Book 13: Chapter 84
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 13: Chapter 84

The Mahabharata in Sanskrit

Book 13
Chapter 84

1 [देवाह]
असुरस तारकॊ नाम तवया दत्तवरः परभॊ
सुरान ऋषींश च कलिश्नाति वधस तस्य विधीयताम
2 तस्माद भयं समुत्पन्नम अस्माकं वै पितामह
परित्रायस्व नॊ देव न हय अन्या गतिर अस्ति नः
3 [बर]
समॊ ऽहं सर्वभूतानाम अधर्मं नेह रॊचये
हन्यतां तारकः कषिप्रं सुरर्षिगणबाधकः
4 वेदा धर्मा च नॊत्सादं गच्छेयुः सुरसत्तमाः
विहितं पूर्वम एवात्र मया वै वयेतु वॊ जवरः
5 [देवाह]
वरदानाद भगवतॊ दैतेयॊ बलगर्वितः
देवैर न शक्यते हन्तुं स कथं परशमं वरजेत
6 स हि नैव सम देवानां नासुराणां न रक्षसाम
वध्यः सयाम इति जग्राह वरं तवत्तः पितामह
7 देवाश च शप्ता रुद्राण्या परजॊच्छेदे पुरा कृते
न भविष्यति वॊ ऽपत्यम इति सर्वजगत्पते
8 [बर]
हुताशनॊ न तत्रासीच छापकाले सुरॊत्तमाः
स उत्पादयितापत्यं वधार्थं तरिदशद्विषाम
9 तद वै सर्वान अतिक्रम्य देवदानवराक्षसान
मानुषान अथ गन्धर्वान नागान अथ च पक्षिणः
10 अस्त्रेणामॊघ पातेन शक्त्या तं घातयिष्यति
यतॊ वॊ भयम उत्पन्नं ये चान्ये सुरशत्रवः
11 सनातनॊ हि संकल्पः काम इत्य अभिधीयते
रुद्रस्य तेजः परस्कन्नम अग्नौ निपतितं च तत
12 तत तेजॊ ऽगनिर महद भूतं दवितीयम इव पावकम
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति
13 स तु नावाप तं शापं नष्टः स हुतभुक तदा
तस्माद वॊ भयहृद देवाः समुत्पत्स्यति पावकिः
14 अन्विष्यतां वै जवलनस तथा चाद्य नियुज्यताम
तारकस्य वधॊपायः कथितॊ वै मयानघाः
15 न हि तेजस्विनां शापास तेजःसु परभवन्ति वै
बलान्य अतिबलं पराप्य न बलानि भवन्ति वै
16 हन्याद अवध्यान वरदान अपि चैव तपस्विनः
संकल्पाभिरुचिः कामः सनातन तमॊ ऽनलः
17 जगत्पतिर अनिर्देश्यः सर्वगः सर्वभावनः
हृच्छयः सर्वभूतानां जयेष्ठॊ रुद्राद अपि परभुः
18 अन्विष्यतां स तु कषिप्रं तेजॊराशिर हुताशनः
स वॊ मनॊगतं कामं देवः संपादयिष्यति
19 एतद वाक्यम उपश्रुत्य ततॊ देवा महात्मनः
जग्मुः संसिद्ध संकल्पाः पर्येषन्तॊ विभावसुम
20 ततस तरैलॊक्यम ऋषयॊ वयचिन्वन्त सुरैः सह
काङ्क्षन्तॊ दर्शनं वह्नेः सर्वे तद्गतमानसाः
21 परेण तपसा युक्ताः शरीमन्तॊ लॊकविश्रुताः
लॊकान अन्वचरन सिद्धाः सर्व एव भृगूद्वह
नष्टम आत्मनि संलीनं नाधिजग्मुर हुताशनम
22 ततः संजातसंत्रासान अग्नेर दर्शनलालसान
जले चरः कलान्तमनास तेजसाग्नेः परदीपितः
उवाच देवान मण्डूकॊ रसातलतलॊत्थितः
23 रसातलतले देवा वसत्य अग्निर इति परभॊ
संतापद इह संप्राप्तः पावकप्रभवाद अहम
24 स संसुप्तॊ जले देवा भगवान हव्यवाहनः
अपः संसृज्य तेजॊभिस तेन संतापिता वयम
25 तस्य दर्शनम इष्टं वॊ यदि देवा विभावसॊः
तत्रैनम अभिगच्छध्वं कार्यं वॊ यदि वह्निना
