To view the original Internet Sacred Text Archive, visit archive.sacred-texts.com
Book 13: Chapter 14
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 13: Chapter 14

The Mahabharata in Sanskrit

Book 13
Chapter 14

1 [य]
पितामहेशाय विभॊ नामान्य आचक्ष्व शम्भवे
बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः
2 [भ]
सुरासुरगुरॊ देव विष्णॊ तवं वक्तुम अर्हसि
शिवाय विश्वरूपाय यन मां पृच्छद युधिष्ठिरः
3 नाम्नां सहस्रं देवस्य तण्डिना बरह्मयॊनिना
निवेदितं बरह्मलॊके बरह्मणॊ यत पुराभवत
4 दवैपायनप्रभृतयस तथैवेमे तपॊधनाः
ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस तव
5 धरुवाय नन्दिने हॊत्रे गॊप्त्रे विश्वसृजे ऽगनये
महाभाग्यं विभॊ बरूहि मुण्डिने ऽथ कपर्दिने
6 [वासुदेव]
न गतिः कर्मणां शक्या वेत्तुम ईशस्य तत्त्वतः
7 हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः
न विदुर यस्य निधनम आधिं वा सूक्ष्मदर्शिनः
स कथं नरमात्रेण शक्यॊ जञातुं सतां गतिः
8 तस्याहम असुरघ्नस्य कांश चिद भगवतॊ गुणान
भवतां कीर्तयिष्यामि वरतेशाय यथातथम
9 [व]
एवम उक्त्वा तु भगवान गुणांस तस्य महात्मनः
उपस्पृश्य शुचिर भूवा कथयाम आस धीमतः
10 [व]
शुश्रूषध्वं बराह्मणेन्द्रास तवं च तात युधिष्ठिर
तवं चापगेय नामानि निशामय जगत्पतेः
11 यद अवाप्तं च मे पूर्वं साम्ब हेतॊः सुदुष्करम
यथा च भगवान दृष्टॊ मया पूर्वं समाधिना
12 शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता
अतीते दवादशे वर्षे जाम्बवत्य अब्रवीद धि माम
13 परद्युम्न चारुदेष्णादीन रुक्मिण्या वीक्ष्य पुत्रकान
पुत्रार्थिनी माम उपेत्य वाक्यम आह युधिष्ठिर
14 शूरं बलवतां शरेष्ठं कान्त रूपम अलक्मषम
आत्मतुल्यं मम सुतं परयच्छाच्युत माचिरम
15 न हि ते ऽपराप्यम अस्तीह तरिषु लॊकेषु किं चन
लॊकान सृजेस तवम अपरान इच्छन यदुकुलॊद्वह
16 तवया दवादश वर्षाणि वायुभूतेन शुष्यता
आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः
17 चारुदेष्णः सुचारुश च चारुवेषॊ यशॊधरः
चारु शवराश चारु यशाः परद्युम्नः शम्भुर एव च
18 यथा ते जनिताः पुत्रा रुक्मिण्याश चारु विक्रमाः
तथा ममापि तनयं परयच्छ बलशालिनम
19 इत्य एवं चॊदितॊ देव्या ताम अवॊचं सुमध्यमाम
अनुजानीहि मां राज्ञि करिष्ये वचनं तव
सा च माम अब्रवीद गच्छ विजयाय शिवाय च
20 बरह्मा शिवः काश्यपश च नद्यॊ देवा मनॊऽनुगाः
कषेत्रौषध्यॊ यज्ञवाहाच छन्दांस्य ऋषिगणा धरा
21 समुद्रा दक्षिणा सतॊभा ऋक्षाणि पितरॊ गरहाः
देवपत्न्यॊ देवकन्या देव मातर एव च
22 मन्वन्तराणि गावश च चन्द्रमाः सविता हरिः
सावित्री बरह्म विद्या च ऋतवॊ वत्सराः कषपाः
23 कषणा लवा मुहूर्ताश च निमेषा युगपर्ययाः
रक्षन्तु सर्वत्रगतं तवां यादव सुखावहम
अरिष्टं गच्छ पन्थानम अप्रमत्तॊ भवानघ
24 एवं कृतस्वस्त्ययनस तयाहं; ताम अभ्यनुज्ञाय कपीन्द्र पुत्रीम
पितुः समीपे नरसत्तमस्य; मातुश च राज्ञश च तथाहुकस्य
25 तम अर्थम आवेद्य यद अब्रवीन मां; विद्याधरेन्द्रस्य सुता भृशार्ता
तान अभ्यनुज्ञाय तदाति दुःखाद; गदं तथैवातिबलं च रामम
26 पराप्यानुनां गुरुजनाद अहं तार्क्ष्यम अचिन्तयम
सॊ ऽवहद धिमवन्तं मां पराप्य चैनं वयसर्जयम
27 तत्राहम अद्भुतान भावान अपश्यं गिरिसत्तमे
कषेत्रं च तपसां शरेष्ठं पश्याम्य आश्रमम उत्तमम
28 दिव्यं वैयाघ्रपद्यस्य उपमन्यॊर महात्मनः
पुजितं देवगन्धर्वैर बराह्म्या लक्ष्म्या समन्वितम
29 धव ककुभ कदम्बनारिकेलैः; कुर बककेतकजम्बुपाटलाभिः
वट वरुणक वत्स नाभबिल्वैः; सरलकपित्थ परियालसाल तालैः
30 बदरी कुन्दपुन्नागैर अशॊकाम्रातिमुक्तकैः
भल्लातकैर मधूकैश च चम्पकैः पनसैस तथा
31 वन्यैर बहुविधैर वृक्षैः फलपुष्पप्रदैर युतम
पुष्पगुल्म लताकीर्णं कदली षण्डशॊभितम
32 नानाशकुनिसंभॊज्यैः फलैर वृक्षैर अलं कृतम
यथास्थानविनिक्षिप्तैर भूषितं वनराजिभिः
33 रुरुवारणशार्दूल सिंहद्वीपिसमाकुलम
कुरङ्ग बर्हिणाकीर्णं मार्जारभुजगावृतम
पूगैश च मृगजातीनां महिषर्क्ष निषेवितम
34 नानापुष्परजॊ मिश्रॊ गजदानाधिवासितः
दिव्यस्त्री गीतबहुलॊ मारुतॊ ऽतर सुखॊ ववौ
35 धारा निनादैर विहगप्रणादैः; शुभैस तथा बृंहितैः कुञ्जराणाम
गीतैस तथा किं नराणाम उदारैः; शुभैः सवनैः सामगानां च वीर
36 अचिन्त्यं मनसाप्य अन्यैः सरॊभिः समलं कृतम
विशालैश चाग्निशरणैर भूषितं कुश संवृतम
37 विभूषितं पुण्यपवित्र तॊयया; सदा च जुष्पं नृप जह्नुकन्यया
महात्मभिर धर्मभृतां वरिष्ठैर; महर्षिभिर भूषितम अग्निकल्पैः
38 वाय्वाहारैर अम्बुपैर जप्यनित्यैः; संप्रक्षालैर यतिभिर धयाननित्यैः
धूमाशनैर ऊष्मपैः कषीरपैश च; विभूषितं बराह्मणेन्द्रैः समन्तात
39 गॊचारिणॊ ऽथाश्म कुट्टा दन्तॊलूखलिनस तथा
मरीचिपाः फेनपाश च तथैव मृगचारिणः
40 सुदुःखान नियमांस तांस तान वहतः सुतपॊऽनवितान
पश्यन उत्फुल्लनयनः परवेष्टुम उपचक्रमे
41 सुपूजितं देवगणैर महात्मभिः; शिवादिभिर भारत पुण्यकर्मभिः
रराज तच चाश्रममण्डलं सदा; दिवीव राजन रविमण्डलं यथा
42 करीडन्ति सर्पैर नकुला मृगैर वयाघ्राश च मित्रवत
परभावाद दीप्ततपसः संनिकर्ष गुणान्विताः
43 तत्राश्रमपदे शरेष्ठे सर्वभूतमनॊरमे
सेविते दविज शार्दूलैर वेदवेदाङ्गपारगैः
44 नाना नियमविख्यातैर ऋषिभिश च महात्मभिः
परविशन्न एव चापश्यं जटाचीरधरं परभुम
45 तेजसा तपसा चैव दीप्यमानं यथानलम
शिष्यमध्य गतं शान्तं युवानं बराह्मणर्षभम
शिरसा वन्दमानं माम उपमन्युर अभाषत
46 सवागतं पुण्डरीकाक्ष सफलानि तपांसि नः
यत पूज्यः पूजयसि नॊ दरष्टव्यॊ दरष्टुम इच्छसि
47 तम अहं पराञ्जलिर भूत्वा मृगपक्षिष्व अथाग्निषु
धर्मे च शिष्यवर्गे च समपृच्छम अनामयम
48 ततॊ मां भगवान आह साम्ना परमवल्गुना
लप्स्यसे तनयं कृष्ण आत्मतुल्यम असंशयम
49 तपः सुमहद आस्थाय तॊषयेशानम ईश्वरम
इह देवः स पत्नीकः समाक्रीडत्य अधिक्षज
50 इहैव देवता शरेष्ठं देवाः सर्षिगणा पुरा
तपसा बरह्मचर्येण सत्येन च दमेन च
तॊषयित्वा शुभान कामान पराप्नुवंस ते जनार्दन
51 तेजसां तपसां चैव निधिः स भगवान इह
शुभाशुभान्वितान भावान विसृजन संक्षिपन्न अपि
