Book 13: Chapter 27
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 13: Chapter 27

The Mahabharata in Sanskrit

Book 13
Chapter 27

1 [व]
बृहस्पतिसमं बुद्ध्या कषमया बरह्मणः समम
पराक्रमे शक्रसमम आदित्यसमतेजसम
2 गाङ्गेयम अर्जुनेनाजौ निहतं भूरि वर्चसम
भरातृभिः सहितॊ ऽनयैश च पर्युपास्ते युधिष्ठिरः
3 शयानं वीरशयने कालाकाङ्क्षिणम अच्युतम
आजग्मुर भरतश्रेष्ठं दरष्टुकामा महर्षयः
4 अत्रिर वसिष्ठॊ ऽथ भृगुः पुलस्त्यः पुलहः करतुः
अङ्गिरा गौतमॊ ऽगस्त्यः सुमतिः सवायुर आत्मवान
5 विश्वामित्रः सथूलशिराः संवर्तः परमतिर दमः
उशना बृहस्पतिर वयासश चयवनः काश्यपॊ धरुवः
6 दुर्वासा जमदग्निश च मार्कण्डेयॊ ऽथ गालवः
भरद्वाजश च रैभ्यश च यवक्रीतस तरितस तथा
7 सथूलाक्षः शकलाक्षश च कण्वॊ मेधातिथिः कृशः
नारदः पर्वतश चैव सुधन्वाथैकतॊ दवितः
8 नितम्भूर भुवनॊ धौम्यः शतानन्दॊ ऽकृतव्रणः
जामदग्न्यस तथा रामः काम्यश चेत्य एवमादयः
समागता महात्मानॊ भीष्मं दरष्टुं महर्षयः
9 तेषां महात्मनां पूजाम आगतानां युधिष्ठिरः
भरातृभिः सहितश चक्रे यथावद अनुपूर्वशः
10 ते पूजिताः सुखासीनाः कथश चक्रुर महर्षयः
भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनॊहराः
11 भीष्मस तेषां कथाः शरुत्वा ऋषीणां भावितात्मनाम
मेने दिविस्थम आत्मानं तुष्ट्या परमया युतः
12 ततस ते भीष्मम आमन्त्र्य पाण्डवांश च महर्षयः
अन्तर्धानं गताः सर्वे सर्वेषाम एव पश्यताम
13 तान ऋषीन सुमहाभागान अन्तर्धानगतान अपि
पाण्डवास तुष्टुवुः सर्वे परणेमुश च मुहुर मुहुः
14 परसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः
उपतस्थुर यथॊद्यन्तम आदित्यं मन्त्रकॊविदाः
15 परभावात तपसस तेषाम ऋषीणां वीक्ष्य पाण्डवाः
परकाशन्तॊ दिशः सर्वा विस्मयं परमं ययुः
16 महाभाग्यं परं तेषाम ऋषीणाम अनुचिन्त्य ते
पांडवाः सह भीष्मेण कथाश चक्रुस तदाश्रयाः
17 कथान्ते शिरसा पादौ सपृष्ट्वा भीष्मस्य पाण्डवः
धर्म्यं धर्मसुतः परश्नं पर्यपृच्छद युधिष्ठिरः
18 के देशाः के जनपदा आश्रमाः के च पर्वताः
परकृष्टाः पुण्यतः काश च जञेया नद्यः पितामह
19 [भ]
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
शिलॊञ्छ वृत्तेः संवादं सिद्धस्य च युधिष्ठिर
20 इमां कश चित परिक्रम्य पृथिवीं शैलभूषिताम
असकृद दविपदां शरेष्ठः शरेष्ठस्य गृहमेधिनः
21 शिल वृत्तेर गृहं पराप्तः स तेन विधिनार्चितः
कृतकृत्य उपातिष्ठत सिद्धं तम अतिथिं तदा
22 तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः
चक्रतुर वेद संबद्धास तच छेष कृतलक्षणाः
23 शिल वृत्तिः कथान्ते तु सिद्धम आमन्त्र्य यत्नतः
परश्नं पप्रच्छ मेधावी यन मां तवं परिपृच्छसि
24 [षिलवृत्ति]
के देशाः के जनपदाः के ऽऽशरमाः के च पर्वताः
परकृष्टाः पुण्यतः काश च जञेया नद्यस तद उच्यताम
25 [सिद्ध]
ते देशास ते जनपदास ते ऽऽशरमास ते च पर्वताः
येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा
26 तपसा बरह्मचर्येण यज्ञैस तयागेन वा पुनः
गतिं तां न लभेज जन्तुर गङ्गां संसेव्य यां लभेत
27 सपृष्टानि येषां गाङ्गेयैस तॊयैर गात्राणि देहिनाम
नयस्तानि न पुनस तेषां तयागः सवर्गाद विधीयते
28 सर्वाणि येषां गाङ्गेयैस तॊयैः कृत्यानि देहिनाम
गां तयक्त्वा मानवा विप्र दिवि तिष्ठन्ति ते ऽचलाः
