Book 13: Chapter 61
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 13: Chapter 61

The Mahabharata in Sanskrit

Book 13
Chapter 61

1 [य]
इदं देयम इदं देयम इतीयं शरुतिचॊदना
बहु देयाश च राजानः किं सविद देयम अनुत्तमम
2 [भ]
अति दानानि सर्वाणि पृथिवी दानम उच्यते
अचला हय अक्षया भूमिर दॊग्ध्री कामान अनुत्तमान
3 दॊग्ध्री वासांसि रत्नानि पशून वरीहि यवांस तथा
भूमिदः सर्वभूतेषु शाश्वतीर एधते समाः
4 यावद भूमेर आयुर इह तावद भूमिद एधते
न भूमिदानाद अस्तीह परं किं चिद युधिष्ठिर
5 अप्य अल्पं परददुः पूर्वे पृथिव्या इति नः शरुतम
भूमिम एते ददुः सर्वे ये भूमिं भुञ्जते जनाः
6 सवकर्मैवॊपजीवन्ति नरा इह परत्र च
भूमिर भूतिर महादेवी दातारं कुरुते परियम
7 य एतां दक्षिणां दद्याद अक्षयां पृथिवीपतिः
पुनर नरत्वं संप्राप्य भवेत स पृथिवीपतिः
8 यथा दानं तथा भॊग इति धर्मेषु निश्चयः
संग्रामे वा तनुं जह्याद दद्याद वा पृथिवीम इमाम
9 इत्य एतां कषत्रबन्धूनां वदन्ति परम आशिषम
पुनाति दत्ता पृथिवी दातारम इति शुश्रुम
10 अपि पापसमाचारं बरह्मघ्नम अपि वानृतम
सैव पापं पावयति सैव पापात परमॊचयेत
11 अपि पापकृतां राज्ञां परतिगृह्णन्ति साधवः
पृथिवीं नान्यद इच्छन्ति पावनं जननी यथा
12 नामास्याः परिय दत्तेति गुह्यं देव्याः सनातनम
दानं वाप्य अथ वा जञानं नाम्नॊ ऽसयाः परमं परियम
तस्पात पराप्यैव पृथिवीं दद्याद विप्राय पार्थिवः
13 नाभूमि पतिना भूमिर अधिष्ठेया कथं चन
न वा पात्रेण वा गूहेद अन्तर्धानेन वा चरेत
ये चान्ये भूमिम इच्छेयुः कुर्युर एवम असंशयम
14 यः साधॊर भूमिम आदत्ते न भूमिं विन्दते तु सः
भूमिं तु दत्त्वा साधुभ्यॊ विन्दते भूमिम एव हि
परेत्येह च स धर्मात्मा संप्राप्नॊति महद यशः
15 यस्य विप्रानुशासन्ति साधॊर भूमिं सदैव हि
न तस्य शत्रवॊ राजन परशासन्ति वसुंधराम
16 यत किं चित पुरुषः पापं कुरुते वृत्ति कर्शितः
अपि गॊचर्म मात्रेण भूमिदानेन पूयते
17 ये ऽपि संकीर्ण कर्माणॊ राजानॊ रौद्रकर्मिणः
तेभ्यः पवित्रम आख्येयं भूमिदानम अनुत्तमम
18 अल्पान्तरम इदं शश्वत पुराणा मेनिरे जनाः
यॊ यजेद अश्वमेधेन दद्याद वा साधवे महीम
19 अपि चेत सुकृतं कृत्वा शङ्केरन्न अपि पण्डिताः
अशक्यम एकम एवैतद भीमि दानम अनुत्तमम
20 सुवर्णं रजतं वस्त्रं मणिमुक्ता वसूनि च
सर्वम एतन महाप्राज्ञ ददाति वसुधां ददत
21 तपॊयज्ञः शरुतं शीलम अलॊभः सत्यसंधता
गुरु दैवतपूजा च नातिवर्तन्ति भूमिदम
22 भर्तुर निःश्रेयसे युक्तास तयक्तात्मानॊ रणे हताः
बरह्मलॊकगताः सिद्धा नातिक्रामन्ति भूमिदम
23 यथा जनित्री कषीरेण सवपुत्रं भरते सदा
अनुगृह्णाति दातारं तथा सर्वरसैर मही
24 मृत्यॊर वै किंकरॊ दण्डस तापॊ वह्नेः सुदारुणः
घॊराश च वारुणाः पाशा नॊपसर्पन्ति भूमिदम
25 पितॄंश च पितृलॊकस्थान देवलॊके च देवताः
संतर्पयति शान्तात्मा यॊ ददाति वसुंधराम
26 कृशाय मिर्यमाणाय वृत्ति मलानाय सीदते
भूमिं वृत्ति करीं दत्त्वा सत्री भवति मानवः
27 यथा धावति गौर वत्सं कषीरम अभ्युत्सृजन्त्य उत
एवम एव महाभाग भूमिर भवति भूमिदम
