनावृष्टिर महाराज जायते बहु वार्षिकी
57 ततस तान्य अल्पसाराणि सत्त्वानि कषुधितानि च
परलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते
58 ततॊ दिनकरैर दीप्तैः सप्तभिर मनुजाधिप
पीयते सलिलं सर्वं समुद्रेषु सरित्सु च
59 यच च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत
सर्वं तद भस्मसाद भूतं दृश्यते भरतर्षभः
60 ततः संवर्तकॊ वह्निर वायुना सह भारत
लॊकम आविशते पूर्वम आदित्यैर उपशॊषितम
61 ततः स पृथिवीं भित्त्वा समाविश्य रसातलम
देवदानव यक्षाणां भयं जनयते महत
62 निर्दहन नागलॊकं च यच च किं चित कषिताव इह
अधस्तात पृथिवीपाल सर्वं नाशयते कषणात
63 ततॊ यॊजनविंशानां सहस्राणि शतानि च
निर्दहत्य अशिवॊ वायुः स च संवर्तकॊ ऽनलः
64 सदेवासुरगन्धर्वं सयक्षॊरग राक्षसम
ततॊ दहति दीप्तः स सर्वम एव जगद विभुः
65 ततॊ गजकुलप्रख्यास तडिन माला विभूषिताः
उत्तिष्ठन्ति महामेघा नभस्य अद्भुतदर्शनाः
66 के चिन नीलॊत्पलश्यामाः के चित कुमुदसंनिभाः
के चित किञ्जल्कसंकाशाः के चित पीताः पयॊधराः
67 के चिद धारिद्र संकाशाः काकाण्डक निभास तथा
के चित कमलपत्राभाः केचिद धिङ्गुलक परभाः
68 के चित पुरवराकाराः के चिद गजकुलॊपमाः
के चिद अञ्जनसंकाशाः के चिन मकरसंस्थिताः
विद्युन्माला पिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः
69 घॊररूपा महाराज घॊरस्वननिनादिताः
ततॊ जलधराः सर्वे वयाप्नुवन्ति नभस्तलम
70 तैर इयं पृथिवी सर्वा सपर्वतवनाकरा
आपूर्यते महाराज सलिलौघपरिप्लुता
71 ततस ते जलदा घॊरा राविणः पुरुषर्षभ
सर्वतः पलावयन्त्य आशु चॊदिताः परमेष्ठिना
72 वर्षमाणा महत तॊयं पूरयन्तॊ वसुंधराम
सुघॊरम अशिवं रौद्रं नाशयन्ति च पावकम
73 ततॊ दवादश वर्षाणि पयॊदास त उपप्लवे
धाराभिः पूरयन्तॊ वै चॊद्यमाना महात्मना
74 ततः समुद्रः सवां वेलाम अतिक्रामति भारत
पर्वताश च विशीर्यन्ते मही चापि विशीर्यते
75 सर्वतः सहसा भरान्तास ते पयॊदा नभस्तलम
संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः
76 ततस तं मारुतं घॊरं सवयम्भूर मनुजाधिप
आदि पद्मालयस्ल देवः पीत्वा सवपिति भारत
77 तस्मिन्न एकार्णवे घॊरे नष्टे सथावरजङ्गमे
नष्टे देवासुरगणे यक्षाराक्षस वर्जिते
78 निर्मनुष्ये महीपाल निःश्वापद महीरुहे
अनन्तरिक्षे लॊके ऽसमिन भरमाम्य एकॊ ऽहम आदृतः
79 एकार्णवे जले घॊरे विचरन पार्थिवॊत्तम
अपश्यन सर्वभूतानि वैक्लव्यम अगमं परम
80 ततः सुदीर्घं गत्वा तु पलवमानॊ नराधिप
शरान्तः कव चिन न शरणं लभाम्य अहम अतन्द्रितः
81 ततः कदा चित पश्यामि तस्मिन सलिलसंप्लवे
नयग्रॊधं सुमहान्तं वै विशालं पृथिवीपते
82 शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप
पर्यङ्के पृथिवीपाल दिव्यास्तरण संस्तृते
83 उपविष्टं महाराज पूर्णेन्दुसदृशाननम
फुल्लपद्मविशालाक्षं बालं पश्यामि भारत
84 ततॊ मे पृथिवीपाल विस्मयः सुमहान अभूत
कथं तव अयं शिशुः शेते लॊके नाशम उपागते
85 तपसा चिन्तयंश चापि तं शिशुं नॊपलक्षये
भूतं भव्यं भविष्यच च जानन्न अपि नराधिप
86 अतसी पुष्पवर्णाभः शरीवत्स कृतलक्षणः
साक्षाल लक्ष्म्या इवावासः स तदा परतिभाति मे
87 ततॊ माम अब्रवीद बालः स पद्मनिभ लॊचनः
शरीवत्स धारी दयुतिमान वाक्यं शरुतिसुखावहम
88 जानामि तवा परिश्रान्तं तात विश्रामकाङ्क्षिणम
मार्कण्डेय इहास्स्व तवं यावद इच्छसि भार्गव
89 अभ्यन्तरं शरीरं मे परविश्य मुनिसत्तम
आस्स्व भॊ विहितॊ वासः परसादस ते कृतॊ मया
