Book 13: Chapter 17
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 13: Chapter 17

The Mahabharata in Sanskrit

Book 13
Chapter 17

1 [वासुदेव]
ततः स परयतॊ भूत्वा मम तात युधिष्ठिर
पराञ्जलिः पराह विप्रर्षिर नाम संहारम आदितः
2 [उ]
बरह्म परॊक्तैर ऋषिप्रॊक्तैर वेदवेदाङ्गसंभवैः
सर्वलॊकेषु विख्यातैः सथाणुं सतॊष्यामि नामभिः
3 महद्भिर विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः
ऋषिणा तण्डिना भक्त्या कृतैर देवकृतात्मना
4 यथॊक्तैर लॊकविख्यातैर मुनिभिस तत्त्वदर्शिभिः
परवरं परथमं सवर्ग्यं सर्वभूतहितं शुभम
शरुतैः सर्वत्र जगति बरह्मलॊकावतारितैः
5 यत तद रहस्यं परमं बरह्म परॊक्तं सनातनम
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितॊ मम
6 परत्वेन भवं देवं भक्तस तवं परमेश्वरम
तेन ते शरावयिष्यामि यत तद बरह्म सनातनम
7 न शक्यं विस्तरात कृत्स्नं वक्तुं शर्वस्य केन चित
युक्तेनापि विभूतीनाम अपि वर्षशतैर अपि
8 यस्यादिर मध्यम अन्तश च सुरैर अपि न गम्यते
कस तस्य शक्नुयाद वक्तुं गुणान कार्त्स्न्येन माधव
9 किं तु देवस्य महतः संक्षिप्तार्थ पदाक्षरम
शक्तितश चरितं वक्ष्ये परसादात तस्य चैव हि
10 अप्राप्येह ततॊ ऽनुज्ञां न शक्यः सतॊतुम ईश्वरः
यदा तेनाभ्यनुज्ञातः सतुवत्य एव सदा भवम
11 अनादि निधनस्याहं सर्वयॊनेर महात्मनः
नाम्नां कं चित समुद्देशं वक्ष्ये हय अव्यक्तयॊनिनः
12 वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः
शृणु नाम समुद्देशं यद उक्तं पद्मयॊनिना
13 दश नाम सहस्राणि यान्य आह परपितामहः
तानि निर्मथ्य मनसा दध्नॊ घृतम इवॊद्धृतम
14 गिरेः सारं यथा हेमपुष्पात सारं यथा मधु
घृतात सारं यथा मण्डस तथैतत सारम उद्धृतम
15 सर्वपाप्मापहम इदं चतुर्वेद समन्वितम
परयत्नेनाधिगन्तव्यं धार्यं च परयतात्मना
शान्तिकं पौष्टिकं चैव रक्षॊघ्नं पावनं महत
16 इदं भक्ताय दातव्यं शरद्दधानास्तिकाय च
नाश्रद्दधान रूपाय नास्तिकायाजितात्मने
17 यश चाभ्यसूयते देवं भूतात्मानं पिनाकिनम
स कृष्ण नरकं याति सह पूर्वैः सहानुगैः
18 इदं धयानम इदं यॊगम इदं धयेयम अनुत्तमम
इदं जप्यम इदं जञानं रहस्यम इदम उत्तमम
इदं जञात्वान्त काके ऽपि गच्छेद धि परमां गतिम
19 पवित्रं मङ्गलं पुण्यं कल्याणम इदम उत्तमम
निगदिष्ये महाबाहॊ सतवानाम उत्तमं सतवम
20 इदं बरह्मा पुरा कृत्वा सर्वलॊकपितामहः
सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत
21 तदा परभृति चैवायम ईश्वरस्य महात्मनः
सतवराजेति विख्यातॊ जगत्य अमरपूजितः
बरह्मलॊकाद अयं चैव सतवराजॊ ऽवतारितः
22 यस्मात तण्डिः पुरा पराह तेन तण्डि कृतॊ ऽभवत
सवर्गाच चैवात्र भूलॊकं तण्डिना हय अवतारितः
23 सर्वमङ्गल मङ्गल्यं सर्वपापप्रणाशनम
निगदिष्ये महाबाहॊ सतवानाम उत्तमं सतवम
24 बरह्मणाम अपि यद बरह्म पराणाम अपि यत परम
तेजसाम अपि यत तेजस तपसाम अपि यत तपः
25 शान्तीनाम अपि या शान्तिर दयुतीनाम अपि या दयुतिः
दान्तानाम अपि यॊ दान्तॊ धीमताम अपि या च धीः
26 देवानाम अपि यॊ देवॊ मुनीनाम अपि यॊ मुनिः
यज्ञानाम अपि यॊ यज्ञः शिवानाम अपि यः शिवः
27 रुद्राणाम अपि यॊ रुद्रः परभुः परभवताम अपि
यॊगिनाम अपि यॊ यॊगी कारणानां च कारणम
28 यतॊ लॊकाः संभवन्ति न भवन्ति यतः पुनः
सर्वभूतात्मभूतस्य हरस्यामित तेजसः
29 अष्टॊत्तर सहस्रं तु नाम्नां शर्वस्य मे शृणु
यच छरुत्वा मनुजश्रेष्ठ सर्वान कामान अवाप्स्यसि
30 सथिरः सथाणुः पभुर भानुः परवरॊ वरदॊ वरः
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरॊ भवः
31 जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः
हरिश च हरिणाक्षश च सर्वभूतहरः परभुः
32 परवृत्तिश च निवृत्तिश च नियतः शाश्वतॊ धरुवः
शमशानचारी भगवान खचरॊ गॊचरॊ ऽरदनः
33 अभिवाद्यॊ महाकर्मा तपस्वी भूतभावनः
उन्मत्तवेश परच्छन्नः सर्वलॊकप्रजापतिः
34 महारूपॊ महाकायः सर्वरूपॊ महायशाः
महात्मा सर्वभूतश च विरूपॊ वामनॊ मनुः
35 लॊकपालॊ ऽनतर्हितात्मा परसादॊ हयगर्दभिः
पवित्रश च महांश चैव नियमॊ नियमाश्रयः
36 सर्वकर्मा सवयम्भूश च आदिर आदि करॊ निधिः
सहस्राक्षॊ विरूपाक्शः सॊमॊ नक्षत्रसाधकः
37 चन्द्रसूर्यगतिः केतुर गरहॊ गरहपतिर वरः
अद्रिर अद्र्यालयः कर्ता मृगबाणार्पणॊ ऽनघः
38 महातपा घॊरतपा अदीनॊ दीनसाधकः
संवत्सरकरॊ मन्त्रः परमाणं परमं तपः
39 यॊगी यॊज्यॊ महाबीजॊ महारेता महातपाः
सुवर्णरेताः सर्वज्ञः सुबीजॊ वृषवाहनः
40 दश बाहुस तव अनिमिषॊ नीलकण्ठ उमापतिः
विश्वरूपः सवयं शरेष्ठॊ बलवीरॊ बलॊ गणः
41 गणकर्ता गणपतिर दिग्वासाः काम्य एव च
पवित्रं परमं मन्त्रः सर्वभावकरॊ हरः
42 कमण्डलुधरॊ धन्वी बाणहस्तः कपालवान
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान
43 सरुव हस्तः सुरूपश च तेजस तेजः करॊ निधिः
उष्णीषी च सुवक्त्रश च उदग्रॊ विनतस तथा
