Book 13: Chapter 112
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 13: Chapter 112

The Mahabharata in Sanskrit

Book 13
Chapter 112

1 [य]
पितामह महाबाहॊ सर्वशास्त्रविशारद
शरॊतुम इच्छामि मर्त्यानां संसारविधुम उत्तमम
2 केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि
पराप्नुवन्त्य उत्तमं सवर्गं कथं च नरकं नृप
3 मृतं शरीरम उत्सृज्य काष्ठलॊष्ट समं जनाः
परयान्त्य अमुं लॊकम इतः कॊ वै तान अनुगच्छति
4 [भ]
असाव आयाति भगवान बृहस्पतिर उदारधीः
पृच्छैनं सुमहाभागम एतद गुह्यं सनातनम
5 नैतद अन्येन शक्यं हि वक्तुं केन चिद अद्य वै
वक्ता बृहस्पतिसमॊ न हय अन्यॊ विद्यते कव चित
6 [व]
तयॊः संवदतॊर एवं पार्थ गाङ्गेययॊस तदा
आजगाम विशुद्धात्मा भगवान स बृहस्पतिः
7 ततॊ राजा समुत्थाय धृतराष्ट्र पुरॊगमः
पूजाम अनुपमां चक्रे सर्वे ते च सभा सदः
8 ततॊ धर्मसुतॊ राजा भगवन्तं बृहस्पतिम
उपगम्य यथान्यायं परश्नं पप्रच्छ सुव्रतः
9 [य]
भगवन सव धर्मज्ञ सर्वशास्त्रविशारद
मर्त्यस्य कः सहायॊ वै पिता माता सुतॊ गुरुः
10 मृतं शरीरम उत्सृज्य काष्ठलॊष्ट समं जनाः
गच्छन्त्य अमुत्र लॊकं वै क एनम अनुगच्छति
11 [ब]
एकः परसूतॊ राजेन्द्र जन्तुर एकॊ विनश्यति
एकस तरति दुर्गाणि गच्छत्य एकश च दुर्गतिम
12 असहायः पिता माता तथा भराता सुतॊ गुरुः
जञातिसंबन्धिवर्गश च मित्रवर्गस तथैव च
13 मृतं शरीरम उत्सृज्य काष्ठलॊष्ट समं जनाः
मुहूर्तम उपतिष्ठन्ति ततॊ यान्ति पराङ्मुखाः
तैस तच छरीरम उत्सृष्टं धर्म एकॊ ऽनुगच्छति
14 तस्माद धर्मः सहायार्थे सेवितव्यः सदा नृभिः
पराणी धर्मसमायुक्तॊ नरकायॊपपद्यते
15 तस्मान नयायागतैर अर्थैर धर्मं सेवेत पण्डितः
धर्म एकॊ मनुष्याणां सहायः पारलौकिकः
16 लॊभान मॊहाद अनुक्रॊशाद भयाद वाप्य अबहुश्रुतः
नरः करॊत्य अकार्याणि परार्थे लॊभमॊहितः
17 धर्मश चार्थश च कामश च तरितयं जीविते फलम
एतत तरयम अवाप्तव्यम अधर्मपरिवर्जितम
18 [य]
शरुतं भगवतॊ वाक्यं धर्मयुक्तं परं हितम
शरीरविचयं जञातुं बुद्धिस तु मम जायते
19 मृतं शरीररहितं सूक्ष्मम अव्यक्ततां गतम
अचक्षुर विषयं पराप्तं कथं धर्मॊ ऽनुगच्छति
20 [ब]
पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम
बुद्धिर आत्मा च सहिता धर्मं पश्यन्ति नित्यदा
21 पराणिनाम इह सर्वेषां साक्षिभूतानि चानिशम
एतैश च स ह धर्मॊ ऽपि तं जीवम अनुगच्छति
22 तवग अस्थि मांसं शुक्रं च शॊणितं च महामते
शरीरं वर्जयन्त्य एते जीवितेन विवर्जितम
23 ततॊ धर्मसमायुक्तः स जीवः सुखम एधते
इह लॊके परे चैव किं भूयः कथयामि ते
24 [य]
अनुदर्शितं भगवता यथा धर्मॊ ऽनुगच्छति
एतत तु जञातुम इच्छामि कथं रेतः परवर्तते
25 [ब]
अन्नम अश्नन्ति ये देवाः शरीरस्था नरेश्वर