आस्ते देव्या सहाचिन्त्यॊ यं परार्थयसि शत्रुहन
52 हिरण्यकशिपुर यॊ ऽभूद दानवॊ मेरुकम्पनः
तेन सर्वामरैश्वर्यं शर्वात पराप्तं समार्बुदम
53 तस्यैव पुत्र परवरॊ मन्दरॊ नाम विश्रुतः
महादेववराच छक्रं वर्षार्बुदम अयॊधयत
54 विष्णॊश चक्रं च तद घॊरं वज्रम आखण्डलस्य च
शीर्णं पुराभवत तात गरहस्याङ्गेषु केशव
55 अर्द्यमानाश च विबुधा गरहेण सुबलीयसा
शिव दत्तवराञ जघ्नुर असुरेन्द्रान सुरा भृशम
56 तुष्टॊ विद्युत्प्रभस्यापि तरिलॊकेश्वरताम अदात
शतं वर्षसहस्राणां सर्वलॊकेश्वरॊ ऽभवत
ममैवानुचरॊ नित्यं भवितासीति चाब्रवीत
57 तथा पुत्रसहस्राणाम अयुतं च ददौ परभुः
कुश दवीपं च स ददौ राज्येन भगवान अजः
58 तथा शतमुखॊ नाम धात्रा सृष्टॊ महासुरः
येन वर्षशतं साग्रम आत्ममांसैर हुतॊ ऽनलः
तं पराह भगवांस तुष्टः किं करॊमीति शंकरः
59 तं वै शतमुखः पराह यॊगॊ भवतु मे ऽदभुतः
बलं च दैवतश्रेष्ठ शाश्वतं संम्प्रयच्छ मे
60 सवायम्भुवः करतुश चापि पुत्रार्थम अभवत पुरा
आविश्य यॊगेनात्मानं तरीणि वर्षशतान्य अपि
61 तस्य देवॊ ऽददत पुत्रान सहस्रं करतुसंमितान
यॊगेश्वरं देव गीतं वेत्थ कृष्ण न संशयः
62 वालखिल्या मघवता अवज्ञाताः पुरा किल
तैः करुद्धैर भगवान रुद्रस तपसा तॊषितॊ हय अभूत
63 तांश चापि दैवतश्रेष्ठः पराह परीतॊ जगत्पतिः
सुपर्णं सॊमहर्तारं तपसॊत्पादयिष्यथ
64 महादेवस्य रॊषाच च आपॊ नष्टाः पुराभवन
तांश च सप्त कपालेन देवैर अन्याः परवर्तिताः
65 अत्रेर भार्यापि भर्तारं संत्यज्य बरह्मवादिनी
नाहं तस्य मुनेर भूयॊ वशगा सयां कथं चन
इत्य उक्त्वा सा महादेवम अगच्छच छरणं किल
66 निर आहारा भयाद अत्रेस तरिणि वर्षशतान्य अपि
अशेत मुसलेष्व एव परसादार्थं भवस्य सा
67 ताम अब्रवीद धसन देवॊ भविता वै सुतस तव
वंशे तवैव नाम्ना तु खयातिं यास्यति चेप्सिताम
68 शाकल्यः संशितात्मा वै नववर्षशतान्य अपि
आराधयाम आस भवं मनॊ यज्ञेन केशव
69 तं चाह भगवांस तुष्टॊ गरन्थ कारॊ भविष्यसि
वत्साक्षया च ते कीर्तिस तरैलॊक्ये वै भविष्यति
अक्षयं च कुलं ते ऽसतु महर्षिभिर अलं कृतम
70 सावर्णिश चापि विख्यात ऋषिर आसीत कृते युगे
इह तेन तपस तप्तं षष्टिं वर्षशतान्य अथ
71 तम आह भगवान रुद्रः साक्षात तुष्टॊ ऽसमि ते ऽनघ
गरन्थ कृल लॊकविख्यातॊ भवितास्य अजरामरः
72 मयापि च यथादृष्टॊ देवदेवः पुरा विभुः
साक्षात पशुपतिस तात तच चापि शृणु माधव
73 यदर्थं च महादेवः परयतेन मया पुरा
आराधितॊ महातेजास तच चापि शृणु विस्तरम
74 यद अवाप्तं च मे पूर्वं देवदेवान महेश्वरात
तत सर्वम अखिलेनाद्य कथयिष्यामि ते ऽनघ
75 पुरा कृतयुगे तात ऋषिर आसीन महायशाः
वयाघ्रपाद इति खयातॊ वेदवेदाङ्गपारगः
तस्याहम अभवं पुत्रॊ धौम्यश चापि ममानुजः
76 कस्य चित तव अथ कालस्य धौम्येन सहमाधव
आगच्छम आश्रमं करीडन मुनीनां भावितात्मनाम
77 तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी
लक्षितं च मया कषीरं सवादुतॊ हय अमृतॊपमम
78 ततः पिष्टं समालॊड्य तॊयेन सहमाधव
आवयॊः कषीरम इत्य एव पानार्थम उपनीयते
79 अथ गव्यं पयस तात कदा चित पराशितं मया
ततः पिष्ट रसं तात न मे परीतिम उदावहत
80 ततॊ ऽहम अब्रुवं बाल्याज जननीम आत्मनस तदा
कषीरौदन समायुक्तं भॊजनं च परयच्छ मे
81 ततॊ माम अब्रवीन माता दुःखशॊकसमन्विता
पुत्रस्नेहात परिष्वज्य मूर्ध्नि चाघ्राय माधव
82 कुतः कषीरॊदनं वत्स मुनीनां भावितात्मनाम
वने निवसतां नित्यं कन्दमूलफलाशिनाम
83 अप्रसाद्य विरूपाक्षं वरदं सथाणुम अव्ययम
कुतः कषीरॊदनं वत्स सुखानि वसनानि च
84 तं परपद्य सदा वत्स सर्वभावेन शंकरम
तत्प्रसादाच च कामेभ्यः फलं पराप्स्यसि पुत्रक
85 जनन्यास तद वचः शरुत्वा तदा परभृति शत्रुहन
मम भक्तिर महादेवे नैष्ठिकी समपद्यत
86 ततॊ ऽहं तप आस्थाय तॊषयाम आस शंकरम
दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः
87 एकं वर्षशतं चैव फलाहारस तदाभवम
दवितीयं शीर्णपर्णाशी तृतीयं चाम्बुभॊजनः
शतानि सप्त चैवाहं वायुभक्षस तदाभवम
88 ततः परीतॊ महादेवः सर्वलॊकेश्वरः परभुः
शक्र रूपं स कृत्वा तु सर्वैर देवगणैर वृतः
सहस्राक्षस तदा भूत्वा वर्ज पाणिर महायशाः
89 सुधावदातं रक्ताक्षं सतब्धकर्णं मदॊत्कटम
आवेष्टित करं रौद्रं चतुर्दंष्ट्रं महागजम
90 समास्थितश च भगवान दीप्यमानः सवतेजसा
आजगाम किरीटी तु हारकेयूरभूषितः
91 पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि
सेव्यमानॊ ऽपसरॊभिश च दिव्यगन्धर्वनादितः
92 ततॊ माम आह देवेन्द्रः परीतस ते ऽहं दविजॊत्तम
वरं वृणीष्व मत्तस तव यत ते मनसि वर्तते
93 शक्रस्य तु वचः शरुत्वा नाहं परीतमनाभवम
अब्रुवं च तदा कृष्ण देवराजम इदं वचः
94 नाहं तवत्तॊ वरं काङ्क्षे नान्यस्माद अपि दैवतात
महादेवाद ऋते सौम्य सत्यम एतद बरवीमि ते
95 पशुपतिवचनाद भवामि सद्यः; कृमिर अथ वा तरुर अप्य अनेकशाखः
अपशु पतिवरप्रसादजा मे; तरिभुवन राज्यविभूतिर अप्य अनिष्टा
96 अपि कीटः पतंगॊ वा भवेयं शंकराज्ञया
न तु शक्र तवया दत्तं तरैलॊक्यम अपि कामये
97 यावच छशाङ्क शकलामल बद्धमौलिर; न परीयते पशुपतिर भगवान ममेशः
तावज जरामरणजन्म शताभिघातैर; दुःखानि देहविहितानि समुद्वहामि
98 दिवसकर शशाङ्कवह्नि दीप्तं; तरिभुवन सारम अपारम आद्यम एकम
अजरम अमरम अप्रसाद्य रुद्रं; जगति पुमान इह कॊ लभेत शान्तिम
99 [षक्र]
कः पुनस तव हेतुर वै ईशे कारणकारणे
येन देवाद ऋते ऽनयस्मात परसादं नाभिकाङ्क्षसि
100 [उप]
हेतुभिर वा किम अन्यैस ते ईशः कारणकारणम
न शुश्रुम यद अन्यस्य लिङ्गम अभ्यर्च्यते सुरैः
101 कस्यान्यस्य सुरैः सर्वैर लिङ्गं मुक्त्वा महेश्वरम
अर्च्यते ऽरचित पूर्वं वा बरूहि यद्य अस्ति ते शरुतिः
102 यस्य बरह्मा च विष्णुश च तवं चापि सह दैवतैः
अर्चयध्वं सदा लिङ्गं तस्माच छरेष्ठ तमॊ हि सः
103 तस्माद वरम अहं काङ्क्षे निधनं वापि कौशिक
गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन
104 कामम एष वरॊ मे ऽसतु शापॊ वापि महेश्वरात
न चान्यां देवतां काङ्क्षे सर्वकामफलान्य अपि
105 एवम उक्त्वा तु देवेन्द्रं दुःखाद आकुलितेन्द्रियः
न परसीदति मे रुद्रः किम एतद इति चिन्तयन