44 दीर्घश च हरि केशश च सुतीर्थः कृष्ण एव च
सृगालरूपः सर्वार्थॊ मण्डः कुण्डी कमण्डलुः
45 अजश च मृगरूपश च गन्धधारी कपर्द्य अपि
उर्ध्व रेता ऊर्ध्वलिङ्ग ऊर्ध्व शायी नभस्तलः
46 तरिजटश चीरवासाश च रुद्रः सेनापतिर विभुः
अहश चरॊ ऽथ नक्तं च तिग्ममन्युः सुवर्चसः
47 गजहा दैत्यहा लॊकॊ लॊकधाता गुणाकरः
सिंहशार्दूलरूपश च आर्द्र चर्माम्बरावृतः
48 कालयॊगी महानादः सर्ववासश चतुष्पथः
निशाचरः परेतचारी भूतचारी महेश्वरः
49 बहुभूतॊ बहुधनः सर्वाधारॊ ऽमितॊ गतिः
नृत्यप्रियॊ नित्यनर्तॊ नर्तकः सर्वलासकः
50 घॊरॊ महातपाः पाशॊ नित्यॊ गिरिचरॊ नभः
सहस्रहस्तॊ विजयॊ वयवसायॊ हय अनिन्दितः
51 अमर्षणॊ मर्षणात्मा यज्ञहा कामनाशनः
दक्षयज्ञापहारी च सुसहॊ मध्यमस तथा
52 तेजॊ ऽपहारी बलहा मुदितॊ ऽरथॊ जितॊ वरः
गम्भीरघॊषॊ गम्भीरॊ गम्भीरबलवाहनः
53 नयग्रॊधरूपॊ नयग्रॊधॊ वृक्षकर्ण सथितिर विभुः
तीक्ष्णतापश च हर्यश्वः सहायः कर्मकालवित
54 विष्णुप्रसादितॊ यज्ञः समुद्रॊ वडवामुखः
हुताशनसहायश च परशान्तात्मा हुताशनः
55 उग्रतेजा महातेजा जयॊ विजयकालवित
जयॊतिषाम अयनं सिद्धिः संधिर विग्रह एव च
56 शिखी दण्डी जटी जवाली मूर्तिजॊ मूर्धगॊ बली
वैणवी पणवी ताली कालः कालकटंकटः
57 नक्षत्रविग्रह विधिर गुणवृद्धिर लयॊ ऽगमः
परजापतिर दिशा बाहुर विभागः सर्वतॊ मुखः
58 विमॊचनः सुरगणॊ हिरण्यकवचॊद्भवः
मेढ्रजॊ बलचारी च महाचारी सतुतस तथा
59 सर्वतूर्य निनादी च सर्ववाद्य परिग्रहः
वयालरूपॊ बिलावासी हेममाली तरंगवित
60 तरिदशस तरिकालधृक कर्म सर्वबन्धविमॊचनः
बन्धनस तवासुरेन्द्राणां युधि शत्रुविनाशनः
61 सांख्यप्रसादॊ सुर्वासाः सर्वसाधु निषेवितः
परस्कन्दनॊ विभागश च अतुल्यॊ यज्ञभागवित
62 सर्वावासः सर्वचारी दुर्वासा वासवॊ ऽमरः
हेमॊ हेमकरॊ यज्ञः सर्वधारी धरॊत्तमः
63 लॊहिताक्षॊ महाक्षश च विजयाक्षॊ विशारदः
संग्रहॊ निग्रहः कर्ता सर्पचीरनिवासनः
64 मुख्यॊ ऽमुख्यश च देहश च देहर्द्धिः सर्वकामदः
सर्वकामप्रसादश च सुबलॊ बलरूपधृक
65 आकाशनिधि रूपश च निपाती उरगः खगः
रौद्ररूपॊ ऽंशुर आदित्यॊ वसु रश्मिः सुवर्चसी
66 वसु वेगॊ महावेगॊ मनॊ वेगॊ निशाचरः
सर्वावासी शरियावासी उपदेश करॊ हरः
67 मुनिर आत्मपतिर लॊके संभॊज्यश च सहस्रदः
पक्षी च पक्षिरूपी च अतिदीप्तॊ विशां पतिः
68 उन्मादॊ मदनाकारॊ अर्थार्थकर रॊमशः
वामदेवश च वामश च पराग्दक्षिण्यश च वामनः
69 सिद्धयॊगापहारी च सिद्धः सर्वार्थसाधकः
भिक्षुश च भिक्षुरूपश च विषाणी मृदुर अव्ययः
70 महासेनॊ विशाखश च षष्टिभागॊ गवां पतिः
वज्रहस्तश च विष्कम्भी चमू सतम्भन एव च
71 ऋतुर ऋतुकरः कालॊ मधुर मधुकरॊ ऽचलः
वानस्पत्यॊ वाजसेनॊ नित्यम आश्रमपूजितः
72 बरह्म चारी लॊकचारी सर्वचारी सुचारवित
ईशान ईश्वरः कालॊ निशा चारी पिनाक धृक
73 नन्दीश्वरश च नन्दी च नन्दनॊ नन्दिवर्धनः
भगस्याक्षि निहन्ता च कालॊ बरह्मविदां वरः
74 चतुर्मुखॊ महालिङ्गश चारु लिङ्गस तथैव च
लिङ्गाध्यक्षः सुराध्यक्षॊ लॊकाध्यक्षॊ युगावहः
75 बीजाध्यक्षॊ बीजकर्ता अध्यात्मानुगतॊ बलः
इतिहास करः कल्पॊ गौतमॊ ऽथ जलेश्वरः
76 दम्भॊ हय अदम्भॊ वैदम्भॊ वैश्यॊ वश्य करः कविः
लॊककर्ता पशुपतिर महाकर्ता महौषधिः
77 अक्षरं परमं बरह्मबलवाञ शक्र एव च
नीतिर हय अनीतिः शुद्धात्मा शुद्धॊ मान्यॊ मनॊगतिः
78 बहु परसादः सवपनॊ दर्पणॊ ऽथ तव अमित्रजित
वेदकारः सूत्रकारॊ विद्वान समरमर्दनः
79 महामेघनिवासी च महाघॊरॊ वशीकरः
अग्निज्वालॊ महाज्वालॊ अतिधूम्रॊ हुतॊ हविः
80 वृषणः शंकरॊ नित्यॊ वर्चस्वी धूमकेतनः
नीलस तथाङ्गलुब्धश च शॊभनॊ निरवग्रहः
81 सवस्तिदः सवस्ति भावश च भागी भागकरॊ लघुः
उत्सङ्गश च महाङ्गश च महागर्भः परॊ युवा
82 कृष्ण वर्णः सुवर्णश च इन्द्रियः सर्वदेहिनाम
महापादॊ महाहस्तॊ महाकायॊ महायशाः
83 महामूर्धा महामात्रॊ महानेत्रॊ दिग आलयः
महादन्तॊ महाकर्णॊ महामेढ्रॊ महाहनुः
84 महानासॊ महाकम्बुर महाग्रीवः शमशानधृक
महावक्षा महॊरस्कॊ अन्तरात्मा मृगालयः
85 लम्बनॊ लम्बितौष्ठश च महामायः पयॊ निधिः
महादन्तॊ महादंष्ट्रॊ महाजिह्वॊ महामुखः
86 महानखॊ महारॊमा महाकेशॊ महाजटः
असपत्नः परसादश च परत्ययॊ गिरिसाधनः
87 सनेहनॊ ऽसनेहनश चैव अजितश च महामुनिः
वृक्षाकारॊ वृक्षकेतुर अनलॊ वायुवाहनः
88 मण्डलीमेरुधामा च देवदानव दर्पहा
अथर्वशीर्षः सामास्य ऋक सहस्रामितेक्षणः
89 यजुः पादभुजॊ गुह्यः परकाशॊ जङ्गमस तथा
अमॊघार्थः परसादश च अभिगम्यः सुदर्शनः
90 उपहार परियः शर्वः कनकः काञ्चनः सथिरः
नाभिर नन्दिकरॊ भाव्यः पुष्करस्थ पतिः सथिरः
91 दवादशस तरासनश चाद्यॊ यज्ञॊ यज्ञसमाहितः
नक्तं कलिश च कालश च मकरः कालपूजितः
92 सगणॊ गणकारश च भूतभावन सारथिः
भस्म शायी भस्म गॊप्ता भस्मभूतस तरुर गणः
93 अगणश चैव लॊपश च महात्मा सर्वपूजितः
शङ्कुस तरिशङ्कुः संपन्नः शुचिर भूतनिषेवितः
