Book 3: Chapter 13
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 3: Chapter 13

The Mahabharata in Sanskrit

Book 3
Chapter 13

1 [वै]
भॊजाः परव्रजिताञ शरुत्वा वृष्णयश चान्धकैः सह
पाण्डवान दुःखसंतप्तान समाजग्मुर महावने
2 पाञ्चालस्य च दायादा धृष्टकेतुश च चेदिपः
केकयाश च महावीर्या भरातरॊ लॊकविश्रुताः
3 वने ते ऽभिययुः पार्थान करॊधामर्श समन्विताः
गर्हयन्तॊ धार्तराष्ट्रान किं कुर्म इति चाब्रुवन
4 वासुदेवं पुरस्कृत्य सर्वे ते कषत्रियर्षभाः
परिवार्यॊपविविशुर धर्मराजं युधिष्ठिरम
5 [वा]
दुर्यॊधनस्य कर्णस्य शकुनेश च दुरात्मनः
दुःशासनचतुर्थानां भूमिः पास्यति शॊणितम
6 ततः सर्वे ऽभिषिञ्चामॊ धर्मराजं युधिष्ठिरम
निकृत्यॊपचरन वध्य एव धर्मः सनातनः
7 [वै]
पार्थानाम अभिषङ्गेण तथा करुद्धं जनार्दनम
अर्जुनः शमयाम आसा दिधक्षन्तम इव परजाः
8 संक्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः
कीर्तयाम आस कर्माणि सत्यकीर्तेर महात्मनः
9 पुरुषस्याप्रमेयस्य सत्यस्यामित तेजसः
परजापतिपतेर विष्णॊर लॊकनाथस्य धीमतः
10 [अर]
दशवर्षसहस्राणि यत्रसायं गृहॊ मुनिः
वयचरस तवं पुरा कृष्ण पर्वते गन्धमादने
11 दशवर्षसहस्राणि दशवर्षशतानि च
पुष्करेष्व अवसः कृष्ण तवम अपॊ भक्षयन पुरा
12 ऊर्ध्वबाहुर विशालायां बदर्यां मधुसूदन
अतिष्ठ एकपादेन वायुभक्षः शतं समाः
13 अपकृष्टॊत्तरासङ्गः कृशॊ धमनि संततः
आसीः कृष्ण सरस्वत्यां सत्रे दवादश वार्षिके
14 परभासं चाप्य अथासाद्य तीर्थं पुण्यजनॊचितम
तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम
आतिष्ठस तप एकेन पादेन नियमे सथितः
15 कषेत्रजः सर्वभूतानाम आदिर अन्तश च केशव
निधानं तपसां कृष्ण यज्ञस तवं च सनातनः
16 निहत्य नरकं भौमम आहृत्य मणिकुण्डले
परथमॊत्पादितं कृष्ण मेध्यम अश्वम अवासृजः
17 कृत्वा तत कर्म लॊकानाम ऋषभः सर्वलॊकजित
अवधीस तवं रणे सर्वान समेतान दैत्यदानवान
18 ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः
मानुषेषु महाबाहॊ परादुर्भूतॊ ऽसि केशव
19 स तवं नारायणॊ भूत्वा हरिर आसीः परंतप
बरह्मा सॊमश च सूर्यश च धर्मॊ धाता यमॊ ऽनलः
20 वायुर वैश्रवणॊ रुद्रः कालः खं पृथिवी दिशः
अजश चराचरगुरुः सरष्टा तवं पुरुषॊत्तम
21 तुरायणादिभिर देवक्रतुभिर भूरिदक्षिणैः
अयजॊ भूरि तेजा वै कृष्ण चैत्ररथॊ वने
22 शतं शतसहस्राणि सुवर्णस्य जनार्दन
एकैकस्मिंस तदा रज्ञे परिपूर्णानि भागशः
23 अदितेर अपि पुत्रत्वम एत्य यादवनन्दन
तवं विष्णुर इति विख्यात इन्द्राद अवरजॊ भुवि
24 शिशुर भूत्वा दिवं खं च पृथिवीं च परंतप
तरिभिर विक्रमणैः कृष्ण करान्तवान असि तेजसा
25 संप्राप्य दिवम आकाशम आदित्यसदने सथितः
अत्यरॊचश च भूतात्मन भास्करं सवेन तेजसा
26 सादिता मौरवाः पाशा निसुन्द नरकौ हतौ
कृतः कषेमः पुनः पन्थाः पुरं पराग्ज्यॊतिषं परति
27 जारूथ्याम आहुतिः कराथः शिशुपालॊ जनैः सह
भीमसेनश च शैब्यश च शतधन्वा च निर्जितः
28 तथा पर्जन्यघॊषेण रथेनादित्यवर्चसा
अवाक्षीर महिषीं भॊज्यां रणे निर्जित्य रुक्मिणम
29 इन्द्र दयुम्नॊ हतः कॊपाद यवनश च कशेरुमान
हतः सौभपतिः शाल्वस तवया सौभं च पातितम
30 इरावत्यां तथा भॊजः कार्तवीर्यसमॊ युधि
गॊपतिस तालकेतुश च तवया विनिहताव उभौ
31 तां च भॊगवतीं पुण्याम ऋषिकान्तां जनार्दन
दवारकाम आत्मसात्कृत्वा समुद्रं गमयिष्यसि
32 न करॊधॊ न च मात्सर्यं नानृतं मधुसूदन
तवयि तिष्ठति दाशार्ह न नृशंस्यं कुतॊ ऽनघ