अथापश्यं कषणेनैव तम एवैरावतं पुनः
106 हंसकुन्देन्दु सदृशं मृणालकुमुदप्रभम
वृषरूपधरं साक्षात कषीरॊदम इव सागरम
107 कृष्ण पुच्छं महाकायं मधुपिङ्गल लॊचनम
जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम
108 रक्ताक्षं सुमहानासं सुकर्णं सुकटी तटम
सुपार्श्वं विपुर सकन्धं सुरूपं चारुदर्शनम
109 ककुदं तस्य चाभाति सकन्धम आपूर्य विष्ठितम
तुषारगिरिकूटाभं सिताभ्रशिखरॊपमम
110 तम आस्थितश च भगवान देवदेवः सहॊमया
अशॊभत महादेवः पौर्णमास्याम इवॊडुराट
111 तस्य तेजॊ भवॊ वह्निः स मेघः सतनयित्नुमान
सहस्रम इव सूर्याणां सर्वम आवृत्य तिष्ठति
112 ईश्वरः सुमहातेजाः संवर्तक इवानलः
युगान्ते सर्वभूतानि दिधक्षुर इव चॊद्यतः
113 तेजसा तु तदा वयाप्ते दुर्निरीक्ष्ये समन्ततः
पुनर उद्विग्नहृदयः किम एतद इति चिन्तयम
114 मुहूर्तम इव तत तेजॊ वयाप्य सर्वा दिशॊ दिश
परशान्तं च कषणेनैव देवदेवस्य मायया
115 अथापश्यं सथितं सथाणुं भगवन्तं महेश्वरम
सौरभेय गतं सौम्यं विधूमम इव पावकम
सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम
116 नीलकन्हं महात्मानम असक्तं तेजसां निधिम
अष्टादश भुजं सथाणुं सर्वाभरणभूषितम
117 शुक्लाम्बर धरं देवं शुक्लमाल्यानुलेपनम
शुक्लध्वजम अनाधृष्यं शुक्लयज्ञॊपवीतिनम
118 गायद्भिर नृत्यमानैश च उत्पतद्भिर इतस ततः
वृत्तं पारिषदैर दिव्यैर आत्मतुल्यपराक्रमैः
119 बालेन्दु मुकुटं पाण्डुं शरच चन्द्रम इवॊदितम
तरिभिर नेत्रैः कृतॊद्द्यॊतं तरिभिः सूर्यैर इवॊदितैः
120 अशॊभत च देवस्य माला गात्रे सितप्रभे
जातरूपमयैः पद्मैर गरथिता रत्नभूषिता
121 मूर्तिमन्ति तथास्त्राणि सर्वतेजॊमयानि च
मया दृष्टानि गॊविन्द भवस्यामित तेजसः
122 इन्द्रायुधसहस्राभं धनुस तस्य महात्मनः
पिनाकम इति विख्यातं स च वै पन्नगॊ महान
123 सप्त शीर्षॊ महाकायस तीक्ष्णदंष्ट्रॊ विषॊल्बणः
जया वेष्टितमहाग्रीवः सथितः पुरुषविग्रहः
124 शरश च सूर्यसंकाशः कालानलसमद्युतिः
यत तद अस्त्रं महाघॊरं दिव्यं पाशुपतं महत
125 अद्वितीयम अनिर्देश्यं सर्वभूतभयावहम
स सफुलिङ्गं महाकायं विसृजन्तम इवानलम
126 एकपादं महादंष्ट्रं सहस्रशिरसॊदरम
सहस्रभुज जिह्वाक्षम उद्गिरन्तम इवानलम
127 बराह्मान नारायणाद ऐन्द्राद आग्नेयाद अपि वारुणात
यद विशिष्टं महाबाहॊ सर्वशस्त्रविघातनम
128 येन तत तरिपुरं दग्ध्वा कषणाद भस्मीकृतं पुरा
शरेणैकेन गॊविन्द महादेवेन लीलया
129 निर्ददाह जगत कृत्स्नं तरैलॊक्यं स चराचरम
महेश्वर भुजॊत्सृष्टं निमेषार्धान न संशयः
130 नावध्यॊ यस्य लॊके ऽसमिन बरह्म विष्णुसुरेष्व अपि
तद अहं दृष्टवांस तात आश्चर्याद भूतम उत्तमम
131 गुह्यम अस्त्रं परं चापि तत्तुल्याधिकम एव वा
यत तच छूलम इति खयातं सर्वलॊकेषु शूलिनः
132 दारयेद यन महीं कृत्स्नां शॊषयेद वा महॊदधिम
संहरेद वा जगत कृत्स्नं विसृष्टं शूलपाणिना
133 यौवनाश्वॊ हतॊ येन मांधाता सबलः पुरा
चक्रवर्ती महातेजास तरिलॊकविजयी नृपः
134 महाबलॊ महावीर्यः शक्रतुल्यपराक्रमः
करस्थेनैव गॊविन्द लवणस्येह रक्षसः
135 तच छूलम अतितीक्ष्णाग्रं सुभीमं लॊमहर्षणम
तरिशिखां भरुकुटीं कृत्वा तर्जमानम इव सथितम
136 विधूमं सार्चिसं कृष्णं कालसूर्यम इवॊदितम
सर्पहस्तम अनिर्देश्यं पाशहस्तम इवान्तकम
दृष्टवान अस्मि गॊविन्द तद अस्त्रं रुद्र संनिधौ
137 परशुस तीक्ष्णधारश च दत्तॊ रामस्य यः पुरा
महादेवेन तुष्टेन कषत्रियाणां कषयं करः
कार्तवीर्यॊ हतॊ येन चक्रवर्ती महामृधे
138 तरिः सप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता
जामदग्न्येन गॊविन्द रामेणाक्लिष्टकर्मणा
139 दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्र वेष्टितः
अभवच छूलिनॊ ऽभयाशे दीप्तवह्नि शिखॊपमः
140 असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः
परधान्यतॊ मयैतानि कीर्तितानि तवानघ
141 सव्यदेशे तु देवस्य बरह्मा लॊकपितामहः
दिव्यं विमानम आस्थाय हंसयुक्तं मनॊजवम
142 वामपार्श्व गतश चैव तथा नारायणः सथितः
वैनतेयं समास्थाय शङ्खचक्रगदाधरः
143 सकन्दॊ मयूरम आस्थाय सथितॊ देव्याः समीपतः
शक्तिं कन्हे समाधाय दवितीय इव पावकः
144 पुरस्ताच चैव देवस्य नन्दिं पश्याम्य अवस्थितम
शूलं विष्टभ्य तिष्ठन्तं दवितीयम इव शंकरम
145 सवायम्भुवाद्या मनवॊ भृग्वाद्या ऋषयस तथा
शक्राद्या देवताश चैव सर्व एव समभ्ययुः
146 ते ऽभिवाद्य महात्मानं परिवार्य समन्ततः
अस्तुवन विविधैः सतॊत्रैर महादेवं सुरास तदा
147 बरह्मा भवं तदा सतुन्वन रथन्तरम उदीरयन
जयेष्ठसाम्ना च देवेशं जगौ नारायणस तदा
गृणञ शक्रः परं बरह्म शतरुद्रीयम उत्तमम
148 बरह्मा नारायणश चैव देवराजश च कौशिकः
अशॊभन्त महात्मानस तरयस तरय इवाग्नयः
149 तेषां मध्यगतॊ देवॊ रराज भगवाञ शिवः
शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान
ततॊ ऽहम अस्तुवं देवं सतवेनानेन सुव्रतम
150 नमॊ देवाधिदेवाय महादेवाय वै नमः
शक्राय शक्र रूपाय शक्र वेषधराय च
151 नमस ते वर्ज हस्ताय पिङ्गलायारुणाय च
पिनाक पाणये नित्यं खड्गशूलधराय च
152 नमस ते कृष्ण वासाय कृष्ण कुञ्चितमूर्धजे
कृष्णाजिनॊत्तरीयाय कृष्णाष्टम इतराय च
153 शुक्लवर्णाय शुक्लाय शुक्लाम्बर धराय च
शुक्लभस्मावलिप्ताय शुक्लकर्म रताय च
154 तवं बरह्मा सर्वदेवानां रुद्राणां नीललॊहितः
आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यसे
155 ऋषभस तवं पवित्राणां यॊगिनां निष्कलः शिवः
आश्रमाणां गृहस्थस तवम ईश्वराणां महेश्वरः
कुबेरः सर्वयक्षाणां करतूनां विष्णुर उच्यसे
156 पर्वतानां महामेरुर नक्षत्राणां च चन्द्रमाः
वसिष्ठस तवम ऋषीणां च गरहाणां सूर्य उच्यसे
157 आरण्यानां पशूनां च सिंहस तवं परमेश्वरः
गराह्याणां गॊवृषश चासि भगवाँल लॊकपूजितः
158 आदित्यानां भवान विष्णुर वसूनां चैव पावकः
पक्षिणां वैनतेयश च अनन्तॊ भुजगेषु च
159 सामवेदश च वेदानां यजुषां शतरुद्रियम
सनत्कुमारॊ यॊगीनां सांख्यानां कपिलॊ हय असि
160 शक्रॊ ऽसि मरुतां देव पितॄणां धर्मराड असि
बरह्मलॊकश च लॊकानां गतीनां मॊक्ष उच्यसे
161 कषीरॊदः सागराणां च शैलानां हिमवान गिरिः