90 ततॊ बालेन तेनैवम उक्तस्यासीत तदा मम
निर्वेदॊ जीविते दीर्घे मनुष्यत्व च भारत
91 ततॊ बालेन तेनास्यं सहसा विवृतं कृतम
तस्याहम अवशॊ वक्त्रं दैवयॊगात परवेशितः
92 ततः परविष्टस तत कुक्षिं सहसा मनुजाधिप
सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम
93 गङ्गां शतद्रुं सीतां च यमुनाम अथ कौशिकीम
चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम
94 सिन्धुं चैव विपाशां च नदीं गॊदावरीम अपि
वस्वॊकसारां नलिनीं नर्मदां चैव भारत
95 नदीं ताम्रां च वेण्णां च पुण्यतॊयां शुभावहाम
सुवेणां कृष्णवेणां च इरामां च महानदीम
शॊणं च पुरुषव्याघ्र विशल्यां कम्पुनाम अपि
96 एताश चान्याश च नद्यॊ ऽहं पृथिव्यां या नरॊत्तम
परिक्रामन परपश्यामि तस्य कुक्षौ महात्मनः
97 ततः समुद्रं पश्यामि यादॊगणनिषेवितम
रत्नाकरम अमित्रघ्न निधानं पयसॊ महत
98 ततः पश्यामि गगनं चन्द्रसूर्यविराजितम
जाज्वल्यमानं तेजॊभिः पावकार्क समप्रभैः
पश्यामि च महीं राजन कानकैर उपशॊभिताम
99 यजन्ते हि तदा राजन बराह्मणा बहुभिः सवैः
कषत्रियाश च परवर्तन्ते सर्ववर्णानुरञ्जने
100 वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप
शुश्रूषायां च निरता दविजानां वृषलास तथा
101 ततः परिपतन राजंस तस्य कुक्षौ महात्मनः
हिमवन्तं च पश्यामि हेमकूटं च पर्वतम
102 निषधं चापि पश्यामि शवेतं च रजता चितम
पश्यामि च महीपाल पर्वतं गन्धमादनम
103 मन्दरं मनुजव्याघ्रनीलं चापि महागिरिम
पश्यामि च महाराज मेरुं कनकपर्वतम
104 महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिम उत्तमम
मलयं चापि पश्यामि पारियात्रं च पर्वतम
105 एते चान्ये च बहवॊ यावन्तः पृथिवीधराः
तस्यॊदरे मया दृष्टाः सर्वरत्नविभूषिताः
106 सिंहान वयाघ्रान वराहांश च नागांश च मनुजाधिप
पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते
तानि सर्वाण्य अहं तत्र पश्यन पर्यचरं तदा
107 कुक्षौ तस्य नरव्याघ्र परविष्टः संचरन दिशः
शक्रादींश चापि पश्यामि कृत्स्नान देवगणांस तथा
108 गन्धर्वाप्सरसॊ यक्षान ऋषींश चैव महीपते
दैत्यदानव संघांश च ये चान्ये सुरशत्रवः
109 यच च किं चिन मया लॊके दृष्टं सथावरजङ्गमम
तद अपश्यम अहं सर्वं तस्य कुक्षौ महात्मनः
फलाहारः परविचरन कृत्स्नं जगद इदं तदा
110 अन्तः शरीरे तस्याहं वर्षाणाम अधिकं शतम
न च पश्यामि तस्याहम अन्तं देहस्य कुत्र चित
111 सततं धावमानश च चिन्तयानॊ विशां पते
आसादयामि नैतान्तं तस्य राजन महात्मनः
112 ततस तम एव शरणं गतॊ ऽसमि विधिवत तदा
वरेण्यं वरदं देवं मनसा कर्मणैव च
113 ततॊ ऽहं सहसा राजन वायुवेगेन निःसृतः
महात्मानॊ मुखात तस्य विवृतात पुरुषॊत्तम
114 ततस तस्यैव शाखायां नयग्रॊघस्य विशां पते
आस्ते मनुजशार्दूल कृत्स्नम आदाय वै जगत
115 तेनैव बाल वेषेण शरीवत्स कृतलक्षणम
आसीनं तं नरव्याघ्र पश्याम्य अमिततेजसम
116 ततॊ माम अब्रवीद वीर स बालः परहसन्न इव
शरीवत्स धारी दयुतिमान पीतवासा महाद्युतिः
117 अपीदानीं शरीरे ऽसमिन मामके मुनिसत्तम
उषितस तवं सुविश्रान्तॊ मार्कण्डेय बरवीहि मे
118 मुहूर्ताद अथ मे दृष्टिः परादुर्भूता पुनर नवा
यया निर्मुक्तम आत्मानम अपश्यं लब्धचेतसम
119 तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ
सुजातौ मृदु रक्ताभिर अङ्गुलीभिर अलंकृतौ
120 परयतेन मया मूर्ध्ना गृहीत्वा हय अभिवन्दितौ
दृष्ट्वापरिमितं तस्य परभावम अमितौजसः
121 विनयेनाञ्जलिं कृत्वा परयत्नेनॊपगम्य च