29 पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः
पश्चाद गङ्गां निषेवन्ते ते ऽपि यान्त्य उत्तमां गतिम
30 सनातानां शुचिभिस तॊयैर गाङ्गेयैः परयतात्मनाम
वयुष्टिर भवति या पुंसां न सा करतुशतैर अपि
31 यावद अस्थि मनुष्यस्य गङ्गातॊयेषु तिष्ठति
तावद वर्षसहस्राणि सवर्गं पराप्य महीयते
32 अपहत्य तमस तीव्रं यथा भात्य उदये रविः
तथापहत्य पाप्मानं भाति गङ्गा जलॊक्षितः
33 विसॊमा इव शर्वर्यॊ विपुष्पास तरवॊ यथा
तद्वद देशा दिशश चैव हीना गङ्गा जलैः शुभैः
34 वर्णाश्रमा यथा सर्वे सवधर्मज्ञानवर्जिताः
ऋतवश च यथा सॊमास तथा गङ्गां विना जगत
35 यथा हीनं नभॊ ऽरकेण भूः शैलैः खं च वायुना
तथा देशा दिशश चैव गङ्गा हीना न संशयः
36 तरिषु लॊकेषु ये के चित पराणिनः सर्व एव ते
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गा जलैः शुभैः
37 यस तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम
गवां निर्हार निर्मुक्ताद यावकात तद विशिष्यते
38 इन्द्र वरतसहस्रं तु चरेद यः कायशॊधनम
पिबेद यश चापि गङ्गाम्भः समौ सयातां न वा समौ
39 तिष्ठेद युगसहस्रं तु पादेनैकेन यः पुमान
मासम एकं तु गङ्गायां समौ सयातां न वा समौ
40 लम्बेतावाक शिरा यस तु युगानाम अयुतं पुमान
तिष्ठेद यथेष्टं यश चापि गङ्गायां स विशिष्यते
41 अग्नौ पराप्तं परधूयेत यथा तूलं दविजॊत्तम
तथा गङ्गावगाढस्य सर्वं पापं परधूयते
42 भूतानाम इह सर्वेषां दुःखॊपहत चेतसाम
गतिम अन्वेषमाणानां न गङ्गा सदृशी गतिः
43 भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात
गङ्गाया दर्शनात तद्वत सर्वपापैः परमुच्यते
44 अप्रतिष्ठाश च ये के चिद अधर्मशरणाश च ये
तेषां परतिष्ठा गङ्गेह शरणं शर्म वर्म च
45 परकृष्टैर अशुभैर गरस्तान अनेकैः पुरुषाधमान
पतते नरके गङ्गा संश्रितान परेत्य तारयेत
46 ते संविभक्ता मुनिभिर नूनं देवैः स वासवैः
ये ऽभिगच्छन्ति सततं गङ्गाम अभिगतां सुरैः
47 विनयाचार हीनाश च अशिवाश च नराधमाः
ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः
48 यथा सुराणाम अमृतं पितॄणां च यथा सवधा
सुधा यथा च नागानां तथा गङ्गा जलं नृणाम
49 उपासते यथा बाला मातरं कषुधयार्दिताः
शरेयः कामास तथा गङ्गाम उपासन्तीह देहिनः
50 सवायम्भुवं यथास्थानं सर्वेषां शरेष्ठम उच्यते
सनातानां सरितां शरेष्ठा गङ्गा तद्वद इहॊच्यते
51 यथॊपजीविनां धेनुर देवादीनां धरा समृता
तथॊपजीविनां गङ्गा सर्वप्राणभृताम इह
52 देवाः सॊमार्क संस्थानि यथा सत्रादिभिर मखैः
अमृतान्य उपजीवन्ति तथा गङ्गा जलं नराः
53 जाह्नवी पुलिनॊत्थाभिः सिकताभिः समुक्षितः
मन्यते पुरुषॊ ऽऽतमानं दिविष्ठम इव शॊभितम
54 जाह्नवीतीर संभूतां मृदं मूर्ध्ना विभर्ति यः
बिभर्ति रूपं सॊ ऽरकस्य तमॊ नाशात सुनिर्मलम
55 गङ्गॊर्मिभिर अथॊ दिग्धः पुरुषं पवनॊ यदा
सपृशते सॊ ऽपि पाप्मानं सद्य एवापमार्जति
56 वयसनैर अभितप्तस्य नरस्य विनशिष्यतः
गङ्गा दर्शनजा परीतिर वयसनान्य अपकर्षति
57 हंसारावैः कॊक रवै रवैर अन्यैर्श च पक्षिणाम
पस्पर्ध गङ्गा गन्धर्वान पुलिनैश च शिलॊच्चयान
58 हंसादिभिः सुबहुभिर विविधैः पक्षिभिर वृताम
गङ्गां गॊकुलसंबाधां दृष्ट्वा सवर्गॊ ऽपि विस्मृतः
59 न सा परीतिर दिविष्ठस्य सर्वकामान उपाश्नतः
अभवद या परा परीतिर गङ्गायाः पुलिने नृणाम