वर्णानां बराह्मणश चासि विप्राणां दीक्षितॊ दविजः
आदिस तवम असि लॊकानां संहर्ता काल एव च
162 यच चान्यद अपि लॊकेषु सत्त्वं तेजॊ ऽधिकं समृतम
तत सर्वं भगवान एव इति मे निश्चिता मतिः
163 नमस ते भगवन देव नमस ते भक्त वत्सल
यॊगेश्वर नमस ते ऽसतु नमस ते विश्वसंभव
164 परसीद मम भक्तस्य दीनस्य कृपणस्य च
अनैश्वर्येण युक्तस्य गतिर भव सनातन
165 यं चापराधं कृतवान अज्ञानात परमेश्वर
मद्भक्त इति देवेश तत सर्वं कषन्तुम अर्हसि
166 मॊहितश चास्मि देवेश तुभ्यं रूपविपर्ययात
तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर
167 एवं सतुत्वाहम ईशानं पाद्यम अर्घ्यं च भक्तितः
कृताञ्जलिपुटॊ भूत्वा सर्वं तस्मै नयवेदयम
168 ततः शीलाम्बुसंयुक्ता दिव्यगन्धसमन्विता
पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि
169 दुन्दुभिश च ततॊ दिव्यस ताडितॊ देवकिंकरैः
ववौ च मारुतः पुण्यः शुचि गन्धः सुखावहः
170 ततः परीतॊ महादेवः सपत्नीकॊ वृषध्वजः
अब्रवीत तरिदशांस तत्र हर्षयन्न इव मां तदा
171 पश्यध्वं तरिदशाः सर्वे उपमन्यॊर महात्मनः
मयि भक्तिं परां दिव्याम एकभावाद अवस्थिताम
172 एवम उक्तास ततः कृष्ण सुरास ते शूलपाणिना
ऊचुः पराञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम
173 भगवन देवदेवेश लॊकनाथ जगत्पते
लभतां सर्वकामेभ्यः फलं तवत्तॊ दविजॊत्तमः
174 एवम उक्तस ततः शर्वः सुरैर बरह्मादिभिस तथा
आह मां भगवान ईशः परहसन्न इव शंकरः
175 वत्सॊपमन्यॊ परीतॊ ऽसमि पश्य मां मुनिपुंगव
दृढभक्तॊ ऽसि विप्रर्षे मया जिज्ञासितॊ हय असि
176 अनया चैव भक्त्या ते अत्यर्थं परीतिमान अहम
तस्मात सर्वान ददाम्य अद्य कामांस तव यथेप्शितान
177 एवम उक्तस्य चैवाथ महादेवेन मे विभॊ
हर्षाद अश्रूण्य अवर्तन्त लॊम हर्षश च जायते
178 अब्रुवं च तदा देवं हर्षगद्गदया गिरा
जानुभ्याम अवनिं गत्वा परणम्य च पुनः पुनः
179 अद्य जातॊ हय अहं देव अद्य मे सफलं तपः
यन मे साक्षान महादेवः परसन्नस तिष्ठते ऽगरतः
180 यं न पश्यन्ति चाराध्य देवा हय अमितविक्रमम
तम अहं दृष्टवान देवं कॊ ऽनयॊ धन्यतरॊ मया
181 एवं धयायन्ति विद्वांसः परं तत्त्वं सनातनम
षड्विंशकम इति खयातं यत परात परम अक्षरम
182 स एष भगवान देवः सर्वतत्त्वादिर अव्ययः
सर्वतत्त्वविधानज्ञः परधानपुरुषेश्वरः
183 यॊ ऽसृजद दक्षिणाद अङ्गाद बरह्माणं लॊकसंभवम
वामपार्श्वात तथा विष्णुं लॊकरक्षार्थम ईश्वरः
युगान्ते चैव संप्राप्ते रुद्रम अङ्गात सृजत परभुः
184 स रुद्रः संहरन कृत्स्नं जगत सथावरजङ्गमम
कालॊ भूत्वा महातेजाः संवर्तक इवानलः
185 एष देवॊ महादेवॊ जगत सृष्ट्वा चराचरम
कल्पान्ते चैव सर्वेषां समृतिम आक्षिप्य तिष्ठति
186 सर्वगः सर्वभूतात्मा सर्वभूतभवॊद्भवः
आस्ते सर्वगतॊ नित्यम अदृश्यः सर्वदैवतैः
187 यदि देयॊ वरॊ मह्यं यदि तुष्टश च मे परभुः
भक्तिर भवतु मे नित्यं शाश्वती तवयि शंकर
188 अतीतानागतं चैव वर्तमानं च यद विभॊ
जानीयाम इति मे बुद्धिस तवत्प्रसादात सुरॊत्तम
189 कषीरौदनं च भुञ्जीयाम अक्षयं सह बान्धवैः
आश्रमे च सदा मह्यं सामिन्ध्यं परमस तु ते
190 एवम उक्तः स मां पराह भगवाँल लॊकपूजितः
महेश्वरॊ महातेजाश चराचरगुरुः परभुः
191 अजरश चामरश चैव भव दुःखविवर्जितः
शीलवान गुणसंपन्नः सर्वज्ञः परियदर्शनः
192 अक्षयं यौवनं ते ऽसतु तेजश चैवानलॊपमम
कषीरॊदः सागरश चैव यत्र यत्रेच्छसे मुने
193 तत्र ते भविता कामं सांनिध्यं पयसॊ निधेः
कषीरॊदनं च भुङ्क्ष्व तवम अमृतेन समन्वितम
194 बन्धुभिः सहितः कल्पं ततॊ माम उपयास्यसि
सांनिध्यम आश्रमे नित्यं करिष्यामि दविजॊत्तम
195 तिष्ठ वत्स यथा कामनॊत्कण्ठां कर्तुम अर्हसि
समृतः समृतश च ते विप्र सदा दास्यामि दर्शनम
196 एवम उक्त्वा स भगवान सूर्यकॊटि समप्रभः
ममेशानॊ वरं दत्त्वा तत्रैवान्तरधीयत
197 एवं दृष्टॊ मया कृष्ण देवदेवः समाधिना
तद अवाप्तं च मे सर्वं यद उक्तं तेन धीमता
198 परत्यक्षं चैव ते कृष्ण पश्य सिद्धान वयवस्थितान
ऋषीन विद्याधरान यक्षान गन्धर्वाप्सरसस तथा
199 पश्य वृक्षान मनॊरम्यान सदा पुष्पफलान्वितान
सर्वर्तुकुसुमैर युक्तान सनिग्धपत्रान सुशाखिनः
सर्वम एतन महाबाहॊ दिव्यभावसमन्वितम
1 [y]
pitāmaheśāya vibho nāmāny ācakṣva śambhave
babhrave viśvamāyāya mahābhāgyaṃ ca tattvataḥ
2 [bh]
surāsuraguro deva viṣṇo tvaṃ vaktum arhasi
śivāya viśvarūpāya yan māṃ pṛcchad yudhiṣṭhiraḥ
3 nāmnāṃ sahasraṃ devasya taṇḍinā brahmayoninā
niveditaṃ brahmaloke brahmaṇo yat purābhavat
4 dvaipāyanaprabhṛtayas tathaiveme tapodhanāḥ
ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatas tava
5 dhruvāya nandine hotre goptre viśvasṛje 'gnaye
mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine
6 [vāsudeva]
na gatiḥ karmaṇāṃ śakyā vettum īśasya tattvataḥ
7 hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ
na vidur yasya nidhanam ādhiṃ vā sūkṣmadarśinaḥ
sa kathaṃ naramātreṇa śakyo jñātuṃ satāṃ gatiḥ
8 tasyāham asuraghnasya kāṃś cid bhagavato guṇān
bhavatāṃ kīrtayiṣyāmi vrateśāya yathātatham
9 [v]
evam uktvā tu bhagavān guṇāṃs tasya mahātmanaḥ
upaspṛśya śucir bhūvā kathayām āsa dhīmataḥ
10 [v]
śuśrūṣadhvaṃ brāhmaṇendrās tvaṃ ca tāta yudhiṣṭhira
tvaṃ cāpageya nāmāni niśāmaya jagatpateḥ
11 yad avāptaṃ ca me pūrvaṃ sāmba hetoḥ suduṣkaram
yathā ca bhagavān dṛṣṭo mayā pūrvaṃ samādhinā
12 śambare nihate pūrvaṃ raukmiṇeyena dhīmatā
atīte dvādaśe varṣe jāmbavaty abravīd dhi mām
13 pradyumna cārudeṣṇādīn rukmiṇyā vīkṣya putrakān
putrārthinī mām upetya vākyam āha yudhiṣṭhira
14 śūraṃ balavatāṃ śreṣṭhaṃ kānta rūpam alakmaṣam
ātmatulyaṃ mama sutaṃ prayacchācyuta māciram
15 na hi te 'prāpyam astīha triṣu lokeṣu kiṃ cana
lokān sṛjes tvam aparān icchan yadukulodvaha
16 tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā
ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ
17 cārudeṣṇaḥ sucāruś ca cāruveṣo yaśodharaḥ
cāru śvarāś cāru yaśāḥ pradyumnaḥ śambhur eva ca
18 yathā te janitāḥ putrā rukmiṇyāś cāru vikramāḥ
tathā mamāpi tanayaṃ prayaccha balaśālinam
19 ity evaṃ codito devyā tām avocaṃ sumadhyamām
anujānīhi māṃ rājñi kariṣye vacanaṃ tava
sā ca mām abravīd gaccha vijayāya śivāya ca
20 brahmā śivaḥ kāśyapaś ca nadyo devā mano'nugāḥ
kṣetrauṣadhyo yajñavāhāc chandāṃsy ṛṣigaṇā dharā
21 samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ
devapatnyo devakanyā deva mātara eva ca
22 manvantarāṇi gāvaś ca candramāḥ savitā hariḥ
sāvitrī brahma vidyā ca ṛtavo vatsarāḥ kṣapāḥ
23 kṣaṇā lavā muhūrtāś ca nimeṣā yugaparyayāḥ
rakṣantu sarvatragataṃ tvāṃ yādava sukhāvaham
ariṣṭaṃ gaccha panthānam apramatto bhavānagha
24 evaṃ kṛtasvastyayanas tayāhaṃ; tām abhyanujñāya kapīndra putrīm
pituḥ samīpe narasattamasya; mātuś ca rājñaś ca tathāhukasya
25 tam artham āvedya yad abravīn māṃ; vidyādharendrasya sutā bhṛśārtā
tān abhyanujñāya tadāti duḥkhād; gadaṃ tathaivātibalaṃ ca rāmam
26 prāpyānunāṃ gurujanād ahaṃ tārkṣyam acintayam
so 'vahad dhimavantaṃ māṃ prāpya cainaṃ vyasarjayam
27 tatrāham adbhutān bhāvān apaśyaṃ girisattame
kṣetraṃ ca tapasāṃ śreṣṭhaṃ paśyāmy āśramam uttamam
28 divyaṃ vaiyāghrapadyasya upamanyor mahātmanaḥ
pujitaṃ devagandharvair brāhmyā lakṣmyā samanvitam
29 dhava kakubha kadambanārikelaiḥ; kura bakaketakajambupāṭalābhiḥ
vaṭa varuṇaka vatsa nābhabilvaiḥ; saralakapittha priyālasāla tālaiḥ
30 badarī kundapunnāgair aśokāmrātimuktakaiḥ
bhallātakair madhūkaiś ca campakaiḥ panasais tathā
31 vanyair bahuvidhair vṛkṣaiḥ phalapuṣpapradair yutam
puṣpagulma latākīrṇaṃ kadalī ṣaṇḍaśobhitam
32 nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃ kṛtam
yathāsthānavinikṣiptair bhūṣitaṃ vanarājibhiḥ
33 ruruvāraṇaśārdūla siṃhadvīpisamākulam
kuraṅga barhiṇākīrṇaṃ mārjārabhujagāvṛtam
pūgaiś ca mṛgajātīnāṃ mahiṣarkṣa niṣevitam
34 nānāpuṣparajo miśro gajadānādhivāsitaḥ
divyastrī gītabahulo māruto 'tra sukho vavau
35 dhārā ninādair vihagapraṇādaiḥ; śubhais tathā bṛṃhitaiḥ kuñjarāṇām
gītais tathā kiṃ narāṇām udāraiḥ; śubhaiḥ svanaiḥ sāmagānāṃ ca vīra
36 acintyaṃ manasāpy anyaiḥ sarobhiḥ samalaṃ kṛtam
viśālaiś cāgniśaraṇair bhūṣitaṃ kuśa saṃvṛtam
37 vibhūṣitaṃ puṇyapavitra toyayā; sadā ca juṣpaṃ nṛpa jahnukanyayā
mahātmabhir dharmabhṛtāṃ variṣṭhair; maharṣibhir bhūṣitam agnikalpaiḥ
38 vāyvāhārair ambupair japyanityaiḥ; saṃprakṣālair yatibhir dhyānanityaiḥ
dhūmāśanair ūṣmapaiḥ kṣīrapaiś ca; vibhūṣitaṃ brāhmaṇendraiḥ samantāt
39 gocāriṇo 'thāśma kuṭṭā dantolūkhalinas tathā
marīcipāḥ phenapāś ca tathaiva mṛgacāriṇaḥ
40 suduḥkhān niyamāṃs tāṃs tān vahataḥ sutapo'nvitān
paśyan utphullanayanaḥ praveṣṭum upacakrame
41 supūjitaṃ devagaṇair mahātmabhiḥ; śivādibhir bhārata puṇyakarmabhiḥ
rarāja tac cāśramamaṇḍalaṃ sadā; divīva rājan ravimaṇḍalaṃ yathā
42 krīḍanti sarpair nakulā mṛgair vyāghrāś ca mitravat
prabhāvād dīptatapasaḥ saṃnikarṣa guṇānvitāḥ
43 tatrāśramapade śreṣṭhe sarvabhūtamanorame
sevite dvija śārdūlair vedavedāṅgapāragaiḥ
44 nānā niyamavikhyātair ṛṣibhiś ca mahātmabhiḥ
praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum
45 tejasā tapasā caiva dīpyamānaṃ yathānalam
śiṣyamadhya gataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham
śirasā vandamānaṃ mām upamanyur abhāṣata
46 svāgataṃ puṇḍarīkākṣa saphalāni tapāṃsi naḥ
yat pūjyaḥ pūjayasi no draṣṭavyo draṣṭum icchasi
47 tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣv athāgniṣu
dharme ca śiṣyavarge ca samapṛccham anāmayam
48 tato māṃ bhagavān āha sāmnā paramavalgunā
lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam
49 tapaḥ sumahad āsthāya toṣayeśānam īśvaram
iha devaḥ sa patnīkaḥ samākrīḍaty adhikṣaja
50 ihaiva devatā śreṣṭhaṃ devāḥ sarṣigaṇā purā
tapasā brahmacaryeṇa satyena ca damena ca
toṣayitvā śubhān kāmān prāpnuvaṃs te janārdana
51 tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavān iha
śubhāśubhānvitān bhāvān visṛjan saṃkṣipann api
āste devyā sahācintyo yaṃ prārthayasi śatruhan
52 hiraṇyakaśipur yo 'bhūd dānavo merukampanaḥ
tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam
53 tasyaiva putra pravaro mandaro nāma viśrutaḥ
mahādevavarāc chakraṃ varṣārbudam ayodhayat
54 viṣṇoś cakraṃ ca tad ghoraṃ vajram ākhaṇḍalasya ca
śīrṇaṃ purābhavat tāta grahasyāṅgeṣu keśava
55 ardyamānāś ca vibudhā graheṇa subalīyasā
śiva dattavarāñ jaghnur asurendrān surā bhṛśam
56 tuṣṭo vidyutprabhasyāpi trilokeśvaratām adāt
śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat
mamaivānucaro nityaṃ bhavitāsīti cābravīt
57 tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ
kuśa dvīpaṃ ca sa dadau rājyena bhagavān ajaḥ
58 tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ
yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ
taṃ prāha bhagavāṃs tuṣṭaḥ kiṃ karomīti śaṃkaraḥ
59 taṃ vai śatamukhaḥ prāha yogo bhavatu me 'dbhutaḥ
balaṃ ca daivataśreṣṭha śāśvataṃ saṃmprayaccha me
60 svāyambhuvaḥ kratuś cāpi putrārtham abhavat purā