94 आश्रमस्थः कपॊतस्थॊ विश्वकर्मा पतिर वरः
शाखॊ विशाखस ताम्रौष्ठॊ हय अम्बुजालः सुनिश्चयः
95 कपिलॊ ऽकपिलः शूर आयुश चैव परॊ ऽपरः
गन्धर्वॊ हय अदितिस तार्क्ष्यः सुविज्ञेयः सुसारथिः
96 परश्वधायुधॊ देव अर्थकारी सुबान्धवः
तुम्बवीणी महाकॊप ऊर्ध्वरेता जले शयः
97 उग्रॊ वंशकरॊ वंशॊ वंशनादॊ हय अनिन्दितः
सर्वाङ्गरूपॊ मायावी सुहृदॊ हय अनिलॊ ऽनलः
98 बन्धनॊ बन्धकर्ता च सुबन्धन विमॊचनः
स यज्ञारिः स कामारिर महादंष्ट्रॊ महायुधः
99 बाहुस तव अनिन्दितः शर्वः शंकरः शंकरॊ ऽधनः
अमरेशॊ महादेवॊ विश्वदेवः सुरारिहा
100 अहिर्बुध्नॊ निरृतिश च चेकितानॊ हरिस तथा
अजैकपाच च कापाली तरिशङ्कुर अजितः शिवः
101 धन्वन्तरिर धूमकेतुः सकन्दॊ वैश्रवणस तथा
धाता शक्रश च विष्णुश च मित्रस तवष्टा धरुवॊ धरः
102 परभावः सर्वगॊ वायुर अर्यमा सविता रविः
उदग्रश च विधाता च मान्धाता भूतभावनः
103 रतितीर्थश च वाग्मी च सर्वकामगुणावहः
पद्मगर्भॊ महागर्भश चन्द्र वक्त्रॊ मनॊरमः
104 बलवांश चॊपशान्तश च पुराणः पुण्यचञ्चुरी
कुरु कर्ता कालरूपी कुरु भूतॊ महेश्वरः
105 सर्वाशयॊ दर्भशायी सर्वेषां पराणिनां पतिः
देवदेव मुखॊ ऽसक्तः सद असत सर्वरत्नवित
106 कैलासशिखरावासी हिमवद गिरिसंश्रयः
कूलहारी कूलकर्ता बहु विद्यॊ बहु परदः
107 वणिजॊ वर्धनॊ वृक्षॊ नकुलश चन्दनश छदः
सारग्रीवॊ महाजत्रुर अलॊलश च महौषधः
108 सिद्धार्थकारी सिद्धार्थश चन्दॊ वयाकरणॊत्तरः
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः
109 परभावात्मा जगत कालस तालॊ लॊकहितस तरुः
सारङ्गॊ नव चक्राङ्गः केतुमाली सभावनः
110 भूतालयॊ भूतपतिर अहॊरात्रम अनिन्दितः
वाहिता सर्वभूतानां निलयश च विभुर भवः
111 अमॊघः संयतॊ हय अश्वॊ भॊजनः पराणधारणः
धृतिमान मतिमान दक्षः सत्कृतश च युगाधिपः
112 गॊपालिर गॊपतिर गरामॊ गॊचर्म वसनॊ हरः
हिरण्यबाहुश च तथा गुहा पालः परवेशिनाम
113 परतिष्ठायी महाहर्षॊ जितकामॊ जितेन्द्रियः
गन्धारश च सुरालश च तपः कर्म रतिर धनुः
114 महागीतॊ महानृत्तॊ हय अप्सरॊगणसेवितः
महाकेतुर धनुर धातुर नैकसानु चरश चलः
115 आवेदनीय आवेशः सर्वगन्धसुखावहः
तॊरणस तारणॊ वायुः परिधावति चैकतः
116 संयॊगॊ वर्धनॊ वृद्धॊ महावृद्धॊ गणाधिपः
नित्य आत्मसहायश च देवासुरपतिः पतिः
117 युक्तश च युक्तबाहुश च दविविधश च सुपर्वणः
आषाढश च सुषाड्धश च धरुवॊ हरि हणॊ हरः
118 वपुर आवर्तमानेभ्यॊ वसु शरेष्ठॊ महापथः
शिरॊ हारी विमर्षश च सर्वलक्षणभूषितः
119 अक्षश च रथयॊगी च सर्वयॊगी महाबलः
समाम्नायॊ ऽसमाम्नायस तीर्थदेवॊ महारथ
120 निर्जीवॊ जीवनॊ मन्त्रः शुभाक्षॊ बहु कर्कशः
रत्नप्रभूतॊ रक्ताङ्गॊ महार्णव निपानवित
121 मूलॊ विशालॊ हय अमृतॊ वयक्ताव्यक्तस तपॊ निधिः
आरॊहणॊ निरॊहश च शल हारी महातपाः
122 सेना कल्पॊ महाकल्पॊ युगायुग करॊ हरिः
युगरूपॊ महारूपॊ पवनॊ गहनॊ नगः
123 नयायनिर्वापणः पादः पण्डितॊ हय अचलॊपमः
बहु मालॊ महामालः सुमालॊ बहु लॊचनः
124 विस्तारॊ लवणः कूपः कुसुमः सफलॊदयः
वृषभॊ वृषभाङ्काङ्गॊ मणिबिल्वॊ जटाधरः
125 इन्दुर विसर्वः सुमुखः सुरः सर्वायुधः सहः
निवेदनः सुधा जातः सुगन्धारॊ महाधनुः
126 गन्धमाली च भगवान उत्थानः सर्वकर्मणाम
मन्थानॊ बहुलॊ बाहुः सकलः सर्वलॊचनः
127 तरस ताली करस ताली ऊर्ध्वसंहननॊ वहः
छत्रं सुच्छत्रॊ विख्यातः सर्वलॊकाश्रयॊ महान
128 मुण्डॊ विरूपॊ विकृतॊ दण्डि मुण्डॊ विकुर्वणः
हर्यक्षः ककुभॊ वज्री दीप्तजिह्वः सहस्रपात
129 सहस्रमूर्धा देवेन्द्रः सर्वदेवमयॊ गुरुः
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलॊककृत
130 पवित्रं तरिमधुर मन्त्रः कनिष्ठः कृष्णपिङ्गलः
बरह्मदण्डविनिर्माता शतघ्नीशतपाशधृक
131 पद्मगर्भॊ महागर्भॊ बरह्म गर्भॊ जलॊद्भवः
गभस्तिर बरह्म कृद बरह्मा बरह्मविद बराह्मणॊ गतिः
132 अनन्तरूपॊ नैकात्मा तिग्मतेजाः सवयम्भुवः
ऊर्ध्वगात्मा पशुपतिर वातरंहा मनॊजवः
133 चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणॊ नरः
कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक
134 उमापतिर उमा कान्तॊ जाह्नवी धृग उमा धवः
वरॊ वराहॊ वरदॊ वरेशः सुमहास्वनः
135 महाप्रसादॊ दमनः शत्रुहा शवेतपिङ्गलः
परीतात्मा परयतात्मा च संयतात्मा परधानधृक
136 सर्वपार्श्व सुतस तार्क्ष्यॊ धर्मसाधारणॊ वरः
चराचरात्मा सूक्ष्मात्मा सुवृषॊ गॊवृषेश्वरः
137 साध्यर्षिर वसुर आदित्यॊ विवस्वान सविता मृडः
वयासः सर्वस्य संक्षेपॊ विस्तरः पर्ययॊ नयः
138 ऋतुः संवत्सरॊ मासः पक्षः संख्या समापनः
कला काष्ठा लवॊ मात्रा मुहूर्तॊ ऽहः कषपाः कषणाः
139 विश्वक्षेत्रं परजा बीजं लिङ्गम आद्यस तव अनिन्दितः
सदसद वयक्तम अव्यक्तं पिता माता पितामहः
140 सवर्गद्वारं परजा दवारं मॊक्षद्वारं तरिविष्टपम
निर्वाणं हलादनं चैव बरह्मलॊकः परा गतिः
141 देवासुरविनिर्माता देवासुरपरायणः