दृष्टॊ मया स भूतात्मा देवः कमललॊचनः
122 तम अहं पराञ्जलिर भूत्वा नमस्कृत्येदम अब्रुवम
जञातुम इच्छामि देव तवां मायां चेमां तवॊत्तमाम
123 आस्येनानुप्रविष्टॊ ऽहं शरीरं भगवंस तव
दृष्टवान अखिलाँल लॊकान समस्ताज जठरे तव
124 तव देव शरीरस्था देवदानवराक्षसाः
यक्षगन्धर्वनागाश च जगत सथावरजङ्गमम
125 तवत्प्रसादाच च मे देव समृतिर न परिहीयते
दरुतम अन्तः शरीरे ते सततं परिधावतः
126 इच्छामि पुण्डरीकाक्ष जञातुं तवाहम अनिन्दित
इह भूत्वा शिशुः साक्षात किं भवान अवतिष्ठते
पीत्वा जगद इदं विश्वम एतद आख्यातुम अर्हसि
127 किमर्थं च जगत सर्वं शरीरस्थं तवानघ
कियन्तं च तवया कालम इह सथेयम अरिंदम
128 एतद इच्छामि देवेश शरॊतुं बराह्मण काम्यया
तवत्तः कमलपत्राक्ष विस्तरेण यथातथम
महद धयेतद अचिन्त्यं च यद अहं दृष्टवान परभॊ
129 इत्य उक्तः स मया शरीमान देवदेवॊ महाद्युतिः
सान्त्वयन माम इदं वाक्यम उवाच वदतां वरः
1 [vai]
tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam
papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ
2 naike yugasahasrāntās tvayā dṛṣṭā mahāmune
na cāpīha samaḥ kaś cid āyuṣā tava vidyate
varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam
3 anantarikṣe loke 'smin devadānava varjite
tvam eva pralaye vipra brāhmaṇam upatiṣṭhasi
4 pralaye cāpi nirvṛtte prabuddhe ca pitāmahe
tvam eva sṛjyamānāni bhūtānīha prapaśyasi
5 caturvidhāni viprarṣe yathāvat parameṣṭhinā
vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ
6 tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ
ārādhito dvijaśreṣṭha tatpareṇa samādhinā
7 tasmāt sarvāntako mṛtyur jarā vā dehanāśinī
na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ
8 yadā naiva ravir nāgnir na vāyur na ca candramaḥ
naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃ cana
9 tasminn ekārṇave loke naṣṭe sthāvarajaṅgame
naṣṭe devāsuragaṇe samutsanna mahorage
10 śayānam amitātmānaṃ padme padmaniketanam
tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi
11 etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama
tasmād icchāmahe śrotuṃ sarvahetv ātmikāṃ kathām
12 anubhūtaṃ hi bahuśas tvayaikena dvijottama
na te 'sty aviditaṃ kiṃ cit sarvalokeṣu nityadā
13 [mārk]
hanta te kathayiṣyāmi namaskṛtvā svayambhuve
puruṣāya purāṇāya śāśvatāyāvyayāya ca
14 ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ
eṣa kartā vikartā ca sarvabhāvana bhūtakṛt
15 acintyaṃ mahad āścaryaṃ pavitram api cottamam
anādi nidhanaṃ bhūtaṃ viśvam akṣayam avyayam
16 eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe
yo hy enaṃ puruṣaṃ vetti devā api na taṃ viduḥ
17 sarvam āścaryam evaitan nirvṛttaṃ rājasattama
ādito manujavyāghrakṛtsnasya jagataḥ kṣaye
18 catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam
tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param
19 trīṇi varṣasahasrāṇi treyā yugam ihocyate
tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param
20 tathā varṣasahasre dve dvāparaṃ parimāṇataḥ
tasyāpi dviśatī saṃdhyā saṃkhyāṃśaś ca tataḥ param