26 गम्यतां साधयिष्यामॊ वयं हय अग्निभयात सुराः
एतावद उक्त्वा मण्डूकस तवरितॊ जलम आविशत
27 हुताशनस तु बुबुधे मण्डूकस्याथ पैशुनम
शशाप स तम आसाद्य न रसान वेत्स्यसीति वै
28 तं स संयुज्य शापेन मण्डूकं पावकॊ ययौ
अन्यत्र वासाय विभुर न च देवान अदर्शयत
29 देवास तव अनुग्रहं चक्रुर मण्डूकानां भृगूद्वह
यत तच छृणु महाबाहॊ गदतॊ मम सर्वशः
30 [देवाह]
अगि शापाद अजिह्वापि रसज्ञानबहिष्कृताः
सरस्वतीं बहुविधां यूयम उच्चारयिष्यथ
31 बिलवास गतांश चैव निरादानान अचेतसः
गतासून अपि वः शुष्कान भूमिः संधारयिष्यति
तमॊ गतायाम अपि च निशायां विचरिष्यथ
32 इत्य उक्त्वा तांस ततॊ देवाः पुनर एव महीम इमाम
परीयुर जवलनस्यार्थे न चाविन्दन हुताशनम
33 अथ तान दविरदः कश चित सुरेन्द्र दविरदॊपमः
अश्वत्थस्थॊ ऽगिर इत्य एवं पराह देवान भृगूद्वह
34 शशाप जवलनः सर्वान दविरदान करॊधमूर्छितः
परतीपा भवतां जिह्वा भवित्रीति भृगूद्वह
35 इत्य उक्त्वा निःसृतॊ ऽशवत्थाद अग्निर वारणसूचितः
परविवेश शमी गर्भम अथ वह्निः सुषुप्सया
36 अनुग्रहं तु नागानां यं चक्रुः शृणु तं परभॊ
देवा भृगुकुलश्रेष्ठ परीताः सत्यपराक्रमाः
37 [देवाह]
परतीपया जिह्वयापि सर्वाहारान करिष्यथ
वाचं चॊच्चारयिष्यध्वम उच्चैर अव्यञ्जिताक्षरम
इत्य उक्त्वा पुनर एवाग्निम अनुसस्रुर दिवौकसः
38 अश्वत्थान निःसृतश चाग्निः शमी गर्भगतस तदा
शुकेन खयापितॊ विप्र तं देवाः समुपाद्रवन
39 शशाप शुकम अग्निस तु वाग विहीनॊ भविष्यसि
जिह्वां चावर्तयाम आस तस्यापि हुतभुक तदा
40 दृष्ट्वा तु जवलनं देवाः शुकम ऊचुर दयान्विताः
भविता न तवम अत्यन्तं शकुने नष्टवाग इति
41 आवृत्तजिह्वस्य सतॊ वाक्यं कान्तं भविष्यति
बालस्येव परवृद्धस्य कलम अव्यक्तम अद्भुतम
42 इत्य उक्त्वा तं शमी गर्भे वह्निम आलक्ष्य देवताः
तद एवायतनं चक्रुः पुण्यं सर्वक्रियास्व अपि
43 ततः परभृति चाप्य अग्निः शमी गर्भेषु दृश्यते
उत्पादने तथॊपायम अनुजग्मुश च मानवाः
44 आपॊ रसातले यास तु संसृष्टाश चित्रभानुना
ताः पर्वत परस्रवणैर ऊष्मां मुञ्चन्ति भार्गव
पावकेनाधिशयता संतप्तास तस्य तेजसा
45 ततॊ ऽगनिर देवता दृष्ट्वा बभूव वयथितस तदा
किम आगमनम इत्य एवं तान अपृच्छत पावकः
46 तम ऊचुर विबुधाः सर्वे ते चैव परमर्षयः
तवां नियॊक्ष्यामहे कार्ये तद भवान कर्तुम अर्हति
कृते च तस्मिन भविता तवापि सुमहान गुणः
47 [अग्नि]
बरूत यद भवतां कार्यं सर्वं कर्तास्मि तत सुराः
भवतां हि नियॊज्यॊ ऽहं मा वॊ ऽतरास्तु विचारणा
48 [देवाह]
असुरस तारकॊ नाम बरह्मणॊ वरदर्पितः
अस्मान परबाधते वीर्याद वधस तस्य विधीयताम
49 इमान देवगणांस तात परजापतिगणांस तथा
ऋषींश चापि महाभागान परित्रायस्व पावक
50 अपत्यं तेजसा युक्तं परवीरं जनय परभॊ
यद भयं नॊ ऽसुरात तस्मान नाशयेद धव्यवाहन