60 वान मनः कर्मजैर गरस्तः पापैर अपि पुमान इह
वीक्ष्य गङ्गां भवेत पूतस तत्र मे नास्ति संशयः
61 सप्तावरान सप्त परान पितॄंस तेभ्यश च ये परे
पुमांस तारयते गङ्गां वीक्ष्य सपृष्ट्वावगाह्य च
62 शरुताभिलषिता दृष्टा सपृष्टा पीतावगाहिता
गङ्गा तारयते नॄणाम उभौ वंशौ विशेषतः
63 दर्शनात सपर्शनात पानात तथा गङ्गेति कीर्तनात
पुनात्य अपुण्यान पुरुषाञ शतशॊ ऽथ सहस्रशः
64 य इच्छेत सफलं जन्म जीवितं शरुतम एव च
स पितॄंस तर्पयेद गङ्गाम अभिगम्य सुरांस तथा
65 न सुतैर न च वित्तेन कर्मणा न च तत फलम
पराप्नुयात पुरुषॊ ऽतयन्तं गङ्गां पराप्य यद आप्नुयात
66 जात्यन्धैर इह तुल्यास ते मृतैः पङ्गुभिर एव च
समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम
67 भूतभव्य भविष्यज्ञैर महर्षिभिर उपस्थिताम
देवैः सेन्द्रैश च कॊ गङ्गां नॊपसेवेत मानवः
68 वानप्रस्थैर गृहस्थैश च यतिभिर बरह्म चारिभिः
विद्यावद्भिः शरितां गङ्गां पुमान कॊ नाम नाश्रयेत
69 उत्क्रामद्भिश च यः पराणैः परयतः शिष्टसंमतः
चिन्तयेन मनसा गङ्गां स गतिं परमां लभेत
70 न भयेभ्यॊ भयं तस्य न पापेभ्यॊ न राजतः
आ देहपतनाद गङ्गाम उपास्ते यः पुमान इह
71 गगनाद यां महापुण्यां पतन्तीं वै महेश्वरः
दधार शिरसा देवीं ताम एव दिवि सेवते
72 अलंकृतास तरयॊ लॊकाः पथिभिर विमलैस तरिभिः
यस तु तस्या जलं सेवेत कृतकृत्यः पुमान भवेत
73 दिवि जयॊतिर यथादित्यः पितॄणां चैव चन्द्रमाः
देवेशश च यथा नॄणां गङ्गेह सरितां तथा
74 मात्रा पित्रा सुतैर दारैर वियुक्तस्य धनेन वा
न भवेद धि तथा दुःखं यथा गङ्गा वियॊगजम
75 नारण्यैर नेष्ट विषयैर न सुतैर न धनागमैः
तथा परसादॊ भवति गङ्गां वीक्ष्य यथा नृणाम
76 पूर्णम इन्दुं यथादृष्ट्वा नृणां दृष्टिः परसीदति
गङ्गां तरिपथगां दृष्ट्वा तथा दृष्टिः परसीदति
77 तद्भावस तद्गतमनस तन्निष्ठस तत्परायणः
गङ्गां यॊ ऽनुगतॊ भक्त्या स तस्याः परियतां वरजेत
78 भूःस्थैः खस्थैर दिविष्ठैश च भूतैर उच्चावचैर अपि
गङ्गा विगाह्या सततम एत कार्यतमं सताम
79 तरिषु लॊकेषु पुण्यत्वाद गङ्गायाः परथितं यशः
यत पुत्रान सगरस्यैषा भस्माख्यान अनयद दिवम
80 वाय्वीरिताभिः सुमहास्वनाभिर; दरुताभिर अत्यर्थ समुच्छ्रिताभिः
गङ्गॊर्मिभिर भानुमतीभिर इद्धः; सहस्ररश्मि परतिमॊ विभाति
81 पयस्विनीं घृतिनीम अत्युदारां; समृद्धिनीं वेगिणीं दुर्विगाह्याम
गङ्गां गत्वा यैः शरीरं विसृष्टं; गता धीरास ते विबुधैः समत्वम
82 अन्धाञ जडान दरव्यहीनांश च गङ्गा; यशस्विनी बृहती विश्वरूपा
देवैः सेन्द्रैर मुनिभिर मानवैश च; निषेविता सर्वकामैर युनक्ति
83 ऊर्जावतीं मधुमतीं महापुण्यां तरिवर्त्मगाम
तरिलॊकगॊप्त्रीं ये गङ्गां संश्रितास ते दिवं गताः
84 यॊ वत्स्यति दरक्ष्यति वापि मर्त्यस; तस्मै परयच्छन्ति सुखानि देवाः
तद्भाविताः सपर्शने दर्शने यस; तस्मै देवा गतिम इष्टां दिशन्ति
85 दक्षां पृथ्वीं बृहतीं विप्रकृष्टां; शिवाम ऋतां सुरसां सुप्रसन्नाम
विभावरीं सर्वभूतप्रतिष्ठां; गङ्गां गता ये तरिदिवं गतास ते
86 खयातिर यस्याः खं दिवं गां च नित्यं; पुरा दिशॊ विदिशश चावतस्थे
तस्या जलं सेव्य सरिद वराया; मर्त्याः सर्वे कृतकृत्या भवन्ति
87 इयं गङ्गेति नियतं परतिष्ठा; गुहस्य रुक्मस्य च गर्भयॊषा
परातस तरिमार्गा घृतवहा विपाप्मा; गङ्गावतीर्णा वियतॊ विश्वतॊया