देवासुरगुरुर देवॊ देवासुरनमस्कृतः
142 देवासुरमहामात्रॊ देवासुरगणाश्रयः
देवासुरगणाध्यक्षॊ देवासुरगणाग्रणीः
143 देवातिदेवॊ देवर्षिर देवासुरवरप्रदः
देवासुरेश्वरॊ देवॊ देवासुरमहेश्वरः
144 सर्वदेवमयॊ ऽचिन्त्यॊ देवतात्मात्म संभवः
उद्भिदस तरिक्रमॊ वैद्यॊ विरजॊ विरजॊऽमबरः
145 ईड्यॊ हस्ती सुरव्याघ्रॊ देव सिंहॊ नरर्षभः
विबुधाग्र वरः शरेष्ठः सर्वदेवॊत्तमॊत्तमः
146 परयुक्तः शॊभनॊ वर्ज ईशानः परभुर अव्ययः
गुरुः कान्तॊ निजः सर्गः पवित्रः सर्ववाहनः
147 शृङ्गी शृङ्गप्रियॊ बभ्रू राजराजॊ निरामयः
अभिरामः सुरगणॊ विरामः सर्वसाधनः
148 ललाटाक्षॊ विश्वदेहॊ हरिणॊ बरह्म वर्चसः
सथावराणां पतिश चैव नियमेन्द्रियवर्धनः
149 सिद्धार्थः सर्वभूतार्थॊ ऽचिन्त्यः सत्यव्रतः शुचिः
वरताधिपः परं बरह्म मुक्तानां परमा गतिः
150 विमुक्तॊ मुक्ततेजाश च शरीमाञ शरीवर्धनॊ जगत
यथा परधानं भगवान इति भक्त्या सतुतॊ मया
151 यं न बरह्मादयॊ देवा विदुर्यं न महर्षयः
तं सतव्यम अर्च्यं वन्द्यं च कः सतॊष्यति जगत्पतिम
152 भक्तिम एव पुरस्कृत्य मया यज्ञपतिर वसुः
ततॊ ऽभयनुज्ञां पराप्यैव सतुतॊ मतिमतां वरः
153 शिवम एभिः सतुवन देवं नामभिः पुष्टिवर्धनैः
नित्ययुक्तः शुचिर भूत्वा पराप्नॊत्य आत्मानम आत्मना
154 एतद धि परमं बरह्म सवयं गीतं सवयम्भुवा
ऋषयश चैव देवाश च सतुवन्त्य एतेन तत्परम
155 सतूयमानॊ महादेवः परीयते चात्मनामभिः
भक्तानुकम्पी भगवान आत्मसंस्थान करॊति तान
156 तथैव च मनुष्येषु ये मनुष्याः परधानतः
आस्तिकाः शरद्दधानाश च बहुभिर जन्मभिः सतवैः
157 जाग्रतश च सवपन्तश च वरजन्तः पथि संस्थिताः
सतुवन्ति सतूयमानाश च तुष्यन्ति च रमन्ति च
जन्म कॊटिसहस्रेषु नाना संसारयॊनिषु
158 जन्तॊर विशुद्धपापस्य भवे भक्तिः परजायते
उत्पन्ना च भवे भक्तिर अनन्या सर्वभावतः
159 कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः
एतद देवेषु दुष्प्रापं मनुष्येषु न लभ्यते
160 निर्विघ्ना निश्चला रुद्रे भक्तिर अव्यभिचारिणी
तस्यैव च परसादेन भक्तिर उत्पद्यते नृणाम
यया यान्ति परां सिद्धिं तद्भावगतचेतसः
161 ये सर्वभावॊपगताः परत्वेनाभवन नराः
परपन्न वत्सलॊ देवः संसारात तान समुद्धरेत
162 एवम अन्ये न कुर्वन्ति देवाः संसारमॊचनम
मनुष्याणां महादेवाद अन्यत्रापि तपॊबलात
163 इति तेनेन्द्र कल्पेन भगवान सद असत पतिः
कृत्ति वासाः सतुतः कृष्ण तण्डिना शुद्धबुद्धिना
164 सतवम एतं भगवतॊ बरह्मा सवयम अधारयत
बरह्मा परॊवाच शक्राय शक्रः परॊवाच मृत्यवे
165 मृत्युः परॊवाच रुद्राणां रुद्रेभ्यस तण्डिम आगमत
महता तपसा पराप्तस तण्डिना बरह्म सद्मनि
166 तण्डिः परॊवाच शुक्राय गौतमायाह भार्गवः
वैवस्वताय मनवे गौतमः पराह माधव
167 नारायणाय साध्याय मनुर इष्टाय धीमते
यमाय पराह भगवान साध्यॊ नारायणॊ ऽचयुतः
168 नाचिकेताय भगवान आह वैवस्वतॊ यमः
मार्कण्डेयाय वार्ष्णेय नाचिकेतॊ ऽभयभाषत
169 मार्कण्डेयान मया पराप्तं नियमेन जनार्दन
तवाप्य अहम अमित्रघ्न सतवं दद्म्य अद्य विश्रुतम
सवर्ग्यम आरॊग्यम आयुष्यं धन्यं बल्यं तथैव च
170 न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः
पिशाचा यातुधानाश च गुह्यका भुजगा अपि
171 यः पठेत शुचिर भूत्वा बरह्म चारी जितेन्द्रियः
अभग्न यॊगॊ वर्षं तु सॊ ऽशवमेध फलं लभेत
1 [vāsudeva]
tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira
prāñjaliḥ prāha viprarṣir nāma saṃhāram āditaḥ
2 [u]
brahma proktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ
sarvalokeṣu vikhyātaiḥ sthāṇuṃ stoṣyāmi nāmabhiḥ
3 mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ
ṛṣiṇā taṇḍinā bhaktyā kṛtair devakṛtātmanā
4 yathoktair lokavikhyātair munibhis tattvadarśibhiḥ
pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham
śrutaiḥ sarvatra jagati brahmalokāvatāritaiḥ
5 yat tad rahasyaṃ paramaṃ brahma proktaṃ sanātanam
vakṣye yadukulaśreṣṭha śṛṇuṣvāvahito mama
6 paratvena bhavaṃ devaṃ bhaktas tvaṃ parameśvaram
tena te śrāvayiṣyāmi yat tad brahma sanātanam
7 na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kena cit
yuktenāpi vibhūtīnām api varṣaśatair api
8 yasyādir madhyam antaś ca surair api na gamyate
kas tasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava
9 kiṃ tu devasya mahataḥ saṃkṣiptārtha padākṣaram
śaktitaś caritaṃ vakṣye prasādāt tasya caiva hi
10 aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ
yadā tenābhyanujñātaḥ stuvaty eva sadā bhavam
11 anādi nidhanasyāhaṃ sarvayoner mahātmanaḥ
nāmnāṃ kaṃ cit samuddeśaṃ vakṣye hy avyaktayoninaḥ
12 varadasya vareṇyasya viśvarūpasya dhīmataḥ