33 आसीनं चित्तमध्ये तवां दीप्यमानं सवतेजसा
आगम्य ऋषयः सर्वे ऽयाचन्ताभयम अच्युत
34 युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन
आत्मन्य एवात्म सात्कृत्वा जगद आस्से परंतप
35 नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते
कर्माणि यानि देव तवं बाल एव महाद्युते
36 कृतवान पुण्डरीकाक्ष बलदेव सहायवान
वैराज भवने चापि बरह्मणा नयवसः सह
37 [वै]
एवम उक्त्वा तदात्मानम आत्मा कृष्णस्य पाण्डवः
तूष्णीम आसीत ततः पार्थम इत्य उवाच जनार्दनः
38 ममैव तवं तवैवाहं ये मदीयास तवैव ते
यस तवां दवेष्टि स मां दवेष्टि यस तवाम अनु स माम अनु
39 नरस तवम असि दुर्धर्ष हरिर नारायणॊ हय अहम
लॊकाल लॊकम इमं परप्तौ नरनारायणाव ऋषी
40 अनन्यः पार्थ मत्तस तवम अहं तवत्तश च भारत
नावयॊर अन्तरं शक्यं वेदितुं भरतर्षभ
41 तस्मिन वीर समावाये संरब्धेष्व अथ राजसु
धृष्टद्युम्नमुखैर वीरैर भरातृभिः परिवारिता
42 पाञ्चाली पुण्डरीकाक्षम आसीनं यादवैः सह
अभिगम्याब्रवीत कृष्णा शरण्यं शरणैषिणी
43 पूर्वे परजा निसर्वे तवाम आहुर एकं परजापतिम
सरष्टारं सर्वभूतानाम असितॊ देवलॊ ऽबरवीत
44 विष्णुस तवम असि दुर्धर्ष तवं यज्ञॊ मधुसूदन
यष्टा तवम असि यष्टव्यॊ जामदग्न्यॊ यथाब्रवीत
45 ऋषयस तवां कषमाम आहुः सत्यं च पुरुषॊत्तम
सत्याद यज्ञॊ ऽसि संभूतः कश्यपस तवां यथाब्रवीत
46 साध्यानाम अपि देवानां वसूनाम ईश्वरेश्वर
लॊभभावेन लॊकेश यथा तवां नारदॊ ऽबरवीत
47 दिवं ते शिरसा वयाप्तं पद्भ्यां च पृथिवी विभॊ
जठरं ते इमे लॊकाः पुरुषॊ ऽसि सनातनः
48 विद्या तपॊ ऽभितप्तानां तपसा भावितात्मनाम
आत्मदर्शनसिद्धानाम ऋषीणाम ऋषिसत्तम
49 राजर्षीणां पुण्यकृताम आहवेष्व अनिवर्तिनाम
सर्वधर्मॊपपन्नानां तवं गतिः पुरुषॊत्तम
50 तवं परभुस तवं विभुस तवं भूर आत्मभूस तवं सनातनः
लॊकपालाश च लॊकाश च नक्षत्राणि दिशॊ दश
नभश चन्द्रश च सूर्यश च तवयि सर्वं परतिष्ठितम
51 मर्त्यता चैव भूतानाम अमरत्वं दिवौकसाम
तवयि सर्वं महाबाहॊ लॊककार्यं परतिष्ठितम
52 सा ते ऽहं दुःखम आख्यास्ये परणयान मधुसूदन
ईशस तवं सर्वभूतानां ये दिव्या ये च मानुषाः
53 कथं नु भार्या पार्थानां तव कृष्ण सखी विभॊ
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी
54 सत्री धर्मिणी वेपमाना रुधिरेण समुक्षिता
एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि
55 राजमध्ये सभायां तु रजसाभिसमीरिताम
दृष्ट्वा च मां धार्तराष्ट्रः पराहसन पापचेतसः
56 दासी भावेन भॊक्तुं माम ईषुस ते मधुसूदन
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्व अथ वृष्णिषु
57 नन्व अहं कृष्टभीष्मस्य धृतराष्ट्रस्य चॊभयॊः
सनुषा भवामि धर्मेण साहं दासी कृता बलात
58 गर्हये पाण्डवांस तव एव युधि शरेष्ठान महाबलान
ये कलिश्यमानां परेक्षन्ते धर्मपत्नीं यशस्विनीम
59 धिग बलं भीमसेनस्य धिक पार्थस्य धनुष्मताम
यौ मां विप्रकृतां कषुद्रैर मर्षयेतां जनार्दन
60 शाश्वतॊ ऽयं धर्मपथः सद्भिर आचरितः सदा
यद भार्यां परिरक्षन्ति भर्तारॊ ऽलपबला अपि
61 भार्यायां रक्ष्यमाणायां परजा भवति रक्षिता
परजायां रक्ष्यमाणायाम आत्मा भवति रक्षितः
62 आत्मा हि जायते तस्यां तस्माज जाया भवत्य उत
भर्ता च भार्यया रक्ष्यः कथं जायान ममॊदरे
63 नन्व इमे शरणं पराप्तान न तयजन्ति कदा चन
ते मां शरणम आपान्नां नान्वपद्यन्त पाण्डवाः
64 पञ्चेमे पञ्चभिर जाताः कुमाराश चामितौजसः
एतेषाम अप्य अवेक्षार्थं तरातव्यास्मि जनार्दन
65 परतिविन्ध्यॊ युधिष्ठिरात सुत सॊमॊ वृकॊदरात