28 हलकृष्टां महीं दत्त्वा स बीजां सफलाम अपि
उदीर्णं वापि शरणं तथा भवति कामदः
29 बराह्मणं वृत्तसंपन्नम आहिताग्निं शुचिव्रतम
नरः परतिग्राह्य महीं न याति यमसादनम
यथा चन्द्रमसॊ वृद्धिर अहन्य अहनि जायते
30 तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते
31 अत्र गाथा भूमिगीताः कीर्तयन्ति पुरा विदः
याः शरुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै
32 माम एवादत्त मां दत्तमां दत्त्वा माम अवाप्स्यथ
अस्मिँल लॊके परे चैव ततश चाजनने पुनः
33 य इमां वयाहृतिं वेद बराह्मणॊ बरह्म संश्रितः
शराद्धस्य हूयमानस्य बरह्मभूयं स गच्छति
34 कृत्यानाम अभिशस्तानां दुरिष्ट शमनं महत
परायश्चित्तम अहं कृत्वा पुनात्य उभयतॊ दश
35 पुनाति य इदं वेद वेद चाहं तथैव च
परकृतिः सर्वभूतानां भूमिर वै शाश्वती मता
36 अभिषिच्यैव नृपतिं शरावयेद इमम आगमम
यथा शरुत्वा महीं दद्यान नादद्यात साधुतश च ताम
37 सॊ ऽयं कृत्स्नॊ बराह्मणार्थॊ राजार्थश चाप्य असंशयम
राजा हि धर्मकुशलः परथमं भूतिलक्षणम
38 अथ येषाम अधर्मज्ञॊ राजा भवति नास्तिकः
न ते सुखं परबुध्यन्ते न सुखं परस्वपन्ति च
39 सदा भवन्ति चॊद्विग्नास तस्य दुश्चरितैर नराः
यॊगक्षेमा हि बहवॊ राष्ट्रं नास्याविशन्ति तत
40 अथ येषां पुनः पराज्ञॊ राजा भवति धार्मिकः
सुखं ते परतिबुध्यन्ते सुसुखं परस्वपन्ति च
41 तस्य राज्ञः शुभैर आर्यैः कर्मभिर निर्वृताः परजाः
यॊगक्षेमेण वृष्ट्या च विवर्धन्ते सवकर्मभिः
42 स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत
स दाता स च विक्रान्तॊ यॊ ददाति वसुंधराम
43 आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः
ददन्ति वसुधां सफीतां ये वेदविदुषि दविजे
44 यथा बीजानि रॊहन्ति परकीर्णानि महीतले
तथा कामाः पररॊहन्ति भूमिदानसमार्जिताः
45 आदित्यॊ वरुणॊ विष्णुर बरह्मा सॊमॊ हुताशनः
शूलपाणिश च भगवान परतिनन्दन्ति भूमिदम
46 भूमौ जायन्ति पुरुषा भूमौ निष्ठां वरजन्ति च
चतुर्विधॊ हि लॊकॊ ऽयं यॊ ऽयं भूमिगुणात्मकः
47 एषा माता पिता चैव जगतः पृथिवीपते
नानया सदृशं भूतं किं चिद अस्ति जनाधिप
48 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
बृहस्पतेश च संवादम इन्द्रस्य च युधिष्ठिर
49 इष्ट्वा करतुशतेनाथ महता दक्षिणावता
मघवा वाग विदां शरेष्ठं पप्रच्छेदं बृहस्पतिम
50 भगवन केन दानेन सवर्गतः सुखम एधते
यद अक्षयं महार्घं च तद बरूहि वदतां वर
51 इत्य उक्तः स सुरेन्द्रेण ततॊ देवपुरॊहितः
बृहस्पतिर महातेजाः परत्युवाच शतक्रतुम
52 सुवर्णदानं गॊदानं भूमिदानं च वृत्रहन
ददद एतान महाप्राज्ञः सर्वपापैः परमुच्यते
53 न भूमिदानाद देवेन्द्र परं किं चिद इति परभॊ
विशिष्टम इति मन्यामि यथा पराहुर मनीषिणः
54 ये शूरा निहता युद्धे सवर्याता दानगृद्धिनः
सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम
55 भर्तुर निःश्रेयसे युक्तास तयक्तात्मानॊ रणे हताः
बरह्मलॊकगताः शूरा नातिक्रामन्ति भूमिदम
56 पञ्च पूर्वादि पुरुषाः षट च ये वसुधां गताः
एकादश ददद भूमिं परित्रातीह मानवः