śṛṇu nāma samuddeśaṃ yad uktaṃ padmayoninā
13 daśa nāma sahasrāṇi yāny āha prapitāmahaḥ
tāni nirmathya manasā dadhno ghṛtam ivoddhṛtam
14 gireḥ sāraṃ yathā hemapuṣpāt sāraṃ yathā madhu
ghṛtāt sāraṃ yathā maṇḍas tathaitat sāram uddhṛtam
15 sarvapāpmāpaham idaṃ caturveda samanvitam
prayatnenādhigantavyaṃ dhāryaṃ ca prayatātmanā
śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat
16 idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya ca
nāśraddadhāna rūpāya nāstikāyājitātmane
17 yaś cābhyasūyate devaṃ bhūtātmānaṃ pinākinam
sa kṛṣṇa narakaṃ yāti saha pūrvaiḥ sahānugaiḥ
18 idaṃ dhyānam idaṃ yogam idaṃ dhyeyam anuttamam
idaṃ japyam idaṃ jñānaṃ rahasyam idam uttamam
idaṃ jñātvānta kāke 'pi gacched dhi paramāṃ gatim
19 pavitraṃ maṅgalaṃ puṇyaṃ kalyāṇam idam uttamam
nigadiṣye mahābāho stavānām uttamaṃ stavam
20 idaṃ brahmā purā kṛtvā sarvalokapitāmahaḥ
sarvastavānāṃ divyānāṃ rājatve samakalpayat
21 tadā prabhṛti caivāyam īśvarasya mahātmanaḥ
stavarājeti vikhyāto jagaty amarapūjitaḥ
brahmalokād ayaṃ caiva stavarājo 'vatāritaḥ
22 yasmāt taṇḍiḥ purā prāha tena taṇḍi kṛto 'bhavat
svargāc caivātra bhūlokaṃ taṇḍinā hy avatāritaḥ
23 sarvamaṅgala maṅgalyaṃ sarvapāpapraṇāśanam
nigadiṣye mahābāho stavānām uttamaṃ stavam
24 brahmaṇām api yad brahma parāṇām api yat param
tejasām api yat tejas tapasām api yat tapaḥ
25 śāntīnām api yā śāntir dyutīnām api yā dyutiḥ
dāntānām api yo dānto dhīmatām api yā ca dhīḥ
26 devānām api yo devo munīnām api yo muniḥ
yajñānām api yo yajñaḥ śivānām api yaḥ śivaḥ
27 rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api
yoginām api yo yogī kāraṇānāṃ ca kāraṇam
28 yato lokāḥ saṃbhavanti na bhavanti yataḥ punaḥ
sarvabhūtātmabhūtasya harasyāmita tejasaḥ
29 aṣṭottara sahasraṃ tu nāmnāṃ śarvasya me śṛṇu
yac chrutvā manujaśreṣṭha sarvān kāmān avāpsyasi
30 sthiraḥ sthāṇuḥ pabhur bhānuḥ pravaro varado varaḥ
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ
31 jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ
hariś ca hariṇākṣaś ca sarvabhūtaharaḥ prabhuḥ
32 pravṛttiś ca nivṛttiś ca niyataḥ śāśvato dhruvaḥ
śmaśānacārī bhagavān khacaro gocaro 'rdanaḥ
33 abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ
unmattaveśa pracchannaḥ sarvalokaprajāpatiḥ
34 mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ
mahātmā sarvabhūtaś ca virūpo vāmano manuḥ
35 lokapālo 'ntarhitātmā prasādo hayagardabhiḥ
pavitraś ca mahāṃś caiva niyamo niyamāśrayaḥ
36 sarvakarmā svayambhūś ca ādir ādi karo nidhiḥ
sahasrākṣo virūpākśaḥ somo nakṣatrasādhakaḥ
37 candrasūryagatiḥ ketur graho grahapatir varaḥ
adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'naghaḥ
38 mahātapā ghoratapā adīno dīnasādhakaḥ
saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ
39 yogī yojyo mahābījo mahāretā mahātapāḥ
suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhanaḥ
40 daśa bāhus tv animiṣo nīlakaṇṭha umāpatiḥ
viśvarūpaḥ svayaṃ śreṣṭho balavīro balo gaṇaḥ
41 gaṇakartā gaṇapatir digvāsāḥ kāmya eva ca
pavitraṃ paramaṃ mantraḥ sarvabhāvakaro haraḥ
42 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān
aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahān
43 sruva hastaḥ surūpaś ca tejas tejaḥ karo nidhiḥ
uṣṇīṣī ca suvaktraś ca udagro vinatas tathā
44 dīrghaś ca hari keśaś ca sutīrthaḥ kṛṣṇa eva ca
sṛgālarūpaḥ sarvārtho maṇḍaḥ kuṇḍī kamaṇḍaluḥ
45 ajaś ca mṛgarūpaś ca gandhadhārī kapardy api
urdhva retā ūrdhvaliṅga ūrdhva śāyī nabhastalaḥ
46 trijaṭaś cīravāsāś ca rudraḥ senāpatir vibhuḥ
ahaś caro 'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ
47 gajahā daityahā loko lokadhātā guṇākaraḥ
siṃhaśārdūlarūpaś ca ārdra carmāmbarāvṛtaḥ
48 kālayogī mahānādaḥ sarvavāsaś catuṣpathaḥ
niśācaraḥ pretacārī bhūtacārī maheśvaraḥ
49 bahubhūto bahudhanaḥ sarvādhāro 'mito gatiḥ
nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ
50 ghoro mahātapāḥ pāśo nityo giricaro nabhaḥ
sahasrahasto vijayo vyavasāyo hy aninditaḥ
51 amarṣaṇo marṣaṇātmā yajñahā kāmanāśanaḥ