अर्जुनाच छरुत कीरित्स तु शतानीकस तु नाकुलिः
66 कनिष्टाच छरुत कर्मा तु सर्वे सत्यपराक्रमाः
परद्युम्नॊ यादृशः कृष्ण तादृशास ते महारथाः
67 नन्व इमे धनुषि शरेष्ठा अजेया युधि शात्रवैः
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम
68 अधार्मेण हृतं राज्यं सर्वे दासाः कृतास तथा
सभायां परिकृष्टाहम एकवस्त्रा रजस्वला
69 नाधिज्यम अपि यच छक्यं कर्तुम अन्येन गाण्डिवम
अन्यत्रार्जुन भीमाभ्यां तवया वा मधुसूदन
70 धिग भीमसेनस्य बलं धिक पार्थस्य च गाण्डिवम
यत्र दुर्यॊधनः कृष्ण मुहूर्तम अपि जीवति
71 य एतान आक्षिपद राष्ट्रात सह मात्राविहिंसकान
अधीयानान पुरा बालान वरतस्थान मधुसूदन
72 भॊजने भीमसेनस्य पापः पराक्षेपयद विषम
कालकूटं नवं तीक्ष्णं संभृतं लॊमहर्षणम
73 तज जीर्णम अविकारेण सहान्नेन जनार्दन
सशेषत्वान महाबाहॊ भीमस्य पुरुषॊत्तम
74 परमाण कॊट्यां विश्वस्तं तथा सुप्तं वृकॊदरम
बद्ध्वैनं कृष्ण गङ्गायां परक्षिप्य पुनर आव्रजत
75 यदा विबुद्धः कौन्तेयस तदा संछिद्य बन्धनम
उदतिष्ठन महाबाहुर भीमसेनॊ महाबलः
76 आशीविषैः कृष्णसर्पैः सुप्तं चैनम अदर्शयत
सर्वेष्व एवाङ्गदेशेषु न ममार च शत्रुहा
77 परतिब्बुद्धस तु कौन्तेयः सर्वान सर्पान अपॊथयत
सारथिं चास्य दयितम अपहस्तेन जघ्निवान
78 पुनः सुप्तान उपाधाक्षीद बालकान वारणावते
शयानान आर्यया सार्धं कॊ नु तत कर्तुम अर्हति
79 यत्रार्या रुदती भीता पाण्डवान इदम अब्रवीत
महद वयसनम आपन्ना शिखिना परिवारिता
80 हाहतास्मि कुतॊ नव अद्य भवेच छान्तिर इहानलात
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह
81 तत्र भीमॊ महाबाहुर वायुवेगपराक्रमः
आर्याम आश्वासयाम आस भरातॄंश चापि वृकॊदरः
82 वैनतेयॊ यथा पक्षी गरुडः पततां वरः
तथैवाभिपतिष्यामि भयं वॊ नेह विद्यते
83 आर्याम अङ्केन वामेन राजानं दक्षिणेन च
अंसयॊश च यमौ कृत्वा पृष्ठे बीभत्सुम एव च
84 सहसॊत्पत्य वेगेन सर्वान आदाय वीर्यवान
भरातॄन आर्यां च बलवान मॊक्षयाम आस पावकात
85 ते रात्रौ परस्थिताः सर्वे मात्रा सह यशस्विनः
अभ्यगच्छन महारण्यं हिडिम्बवनम अन्तिकात
86 शरान्ताः परसुप्तास तत्रेमे मात्रा सह सुदुःखिताः
सुप्तांश चैनान अभ्यगच्छद धिडिम्बा नाम राक्षसी
87 भीमस्य पादौ कृत्वा तु ख उत्सङ्गे ततॊ बलात
पर्यमर्दत संहृष्टा कल्याणी मृदु पाणिना
88 ताम अबुध्यद अमेयात्मा बलवान सत्यविक्रमः
पर्यपृच्छच च तां भीमः किम इहेच्छस्य अनिन्दिते
89 तयॊः शरुता तु कथितम आगच्छद राक्षसाधमः
भीमरूपॊ महानादान विसृजन भीमदर्शनः
90 केन सार्धं कथयसि आनयैनं ममान्तिकम
हिडिम्बे भक्षयिष्यावॊ नचिरं कर्तुम अर्हसि
91 सा कृपा संगृहीतेन हृदयेन मनस्विनी
नैनम ऐछत तदाख्यातुम अनुक्रॊशाद अनिन्दिता
92 स नादान विनदन घॊरान राक्षसः पुरुषादकः
अभ्यद्रवत वेगेन भीमसेनं तदा किल
93 तम अभिद्रुत्य संक्रुद्धॊ वेगेन महता बली
अगृह्णात पाणिना पाणिं भीमसेनस्य राक्षसः
94 इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम
संहत्य भीमसेनाय वयाक्षिपत सहसा करम
95 गृहीतं पाणिना पाणिं भीमसेनॊ ऽथ रक्षसा
नामृष्यत महाबाहुस तत्राक्रुध्यद वृकॊदरः
96 तत्रासीत तुमुलं युद्धं भीमसेनहिडिम्बयॊः
सर्वास्त्रविदुषॊर घॊरं वृत्रवासवयॊर इव
97 हत्वा हिडिम्बं भीमॊ ऽथ परस्थितॊ भरातृभिः सह
हिडिम्बाम अग्रतः कृत्वा यस्यां जातॊ घटॊत्कचः
98 ततश च पराद्रवन सर्वे सह मात्रा यशस्विनः
एकचक्राम अभिमुखाः संवृता बराह्मण वरजैः