57 रत्नॊपकीर्णां वसुधां यॊ ददाति पुरंदर
स मुक्तः सर्वकलुषैः सवर्गलॊके महीयते
58 महीं सफीतां ददद राजा सर्वकामगुणान्विताम
राजाधिराजॊ भवति तद धि दानम अनुत्तमम
59 सर्वकामसमायुक्तां काश्यपीं यः परयच्छति
सर्वभूतानि मन्यन्ते मां ददातीति वासव
60 सर्वकामदुघां धेनुं सर्वकामपुरॊगमाम
ददाति यः सहस्राक्ष सस्वर्गं याति मानवः
61 मधु सर्पिः परवाहिन्यः पयॊ दधि वहास तथा
सरितस तर्पयन्तीह सुरेन्द्र वसुधा परदम
62 भूमिप्रदानान नृपतिर मुच्यते राजकिल्बिषात
न हि भूमिप्रदानेन दानम अन्यद विशिष्यते
63 ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम
तं जनाः कथयन्तीह यावद धरति गौर इयम
64 पुण्याम ऋद्धरसां भूमिं यॊ ददाति पुरंदर
न तस्य लॊकाः कषीयन्ते भूमिदानगुणार्जिताः
65 सर्वथा पार्थिवेनेह सततं भूतिम इच्छता
भूर देया विधिवच छक्र पात्रे सुखम अभीप्सता
66 अपि कृत्वा नरः पापं भूमिं दत्त्वा दविजातये
समुत्सृजति तत पापं जीर्णां तवचम इवॊरगः
67 सागरान सरितः शैलान काननानि च सर्वशः
सर्वम एतन नरः शक्र ददाति वसुधां ददत
68 तडागान्य उदपानानि सरॊतांसिच सरांसि च
सनेहान सर्वरसांश चैव ददाति वसुधां ददत
69 ओषधीः कषीरसंपन्ना नगान पुष्पफलान्वितान
काननॊपल शैलांश च ददाति वसुधां ददत
70 अग्निष्टॊमप्रभृतिभिर इष्ट्वा च सवाप्तदक्षिणैः
न तत फलम अवाप्नॊति भूमिदानाद यद अश्नुते
71 दाता दशानुगृह्णाति दश हन्ति तथा कषिपन
पूर्वदत्तां हरन भूमिं नरकायॊपगच्छति
72 न ददाति परतिश्रुत्य दत्त्वा वा हरते तु यः
स बद्धॊवारुणैः पाशैस तप्यते मृत्युशासनात
73 आहिताग्निं सदा यज्ञं कृश भृत्यं परियातिथिम
ये भरन्ति दविजश्रेष्ठं नॊपसर्पन्ति ते यमम
74 बराह्मणेष्व ऋण भूतं सयात पार्थिवस्य पुरंदर
इतरेषां तु वर्णानां तारयेत कृश दुर्बलान
75 नाच्छिन्द्यात सर्शितां भूमिं परेण तरिदशादिप
बराह्मणाय सुरश्रेष्ठ कृश भृत्याय कश चन
76 अथाश्रु पतितं तेषां दीनानाम अवसीदताम
बराह्मणानां हृते कषेत्रे हन्यात तरिपुरुषं कुलम
77 भूमिपालं चयुतं राष्ट्राद यस तु संस्थापयेत पुनः
तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते
78 इक्षुभिः संततां भूमिं यवगॊधूमसंकुलाम
गॊऽशववाहन संपूर्णां बाहुवीर्यसमार्जिताम
79 निधिगर्भां ददद भूमिं सर्वरत्नपरिच्छदाम
अक्षयाँल लभते लॊकान भूमिसत्रं हि तस्य तत
80 विधूय कलुषं सर्वं विरजाः संमतः सताम
लॊके महीयते सद्भिर यॊ ददाति वसुंधराम
81 यथाप्सु पतितः शक्र तैलबिन्दुर विसर्पति
तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति
82 ये रणाग्रे महीपालाः शूराः समितिशॊभनाः
वध्यन्ते ऽभिमुखाः शक्र बरह्मलॊकं वरजन्ति ते
83 नृत्यगीतपरा नार्यॊ दिव्यमाल्यविभूषिताः
उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि
84 मॊदते च सुखं सवर्गे देवगन्धर्वपूजितः
यॊ ददाति महीं सम्यग विधिनेह दविजातये
85 शतम अप्सरसश चैव दिव्यमाल्यविभूषिताः
उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम
86 शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः
भूमिप्रदानात पुष्पाणि हिरण्यनिचयास तथा