dakṣayajñāpahārī ca susaho madhyamas tathā
52 tejo 'pahārī balahā mudito 'rtho jito varaḥ
gambhīraghoṣo gambhīro gambhīrabalavāhanaḥ
53 nyagrodharūpo nyagrodho vṛkṣakarṇa sthitir vibhuḥ
tīkṣṇatāpaś ca haryaśvaḥ sahāyaḥ karmakālavit
54 viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ
hutāśanasahāyaś ca praśāntātmā hutāśanaḥ
55 ugratejā mahātejā jayo vijayakālavit
jyotiṣām ayanaṃ siddhiḥ saṃdhir vigraha eva ca
56 śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī
vaiṇavī paṇavī tālī kālaḥ kālakaṭaṃkaṭaḥ
57 nakṣatravigraha vidhir guṇavṛddhir layo 'gamaḥ
prajāpatir diśā bāhur vibhāgaḥ sarvato mukhaḥ
58 vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ
meḍhrajo balacārī ca mahācārī stutas tathā
59 sarvatūrya ninādī ca sarvavādya parigrahaḥ
vyālarūpo bilāvāsī hemamālī taraṃgavit
60 tridaśas trikāladhṛk karma sarvabandhavimocanaḥ
bandhanas tvāsurendrāṇāṃ yudhi śatruvināśanaḥ
61 sāṃkhyaprasādo survāsāḥ sarvasādhu niṣevitaḥ
praskandano vibhāgaś ca atulyo yajñabhāgavit
62 sarvāvāsaḥ sarvacārī durvāsā vāsavo 'maraḥ
hemo hemakaro yajñaḥ sarvadhārī dharottamaḥ
63 lohitākṣo mahākṣaś ca vijayākṣo viśāradaḥ
saṃgraho nigrahaḥ kartā sarpacīranivāsanaḥ
64 mukhyo 'mukhyaś ca dehaś ca deharddhiḥ sarvakāmadaḥ
sarvakāmaprasādaś ca subalo balarūpadhṛk
65 ākāśanidhi rūpaś ca nipātī uragaḥ khagaḥ
raudrarūpo 'ṃśur ādityo vasu raśmiḥ suvarcasī
66 vasu vego mahāvego mano vego niśācaraḥ
sarvāvāsī śriyāvāsī upadeśa karo haraḥ
67 munir ātmapatir loke saṃbhojyaś ca sahasradaḥ
pakṣī ca pakṣirūpī ca atidīpto viśāṃ patiḥ
68 unmādo madanākāro arthārthakara romaśaḥ
vāmadevaś ca vāmaś ca prāgdakṣiṇyaś ca vāmanaḥ
69 siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ
bhikṣuś ca bhikṣurūpaś ca viṣāṇī mṛdur avyayaḥ
70 mahāseno viśākhaś ca ṣaṣṭibhāgo gavāṃ patiḥ
vajrahastaś ca viṣkambhī camū stambhana eva ca
71 ṛtur ṛtukaraḥ kālo madhur madhukaro 'calaḥ
vānaspatyo vājaseno nityam āśramapūjitaḥ
72 brahma cārī lokacārī sarvacārī sucāravit
īśāna īśvaraḥ kālo niśā cārī pināka dhṛk
73 nandīśvaraś ca nandī ca nandano nandivardhanaḥ
bhagasyākṣi nihantā ca kālo brahmavidāṃ varaḥ
74 caturmukho mahāliṅgaś cāru liṅgas tathaiva ca
liṅgādhyakṣaḥ surādhyakṣo lokādhyakṣo yugāvahaḥ
75 bījādhyakṣo bījakartā adhyātmānugato balaḥ
itihāsa karaḥ kalpo gautamo 'tha jaleśvaraḥ
76 dambho hy adambho vaidambho vaiśyo vaśya karaḥ kaviḥ
lokakartā paśupatir mahākartā mahauṣadhiḥ
77 akṣaraṃ paramaṃ brahmabalavāñ śakra eva ca
nītir hy anītiḥ śuddhātmā śuddho mānyo manogatiḥ
78 bahu prasādaḥ svapano darpaṇo 'tha tv amitrajit
vedakāraḥ sūtrakāro vidvān samaramardanaḥ
79 mahāmeghanivāsī ca mahāghoro vaśīkaraḥ
agnijvālo mahājvālo atidhūmro huto haviḥ
80 vṛṣaṇaḥ śaṃkaro nityo varcasvī dhūmaketanaḥ
nīlas tathāṅgalubdhaś ca śobhano niravagrahaḥ
81 svastidaḥ svasti bhāvaś ca bhāgī bhāgakaro laghuḥ
utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ paro yuvā
82 kṛṣṇa varṇaḥ suvarṇaś ca indriyaḥ sarvadehinām
mahāpādo mahāhasto mahākāyo mahāyaśāḥ
83 mahāmūrdhā mahāmātro mahānetro dig ālayaḥ
mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ
84 mahānāso mahākambur mahāgrīvaḥ śmaśānadhṛk
mahāvakṣā mahorasko antarātmā mṛgālayaḥ
85 lambano lambitauṣṭhaś ca mahāmāyaḥ payo nidhiḥ
mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ
86 mahānakho mahāromā mahākeśo mahājaṭaḥ
asapatnaḥ prasādaś ca pratyayo girisādhanaḥ
87 snehano 'snehanaś caiva ajitaś ca mahāmuniḥ
vṛkṣākāro vṛkṣaketur analo vāyuvāhanaḥ
88 maṇḍalīmerudhāmā ca devadānava darpahā
atharvaśīrṣaḥ sāmāsya ṛk sahasrāmitekṣaṇaḥ
89 yajuḥ pādabhujo guhyaḥ prakāśo jaṅgamas tathā
amoghārthaḥ prasādaś ca abhigamyaḥ sudarśanaḥ
90 upahāra priyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ
nābhir nandikaro bhāvyaḥ puṣkarastha patiḥ sthiraḥ
91 dvādaśas trāsanaś cādyo yajño yajñasamāhitaḥ
naktaṃ kaliś ca kālaś ca makaraḥ kālapūjitaḥ
92 sagaṇo gaṇakāraś ca bhūtabhāvana sārathiḥ
bhasma śāyī bhasma goptā bhasmabhūtas tarur gaṇaḥ
93 agaṇaś caiva lopaś ca mahātmā sarvapūjitaḥ