āviśya yogenātmānaṃ trīṇi varṣaśatāny api
61 tasya devo 'dadat putrān sahasraṃ kratusaṃmitān
yogeśvaraṃ deva gītaṃ vettha kṛṣṇa na saṃśayaḥ
62 vālakhilyā maghavatā avajñātāḥ purā kila
taiḥ kruddhair bhagavān rudras tapasā toṣito hy abhūt
63 tāṃś cāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ
suparṇaṃ somahartāraṃ tapasotpādayiṣyatha
64 mahādevasya roṣāc ca āpo naṣṭāḥ purābhavan
tāṃś ca sapta kapālena devair anyāḥ pravartitāḥ
65 atrer bhāryāpi bhartāraṃ saṃtyajya brahmavādinī
nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃ cana
ity uktvā sā mahādevam agacchac charaṇaṃ kila
66 nir āhārā bhayād atres triṇi varṣaśatāny api
aśeta musaleṣv eva prasādārthaṃ bhavasya sā
67 tām abravīd dhasan devo bhavitā vai sutas tava
vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām
68 śākalyaḥ saṃśitātmā vai navavarṣaśatāny api
ārādhayām āsa bhavaṃ mano yajñena keśava
69 taṃ cāha bhagavāṃs tuṣṭo grantha kāro bhaviṣyasi
vatsākṣayā ca te kīrtis trailokye vai bhaviṣyati
akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃ kṛtam
70 sāvarṇiś cāpi vikhyāta ṛṣir āsīt kṛte yuge
iha tena tapas taptaṃ ṣaṣṭiṃ varṣaśatāny atha
71 tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha
grantha kṛl lokavikhyāto bhavitāsy ajarāmaraḥ
72 mayāpi ca yathādṛṣṭo devadevaḥ purā vibhuḥ
sākṣāt paśupatis tāta tac cāpi śṛṇu mādhava
73 yadarthaṃ ca mahādevaḥ prayatena mayā purā
ārādhito mahātejās tac cāpi śṛṇu vistaram
74 yad avāptaṃ ca me pūrvaṃ devadevān maheśvarāt
tat sarvam akhilenādya kathayiṣyāmi te 'nagha
75 purā kṛtayuge tāta ṛṣir āsīn mahāyaśāḥ
vyāghrapāda iti khyāto vedavedāṅgapāragaḥ
tasyāham abhavaṃ putro dhaumyaś cāpi mamānujaḥ
76 kasya cit tv atha kālasya dhaumyena sahamādhava
āgaccham āśramaṃ krīḍan munīnāṃ bhāvitātmanām
77 tatrāpi ca mayā dṛṣṭā duhyamānā payasvinī
lakṣitaṃ ca mayā kṣīraṃ svāduto hy amṛtopamam
78 tataḥ piṣṭaṃ samāloḍya toyena sahamādhava
āvayoḥ kṣīram ity eva pānārtham upanīyate
79 atha gavyaṃ payas tāta kadā cit prāśitaṃ mayā
tataḥ piṣṭa rasaṃ tāta na me prītim udāvahat
80 tato 'ham abruvaṃ bālyāj jananīm ātmanas tadā
kṣīraudana samāyuktaṃ bhojanaṃ ca prayaccha me
81 tato mām abravīn mātā duḥkhaśokasamanvitā
putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava
82 kutaḥ kṣīrodanaṃ vatsa munīnāṃ bhāvitātmanām
vane nivasatāṃ nityaṃ kandamūlaphalāśinām
83 aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam
kutaḥ kṣīrodanaṃ vatsa sukhāni vasanāni ca
84 taṃ prapadya sadā vatsa sarvabhāvena śaṃkaram
tatprasādāc ca kāmebhyaḥ phalaṃ prāpsyasi putraka
85 jananyās tad vacaḥ śrutvā tadā prabhṛti śatruhan
mama bhaktir mahādeve naiṣṭhikī samapadyata
86 tato 'haṃ tapa āsthāya toṣayām āsa śaṃkaram
divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ
87 ekaṃ varṣaśataṃ caiva phalāhāras tadābhavam
dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ
śatāni sapta caivāhaṃ vāyubhakṣas tadābhavam
88 tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ
śakra rūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ
sahasrākṣas tadā bhūtvā varja pāṇir mahāyaśāḥ
89 sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam
āveṣṭita karaṃ raudraṃ caturdaṃṣṭraṃ mahāgajam
90 samāsthitaś ca bhagavān dīpyamānaḥ svatejasā
ājagāma kirīṭī tu hārakeyūrabhūṣitaḥ
91 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
sevyamāno 'psarobhiś ca divyagandharvanāditaḥ
92 tato mām āha devendraḥ prītas te 'haṃ dvijottama
varaṃ vṛṇīṣva mattas tva yat te manasi vartate
93 śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam
abruvaṃ ca tadā kṛṣṇa devarājam idaṃ vacaḥ
94 nāhaṃ tvatto varaṃ kāṅkṣe nānyasmād api daivatāt
mahādevād ṛte saumya satyam etad bravīmi te
95 paśupativacanād bhavāmi sadyaḥ; kṛmir atha vā tarur apy anekaśākhaḥ
apaśu pativaraprasādajā me; tribhuvana rājyavibhūtir apy aniṣṭā
96 api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā
na tu śakra tvayā dattaṃ trailokyam api kāmaye
97 yāvac chaśāṅka śakalāmala baddhamaulir; na prīyate paśupatir bhagavān mameśaḥ
tāvaj jarāmaraṇajanma śatābhighātair; duḥkhāni dehavihitāni samudvahāmi
98 divasakara śaśāṅkavahni dīptaṃ; tribhuvana sāram apāram ādyam ekam
ajaram amaram aprasādya rudraṃ; jagati pumān iha ko labheta śāntim
99 [ṣakra]
kaḥ punas tava hetur vai īśe kāraṇakāraṇe
yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi
100 [upa]
hetubhir vā kim anyais te īśaḥ kāraṇakāraṇam
na śuśruma yad anyasya liṅgam abhyarcyate suraiḥ
101 kasyānyasya suraiḥ sarvair liṅgaṃ muktvā maheśvaram
arcyate 'rcita pūrvaṃ vā brūhi yady asti te śrutiḥ
102 yasya brahmā ca viṣṇuś ca tvaṃ cāpi saha daivataiḥ
arcayadhvaṃ sadā liṅgaṃ tasmāc chreṣṭha tamo hi saḥ
103 tasmād varam ahaṃ kāṅkṣe nidhanaṃ vāpi kauśika
gaccha vā tiṣṭha vā śakra yatheṣṭaṃ balasūdana
104 kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt
na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalāny api
105 evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ
na prasīdati me rudraḥ kim etad iti cintayan
athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ
106 haṃsakundendu sadṛśaṃ mṛṇālakumudaprabham
vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram
107 kṛṣṇa pucchaṃ mahākāyaṃ madhupiṅgala locanam
jāmbūnadena dāmnā ca sarvataḥ samalaṃkṛtam
108 raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭī taṭam
supārśvaṃ vipura skandhaṃ surūpaṃ cārudarśanam
109 kakudaṃ tasya cābhāti skandham āpūrya viṣṭhitam
tuṣāragirikūṭābhaṃ sitābhraśikharopamam
110 tam āsthitaś ca bhagavān devadevaḥ sahomayā
aśobhata mahādevaḥ paurṇamāsyām ivoḍurāṭ
111 tasya tejo bhavo vahniḥ sa meghaḥ stanayitnumān
sahasram iva sūryāṇāṃ sarvam āvṛtya tiṣṭhati
112 īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ
yugānte sarvabhūtāni didhakṣur iva codyataḥ
113 tejasā tu tadā vyāpte durnirīkṣye samantataḥ
punar udvignahṛdayaḥ kim etad iti cintayam
114 muhūrtam iva tat tejo vyāpya sarvā diśo diśa
praśāntaṃ ca kṣaṇenaiva devadevasya māyayā
115 athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram
saurabheya gataṃ saumyaṃ vidhūmam iva pāvakam
sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram
116 nīlakanhaṃ mahātmānam asaktaṃ tejasāṃ nidhim
aṣṭādaśa bhujaṃ sthāṇuṃ sarvābharaṇabhūṣitam
117 śuklāmbara dharaṃ devaṃ śuklamālyānulepanam
śukladhvajam anādhṛṣyaṃ śuklayajñopavītinam
118 gāyadbhir nṛtyamānaiś ca utpatadbhir itas tataḥ
vṛttaṃ pāriṣadair divyair ātmatulyaparākramaiḥ
119 bālendu mukuṭaṃ pāṇḍuṃ śarac candram ivoditam
tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ
120 aśobhata ca devasya mālā gātre sitaprabhe
jātarūpamayaiḥ padmair grathitā ratnabhūṣitā
121 mūrtimanti tathāstrāṇi sarvatejomayāni ca
mayā dṛṣṭāni govinda bhavasyāmita tejasaḥ
122 indrāyudhasahasrābhaṃ dhanus tasya mahātmanaḥ
pinākam iti vikhyātaṃ sa ca vai pannago mahān
123 sapta śīrṣo mahākāyas tīkṣṇadaṃṣṭro viṣolbaṇaḥ
jyā veṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ
124 śaraś ca sūryasaṃkāśaḥ kālānalasamadyutiḥ
yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat
125 advitīyam anirdeśyaṃ sarvabhūtabhayāvaham
sa sphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam
126 ekapādaṃ mahādaṃṣṭraṃ sahasraśirasodaram
sahasrabhuja jihvākṣam udgirantam ivānalam
127 brāhmān nārāyaṇād aindrād āgneyād api vāruṇāt
yad viśiṣṭaṃ mahābāho sarvaśastravighātanam
128 yena tat tripuraṃ dagdhvā kṣaṇād bhasmīkṛtaṃ purā
śareṇaikena govinda mahādevena līlayā
129 nirdadāha jagat kṛtsnaṃ trailokyaṃ sa carācaram
maheśvara bhujotsṛṣṭaṃ nimeṣārdhān na saṃśayaḥ
130 nāvadhyo yasya loke 'smin brahma viṣṇusureṣv api
tad ahaṃ dṛṣṭavāṃs tāta āścaryād bhūtam uttamam
131 guhyam astraṃ paraṃ cāpi tattulyādhikam eva vā
yat tac chūlam iti khyātaṃ sarvalokeṣu śūlinaḥ
132 dārayed yan mahīṃ kṛtsnāṃ śoṣayed vā mahodadhim
saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā
133 yauvanāśvo hato yena māṃdhātā sabalaḥ purā
cakravartī mahātejās trilokavijayī nṛpaḥ
134 mahābalo mahāvīryaḥ śakratulyaparākramaḥ
karasthenaiva govinda lavaṇasyeha rakṣasaḥ
135 tac chūlam atitīkṣṇāgraṃ subhīmaṃ lomaharṣaṇam
triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānam iva sthitam
136 vidhūmaṃ sārcisaṃ kṛṣṇaṃ kālasūryam ivoditam
sarpahastam anirdeśyaṃ pāśahastam ivāntakam
dṛṣṭavān asmi govinda tad astraṃ rudra saṃnidhau
137 paraśus tīkṣṇadhāraś ca datto rāmasya yaḥ purā
mahādevena tuṣṭena kṣatriyāṇāṃ kṣayaṃ karaḥ
kārtavīryo hato yena cakravartī mahāmṛdhe
138 triḥ saptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā
jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā
139 dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgra veṣṭitaḥ
abhavac chūlino 'bhyāśe dīptavahni śikhopamaḥ
140 asaṃkhyeyāni cāstrāṇi tasya divyāni dhīmataḥ
pradhānyato mayaitāni kīrtitāni tavānagha
141 savyadeśe tu devasya brahmā lokapitāmahaḥ
divyaṃ vimānam āsthāya haṃsayuktaṃ manojavam
142 vāmapārśva gataś caiva tathā nārāyaṇaḥ sthitaḥ
vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ
143 skando mayūram āsthāya sthito devyāḥ samīpataḥ
śaktiṃ kanhe samādhāya dvitīya iva pāvakaḥ
144 purastāc caiva devasya nandiṃ paśyāmy avasthitam
śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyam iva śaṃkaram
145 svāyambhuvādyā manavo bhṛgvādyā ṛṣayas tathā
śakrādyā devatāś caiva sarva eva samabhyayuḥ
146 te 'bhivādya mahātmānaṃ parivārya samantataḥ
astuvan vividhaiḥ stotrair mahādevaṃ surās tadā
147 brahmā bhavaṃ tadā stunvan rathantaram udīrayan
jyeṣṭhasāmnā ca deveśaṃ jagau nārāyaṇas tadā
gṛṇañ śakraḥ paraṃ brahma śatarudrīyam uttamam
148 brahmā nārāyaṇaś caiva devarājaś ca kauśikaḥ
aśobhanta mahātmānas trayas traya ivāgnayaḥ
149 teṣāṃ madhyagato devo rarāja bhagavāñ śivaḥ
śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān
tato 'ham astuvaṃ devaṃ stavenānena suvratam
150 namo devādhidevāya mahādevāya vai namaḥ
śakrāya śakra rūpāya śakra veṣadharāya ca
151 namas te varja hastāya piṅgalāyāruṇāya ca
pināka pāṇaye nityaṃ khaḍgaśūladharāya ca
152 namas te kṛṣṇa vāsāya kṛṣṇa kuñcitamūrdhaje
kṛṣṇājinottarīyāya kṛṣṇāṣṭam itarāya ca
153 śuklavarṇāya śuklāya śuklāmbara dharāya ca
śuklabhasmāvaliptāya śuklakarma ratāya ca