51 शप्तानां नॊ महादेव्या नान्यद अस्ति परायणम
अन्यत्र भवतॊ वीर्यं तस्मात तरायस्व नस ततः
52 इत्य उक्तः स तथेत्य उक्त्वा भगावान हव्यकव्य भुक
जगामाथ दुराधर्षॊ गङ्गां भागीरथीं परति
53 तया चाप्य अभवन मिश्रॊ गर्भश चास्याभवत तदा
ववृधे स तदा गर्भः कक्षे कृष्ण गतिर यथा
54 तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना
संतापम अगमत तीव्रं सा सॊढुं न शशाक ह
55 आहिते जवलनेनाथ गर्भे तेजःसमन्विते
गङ्गायाम असुरः कश चिद भैरवं नादम उत्सृजत
56 अबुद्धापतितेनाथ नादेन विपुलेन सा
वित्रस्तॊद्भ्रान्त नयना गङ्गा विप्लुतलॊचना
विसंज्ञा नाशकद गर्भं संधारयितुम आत्मना
57 सा तु तेजः परीताङ्गी कम्पमाना च जाह्नवी
उवाच वचनं विप्र तदा गर्भबलॊद्धता
न ते शक्तास्मि भगवंस तेजसॊ ऽसय विधारणे
58 विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम
विह्वला चास्मि भगवंस तेजॊ नष्टं च मे ऽनघ
59 धारणे नास्य शक्ताहं गर्भस्य तपतां वर
उत्स्रक्ष्ये ऽहम इमं दुःखान न तु कामात कथं चन
60 न चेतसॊ ऽसति संस्पर्शॊ मम देव विभावसॊ
आपद अर्थे हि संबन्धः सुसूक्ष्मॊ ऽपि महाद्युते
61 यद अत्र गुणसंपन्नम इतरं वा हुताशन
तवय्य एव तद अहं मन्ये धर्माधर्मौ च केवलौ
62 तामुवाच ततॊ वह्निर धार्यतां धार्यताम अयम
गर्भॊ मत तेजसा युक्तॊ महागुणफलॊदयः
63 शक्ता हय असि महीं कृत्स्नां वॊढुं धारयितुं तथा
न हि ते किं चिद अप्राप्यं मद रेतॊ धारणाद ऋते
64 सा वह्निना वार्यमाणा देवैश चापि सरिद वरा
समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा
65 समर्था धारणे चापि रुद्र तेजः परधर्षिता
नाशकत तं तदा गर्भं संधारयितुम ओजसा
66 सा समुत्सृज्य तं दुःखाद दीप्तवैश्वानर परभम
दर्शयाम आस चाग्निस तां तदा गङ्गां भृगूद्वह
पप्रच्छ सरितां शरेष्ठां कच चिद गर्भः सुखॊदयः
67 कीदृग वर्णॊ ऽपि वा देवि कीदृग रूपश च दृश्यते
तेजसा केन वा युक्तः सर्वम एतद बरवीहि मे
68 [गन्गा]
जातरूपः स गर्भॊ वै तेजसा तवम इवानल
सुवर्णॊ विमलॊ दीप्तः पर्वतं चावभासयत
69 पद्मॊत्पलविमिश्राणां हरदानाम इव शीतलः
गन्धॊ ऽसय स कदम्बानां तुल्यॊ वै तपतां वर
70 तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः
यद दरव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा
तत सर्वं काञ्चनी भूतं समन्तात परत्यदृश्यत
71 पर्यधावत शैलांश च नदीः परस्रवणानि च
वयदीपयत तेजसा च तरैलॊक्यं स चराचरम
72 एवंरूपः स भगवान पुत्रस ते हव्यवाहन
सूर्यवैश्वानर समः कान्त्या सॊम इवापरः
एवम उक्त्वा तु सा देवी तत्रैवान्तरधीयत
73 पावकश चापि तेजस्वी कृत्वा कार्यं दिवौकसाम
जगामेष्टं ततॊ देशं तदा भार्गवनन्दन
74 एतैः कर्म गुणैर लॊके नामाग्नेः परिगीयते
हिरण्यरेता इति वै ऋषिभिर विबुधैस तथा