99 परस्थाने वयास एषां न मन्त्री परियहितॊ ऽभवत
ततॊ ऽगच्छन्न एकचक्रां पाण्डवाः संशितव्रताः
100 तत्र अप्य आसादयाम आसुर बकं नाम महाबलम
पुरुषादं परतिभयं हिडिम्बेनैव संमितम
101 तं चापि विनिहत्यॊग्रं भीमः परहरतां वरः
सहितॊ भरातृभिः सर्वैर दरुपदस्य पुरं ययौ
102 लब्धाहम अपि तत्रैव वसता सव्यसाचिना
यथा तवया जिता कृष्ण रुक्मिणी भीष्मकात्मजा
103 एवं सुयुद्धे पार्थेन जिताहं मधुसूदन
सवयंवरे महत कर्मकृत्वा नसुकरं परैः
104 एवं कलेशैः सुबहुभिः कलिश्यमानाः सुदुःखिताः
निवसाम आर्यया हीनाः कृष्ण धौम्य पुरःसराः
105 त इमे सिंहविक्रान्ता वीर्येणाभ्यधिका परैः
विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम
106 एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम
दीर्घकालं परदीप्तानि पापानां कषुद्रकर्मणाम
107 कुले महति जातास्मि दिव्येन विधिना किल
पाण्डवानां परिया भार्या सनुषा पाण्डॊर महात्मनः
108 कच गरहम अनुप्राप्ता सास्मि कृष्ण वरा सती
पञ्चानाम इन्द्रकल्पानां परेक्षतां मधुसूदन
109 इत्य उक्त्वा परारुदत कृष्णा मुखं पच्छाद्य पाणिना
पद्मकेश परकाशेन मृदुना मृदुभाषिणी
110 सतनाव अपतितौ पीनौ सुजातौ शुभलक्षणौ
अभ्यवर्षत पाञ्चाली दुःखजैर अश्रुबिन्दुभिः
111 चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः
बाष्पपूर्णेन कण्ठेन करुद्धा वचनम अब्रवीत
112 नैव मे पतयः सन्ति न पुत्रा मधुसूदन
न भरातरॊ न च पिता नैव तवं न च बान्धवाः
113 ये मां विप्रकृतां कषुद्रैर उपेक्षध्वं विशॊकवत
न हि मे शाम्यते दुःखं कर्णॊ यत पराहसत तदा
114 अथैनाम अब्रवीत कृष्णस तस्मिन वीर समागमे
रॊदिष्यन्ति सत्रियॊ हय एवं येषां करुद्धासि भामिनि
115 बीभत्सु शरसांछन्नाञ शॊणितौघपरिप्लुतान
निहताञ जीवितं तयक्त्वा शयानान वसुधातले
116 यत समर्थं पाण्डवानां तत करिष्यामि मा शुचः
सत्यं ते परतिजानामि राज्ञां राज्ञी भविष्यसि
117 पतेद दयौर हिमवाञ शीर्येत पृथिवी शकलीभवेत
शुष्येत तॊयनिधिः कृष्णे न मे मॊघं वचॊ भवेत
118 [धृस्त]
अहं दरॊणं हनिष्यामि शिखण्डी तु पितामहम
दुर्यॊधनं भीमसेनः कर्णं हन्ता धनंजयः
119 राम कृष्णौ वयपाश्रित्य अजेयाः सम शुचिस्मिते
अपि वृत्रहणा युद्धे किं पुनर धृतराष्ट्रजैः
120 [वै]
इत्य उक्ते ऽभिमुखा वीरा वासुदेव्वम उपस्थिता
तेषां मध्ये महाबाहुः केशवॊ वाक्यम अब्रवीत
1 [vai]
bhojāḥ pravrajitāñ śrutvā vṛṣṇayaś cāndhakaiḥ saha
pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane
2 pāñcālasya ca dāyādā dhṛṣṭaketuś ca cedipaḥ
kekayāś ca mahāvīryā bhrātaro lokaviśrutāḥ
3 vane te 'bhiyayuḥ pārthān krodhāmarśa samanvitāḥ
garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan
4 vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ
parivāryopaviviśur dharmarājaṃ yudhiṣṭhiram
5 [vā]
duryodhanasya karṇasya śakuneś ca durātmanaḥ
duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam
6 tataḥ sarve 'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram
nikṛtyopacaran vadhya eva dharmaḥ sanātanaḥ
7 [vai]
pārthānām abhiṣaṅgeṇa tathā kruddhaṃ janārdanam
arjunaḥ śamayām āsā didhakṣantam iva prajāḥ
8 saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ
kīrtayām āsa karmāṇi satyakīrter mahātmanaḥ
9 puruṣasyāprameyasya satyasyāmita tejasaḥ
prajāpatipater viṣṇor lokanāthasya dhīmataḥ