87 आज्ञा सदा परतिहता जयशब्दॊ भवत्य अथ
भूमिदानस्य पुष्पाणि फलं सवर्गः पुरंदर
88 हिरण्यपुष्पाश चौषध्यः कुश काञ्चनशाड्वलाः
अमृतप्रसवां भूमिं पराप्नॊति पुरुषॊ ददत
89 नास्ति भूमिसमं दानं नास्ति मातृसमॊ गुरुः
नास्ति सत्यसमॊ धर्मॊ नास्ति दानसमॊ निधिः
90 एतद आङ्गिरसाच छरुत्वा वासवॊ वसुधाम इमाम
वसु रत्नसमाकीर्णां ददाव आङ्गिरसे तदा
91 य इमं शरावयेच छराद्धे भूमिदानस्य संस्तवम
न तस्य रक्षसां भागॊ नासुराणां भवत्य उत
92 अक्षयं च भवेद दत्तं पितृभ्यस तन न संशयः
तस्माच छराद्धेष्व इदं विप्र भुञ्जतः शरावयेद दविजान
93 इत्य एत सर्वदानानां शरेष्ठम उक्तं तवानघ
मया भरतशार्दूल किं भूयः शरॊतुम इच्छसि
1 [y]
idaṃ deyam idaṃ deyam itīyaṃ śruticodanā
bahu deyāś ca rājānaḥ kiṃ svid deyam anuttamam
2 [bh]
ati dānāni sarvāṇi pṛthivī dānam ucyate
acalā hy akṣayā bhūmir dogdhrī kāmān anuttamān
3 dogdhrī vāsāṃsi ratnāni paśūn vrīhi yavāṃs tathā
bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ
4 yāvad bhūmer āyur iha tāvad bhūmida edhate
na bhūmidānād astīha paraṃ kiṃ cid yudhiṣṭhira
5 apy alpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam
bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ
6 svakarmaivopajīvanti narā iha paratra ca
bhūmir bhūtir mahādevī dātāraṃ kurute priyam
7 ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ
punar naratvaṃ saṃprāpya bhavet sa pṛthivīpatiḥ
8 yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ
saṃgrāme vā tanuṃ jahyād dadyād vā pṛthivīm imām
9 ity etāṃ kṣatrabandhūnāṃ vadanti param āśiṣam
punāti dattā pṛthivī dātāram iti śuśruma
10 api pāpasamācāraṃ brahmaghnam api vānṛtam
saiva pāpaṃ pāvayati saiva pāpāt pramocayet
11 api pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ
pṛthivīṃ nānyad icchanti pāvanaṃ jananī yathā
12 nāmāsyāḥ priya datteti guhyaṃ devyāḥ sanātanam
dānaṃ vāpy atha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam
taspāt prāpyaiva pṛthivīṃ dadyād viprāya pārthivaḥ
13 nābhūmi patinā bhūmir adhiṣṭheyā kathaṃ cana
na vā pātreṇa vā gūhed antardhānena vā caret
ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam
14 yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ
bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi
pretyeha ca sa dharmātmā saṃprāpnoti mahad yaśaḥ
15 yasya viprānuśāsanti sādhor bhūmiṃ sadaiva hi
na tasya śatravo rājan praśāsanti vasuṃdharām
16 yat kiṃ cit puruṣaḥ pāpaṃ kurute vṛtti karśitaḥ
api gocarma mātreṇa bhūmidānena pūyate
17 ye 'pi saṃkīrṇa karmāṇo rājāno raudrakarmiṇaḥ
tebhyaḥ pavitram ākhyeyaṃ bhūmidānam anuttamam
18 alpāntaram idaṃ śaśvat purāṇā menire janāḥ
yo yajed aśvamedhena dadyād vā sādhave mahīm