154 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ
ātmā ca sarvabhūtānāṃ sāṃkhye puruṣa ucyase
155 ṛṣabhas tvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ
āśramāṇāṃ gṛhasthas tvam īśvarāṇāṃ maheśvaraḥ
kuberaḥ sarvayakṣāṇāṃ kratūnāṃ viṣṇur ucyase
156 parvatānāṃ mahāmerur nakṣatrāṇāṃ ca candramāḥ
vasiṣṭhas tvam ṛṣīṇāṃ ca grahāṇāṃ sūrya ucyase
157 āraṇyānāṃ paśūnāṃ ca siṃhas tvaṃ parameśvaraḥ
grāhyāṇāṃ govṛṣaś cāsi bhagavāṁl lokapūjitaḥ
158 ādityānāṃ bhavān viṣṇur vasūnāṃ caiva pāvakaḥ
pakṣiṇāṃ vainateyaś ca ananto bhujageṣu ca
159 sāmavedaś ca vedānāṃ yajuṣāṃ śatarudriyam
sanatkumāro yogīnāṃ sāṃkhyānāṃ kapilo hy asi
160 śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi
brahmalokaś ca lokānāṃ gatīnāṃ mokṣa ucyase
161 kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ
varṇānāṃ brāhmaṇaś cāsi viprāṇāṃ dīkṣito dvijaḥ
ādis tvam asi lokānāṃ saṃhartā kāla eva ca
162 yac cānyad api lokeṣu sattvaṃ tejo 'dhikaṃ smṛtam
tat sarvaṃ bhagavān eva iti me niścitā matiḥ
163 namas te bhagavan deva namas te bhakta vatsala
yogeśvara namas te 'stu namas te viśvasaṃbhava
164 prasīda mama bhaktasya dīnasya kṛpaṇasya ca
anaiśvaryeṇa yuktasya gatir bhava sanātana
165 yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara
madbhakta iti deveśa tat sarvaṃ kṣantum arhasi
166 mohitaś cāsmi deveśa tubhyaṃ rūpaviparyayāt
tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara
167 evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ
kṛtāñjalipuṭo bhūtvā sarvaṃ tasmai nyavedayam
168 tataḥ śīlāmbusaṃyuktā divyagandhasamanvitā
puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani
169 dundubhiś ca tato divyas tāḍito devakiṃkaraiḥ
vavau ca mārutaḥ puṇyaḥ śuci gandhaḥ sukhāvahaḥ
170 tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ
abravīt tridaśāṃs tatra harṣayann iva māṃ tadā
171 paśyadhvaṃ tridaśāḥ sarve upamanyor mahātmanaḥ
mayi bhaktiṃ parāṃ divyām ekabhāvād avasthitām
172 evam uktās tataḥ kṛṣṇa surās te śūlapāṇinā
ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam
173 bhagavan devadeveśa lokanātha jagatpate
labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottamaḥ
174 evam uktas tataḥ śarvaḥ surair brahmādibhis tathā
āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ
175 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava
dṛḍhabhakto 'si viprarṣe mayā jijñāsito hy asi
176 anayā caiva bhaktyā te atyarthaṃ prītimān aham
tasmāt sarvān dadāmy adya kāmāṃs tava yathepśitān
177 evam uktasya caivātha mahādevena me vibho
harṣād aśrūṇy avartanta loma harṣaś ca jāyate
178 abruvaṃ ca tadā devaṃ harṣagadgadayā girā
jānubhyām avaniṃ gatvā praṇamya ca punaḥ punaḥ
179 adya jāto hy ahaṃ deva adya me saphalaṃ tapaḥ
yan me sākṣān mahādevaḥ prasannas tiṣṭhate 'grataḥ
180 yaṃ na paśyanti cārādhya devā hy amitavikramam
tam ahaṃ dṛṣṭavān devaṃ ko 'nyo dhanyataro mayā
181 evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam
ṣaḍviṃśakam iti khyātaṃ yat parāt param akṣaram
182 sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ
sarvatattvavidhānajñaḥ pradhānapuruṣeśvaraḥ
183 yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam
vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ
yugānte caiva saṃprāpte rudram aṅgāt sṛjat prabhuḥ
184 sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam
kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ
185 eṣa devo mahādevo jagat sṛṣṭvā carācaram
kalpānte caiva sarveṣāṃ smṛtim ākṣipya tiṣṭhati
186 sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ
āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ
187 yadi deyo varo mahyaṃ yadi tuṣṭaś ca me prabhuḥ
bhaktir bhavatu me nityaṃ śāśvatī tvayi śaṃkara
188 atītānāgataṃ caiva vartamānaṃ ca yad vibho
jānīyām iti me buddhis tvatprasādāt surottama
189 kṣīraudanaṃ ca bhuñjīyām akṣayaṃ saha bāndhavaiḥ
āśrame ca sadā mahyaṃ sāmindhyaṃ paramas tu te
190 evam uktaḥ sa māṃ prāha bhagavāṁl lokapūjitaḥ
maheśvaro mahātejāś carācaraguruḥ prabhuḥ
191 ajaraś cāmaraś caiva bhava duḥkhavivarjitaḥ
śīlavān guṇasaṃpannaḥ sarvajñaḥ priyadarśanaḥ
192 akṣayaṃ yauvanaṃ te 'stu tejaś caivānalopamam
kṣīrodaḥ sāgaraś caiva yatra yatrecchase mune
193 tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ
kṣīrodanaṃ ca bhuṅkṣva tvam amṛtena samanvitam
194 bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi
sāṃnidhyam āśrame nityaṃ kariṣyāmi dvijottama
195 tiṣṭha vatsa yathā kāmanotkaṇṭhāṃ kartum arhasi
smṛtaḥ smṛtaś ca te vipra sadā dāsyāmi darśanam
196 evam uktvā sa bhagavān sūryakoṭi samaprabhaḥ
mameśāno varaṃ dattvā tatraivāntaradhīyata
197 evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā
tad avāptaṃ ca me sarvaṃ yad uktaṃ tena dhīmatā
198 pratyakṣaṃ caiva te kṛṣṇa paśya siddhān vyavasthitān
ṛṣīn vidyādharān yakṣān gandharvāpsarasas tathā
199 paśya vṛkṣān manoramyān sadā puṣpaphalānvitān
sarvartukusumair yuktān snigdhapatrān suśākhinaḥ
sarvam etan mahābāho divyabhāvasamanvitam

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1708 of 2013 Book 85% ~23 min left