88 सुतावनीध्रस्य हरस्य भार्या; दिवॊ भुवश चापि कक्ष्यानुरूपा
भव्या पृथिव्या भाविनी भाति राजन; गङ्गा लॊकानां पुण्यदा वै तरयाणाम
89 मधु परवाहा घृतरागॊद्धृताभिर; महॊर्मिभिः शॊभिता बराह्मणैश च
दिवश चयुता शिरसात्ता भवेन; गङ्गावनीध्रास तरिदिवस्य माला
90 यॊनिर वरिष्ठा विरजा वितन्वी; शुष्मा इरा वारिवहा यशॊदा
विश्वावती चाकृतिर इष्टिर इद्धा; गङ्गॊक्षितानां भुवनस्य पन्थाः
91 कषान्त्या मह्या गॊपने धारणे च; दीप्त्या कृशानॊस तपनस्य चैव
तुल्या गङ्गा संमता बराह्मणानां; गुहस्य बरह्मण्यतया च नित्यम
92 ऋषिष्टुतां विष्णुपदीं पुराणीं; सुपुण्यतॊयां मनसापि लॊके
सर्वात्मना जाह्नवीं ये परपन्नास; ते बरह्मणः सदनं संप्रयाताः
93 लॊकान इमान नयति या जननीव पुत्रान; सर्वात्मना सर्वगुणॊपपन्ना
सवस्थानम इष्टम इह बराह्मम अभीप्समानैर; गङ्गा सदैवात्म वशैर उपास्या
94 उस्रां जुष्टां मिषतीं विश्वतॊयाम; इरां वज्रीं रेवतीं भूधराणाम
शिष्टाश्रयाम अमृतां बरह्म कान्तां; गङ्गां शरयेद आत्मवान सिद्धिकामः
95 परसाद्य देवान स विभून समस्तान; भगीरथस तपसॊग्रेण गङ्गाम
गाम आनयत ताम अभिगम्य शश्वन; पुमान भयं नेह नामुत्र विद्यात
96 उदाहृतः सर्वथा ते गुणानां; मयैक देशः परसमीक्ष्य बुद्ध्या
शक्तिर न मे का चिद इहास्ति वक्तुं; गुणान सर्वान परिमातुं तथैव
97 मेरॊः समुद्रस्य च सर्वरत्नैः; संख्यॊपलानाम उदकस्य वापि
वक्तुं शक्यं नेह गङ्गा जलानां; गुणाख्यानं परिमातुं तथैव
98 तस्माद इमान परया शरद्धयॊक्तान; गुणान सर्वाञ जाह्नवीजांस तथैव
भवेद वाचा मनसा कर्मणा च; भक्त्या युक्तः परया शरद्दधानः
99 लॊकान इमांस तरीन यशसा वितत्य; सिद्धिं पराप्य महतीं तां दुरापाम
गङ्गा कृतान अचिरेणैव लॊकान; यथेष्टम इष्टान विचरिष्यसि तवम
100 तव मम च गुणैर महानुभावा; जुषतु मतिं सततं सवधर्मयुक्तैः
अभिगत जनवत्सला हि गङ्गा; भजति युनक्ति सुखैश च भक्तिमन्तम
101 [भ]
इति परममतिर गुणान अनेकाञ; शिल रतये तरिपथानुयॊग रूपान
बहुविधम अनुशास्य तथ्य रूपान; गगनतलं दयुतिमान विवेश सिद्धः
102 शिलवृत्तिस तु सिद्धस्य वाक्यैः संबॊधितस तदा
गङ्गाम उपास्य विधिवत सिद्धिं पराप्तः सुदुर्लभाम
103 तस्मात तवम अपि कौन्तेय भक्त्या परमया युतः
गङ्गाम अभ्येहि सततं पराप्स्यसे सिद्धिम उत्तमाम
104 [व]
शरुत्वेतिहासं भीष्मॊक्तं गङ्गायाः सतवसंयुतम
युधिष्ठिरः परां परीतिम अगच्छद भरातृभिः सह
105 इतिहासम इमं पुण्यं शृणुयाद यः पठेत वा
गङ्गायाः सतवसंयुक्तं स मुच्येत सर्वकिल्बिषैः
1 [v]
bṛhaspatisamaṃ buddhyā kṣamayā brahmaṇaḥ samam
parākrame śakrasamam ādityasamatejasam
2 gāṅgeyam arjunenājau nihataṃ bhūri varcasam
bhrātṛbhiḥ sahito 'nyaiś ca paryupāste yudhiṣṭhiraḥ
3 śayānaṃ vīraśayane kālākāṅkṣiṇam acyutam
ājagmur bharataśreṣṭhaṃ draṣṭukāmā maharṣayaḥ
4 atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ
aṅgirā gautamo 'gastyaḥ sumatiḥ svāyur ātmavān
5 viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatir damaḥ
uśanā bṛhaspatir vyāsaś cyavanaḥ kāśyapo dhruvaḥ
6 durvāsā jamadagniś ca mārkaṇḍeyo 'tha gālavaḥ
bharadvājaś ca raibhyaś ca yavakrītas tritas tathā
7 sthūlākṣaḥ śakalākṣaś ca kaṇvo medhātithiḥ kṛśaḥ