10 [ar]
daśavarṣasahasrāṇi yatrasāyaṃ gṛho muniḥ
vyacaras tvaṃ purā kṛṣṇa parvate gandhamādane
11 daśavarṣasahasrāṇi daśavarṣaśatāni ca
puṣkareṣv avasaḥ kṛṣṇa tvam apo bhakṣayan purā
12 ūrdhvabāhur viśālāyāṃ badaryāṃ madhusūdana
atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ
13 apakṛṣṭottarāsaṅgaḥ kṛśo dhamani saṃtataḥ
āsīḥ kṛṣṇa sarasvatyāṃ satre dvādaśa vārṣike
14 prabhāsaṃ cāpy athāsādya tīrthaṃ puṇyajanocitam
tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam
ātiṣṭhas tapa ekena pādena niyame sthitaḥ
15 kṣetrajaḥ sarvabhūtānām ādir antaś ca keśava
nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ
16 nihatya narakaṃ bhaumam āhṛtya maṇikuṇḍale
prathamotpāditaṃ kṛṣṇa medhyam aśvam avāsṛjaḥ
17 kṛtvā tat karma lokānām ṛṣabhaḥ sarvalokajit
avadhīs tvaṃ raṇe sarvān sametān daityadānavān
18 tataḥ sarveśvaratvaṃ ca saṃpradāya śacīpateḥ
mānuṣeṣu mahābāho prādurbhūto 'si keśava
19 sa tvaṃ nārāyaṇo bhūtvā harir āsīḥ paraṃtapa
brahmā somaś ca sūryaś ca dharmo dhātā yamo 'nalaḥ
20 vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ
ajaś carācaraguruḥ sraṣṭā tvaṃ puruṣottama
21 turāyaṇādibhir devakratubhir bhūridakṣiṇaiḥ
ayajo bhūri tejā vai kṛṣṇa caitraratho vane
22 śataṃ śatasahasrāṇi suvarṇasya janārdana
ekaikasmiṃs tadā rajñe paripūrṇāni bhāgaśaḥ
23 aditer api putratvam etya yādavanandana
tvaṃ viṣṇur iti vikhyāta indrād avarajo bhuvi
24 śiśur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa
tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā
25 saṃprāpya divam ākāśam ādityasadane sthitaḥ
atyarocaś ca bhūtātman bhāskaraṃ svena tejasā
26 sāditā mauravāḥ pāśā nisunda narakau hatau
kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati
27 jārūthyām āhutiḥ krāthaḥ śiśupālo janaiḥ saha
bhīmasenaś ca śaibyaś ca śatadhanvā ca nirjitaḥ
28 tathā parjanyaghoṣeṇa rathenādityavarcasā
avākṣīr mahiṣīṃ bhojyāṃ raṇe nirjitya rukmiṇam
29 indra dyumno hataḥ kopād yavanaś ca kaśerumān
hataḥ saubhapatiḥ śālvas tvayā saubhaṃ ca pātitam
30 irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi
gopatis tālaketuś ca tvayā vinihatāv ubhau
31 tāṃ ca bhogavatīṃ puṇyām ṛṣikāntāṃ janārdana
dvārakām ātmasātkṛtvā samudraṃ gamayiṣyasi
32 na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana
tvayi tiṣṭhati dāśārha na nṛśaṃsyaṃ kuto 'nagha
33 āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā
āgamya ṛṣayaḥ sarve 'yācantābhayam acyuta
34 yugānte sarvabhūtāni saṃkṣipya madhusūdana
ātmany evātma sātkṛtvā jagad āsse paraṃtapa
35 naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te
karmāṇi yāni deva tvaṃ bāla eva mahādyute
36 kṛtavān puṇḍarīkākṣa baladeva sahāyavān
vairāja bhavane cāpi brahmaṇā nyavasaḥ saha
37 [vai]
evam uktvā tadātmānam ātmā kṛṣṇasya pāṇḍavaḥ
tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ
38 mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te
yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu
39 naras tvam asi durdharṣa harir nārāyaṇo hy aham
lokāl lokam imaṃ praptau naranārāyaṇāv ṛṣī
40 ananyaḥ pārtha mattas tvam ahaṃ tvattaś ca bhārata
nāvayor antaraṃ śakyaṃ vedituṃ bharatarṣabha
41 tasmin vīra samāvāye saṃrabdheṣv atha rājasu
dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā
42 pāñcālī puṇḍarīkākṣam āsīnaṃ yādavaiḥ saha
abhigamyābravīt kṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī
43 pūrve prajā nisarve tvām āhur ekaṃ prajāpatim
sraṣṭāraṃ sarvabhūtānām asito devalo 'bravīt
44 viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana
yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt
45 ṛṣayas tvāṃ kṣamām āhuḥ satyaṃ ca puruṣottama
satyād yajño 'si saṃbhūtaḥ kaśyapas tvāṃ yathābravīt
46 sādhyānām api devānāṃ vasūnām īśvareśvara
lobhabhāvena lokeśa yathā tvāṃ nārado 'bravīt
47 divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho
jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ
48 vidyā tapo 'bhitaptānāṃ tapasā bhāvitātmanām
ātmadarśanasiddhānām ṛṣīṇām ṛṣisattama
49 rājarṣīṇāṃ puṇyakṛtām āhaveṣv anivartinām
sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama
50 tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ
lokapālāś ca lokāś ca nakṣatrāṇi diśo daśa
nabhaś candraś ca sūryaś ca tvayi sarvaṃ pratiṣṭhitam
51 martyatā caiva bhūtānām amaratvaṃ divaukasām
tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam
52 sā te 'haṃ duḥkham ākhyāsye praṇayān madhusūdana
īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ
53 kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho
dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī
54 strī dharmiṇī vepamānā rudhireṇa samukṣitā
ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi
55 rājamadhye sabhāyāṃ tu rajasābhisamīritām
dṛṣṭvā ca māṃ dhārtarāṣṭraḥ prāhasan pāpacetasaḥ
56 dāsī bhāvena bhoktuṃ mām īṣus te madhusūdana
jīvatsu pāṇḍuputreṣu pāñcāleṣv atha vṛṣṇiṣu
57 nanv ahaṃ kṛṣṭabhīṣmasya dhṛtarāṣṭrasya cobhayoḥ
snuṣā bhavāmi dharmeṇa sāhaṃ dāsī kṛtā balāt
58 garhaye pāṇḍavāṃs tv eva yudhi śreṣṭhān mahābalān
ye kliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm
59 dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām
yau māṃ viprakṛtāṃ kṣudrair marṣayetāṃ janārdana
60 śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā
yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api
61 bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā
prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ
62 ātmā hi jāyate tasyāṃ tasmāj jāyā bhavaty uta
bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyān mamodare
63 nanv ime śaraṇaṃ prāptān na tyajanti kadā cana
te māṃ śaraṇam āpānnāṃ nānvapadyanta pāṇḍavāḥ
64 pañceme pañcabhir jātāḥ kumārāś cāmitaujasaḥ
eteṣām apy avekṣārthaṃ trātavyāsmi janārdana
65 prativindhyo yudhiṣṭhirāt suta somo vṛkodarāt