21 sahasram ekaṃ varṣāṇāṃ tataḥ kaliyugaṃ smṛtam
tasya varṣaśataṃ saṃdhyā saṃdhyāṃśaś ca tataḥ param
saṃdhyāsaṃdhyāṃśayos tulyaṃ pramāṇam upadhāraya
22 kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam
eṣā dvādaśa sāhasrī yugākhyā parikīrtitā
23 etat sahasraparyantam ahar brāhmam udāhṛtam
viśvaṃ hi brahmabhavane sarvaśaḥ parivartate
lokānāṃ manujavyāghrapralayaṃ taṃ vidur budhāḥ
24 alpāvaśiṣṭe tu tadā yugānte bharatarṣabha
sahasrānte narāḥ sarve prāyaśo 'nṛtavādinaḥ
25 yajñapratinidhiḥ pārtha dānapratinidhis tathā
vrataprati nidhiś caiva tasmin kāle pravartate
26 brāhmaṇāḥ śūdra karmāṇas tathā śūdrā dhanārjakāḥ
kṣatradharmeṇa vāpy atra vartayanti gate yuge
27 nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ
brāhmaṇāḥ sarvabhakṣāś ca bhaviṣyanti kalau yuge
28 ajapā brāhmaṇās tāta śūdrā japa parāyaṇāḥ
viparīte tadā loke pūrvarūpaṃ kṣayasya tat
29 bahavo meccha rājānaḥ pṛthivyāṃ manujādhipa
mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ
30 āndhrāḥ śakāḥ pulindāś ca yavanāś ca narādhipāḥ
kāmbojā aurṇikāḥ śūdrās tathābhīrā narottama
31 na tadā brāhmaṇaḥ kaś cit svadharmam upajīvati
kṣatriyā api vaiśyāś ca vikarmasthā narādhipa
32 alpāyuṣaḥ svalpa balā alpatejaḥ parākramāḥ
alpadehālpa sārāś ca tathā satyālpa bhāṣiṇaḥ
33 bahu śūnyā janapadā mṛgavyālāvṛtā diśaḥ
yugānte samanuprāpte vṛthā ca brahmacāriṇaḥ
bhogādinas tathā śūdrā brāhmaṇāś cāryavādinaḥ
34 yugānte manujavyāghrabhavanti bahu jantavaḥ
na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate
rasāś ca manujavyāghrana tathā svādu yoginaḥ
35 bahu prajā hrasvadehāḥ śīlācāra vivarjitāḥ
mukhe bhagāḥ striyo rājan bhaviṣyanti yugakṣaye
36 aṭṭaśūlā janapadāḥ śiva śūlāś catuṣpathāḥ
keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye
37 alpakṣīrās tathā gāvo bhaviṣyanti janādhipa
alpapuṣpaphalāś cāpi pādapā bahu vāyasāḥ
38 brahma vadhyāvaloptānāṃ tathā mithyābhiśaṃsinām
nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ
39 lobhamohaparītāś ca mithyā dharmadhvajāvṛtāḥ
bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśaḥ
40 karabhāra bhayāt puṃso gṛhasthāḥ parimoṣakāḥ
munichadmākṛti channā vāṇijyam upajīvate
41 mithyā ca nakharomāṇi dhārayanti narās tadā
arthalobhān naravyāghra vṛthā ca brahmacāriṇaḥ
42 āśrameṣu vṛthācārāḥ pānapā gurutalpagāḥ
aiha laukikam īhante māṃsaśoṇitavardhanam
43 bahu pāṣaṇḍa saṃkīrṇāḥ parānna guṇavādinaḥ
āśramā manujavyāghrana bhavanti yugakṣaye
44 yathartu varṣī bhagavān na tathā pākaśāsanaḥ
na tadā sarvabījāni samyag rohanti bhārata
adharmaphalam atyarthaṃ tadā bhavati cānagha
45 tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ
alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaś cana
46 bhūyiṣṭhaṃ kūṭamānaiś ca paṇyaṃ vikrīṇate janāḥ
vaṇijaś ca naravyāghra bahu māyā bhavanty uta
47 dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ
dharmasya balahāniḥ syād adharmaś ca balī tathā