19 api cet sukṛtaṃ kṛtvā śaṅkerann api paṇḍitāḥ
aśakyam ekam evaitad bhīmi dānam anuttamam
20 suvarṇaṃ rajataṃ vastraṃ maṇimuktā vasūni ca
sarvam etan mahāprājña dadāti vasudhāṃ dadat
21 tapoyajñaḥ śrutaṃ śīlam alobhaḥ satyasaṃdhatā
guru daivatapūjā ca nātivartanti bhūmidam
22 bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ
brahmalokagatāḥ siddhā nātikrāmanti bhūmidam
23 yathā janitrī kṣīreṇa svaputraṃ bharate sadā
anugṛhṇāti dātāraṃ tathā sarvarasair mahī
24 mṛtyor vai kiṃkaro daṇḍas tāpo vahneḥ sudāruṇaḥ
ghorāś ca vāruṇāḥ pāśā nopasarpanti bhūmidam
25 pitṝṃś ca pitṛlokasthān devaloke ca devatāḥ
saṃtarpayati śāntātmā yo dadāti vasuṃdharām
26 kṛśāya miryamāṇāya vṛtti mlānāya sīdate
bhūmiṃ vṛtti karīṃ dattvā satrī bhavati mānavaḥ
27 yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjanty uta
evam eva mahābhāga bhūmir bhavati bhūmidam
28 halakṛṣṭāṃ mahīṃ dattvā sa bījāṃ saphalām api
udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ
29 brāhmaṇaṃ vṛttasaṃpannam āhitāgniṃ śucivratam
naraḥ pratigrāhya mahīṃ na yāti yamasādanam
yathā candramaso vṛddhir ahany ahani jāyate
30 tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate
31 atra gāthā bhūmigītāḥ kīrtayanti purā vidaḥ
yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai
32 mām evādatta māṃ dattamāṃ dattvā mām avāpsyatha
asmiṁl loke pare caiva tataś cājanane punaḥ
33 ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahma saṃśritaḥ
śrāddhasya hūyamānasya brahmabhūyaṃ sa gacchati
34 kṛtyānām abhiśastānāṃ duriṣṭa śamanaṃ mahat
prāyaścittam ahaṃ kṛtvā punāty ubhayato daśa
35 punāti ya idaṃ veda veda cāhaṃ tathaiva ca
prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā
36 abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam
yathā śrutvā mahīṃ dadyān nādadyāt sādhutaś ca tām
37 so 'yaṃ kṛtsno brāhmaṇārtho rājārthaś cāpy asaṃśayam
rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam
38 atha yeṣām adharmajño rājā bhavati nāstikaḥ
na te sukhaṃ prabudhyante na sukhaṃ prasvapanti ca
39 sadā bhavanti codvignās tasya duścaritair narāḥ
yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat
40 atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ
sukhaṃ te pratibudhyante susukhaṃ prasvapanti ca
41 tasya rājñaḥ śubhair āryaiḥ karmabhir nirvṛtāḥ prajāḥ
yogakṣemeṇa vṛṣṭyā ca vivardhante svakarmabhiḥ
42 sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa ca puṇyakṛt
sa dātā sa ca vikrānto yo dadāti vasuṃdharām
43 ādityā iva dīpyante tejasā bhuvi mānavāḥ
dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije
44 yathā bījāni rohanti prakīrṇāni mahītale
tathā kāmāḥ prarohanti bhūmidānasamārjitāḥ
45 ādityo varuṇo viṣṇur brahmā somo hutāśanaḥ
śūlapāṇiś ca bhagavān pratinandanti bhūmidam
46 bhūmau jāyanti puruṣā bhūmau niṣṭhāṃ vrajanti ca
caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmakaḥ
47 eṣā mātā pitā caiva jagataḥ pṛthivīpate
nānayā sadṛśaṃ bhūtaṃ kiṃ cid asti janādhipa
48 atrāpy udāharantīmam itihāsaṃ purātanam
bṛhaspateś ca saṃvādam indrasya ca yudhiṣṭhira
49 iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā
maghavā vāg vidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim
50 bhagavan kena dānena svargataḥ sukham edhate
yad akṣayaṃ mahārghaṃ ca tad brūhi vadatāṃ vara
51 ity uktaḥ sa surendreṇa tato devapurohitaḥ
bṛhaspatir mahātejāḥ pratyuvāca śatakratum
52 suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan
dadad etān mahāprājñaḥ sarvapāpaiḥ pramucyate
53 na bhūmidānād devendra paraṃ kiṃ cid iti prabho
viśiṣṭam iti manyāmi yathā prāhur manīṣiṇaḥ
54 ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ
sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam
55 bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ
brahmalokagatāḥ śūrā nātikrāmanti bhūmidam
56 pañca pūrvādi puruṣāḥ ṣaṭ ca ye vasudhāṃ gatāḥ
ekādaśa dadad bhūmiṃ paritrātīha mānavaḥ
57 ratnopakīrṇāṃ vasudhāṃ yo dadāti puraṃdara
sa muktaḥ sarvakaluṣaiḥ svargaloke mahīyate
58 mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām
rājādhirājo bhavati tad dhi dānam anuttamam
59 sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati
sarvabhūtāni manyante māṃ dadātīti vāsava
60 sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām
dadāti yaḥ sahasrākṣa sasvargaṃ yāti mānavaḥ
61 madhu sarpiḥ pravāhinyaḥ payo dadhi vahās tathā
saritas tarpayantīha surendra vasudhā pradam
62 bhūmipradānān nṛpatir mucyate rājakilbiṣāt
na hi bhūmipradānena dānam anyad viśiṣyate
63 dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām
taṃ janāḥ kathayantīha yāvad dharati gaur iyam
64 puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara
na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ
65 sarvathā pārthiveneha satataṃ bhūtim icchatā
bhūr deyā vidhivac chakra pātre sukham abhīpsatā
66 api kṛtvā naraḥ pāpaṃ bhūmiṃ dattvā dvijātaye
samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ
67 sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ
sarvam etan naraḥ śakra dadāti vasudhāṃ dadat
68 taḍāgāny udapānāni srotāṃsica sarāṃsi ca
snehān sarvarasāṃś caiva dadāti vasudhāṃ dadat
69 oṣadhīḥ kṣīrasaṃpannā nagān puṣpaphalānvitān