पृथिवी च तदा देवी खयाता वसुमतीति वै
75 स तु गर्भॊ महातेजा गाङ्गेयः पावकॊद्भवः
दिव्यं शरवणं पराप्य ववृधे ऽदभुतदर्शनः
76 ददृशुः कृत्तिकास तं तु बालार्कसदृशद्युतिम
जातस्नेहाश च तं बालं पुपुषुः सतन्य विस्रवैः
77 ततः स कार्त्तिकेयत्वम अवाप परमद्युतिः
सकन्नत्वात सकन्दतां चापि गुहावासाद गुहॊ ऽभवत
78 एवं सुवर्णम उत्पन्नम अपत्यं जातवेदसः
तत्र जाम्बूनदं शरेष्ठं देवानाम अपि भूषणम
79 ततः परभृति चाप्य एतज जातरूपम उदाहृतम
यत सुवर्णं स भगवान अग्निर ईशः परजापतिः
80 पवित्राणां पवित्रं हि कनकं दविजसत्तम
अग्नी षॊमात्मकं चैव जातरूपम उदाहृतम
81 रत्नानाम उत्तमं रत्नं भूषणानां तथॊत्तमम
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम
1 [devāh]
asuras tārako nāma tvayā dattavaraḥ prabho
surān ṛṣīṃś ca kliśnāti vadhas tasya vidhīyatām
2 tasmād bhayaṃ samutpannam asmākaṃ vai pitāmaha
paritrāyasva no deva na hy anyā gatir asti naḥ
3 [br]
samo 'haṃ sarvabhūtānām adharmaṃ neha rocaye
hanyatāṃ tārakaḥ kṣipraṃ surarṣigaṇabādhakaḥ
4 vedā dharmā ca notsādaṃ gaccheyuḥ surasattamāḥ
vihitaṃ pūrvam evātra mayā vai vyetu vo jvaraḥ
5 [devāh]
varadānād bhagavato daiteyo balagarvitaḥ
devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet
6 sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām
vadhyaḥ syām iti jagrāha varaṃ tvattaḥ pitāmaha
7 devāś ca śaptā rudrāṇyā prajocchede purā kṛte
na bhaviṣyati vo 'patyam iti sarvajagatpate
8 [br]
hutāśano na tatrāsīc chāpakāle surottamāḥ
sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām
9 tad vai sarvān atikramya devadānavarākṣasān
mānuṣān atha gandharvān nāgān atha ca pakṣiṇaḥ
10 astreṇāmogha pātena śaktyā taṃ ghātayiṣyati
yato vo bhayam utpannaṃ ye cānye suraśatravaḥ
11 sanātano hi saṃkalpaḥ kāma ity abhidhīyate
rudrasya tejaḥ praskannam agnau nipatitaṃ ca tat
12 tat tejo 'gnir mahad bhūtaṃ dvitīyam iva pāvakam
vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati
13 sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuk tadā
tasmād vo bhayahṛd devāḥ samutpatsyati pāvakiḥ
14 anviṣyatāṃ vai jvalanas tathā cādya niyujyatām
tārakasya vadhopāyaḥ kathito vai mayānaghāḥ
15 na hi tejasvināṃ śāpās tejaḥsu prabhavanti vai
balāny atibalaṃ prāpya na balāni bhavanti vai
16 hanyād avadhyān varadān api caiva tapasvinaḥ
saṃkalpābhiruciḥ kāmaḥ sanātana tamo 'nalaḥ
17 jagatpatir anirdeśyaḥ sarvagaḥ sarvabhāvanaḥ
hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrād api prabhuḥ
18 anviṣyatāṃ sa tu kṣipraṃ tejorāśir hutāśanaḥ
sa vo manogataṃ kāmaṃ devaḥ saṃpādayiṣyati
19 etad vākyam upaśrutya tato devā mahātmanaḥ
jagmuḥ saṃsiddha saṃkalpāḥ paryeṣanto vibhāvasum
20 tatas trailokyam ṛṣayo vyacinvanta suraiḥ saha
kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ
21 pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ
lokān anvacaran siddhāḥ sarva eva bhṛgūdvaha
naṣṭam ātmani saṃlīnaṃ nādhijagmur hutāśanam
22 tataḥ saṃjātasaṃtrāsān agner darśanalālasān
jale caraḥ klāntamanās tejasāgneḥ pradīpitaḥ
uvāca devān maṇḍūko rasātalatalotthitaḥ
23 rasātalatale devā vasaty agnir iti prabho
saṃtāpad iha saṃprāptaḥ pāvakaprabhavād aham
24 sa saṃsupto jale devā bhagavān havyavāhanaḥ
apaḥ saṃsṛjya tejobhis tena saṃtāpitā vayam
25 tasya darśanam iṣṭaṃ vo yadi devā vibhāvasoḥ
tatrainam abhigacchadhvaṃ kāryaṃ vo yadi vahninā
26 gamyatāṃ sādhayiṣyāmo vayaṃ hy agnibhayāt surāḥ
etāvad uktvā maṇḍūkas tvarito jalam āviśat
27 hutāśanas tu bubudhe maṇḍūkasyātha paiśunam
śaśāpa sa tam āsādya na rasān vetsyasīti vai
28 taṃ sa saṃyujya śāpena maṇḍūkaṃ pāvako yayau
anyatra vāsāya vibhur na ca devān adarśayat
29 devās tv anugrahaṃ cakrur maṇḍūkānāṃ bhṛgūdvaha
yat tac chṛṇu mahābāho gadato mama sarvaśaḥ
30 [devāh]
agi śāpād ajihvāpi rasajñānabahiṣkṛtāḥ
sarasvatīṃ bahuvidhāṃ yūyam uccārayiṣyatha
31 bilavāsa gatāṃś caiva nirādānān acetasaḥ
gatāsūn api vaḥ śuṣkān bhūmiḥ saṃdhārayiṣyati
tamo gatāyām api ca niśāyāṃ vicariṣyatha
32 ity uktvā tāṃs tato devāḥ punar eva mahīm imām
parīyur jvalanasyārthe na cāvindan hutāśanam
33 atha tān dviradaḥ kaś cit surendra dviradopamaḥ
aśvatthastho 'gir ity evaṃ prāha devān bhṛgūdvaha
34 śaśāpa jvalanaḥ sarvān dviradān krodhamūrchitaḥ
pratīpā bhavatāṃ jihvā bhavitrīti bhṛgūdvaha
35 ity uktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ
praviveśa śamī garbham atha vahniḥ suṣupsayā
36 anugrahaṃ tu nāgānāṃ yaṃ cakruḥ śṛṇu taṃ prabho
devā bhṛgukulaśreṣṭha prītāḥ satyaparākramāḥ
37 [devāh]
pratīpayā jihvayāpi sarvāhārān kariṣyatha
vācaṃ coccārayiṣyadhvam uccair avyañjitākṣaram
ity uktvā punar evāgnim anusasrur divaukasaḥ
38 aśvatthān niḥsṛtaś cāgniḥ śamī garbhagatas tadā
śukena khyāpito vipra taṃ devāḥ samupādravan
39 śaśāpa śukam agnis tu vāg vihīno bhaviṣyasi