śaṅkus triśaṅkuḥ saṃpannaḥ śucir bhūtaniṣevitaḥ
94 āśramasthaḥ kapotastho viśvakarmā patir varaḥ
śākho viśākhas tāmrauṣṭho hy ambujālaḥ suniścayaḥ
95 kapilo 'kapilaḥ śūra āyuś caiva paro 'paraḥ
gandharvo hy aditis tārkṣyaḥ suvijñeyaḥ susārathiḥ
96 paraśvadhāyudho deva arthakārī subāndhavaḥ
tumbavīṇī mahākopa ūrdhvaretā jale śayaḥ
97 ugro vaṃśakaro vaṃśo vaṃśanādo hy aninditaḥ
sarvāṅgarūpo māyāvī suhṛdo hy anilo 'nalaḥ
98 bandhano bandhakartā ca subandhana vimocanaḥ
sa yajñāriḥ sa kāmārir mahādaṃṣṭro mahāyudhaḥ
99 bāhus tv aninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro 'dhanaḥ
amareśo mahādevo viśvadevaḥ surārihā
100 ahirbudhno nirṛtiś ca cekitāno haris tathā
ajaikapāc ca kāpālī triśaṅkur ajitaḥ śivaḥ
101 dhanvantarir dhūmaketuḥ skando vaiśravaṇas tathā
dhātā śakraś ca viṣṇuś ca mitras tvaṣṭā dhruvo dharaḥ
102 prabhāvaḥ sarvago vāyur aryamā savitā raviḥ
udagraś ca vidhātā ca māndhātā bhūtabhāvanaḥ
103 ratitīrthaś ca vāgmī ca sarvakāmaguṇāvahaḥ
padmagarbho mahāgarbhaś candra vaktro manoramaḥ
104 balavāṃś copaśāntaś ca purāṇaḥ puṇyacañcurī
kuru kartā kālarūpī kuru bhūto maheśvaraḥ
105 sarvāśayo darbhaśāyī sarveṣāṃ prāṇināṃ patiḥ
devadeva mukho 'saktaḥ sad asat sarvaratnavit
106 kailāsaśikharāvāsī himavad girisaṃśrayaḥ
kūlahārī kūlakartā bahu vidyo bahu pradaḥ
107 vaṇijo vardhano vṛkṣo nakulaś candanaś chadaḥ
sāragrīvo mahājatrur alolaś ca mahauṣadhaḥ
108 siddhārthakārī siddhārthaś cando vyākaraṇottaraḥ
siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ
109 prabhāvātmā jagat kālas tālo lokahitas taruḥ
sāraṅgo nava cakrāṅgaḥ ketumālī sabhāvanaḥ
110 bhūtālayo bhūtapatir ahorātram aninditaḥ
vāhitā sarvabhūtānāṃ nilayaś ca vibhur bhavaḥ
111 amoghaḥ saṃyato hy aśvo bhojanaḥ prāṇadhāraṇaḥ
dhṛtimān matimān dakṣaḥ satkṛtaś ca yugādhipaḥ
112 gopālir gopatir grāmo gocarma vasano haraḥ
hiraṇyabāhuś ca tathā guhā pālaḥ praveśinām
113 pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ
gandhāraś ca surālaś ca tapaḥ karma ratir dhanuḥ
114 mahāgīto mahānṛtto hy apsarogaṇasevitaḥ
mahāketur dhanur dhātur naikasānu caraś calaḥ
115 āvedanīya āveśaḥ sarvagandhasukhāvahaḥ
toraṇas tāraṇo vāyuḥ paridhāvati caikataḥ
116 saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ
nitya ātmasahāyaś ca devāsurapatiḥ patiḥ
117 yuktaś ca yuktabāhuś ca dvividhaś ca suparvaṇaḥ
āṣāḍhaś ca suṣāḍdhaś ca dhruvo hari haṇo haraḥ
118 vapur āvartamānebhyo vasu śreṣṭho mahāpathaḥ
śiro hārī vimarṣaś ca sarvalakṣaṇabhūṣitaḥ
119 akṣaś ca rathayogī ca sarvayogī mahābalaḥ
samāmnāyo 'samāmnāyas tīrthadevo mahāratha
120 nirjīvo jīvano mantraḥ śubhākṣo bahu karkaśaḥ
ratnaprabhūto raktāṅgo mahārṇava nipānavit
121 mūlo viśālo hy amṛto vyaktāvyaktas tapo nidhiḥ
ārohaṇo nirohaś ca śala hārī mahātapāḥ
122 senā kalpo mahākalpo yugāyuga karo hariḥ
yugarūpo mahārūpo pavano gahano nagaḥ
123 nyāyanirvāpaṇaḥ pādaḥ paṇḍito hy acalopamaḥ
bahu mālo mahāmālaḥ sumālo bahu locanaḥ
124 vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ
vṛṣabho vṛṣabhāṅkāṅgo maṇibilvo jaṭādharaḥ
125 indur visarvaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ
nivedanaḥ sudhā jātaḥ sugandhāro mahādhanuḥ
126 gandhamālī ca bhagavān utthānaḥ sarvakarmaṇām
manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ
127 taras tālī karas tālī ūrdhvasaṃhanano vahaḥ
chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahān
128 muṇḍo virūpo vikṛto daṇḍi muṇḍo vikurvaṇaḥ
haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt
129 sahasramūrdhā devendraḥ sarvadevamayo guruḥ
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt
130 pavitraṃ trimadhur mantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ
brahmadaṇḍavinirmātā śataghnīśatapāśadhṛk
131 padmagarbho mahāgarbho brahma garbho jalodbhavaḥ
gabhastir brahma kṛd brahmā brahmavid brāhmaṇo gatiḥ
132 anantarūpo naikātmā tigmatejāḥ svayambhuvaḥ
ūrdhvagātmā paśupatir vātaraṃhā manojavaḥ
133 candanī padmamālāgryaḥ surabhyuttaraṇo naraḥ
karṇikāramahāsragvī nīlamauliḥ pinākadhṛk