nāradaḥ parvataś caiva sudhanvāthaikato dvitaḥ
8 nitambhūr bhuvano dhaumyaḥ śatānando 'kṛtavraṇaḥ
jāmadagnyas tathā rāmaḥ kāmyaś cety evamādayaḥ
samāgatā mahātmāno bhīṣmaṃ draṣṭuṃ maharṣayaḥ
9 teṣāṃ mahātmanāṃ pūjām āgatānāṃ yudhiṣṭhiraḥ
bhrātṛbhiḥ sahitaś cakre yathāvad anupūrvaśaḥ
10 te pūjitāḥ sukhāsīnāḥ kathaś cakrur maharṣayaḥ
bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ
11 bhīṣmas teṣāṃ kathāḥ śrutvā ṛṣīṇāṃ bhāvitātmanām
mene divistham ātmānaṃ tuṣṭyā paramayā yutaḥ
12 tatas te bhīṣmam āmantrya pāṇḍavāṃś ca maharṣayaḥ
antardhānaṃ gatāḥ sarve sarveṣām eva paśyatām
13 tān ṛṣīn sumahābhāgān antardhānagatān api
pāṇḍavās tuṣṭuvuḥ sarve praṇemuś ca muhur muhuḥ
14 prasannamanasaḥ sarve gāṅgeyaṃ kurusattamāḥ
upatasthur yathodyantam ādityaṃ mantrakovidāḥ
15 prabhāvāt tapasas teṣām ṛṣīṇāṃ vīkṣya pāṇḍavāḥ
prakāśanto diśaḥ sarvā vismayaṃ paramaṃ yayuḥ
16 mahābhāgyaṃ paraṃ teṣām ṛṣīṇām anucintya te
pāṃḍavāḥ saha bhīṣmeṇa kathāś cakrus tadāśrayāḥ
17 kathānte śirasā pādau spṛṣṭvā bhīṣmasya pāṇḍavaḥ
dharmyaṃ dharmasutaḥ praśnaṃ paryapṛcchad yudhiṣṭhiraḥ
18 ke deśāḥ ke janapadā āśramāḥ ke ca parvatāḥ
prakṛṣṭāḥ puṇyataḥ kāś ca jñeyā nadyaḥ pitāmaha
19 [bh]
atrāpy udāharantīmam itihāsaṃ purātanam
śiloñcha vṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira
20 imāṃ kaś cit parikramya pṛthivīṃ śailabhūṣitām
asakṛd dvipadāṃ śreṣṭhaḥ śreṣṭhasya gṛhamedhinaḥ
21 śila vṛtter gṛhaṃ prāptaḥ sa tena vidhinārcitaḥ
kṛtakṛtya upātiṣṭhat siddhaṃ tam atithiṃ tadā
22 tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ
cakratur veda saṃbaddhās tac cheṣa kṛtalakṣaṇāḥ
23 śila vṛttiḥ kathānte tu siddham āmantrya yatnataḥ
praśnaṃ papraccha medhāvī yan māṃ tvaṃ paripṛcchasi
24 [ṣilavṛtti]
ke deśāḥ ke janapadāḥ ke ''śramāḥ ke ca parvatāḥ
prakṛṣṭāḥ puṇyataḥ kāś ca jñeyā nadyas tad ucyatām
25 [siddha]
te deśās te janapadās te ''śramās te ca parvatāḥ
yeṣāṃ bhāgīrathī gaṅgā madhyenaiti saridvarā
26 tapasā brahmacaryeṇa yajñais tyāgena vā punaḥ
gatiṃ tāṃ na labhej jantur gaṅgāṃ saṃsevya yāṃ labhet
27 spṛṣṭāni yeṣāṃ gāṅgeyais toyair gātrāṇi dehinām
nyastāni na punas teṣāṃ tyāgaḥ svargād vidhīyate
28 sarvāṇi yeṣāṃ gāṅgeyais toyaiḥ kṛtyāni dehinām
gāṃ tyaktvā mānavā vipra divi tiṣṭhanti te 'calāḥ
29 pūrve vayasi karmāṇi kṛtvā pāpāni ye narāḥ
paścād gaṅgāṃ niṣevante te 'pi yānty uttamāṃ gatim
30 snātānāṃ śucibhis toyair gāṅgeyaiḥ prayatātmanām
vyuṣṭir bhavati yā puṃsāṃ na sā kratuśatair api
31 yāvad asthi manuṣyasya gaṅgātoyeṣu tiṣṭhati
tāvad varṣasahasrāṇi svargaṃ prāpya mahīyate
32 apahatya tamas tīvraṃ yathā bhāty udaye raviḥ
tathāpahatya pāpmānaṃ bhāti gaṅgā jalokṣitaḥ
33 visomā iva śarvaryo vipuṣpās taravo yathā
tadvad deśā diśaś caiva hīnā gaṅgā jalaiḥ śubhaiḥ