jihvāṃ cāvartayām āsa tasyāpi hutabhuk tadā
40 dṛṣṭvā tu jvalanaṃ devāḥ śukam ūcur dayānvitāḥ
bhavitā na tvam atyantaṃ śakune naṣṭavāg iti
41 āvṛttajihvasya sato vākyaṃ kāntaṃ bhaviṣyati
bālasyeva pravṛddhasya kalam avyaktam adbhutam
42 ity uktvā taṃ śamī garbhe vahnim ālakṣya devatāḥ
tad evāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsv api
43 tataḥ prabhṛti cāpy agniḥ śamī garbheṣu dṛśyate
utpādane tathopāyam anujagmuś ca mānavāḥ
44 āpo rasātale yās tu saṃsṛṣṭāś citrabhānunā
tāḥ parvata prasravaṇair ūṣmāṃ muñcanti bhārgava
pāvakenādhiśayatā saṃtaptās tasya tejasā
45 tato 'gnir devatā dṛṣṭvā babhūva vyathitas tadā
kim āgamanam ity evaṃ tān apṛcchata pāvakaḥ
46 tam ūcur vibudhāḥ sarve te caiva paramarṣayaḥ
tvāṃ niyokṣyāmahe kārye tad bhavān kartum arhati
kṛte ca tasmin bhavitā tavāpi sumahān guṇaḥ
47 [agni]
brūta yad bhavatāṃ kāryaṃ sarvaṃ kartāsmi tat surāḥ
bhavatāṃ hi niyojyo 'haṃ mā vo 'trāstu vicāraṇā
48 [devāh]
asuras tārako nāma brahmaṇo varadarpitaḥ
asmān prabādhate vīryād vadhas tasya vidhīyatām
49 imān devagaṇāṃs tāta prajāpatigaṇāṃs tathā
ṛṣīṃś cāpi mahābhāgān paritrāyasva pāvaka
50 apatyaṃ tejasā yuktaṃ pravīraṃ janaya prabho
yad bhayaṃ no 'surāt tasmān nāśayed dhavyavāhana
51 śaptānāṃ no mahādevyā nānyad asti parāyaṇam
anyatra bhavato vīryaṃ tasmāt trāyasva nas tataḥ
52 ity uktaḥ sa tathety uktvā bhagāvān havyakavya bhuk
jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati
53 tayā cāpy abhavan miśro garbhaś cāsyābhavat tadā
vavṛdhe sa tadā garbhaḥ kakṣe kṛṣṇa gatir yathā
54 tejasā tasya garbhasya gaṅgā vihvalacetanā
saṃtāpam agamat tīvraṃ sā soḍhuṃ na śaśāka ha
55 āhite jvalanenātha garbhe tejaḥsamanvite
gaṅgāyām asuraḥ kaś cid bhairavaṃ nādam utsṛjat
56 abuddhāpatitenātha nādena vipulena sā
vitrastodbhrānta nayanā gaṅgā viplutalocanā
visaṃjñā nāśakad garbhaṃ saṃdhārayitum ātmanā
57 sā tu tejaḥ parītāṅgī kampamānā ca jāhnavī
uvāca vacanaṃ vipra tadā garbhabaloddhatā
na te śaktāsmi bhagavaṃs tejaso 'sya vidhāraṇe
58 vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param
vihvalā cāsmi bhagavaṃs tejo naṣṭaṃ ca me 'nagha
59 dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara
utsrakṣye 'ham imaṃ duḥkhān na tu kāmāt kathaṃ cana
60 na cetaso 'sti saṃsparśo mama deva vibhāvaso
āpad arthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute
61 yad atra guṇasaṃpannam itaraṃ vā hutāśana
tvayy eva tad ahaṃ manye dharmādharmau ca kevalau
62 tāmuvāca tato vahnir dhāryatāṃ dhāryatām ayam
garbho mat tejasā yukto mahāguṇaphalodayaḥ
63 śaktā hy asi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā
na hi te kiṃ cid aprāpyaṃ mad reto dhāraṇād ṛte
64 sā vahninā vāryamāṇā devaiś cāpi sarid varā
samutsasarja taṃ garbhaṃ merau girivare tadā
65 samarthā dhāraṇe cāpi rudra tejaḥ pradharṣitā
nāśakat taṃ tadā garbhaṃ saṃdhārayitum ojasā
66 sā samutsṛjya taṃ duḥkhād dīptavaiśvānara prabham
darśayām āsa cāgnis tāṃ tadā gaṅgāṃ bhṛgūdvaha
papraccha saritāṃ śreṣṭhāṃ kac cid garbhaḥ sukhodayaḥ
67 kīdṛg varṇo 'pi vā devi kīdṛg rūpaś ca dṛśyate
tejasā kena vā yuktaḥ sarvam etad bravīhi me
68 [gangā]
jātarūpaḥ sa garbho vai tejasā tvam ivānala
suvarṇo vimalo dīptaḥ parvataṃ cāvabhāsayat
69 padmotpalavimiśrāṇāṃ hradānām iva śītalaḥ
gandho 'sya sa kadambānāṃ tulyo vai tapatāṃ vara
70 tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ
yad dravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu vā
tat sarvaṃ kāñcanī bhūtaṃ samantāt pratyadṛśyata
71 paryadhāvata śailāṃś ca nadīḥ prasravaṇāni ca
vyadīpayat tejasā ca trailokyaṃ sa carācaram
72 evaṃrūpaḥ sa bhagavān putras te havyavāhana
sūryavaiśvānara samaḥ kāntyā soma ivāparaḥ
evam uktvā tu sā devī tatraivāntaradhīyata
73 pāvakaś cāpi tejasvī kṛtvā kāryaṃ divaukasām
jagāmeṣṭaṃ tato deśaṃ tadā bhārgavanandana
74 etaiḥ karma guṇair loke nāmāgneḥ parigīyate
hiraṇyaretā iti vai ṛṣibhir vibudhais tathā
pṛthivī ca tadā devī khyātā vasumatīti vai
75 sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ
divyaṃ śaravaṇaṃ prāpya vavṛdhe 'dbhutadarśanaḥ
76 dadṛśuḥ kṛttikās taṃ tu bālārkasadṛśadyutim
jātasnehāś ca taṃ bālaṃ pupuṣuḥ stanya visravaiḥ
77 tataḥ sa kārttikeyatvam avāpa paramadyutiḥ
skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat
78 evaṃ suvarṇam utpannam apatyaṃ jātavedasaḥ
tatra jāmbūnadaṃ śreṣṭhaṃ devānām api bhūṣaṇam
79 tataḥ prabhṛti cāpy etaj jātarūpam udāhṛtam
yat suvarṇaṃ sa bhagavān agnir īśaḥ prajāpatiḥ
80 pavitrāṇāṃ pavitraṃ hi kanakaṃ dvijasattama
agnī ṣomātmakaṃ caiva jātarūpam udāhṛtam
81 ratnānām uttamaṃ ratnaṃ bhūṣaṇānāṃ tathottamam
pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1778 of 2013 Book 88% ~10 min left