arjunāc chruta kīrits tu śatānīkas tu nākuliḥ
66 kaniṣṭāc chruta karmā tu sarve satyaparākramāḥ
pradyumno yādṛśaḥ kṛṣṇa tādṛśās te mahārathāḥ
67 nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ
kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām
68 adhārmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā
sabhāyāṃ parikṛṣṭāham ekavastrā rajasvalā
69 nādhijyam api yac chakyaṃ kartum anyena gāṇḍivam
anyatrārjuna bhīmābhyāṃ tvayā vā madhusūdana
70 dhig bhīmasenasya balaṃ dhik pārthasya ca gāṇḍivam
yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati
71 ya etān ākṣipad rāṣṭrāt saha mātrāvihiṃsakān
adhīyānān purā bālān vratasthān madhusūdana
72 bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam
73 taj jīrṇam avikāreṇa sahānnena janārdana
saśeṣatvān mahābāho bhīmasya puruṣottama
74 pramāṇa koṭyāṃ viśvastaṃ tathā suptaṃ vṛkodaram
baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya punar āvrajat
75 yadā vibuddhaḥ kaunteyas tadā saṃchidya bandhanam
udatiṣṭhan mahābāhur bhīmaseno mahābalaḥ
76 āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adarśayat
sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā
77 pratibbuddhas tu kaunteyaḥ sarvān sarpān apothayat
sārathiṃ cāsya dayitam apahastena jaghnivān
78 punaḥ suptān upādhākṣīd bālakān vāraṇāvate
śayānān āryayā sārdhaṃ ko nu tat kartum arhati
79 yatrāryā rudatī bhītā pāṇḍavān idam abravīt
mahad vyasanam āpannā śikhinā parivāritā
80 hāhatāsmi kuto nv adya bhavec chāntir ihānalāt
anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha
81 tatra bhīmo mahābāhur vāyuvegaparākramaḥ
āryām āśvāsayām āsa bhrātṝṃś cāpi vṛkodaraḥ
82 vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ
tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate
83 āryām aṅkena vāmena rājānaṃ dakṣiṇena ca
aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca
84 sahasotpatya vegena sarvān ādāya vīryavān
bhrātṝn āryāṃ ca balavān mokṣayām āsa pāvakāt
85 te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ
abhyagacchan mahāraṇyaṃ hiḍimbavanam antikāt
86 śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ
suptāṃś cainān abhyagacchad dhiḍimbā nāma rākṣasī
87 bhīmasya pādau kṛtvā tu kha utsaṅge tato balāt
paryamardata saṃhṛṣṭā kalyāṇī mṛdu pāṇinā
88 tām abudhyad ameyātmā balavān satyavikramaḥ
paryapṛcchac ca tāṃ bhīmaḥ kim ihecchasy anindite
89 tayoḥ śrutā tu kathitam āgacchad rākṣasādhamaḥ
bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ
90 kena sārdhaṃ kathayasi ānayainaṃ mamāntikam
hiḍimbe bhakṣayiṣyāvo naciraṃ kartum arhasi
91 sā kṛpā saṃgṛhītena hṛdayena manasvinī
nainam aichat tadākhyātum anukrośād aninditā
92 sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ
abhyadravata vegena bhīmasenaṃ tadā kila
93 tam abhidrutya saṃkruddho vegena mahatā balī
agṛhṇāt pāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ
94 indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham
saṃhatya bhīmasenāya vyākṣipat sahasā karam
95 gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā
nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ
96 tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ
sarvāstraviduṣor ghoraṃ vṛtravāsavayor iva
97 hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha
hiḍimbām agrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ
98 tataś ca prādravan sarve saha mātrā yaśasvinaḥ
ekacakrām abhimukhāḥ saṃvṛtā brāhmaṇa vrajaiḥ
99 prasthāne vyāsa eṣāṃ na mantrī priyahito 'bhavat
tato 'gacchann ekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ
100 tatr apy āsādayām āsur bakaṃ nāma mahābalam
puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam
101 taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ
sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau
102 labdhāham api tatraiva vasatā savyasācinā
yathā tvayā jitā kṛṣṇa rukmiṇī bhīṣmakātmajā
103 evaṃ suyuddhe pārthena jitāhaṃ madhusūdana
svayaṃvare mahat karmakṛtvā nasukaraṃ paraiḥ
104 evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ
nivasām āryayā hīnāḥ kṛṣṇa dhaumya puraḥsarāḥ
105 ta ime siṃhavikrāntā vīryeṇābhyadhikā paraiḥ
vihīnaiḥ parikliśyantīṃ samupekṣanta māṃ katham
106 etādṛśāni duḥkhāni sahante durbalīyasām
dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām
107 kule mahati jātāsmi divyena vidhinā kila
pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ
108 kaca graham anuprāptā sāsmi kṛṣṇa varā satī
pañcānām indrakalpānāṃ prekṣatāṃ madhusūdana
109 ity uktvā prārudat kṛṣṇā mukhaṃ pacchādya pāṇinā
padmakeśa prakāśena mṛdunā mṛdubhāṣiṇī
110 stanāv apatitau pīnau sujātau śubhalakṣaṇau
abhyavarṣata pāñcālī duḥkhajair aśrubindubhiḥ
111 cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ
bāṣpapūrṇena kaṇṭhena kruddhā vacanam abravīt
112 naiva me patayaḥ santi na putrā madhusūdana
na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ
113 ye māṃ viprakṛtāṃ kṣudrair upekṣadhvaṃ viśokavat
na hi me śāmyate duḥkhaṃ karṇo yat prāhasat tadā
114 athainām abravīt kṛṣṇas tasmin vīra samāgame
rodiṣyanti striyo hy evaṃ yeṣāṃ kruddhāsi bhāmini
115 bībhatsu śarasāṃchannāñ śoṇitaughapariplutān
nihatāñ jīvitaṃ tyaktvā śayānān vasudhātale
116 yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ
satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi
117 pated dyaur himavāñ śīryet pṛthivī śakalībhavet
śuṣyet toyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet
118 [dhṛsta]
ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham
duryodhanaṃ bhīmasenaḥ karṇaṃ hantā dhanaṃjayaḥ
119 rāma kṛṣṇau vyapāśritya ajeyāḥ sma śucismite
api vṛtrahaṇā yuddhe kiṃ punar dhṛtarāṣṭrajaiḥ
120 [vai]
ity ukte 'bhimukhā vīrā vāsudevvam upasthitā
teṣāṃ madhye mahābāhuḥ keśavo vākyam abravīt

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

313 of 2013 Book 15% ~13 min left