34 varṇāśramā yathā sarve svadharmajñānavarjitāḥ
ṛtavaś ca yathā somās tathā gaṅgāṃ vinā jagat
35 yathā hīnaṃ nabho 'rkeṇa bhūḥ śailaiḥ khaṃ ca vāyunā
tathā deśā diśaś caiva gaṅgā hīnā na saṃśayaḥ
36 triṣu lokeṣu ye ke cit prāṇinaḥ sarva eva te
tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgā jalaiḥ śubhaiḥ
37 yas tu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam
gavāṃ nirhāra nirmuktād yāvakāt tad viśiṣyate
38 indra vratasahasraṃ tu cared yaḥ kāyaśodhanam
pibed yaś cāpi gaṅgāmbhaḥ samau syātāṃ na vā samau
39 tiṣṭhed yugasahasraṃ tu pādenaikena yaḥ pumān
māsam ekaṃ tu gaṅgāyāṃ samau syātāṃ na vā samau
40 lambetāvāk śirā yas tu yugānām ayutaṃ pumān
tiṣṭhed yatheṣṭaṃ yaś cāpi gaṅgāyāṃ sa viśiṣyate
41 agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama
tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate
42 bhūtānām iha sarveṣāṃ duḥkhopahata cetasām
gatim anveṣamāṇānāṃ na gaṅgā sadṛśī gatiḥ
43 bhavanti nirviṣāḥ sarpā yathā tārkṣyasya darśanāt
gaṅgāyā darśanāt tadvat sarvapāpaiḥ pramucyate
44 apratiṣṭhāś ca ye ke cid adharmaśaraṇāś ca ye
teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca
45 prakṛṣṭair aśubhair grastān anekaiḥ puruṣādhamān
patate narake gaṅgā saṃśritān pretya tārayet
46 te saṃvibhaktā munibhir nūnaṃ devaiḥ sa vāsavaiḥ
ye 'bhigacchanti satataṃ gaṅgām abhigatāṃ suraiḥ
47 vinayācāra hīnāś ca aśivāś ca narādhamāḥ
te bhavanti śivā vipra ye vai gaṅgāṃ samāśritāḥ
48 yathā surāṇām amṛtaṃ pitṝṇāṃ ca yathā svadhā
sudhā yathā ca nāgānāṃ tathā gaṅgā jalaṃ nṛṇām
49 upāsate yathā bālā mātaraṃ kṣudhayārditāḥ
śreyaḥ kāmās tathā gaṅgām upāsantīha dehinaḥ
50 svāyambhuvaṃ yathāsthānaṃ sarveṣāṃ śreṣṭham ucyate
snātānāṃ saritāṃ śreṣṭhā gaṅgā tadvad ihocyate
51 yathopajīvināṃ dhenur devādīnāṃ dharā smṛtā
tathopajīvināṃ gaṅgā sarvaprāṇabhṛtām iha
52 devāḥ somārka saṃsthāni yathā satrādibhir makhaiḥ
amṛtāny upajīvanti tathā gaṅgā jalaṃ narāḥ
53 jāhnavī pulinotthābhiḥ sikatābhiḥ samukṣitaḥ
manyate puruṣo ''tmānaṃ diviṣṭham iva śobhitam
54 jāhnavītīra saṃbhūtāṃ mṛdaṃ mūrdhnā vibharti yaḥ
bibharti rūpaṃ so 'rkasya tamo nāśāt sunirmalam
55 gaṅgormibhir atho digdhaḥ puruṣaṃ pavano yadā
spṛśate so 'pi pāpmānaṃ sadya evāpamārjati
56 vyasanair abhitaptasya narasya vinaśiṣyataḥ
gaṅgā darśanajā prītir vyasanāny apakarṣati
57 haṃsārāvaiḥ koka ravai ravair anyairś ca pakṣiṇām
paspardha gaṅgā gandharvān pulinaiś ca śiloccayān
58 haṃsādibhiḥ subahubhir vividhaiḥ pakṣibhir vṛtām
gaṅgāṃ gokulasaṃbādhāṃ dṛṣṭvā svargo 'pi vismṛtaḥ
59 na sā prītir diviṣṭhasya sarvakāmān upāśnataḥ
abhavad yā parā prītir gaṅgāyāḥ puline nṛṇām
60 vān manaḥ karmajair grastaḥ pāpair api pumān iha
vīkṣya gaṅgāṃ bhavet pūtas tatra me nāsti saṃśayaḥ
61 saptāvarān sapta parān pitṝṃs tebhyaś ca ye pare