48 alpāyuṣo daridrāś ca dharmiṣṭhā mānavās tadā
dīrghāyuṣaḥ samṛddhāś ca vidharmāṇo yugakṣaye
49 adharmiṣṭhair upāyaiś ca prajā vyavaharanty uta
saṃcayenāpi cālpena bhavanty āḍhyā madānvitāḥ
50 dhanaṃ viśvāsato nyastaṃ mitho bhūyiṣṭhaśo narāḥ
hartuṃ vyavasitā rājan māyācāra samanvitāḥ
51 puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā
nagarāṇāṃ vihāreṣu caityeṣv api ca śerate
52 sapta varṣāṣṭa varṣāś ca striyo garbhadharā nṛpa
daśa dvādaśa varṣāṇāṃ puṃsāṃ putraḥ prajāyate
53 bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā
āyuḥ kṣayo manuṣyāṇāṃ kṣipram eva prapadyate
54 kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ
taruṇānāṃ ca yac chīlaṃ tad vṛddheṣu prajāyate
55 viparītās tadā nāryo vañcayitvā raho patīn
vyuccaranty api duḥśīlā dāsaiḥ paśubhir eva ca
56 tasmin yugasahasrānte saṃprāpte cāyuṣaḥ kṣaye
anāvṛṣṭir mahārāja jāyate bahu vārṣikī
57 tatas tāny alpasārāṇi sattvāni kṣudhitāni ca
pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate
58 tato dinakarair dīptaiḥ saptabhir manujādhipa
pīyate salilaṃ sarvaṃ samudreṣu saritsu ca
59 yac ca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata
sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabhaḥ
60 tataḥ saṃvartako vahnir vāyunā saha bhārata
lokam āviśate pūrvam ādityair upaśoṣitam
61 tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam
devadānava yakṣāṇāṃ bhayaṃ janayate mahat
62 nirdahan nāgalokaṃ ca yac ca kiṃ cit kṣitāv iha
adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt
63 tato yojanaviṃśānāṃ sahasrāṇi śatāni ca
nirdahaty aśivo vāyuḥ sa ca saṃvartako 'nalaḥ
64 sadevāsuragandharvaṃ sayakṣoraga rākṣasam
tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ
65 tato gajakulaprakhyās taḍin mālā vibhūṣitāḥ
uttiṣṭhanti mahāmeghā nabhasy adbhutadarśanāḥ
66 ke cin nīlotpalaśyāmāḥ ke cit kumudasaṃnibhāḥ
ke cit kiñjalkasaṃkāśāḥ ke cit pītāḥ payodharāḥ
67 ke cid dhāridra saṃkāśāḥ kākāṇḍaka nibhās tathā
ke cit kamalapatrābhāḥ kecid dhiṅgulaka prabhāḥ
68 ke cit puravarākārāḥ ke cid gajakulopamāḥ
ke cid añjanasaṃkāśāḥ ke cin makarasaṃsthitāḥ
vidyunmālā pinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ
69 ghorarūpā mahārāja ghorasvananināditāḥ
tato jaladharāḥ sarve vyāpnuvanti nabhastalam
70 tair iyaṃ pṛthivī sarvā saparvatavanākarā
āpūryate mahārāja salilaughapariplutā
71 tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha
sarvataḥ plāvayanty āśu coditāḥ parameṣṭhinā
72 varṣamāṇā mahat toyaṃ pūrayanto vasuṃdharām
sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam
73 tato dvādaśa varṣāṇi payodās ta upaplave
dhārābhiḥ pūrayanto vai codyamānā mahātmanā
74 tataḥ samudraḥ svāṃ velām atikrāmati bhārata
parvatāś ca viśīryante mahī cāpi viśīryate
75 sarvataḥ sahasā bhrāntās te payodā nabhastalam
saṃveṣṭayitvā naśyanti vāyuvegaparāhatāḥ
76 tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa
ādi padmālayasl devaḥ pītvā svapiti bhārata
77 tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame
naṣṭe devāsuragaṇe yakṣārākṣasa varjite
78 nirmanuṣye mahīpāla niḥśvāpada mahīruhe
anantarikṣe loke 'smin bhramāmy eko 'ham ādṛtaḥ
79 ekārṇave jale ghore vicaran pārthivottama
apaśyan sarvabhūtāni vaiklavyam agamaṃ param
80 tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa
śrāntaḥ kva cin na śaraṇaṃ labhāmy aham atandritaḥ
81 tataḥ kadā cit paśyāmi tasmin salilasaṃplave
nyagrodhaṃ sumahāntaṃ vai viśālaṃ pṛthivīpate
82 śākhāyāṃ tasya vṛkṣasya vistīrṇāyāṃ narādhipa
paryaṅke pṛthivīpāla divyāstaraṇa saṃstṛte
83 upaviṣṭaṃ mahārāja pūrṇendusadṛśānanam
phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata
84 tato me pṛthivīpāla vismayaḥ sumahān abhūt
kathaṃ tv ayaṃ śiśuḥ śete loke nāśam upāgate
85 tapasā cintayaṃś cāpi taṃ śiśuṃ nopalakṣaye
bhūtaṃ bhavyaṃ bhaviṣyac ca jānann api narādhipa
86 atasī puṣpavarṇābhaḥ śrīvatsa kṛtalakṣaṇaḥ
sākṣāl lakṣmyā ivāvāsaḥ sa tadā pratibhāti me
87 tato mām abravīd bālaḥ sa padmanibha locanaḥ
śrīvatsa dhārī dyutimān vākyaṃ śrutisukhāvaham
88 jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam
mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava
89 abhyantaraṃ śarīraṃ me praviśya munisattama
āssva bho vihito vāsaḥ prasādas te kṛto mayā
90 tato bālena tenaivam uktasyāsīt tadā mama
nirvedo jīvite dīrghe manuṣyatva ca bhārata
91 tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam
tasyāham avaśo vaktraṃ daivayogāt praveśitaḥ
92 tataḥ praviṣṭas tat kukṣiṃ sahasā manujādhipa
sarāṣṭranagarākīrṇāṃ kṛtsnāṃ paśyāmi medinīm
93 gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm
carmaṇvatīṃ vetravatīṃ candrabhāgāṃ sarasvatīm
94 sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api
vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata
95 nadīṃ tāmrāṃ ca veṇṇāṃ ca puṇyatoyāṃ śubhāvahām
suveṇāṃ kṛṣṇaveṇāṃ ca irāmāṃ ca mahānadīm
śoṇaṃ ca puruṣavyāghra viśalyāṃ kampunām api
96 etāś cānyāś ca nadyo 'haṃ pṛthivyāṃ yā narottama
parikrāman prapaśyāmi tasya kukṣau mahātmanaḥ
97 tataḥ samudraṃ paśyāmi yādogaṇaniṣevitam
ratnākaram amitraghna nidhānaṃ payaso mahat
98 tataḥ paśyāmi gaganaṃ candrasūryavirājitam
jājvalyamānaṃ tejobhiḥ pāvakārka samaprabhaiḥ
paśyāmi ca mahīṃ rājan kānakair upaśobhitām
99 yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ
kṣatriyāś ca pravartante sarvavarṇānurañjane
100 vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa
śuśrūṣāyāṃ ca niratā dvijānāṃ vṛṣalās tathā
101 tataḥ paripatan rājaṃs tasya kukṣau mahātmanaḥ
himavantaṃ ca paśyāmi hemakūṭaṃ ca parvatam
102 niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatā citam
paśyāmi ca mahīpāla parvataṃ gandhamādanam
103 mandaraṃ manujavyāghranīlaṃ cāpi mahāgirim
paśyāmi ca mahārāja meruṃ kanakaparvatam