kānanopala śailāṃś ca dadāti vasudhāṃ dadat
70 agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ
na tat phalam avāpnoti bhūmidānād yad aśnute
71 dātā daśānugṛhṇāti daśa hanti tathā kṣipan
pūrvadattāṃ haran bhūmiṃ narakāyopagacchati
72 na dadāti pratiśrutya dattvā vā harate tu yaḥ
sa baddhovāruṇaiḥ pāśais tapyate mṛtyuśāsanāt
73 āhitāgniṃ sadā yajñaṃ kṛśa bhṛtyaṃ priyātithim
ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam
74 brāhmaṇeṣv ṛṇa bhūtaṃ syāt pārthivasya puraṃdara
itareṣāṃ tu varṇānāṃ tārayet kṛśa durbalān
75 nācchindyāt sarśitāṃ bhūmiṃ pareṇa tridaśādipa
brāhmaṇāya suraśreṣṭha kṛśa bhṛtyāya kaś cana
76 athāśru patitaṃ teṣāṃ dīnānām avasīdatām
brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam
77 bhūmipālaṃ cyutaṃ rāṣṭrād yas tu saṃsthāpayet punaḥ
tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate
78 ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmasaṃkulām
go'śvavāhana saṃpūrṇāṃ bāhuvīryasamārjitām
79 nidhigarbhāṃ dadad bhūmiṃ sarvaratnaparicchadām
akṣayāṁl labhate lokān bhūmisatraṃ hi tasya tat
80 vidhūya kaluṣaṃ sarvaṃ virajāḥ saṃmataḥ satām
loke mahīyate sadbhir yo dadāti vasuṃdharām
81 yathāpsu patitaḥ śakra tailabindur visarpati
tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati
82 ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ
vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te
83 nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ
upatiṣṭhanti devendra sadā bhūmipradaṃ divi
84 modate ca sukhaṃ svarge devagandharvapūjitaḥ
yo dadāti mahīṃ samyag vidhineha dvijātaye
85 śatam apsarasaś caiva divyamālyavibhūṣitāḥ
upatiṣṭhanti devendra sadā bhūmipradaṃ naram
86 śaṅkhaṃ bhadrāsanaṃ chatraṃ varāśvā varavāraṇāḥ
bhūmipradānāt puṣpāṇi hiraṇyanicayās tathā
87 ājñā sadā pratihatā jayaśabdo bhavaty atha
bhūmidānasya puṣpāṇi phalaṃ svargaḥ puraṃdara
88 hiraṇyapuṣpāś cauṣadhyaḥ kuśa kāñcanaśāḍvalāḥ
amṛtaprasavāṃ bhūmiṃ prāpnoti puruṣo dadat
89 nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ
nāsti satyasamo dharmo nāsti dānasamo nidhiḥ
90 etad āṅgirasāc chrutvā vāsavo vasudhām imām
vasu ratnasamākīrṇāṃ dadāv āṅgirase tadā
91 ya imaṃ śrāvayec chrāddhe bhūmidānasya saṃstavam
na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavaty uta
92 akṣayaṃ ca bhaved dattaṃ pitṛbhyas tan na saṃśayaḥ
tasmāc chrāddheṣv idaṃ vipra bhuñjataḥ śrāvayed dvijān
93 ity eta sarvadānānāṃ śreṣṭham uktaṃ tavānagha
mayā bharataśārdūla kiṃ bhūyaḥ śrotum icchasi

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1755 of 2013 Book 87% ~11 min left