pumāṃs tārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca
62 śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā
gaṅgā tārayate nṝṇām ubhau vaṃśau viśeṣataḥ
63 darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt
punāty apuṇyān puruṣāñ śataśo 'tha sahasraśaḥ
64 ya icchet saphalaṃ janma jīvitaṃ śrutam eva ca
sa pitṝṃs tarpayed gaṅgām abhigamya surāṃs tathā
65 na sutair na ca vittena karmaṇā na ca tat phalam
prāpnuyāt puruṣo 'tyantaṃ gaṅgāṃ prāpya yad āpnuyāt
66 jātyandhair iha tulyās te mṛtaiḥ paṅgubhir eva ca
samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām
67 bhūtabhavya bhaviṣyajñair maharṣibhir upasthitām
devaiḥ sendraiś ca ko gaṅgāṃ nopaseveta mānavaḥ
68 vānaprasthair gṛhasthaiś ca yatibhir brahma cāribhiḥ
vidyāvadbhiḥ śritāṃ gaṅgāṃ pumān ko nāma nāśrayet
69 utkrāmadbhiś ca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ
cintayen manasā gaṅgāṃ sa gatiṃ paramāṃ labhet
70 na bhayebhyo bhayaṃ tasya na pāpebhyo na rājataḥ
ā dehapatanād gaṅgām upāste yaḥ pumān iha
71 gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ
dadhāra śirasā devīṃ tām eva divi sevate
72 alaṃkṛtās trayo lokāḥ pathibhir vimalais tribhiḥ
yas tu tasyā jalaṃ sevet kṛtakṛtyaḥ pumān bhavet
73 divi jyotir yathādityaḥ pitṝṇāṃ caiva candramāḥ
deveśaś ca yathā nṝṇāṃ gaṅgeha saritāṃ tathā
74 mātrā pitrā sutair dārair viyuktasya dhanena vā
na bhaved dhi tathā duḥkhaṃ yathā gaṅgā viyogajam
75 nāraṇyair neṣṭa viṣayair na sutair na dhanāgamaiḥ
tathā prasādo bhavati gaṅgāṃ vīkṣya yathā nṛṇām
76 pūrṇam induṃ yathādṛṣṭvā nṛṇāṃ dṛṣṭiḥ prasīdati
gaṅgāṃ tripathagāṃ dṛṣṭvā tathā dṛṣṭiḥ prasīdati
77 tadbhāvas tadgatamanas tanniṣṭhas tatparāyaṇaḥ
gaṅgāṃ yo 'nugato bhaktyā sa tasyāḥ priyatāṃ vrajet
78 bhūḥsthaiḥ khasthair diviṣṭhaiś ca bhūtair uccāvacair api
gaṅgā vigāhyā satatam eta kāryatamaṃ satām
79 triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṃ yaśaḥ
yat putrān sagarasyaiṣā bhasmākhyān anayad divam
80 vāyvīritābhiḥ sumahāsvanābhir; drutābhir atyartha samucchritābhiḥ
gaṅgormibhir bhānumatībhir iddhaḥ; sahasraraśmi pratimo vibhāti
81 payasvinīṃ ghṛtinīm atyudārāṃ; samṛddhinīṃ vegiṇīṃ durvigāhyām
gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ; gatā dhīrās te vibudhaiḥ samatvam
82 andhāñ jaḍān dravyahīnāṃś ca gaṅgā; yaśasvinī bṛhatī viśvarūpā
devaiḥ sendrair munibhir mānavaiś ca; niṣevitā sarvakāmair yunakti
83 ūrjāvatīṃ madhumatīṃ mahāpuṇyāṃ trivartmagām
trilokagoptrīṃ ye gaṅgāṃ saṃśritās te divaṃ gatāḥ
84 yo vatsyati drakṣyati vāpi martyas; tasmai prayacchanti sukhāni devāḥ
tadbhāvitāḥ sparśane darśane yas; tasmai devā gatim iṣṭāṃ diśanti
85 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ; śivām ṛtāṃ surasāṃ suprasannām
vibhāvarīṃ sarvabhūtapratiṣṭhāṃ; gaṅgāṃ gatā ye tridivaṃ gatās te