134 umāpatir umā kānto jāhnavī dhṛg umā dhavaḥ
varo varāho varado vareśaḥ sumahāsvanaḥ
135 mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ
prītātmā prayatātmā ca saṃyatātmā pradhānadhṛk
136 sarvapārśva sutas tārkṣyo dharmasādhāraṇo varaḥ
carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvaraḥ
137 sādhyarṣir vasur ādityo vivasvān savitā mṛḍaḥ
vyāsaḥ sarvasya saṃkṣepo vistaraḥ paryayo nayaḥ
138 ṛtuḥ saṃvatsaro māsaḥ pakṣaḥ saṃkhyā samāpanaḥ
kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapāḥ kṣaṇāḥ
139 viśvakṣetraṃ prajā bījaṃ liṅgam ādyas tv aninditaḥ
sadasad vyaktam avyaktaṃ pitā mātā pitāmahaḥ
140 svargadvāraṃ prajā dvāraṃ mokṣadvāraṃ triviṣṭapam
nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parā gatiḥ
141 devāsuravinirmātā devāsuraparāyaṇaḥ
devāsuragurur devo devāsuranamaskṛtaḥ
142 devāsuramahāmātro devāsuragaṇāśrayaḥ
devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ
143 devātidevo devarṣir devāsuravarapradaḥ
devāsureśvaro devo devāsuramaheśvaraḥ
144 sarvadevamayo 'cintyo devatātmātma saṃbhavaḥ
udbhidas trikramo vaidyo virajo virajo'mbaraḥ
145 īḍyo hastī suravyāghro deva siṃho nararṣabhaḥ
vibudhāgra varaḥ śreṣṭhaḥ sarvadevottamottamaḥ
146 prayuktaḥ śobhano varja īśānaḥ prabhur avyayaḥ
guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ
147 śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ
148 lalāṭākṣo viśvadeho hariṇo brahma varcasaḥ
sthāvarāṇāṃ patiś caiva niyamendriyavardhanaḥ
149 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyavrataḥ śuciḥ
vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ
150 vimukto muktatejāś ca śrīmāñ śrīvardhano jagat
yathā pradhānaṃ bhagavān iti bhaktyā stuto mayā
151 yaṃ na brahmādayo devā viduryaṃ na maharṣayaḥ
taṃ stavyam arcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim
152 bhaktim eva puraskṛtya mayā yajñapatir vasuḥ
tato 'bhyanujñāṃ prāpyaiva stuto matimatāṃ varaḥ
153 śivam ebhiḥ stuvan devaṃ nāmabhiḥ puṣṭivardhanaiḥ
nityayuktaḥ śucir bhūtvā prāpnoty ātmānam ātmanā
154 etad dhi paramaṃ brahma svayaṃ gītaṃ svayambhuvā
ṛṣayaś caiva devāś ca stuvanty etena tatparam
155 stūyamāno mahādevaḥ prīyate cātmanāmabhiḥ
bhaktānukampī bhagavān ātmasaṃsthān karoti tān
156 tathaiva ca manuṣyeṣu ye manuṣyāḥ pradhānataḥ
āstikāḥ śraddadhānāś ca bahubhir janmabhiḥ stavaiḥ
157 jāgrataś ca svapantaś ca vrajantaḥ pathi saṃsthitāḥ
stuvanti stūyamānāś ca tuṣyanti ca ramanti ca
janma koṭisahasreṣu nānā saṃsārayoniṣu
158 jantor viśuddhapāpasya bhave bhaktiḥ prajāyate
utpannā ca bhave bhaktir ananyā sarvabhāvataḥ
159 kāraṇaṃ bhāvitaṃ tasya sarvamuktasya sarvataḥ
etad deveṣu duṣprāpaṃ manuṣyeṣu na labhyate
160 nirvighnā niścalā rudre bhaktir avyabhicāriṇī
tasyaiva ca prasādena bhaktir utpadyate nṛṇām
yayā yānti parāṃ siddhiṃ tadbhāvagatacetasaḥ
161 ye sarvabhāvopagatāḥ paratvenābhavan narāḥ
prapanna vatsalo devaḥ saṃsārāt tān samuddharet
162 evam anye na kurvanti devāḥ saṃsāramocanam
manuṣyāṇāṃ mahādevād anyatrāpi tapobalāt
163 iti tenendra kalpena bhagavān sad asat patiḥ
kṛtti vāsāḥ stutaḥ kṛṣṇa taṇḍinā śuddhabuddhinā
164 stavam etaṃ bhagavato brahmā svayam adhārayat
brahmā provāca śakrāya śakraḥ provāca mṛtyave
165 mṛtyuḥ provāca rudrāṇāṃ rudrebhyas taṇḍim āgamat
mahatā tapasā prāptas taṇḍinā brahma sadmani
166 taṇḍiḥ provāca śukrāya gautamāyāha bhārgavaḥ
vaivasvatāya manave gautamaḥ prāha mādhava
167 nārāyaṇāya sādhyāya manur iṣṭāya dhīmate
yamāya prāha bhagavān sādhyo nārāyaṇo 'cyutaḥ
168 nāciketāya bhagavān āha vaivasvato yamaḥ
mārkaṇḍeyāya vārṣṇeya nāciketo 'bhyabhāṣata
169 mārkaṇḍeyān mayā prāptaṃ niyamena janārdana
tavāpy aham amitraghna stavaṃ dadmy adya viśrutam
svargyam ārogyam āyuṣyaṃ dhanyaṃ balyaṃ tathaiva ca
170 na tasya vighnaṃ kurvanti dānavā yakṣarākṣasāḥ
piśācā yātudhānāś ca guhyakā bhujagā api
171 yaḥ paṭheta śucir bhūtvā brahma cārī jitendriyaḥ
abhagna yogo varṣaṃ tu so 'śvamedha phalaṃ labhet

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1711 of 2013 Book 85% ~18 min left