104 mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam
malayaṃ cāpi paśyāmi pāriyātraṃ ca parvatam
105 ete cānye ca bahavo yāvantaḥ pṛthivīdharāḥ
tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ
106 siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa
pṛthivyāṃ yāni cānyāni sattvāni jagatīpate
tāni sarvāṇy ahaṃ tatra paśyan paryacaraṃ tadā
107 kukṣau tasya naravyāghra praviṣṭaḥ saṃcaran diśaḥ
śakrādīṃś cāpi paśyāmi kṛtsnān devagaṇāṃs tathā
108 gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate
daityadānava saṃghāṃś ca ye cānye suraśatravaḥ
109 yac ca kiṃ cin mayā loke dṛṣṭaṃ sthāvarajaṅgamam
tad apaśyam ahaṃ sarvaṃ tasya kukṣau mahātmanaḥ
phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā
110 antaḥ śarīre tasyāhaṃ varṣāṇām adhikaṃ śatam
na ca paśyāmi tasyāham antaṃ dehasya kutra cit
111 satataṃ dhāvamānaś ca cintayāno viśāṃ pate
āsādayāmi naitāntaṃ tasya rājan mahātmanaḥ
112 tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā
vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca
113 tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ
mahātmāno mukhāt tasya vivṛtāt puruṣottama
114 tatas tasyaiva śākhāyāṃ nyagroghasya viśāṃ pate
āste manujaśārdūla kṛtsnam ādāya vai jagat
115 tenaiva bāla veṣeṇa śrīvatsa kṛtalakṣaṇam
āsīnaṃ taṃ naravyāghra paśyāmy amitatejasam
116 tato mām abravīd vīra sa bālaḥ prahasann iva
śrīvatsa dhārī dyutimān pītavāsā mahādyutiḥ
117 apīdānīṃ śarīre 'smin māmake munisattama
uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me
118 muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā
yayā nirmuktam ātmānam apaśyaṃ labdhacetasam
119 tasya tāmratalau tāta caraṇau supratiṣṭhitau
sujātau mṛdu raktābhir aṅgulībhir alaṃkṛtau
120 prayatena mayā mūrdhnā gṛhītvā hy abhivanditau
dṛṣṭvāparimitaṃ tasya prabhāvam amitaujasaḥ
121 vinayenāñjaliṃ kṛtvā prayatnenopagamya ca
dṛṣṭo mayā sa bhūtātmā devaḥ kamalalocanaḥ
122 tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam
jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām
123 āsyenānupraviṣṭo 'haṃ śarīraṃ bhagavaṃs tava
dṛṣṭavān akhilāṁl lokān samastāj jaṭhare tava
124 tava deva śarīrasthā devadānavarākṣasāḥ
yakṣagandharvanāgāś ca jagat sthāvarajaṅgamam
125 tvatprasādāc ca me deva smṛtir na parihīyate
drutam antaḥ śarīre te satataṃ paridhāvataḥ
126 icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita
iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate
pītvā jagad idaṃ viśvam etad ākhyātum arhasi
127 kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha
kiyantaṃ ca tvayā kālam iha stheyam ariṃdama
128 etad icchāmi deveśa śrotuṃ brāhmaṇa kāmyayā
tvattaḥ kamalapatrākṣa vistareṇa yathātatham
mahad dhyetad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho
129 ity uktaḥ sa mayā śrīmān devadevo mahādyutiḥ
sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

486 of 2013 Book 24% ~14 min left