86 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ; purā diśo vidiśaś cāvatasthe
tasyā jalaṃ sevya sarid varāyā; martyāḥ sarve kṛtakṛtyā bhavanti
87 iyaṃ gaṅgeti niyataṃ pratiṣṭhā; guhasya rukmasya ca garbhayoṣā
prātas trimārgā ghṛtavahā vipāpmā; gaṅgāvatīrṇā viyato viśvatoyā
88 sutāvanīdhrasya harasya bhāryā; divo bhuvaś cāpi kakṣyānurūpā
bhavyā pṛthivyā bhāvinī bhāti rājan; gaṅgā lokānāṃ puṇyadā vai trayāṇām
89 madhu pravāhā ghṛtarāgoddhṛtābhir; mahormibhiḥ śobhitā brāhmaṇaiś ca
divaś cyutā śirasāttā bhavena; gaṅgāvanīdhrās tridivasya mālā
90 yonir variṣṭhā virajā vitanvī; śuṣmā irā vārivahā yaśodā
viśvāvatī cākṛtir iṣṭir iddhā; gaṅgokṣitānāṃ bhuvanasya panthāḥ
91 kṣāntyā mahyā gopane dhāraṇe ca; dīptyā kṛśānos tapanasya caiva
tulyā gaṅgā saṃmatā brāhmaṇānāṃ; guhasya brahmaṇyatayā ca nityam
92 ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ; supuṇyatoyāṃ manasāpi loke
sarvātmanā jāhnavīṃ ye prapannās; te brahmaṇaḥ sadanaṃ saṃprayātāḥ
93 lokān imān nayati yā jananīva putrān; sarvātmanā sarvaguṇopapannā
svasthānam iṣṭam iha brāhmam abhīpsamānair; gaṅgā sadaivātma vaśair upāsyā
94 usrāṃ juṣṭāṃ miṣatīṃ viśvatoyām; irāṃ vajrīṃ revatīṃ bhūdharāṇām
śiṣṭāśrayām amṛtāṃ brahma kāntāṃ; gaṅgāṃ śrayed ātmavān siddhikāmaḥ
95 prasādya devān sa vibhūn samastān; bhagīrathas tapasogreṇa gaṅgām
gām ānayat tām abhigamya śaśvan; pumān bhayaṃ neha nāmutra vidyāt
96 udāhṛtaḥ sarvathā te guṇānāṃ; mayaika deśaḥ prasamīkṣya buddhyā
śaktir na me kā cid ihāsti vaktuṃ; guṇān sarvān parimātuṃ tathaiva
97 meroḥ samudrasya ca sarvaratnaiḥ; saṃkhyopalānām udakasya vāpi
vaktuṃ śakyaṃ neha gaṅgā jalānāṃ; guṇākhyānaṃ parimātuṃ tathaiva
98 tasmād imān parayā śraddhayoktān; guṇān sarvāñ jāhnavījāṃs tathaiva
bhaved vācā manasā karmaṇā ca; bhaktyā yuktaḥ parayā śraddadhānaḥ
99 lokān imāṃs trīn yaśasā vitatya; siddhiṃ prāpya mahatīṃ tāṃ durāpām
gaṅgā kṛtān acireṇaiva lokān; yatheṣṭam iṣṭān vicariṣyasi tvam
100 tava mama ca guṇair mahānubhāvā; juṣatu matiṃ satataṃ svadharmayuktaiḥ
abhigata janavatsalā hi gaṅgā; bhajati yunakti sukhaiś ca bhaktimantam
101 [bh]
iti paramamatir guṇān anekāñ; śila rataye tripathānuyoga rūpān
bahuvidham anuśāsya tathya rūpān; gaganatalaṃ dyutimān viveśa siddhaḥ
102 śilavṛttis tu siddhasya vākyaiḥ saṃbodhitas tadā
gaṅgām upāsya vidhivat siddhiṃ prāptaḥ sudurlabhām
103 tasmāt tvam api kaunteya bhaktyā paramayā yutaḥ
gaṅgām abhyehi satataṃ prāpsyase siddhim uttamām
104 [v]
śrutvetihāsaṃ bhīṣmoktaṃ gaṅgāyāḥ stavasaṃyutam
yudhiṣṭhiraḥ parāṃ prītim agacchad bhrātṛbhiḥ saha
105 itihāsam imaṃ puṇyaṃ śṛṇuyād yaḥ paṭheta vā
gaṅgāyāḥ stavasaṃyuktaṃ sa mucyet sarvakilbiṣaiḥ

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1721 of 2013 Book 85% ~13 min left