पृथिवी वायुर आकाशम आपॊ जयॊतिर मनस तथा
26 ततस तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु
मनःषष्ठेषु शुद्धात्मन रेतः संपद्यते महत
27 ततॊ गर्भः संभवति सत्रीपुंसॊः पार्थ संगमे
एतत ते सर्वम आख्यातं किं भूयः शरॊतुम इच्छसि
28 [य]
आख्यातम एतद भवता गर्भः संजायते यथा
यथा जातस तु पुरुषः परपद्यति तद उच्यताम
29 [ब]
आसन्न मात्रः सततं तैर भूतैर अभिभूयते
विप्रमुक्तश च तैर भूतैः पुनर यात्य अपरां गतिम
स तु भूतसमायुक्तः पराप्नुते जीव एव ह
30 ततॊ ऽसय कर्म पश्यन्ति शुभं वा यदि वाशुभम
देवताः पञ्च भूतस्थाः किं भूयः शरॊतुम इच्छसि
31 [य]
तवग अस्थि मांसम उत्सृज्य तैश च भूतैर विवर्जितः
जीवः स भगवान कवस्थः सुखदुःखे समश्नुते
32 [ब]
जीवॊ धर्मसमायुक्तः शीघ्रं रेतस्त्वम आगतः
सत्रीणां पुष्पं समासाद्य सूते कालेन भारत
33 यमस्य पुरुषैः कलेशं यमस्य पुरुषैर वधम
दुःखं संसारचक्रं च नरः कलेशं च विन्दति
34 इह लॊके च स पराणी जन्मप्रभृति पार्थिव
सवकृतं कर्म वै भुङ्क्ते धर्मस्य फलम आश्रितः
35 यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते
ततः स पुरुषॊ भूत्वा सेवते नित्यदा सुखम
36 अथान्तरा तु धर्मस्य अधर्मम उपसेवते
सुखस्यानन्तरं दुःखं स जीवॊ ऽपय अधिगच्छति
37 अधर्मेण समायुक्तॊ यमस्य विषयं गतः
महद दुःखं समासाद्य तिर्यग्यॊनौ परजायते
38 कर्मणा येन येनेह यस्यां यॊनौ परजायते
जीवॊ मॊहसमायुक्तस तन मे निगदतः शृणु
39 यद एतद उच्यते शास्त्रे सेतिहासे सच छन्दसि
यमस्य विषयं घॊरं मर्त्यॊ लॊकः परपद्यते
40 अधीत्य चतुरॊ वेदान दविजॊ मॊहसमन्वितः
पतितात परतिगृह्याथ खरयॊनौ परजायते
41 खरॊ जीवति वर्षाणि दश पञ्च च भारत
खरॊ मृतॊ बलीवर्दः सप्त वर्षाणि जीवति
42 बलीवर्दॊ मृतश चापि जायते बरह्मराक्षसः
बरह्मरक्षस तु तरीन मासांस ततॊ जायति बराह्मणः
43 पतितं याजयित्वा तु कृमियॊनौ परजायते
तत्र जीवति वर्षाणि दश पञ्च च भारत
44 कृमिभावात परमुक्तस तु ततॊ जायति गर्दभः
गर्दभः पञ्चवर्षाणि पञ्चवर्षाणि सूकरः
शवा वर्षम एकं भवति ततॊ जायति मानवः
45 उपाध्यायस्य यः पापं शिष्यः कुर्याद अबुद्धिमान
स जीव इह संसारांस तरीन आप्नॊति न संशयः
46 पराक शवा भवति राजेन्द्र ततः करव्यात ततः खरः
ततः परेतः परिक्लिष्टः पश्चाज जायति बराह्मणः
47 मनसापि गुरॊर भार्यां यः शिष्यॊ याति पापकृत
सॊ ऽधमान याति संसारान अधर्मेणेह चेतसा
48 शवयॊनौ तु स संभूतस तरीणि वर्षाणि जीवति
तत्रापि निधनं पराप्तः कृमियॊनौ परजायते
49 कृमिभावम अनुप्राप्तॊ वर्षम एकं स जीवति
ततस तु निधनं पराप्य बरह्मयॊनौ परजायते
50 यदि पुत्रसमं शिष्यं गुरुर हन्याद अकारणे
आत्मनः कामकारेण सॊ ऽपि हंसः परजायते
51 पितरं मातरं वापि यस तु पुत्रॊ ऽवमन्यते
सॊ ऽपि राजन मृतॊ जन्तुः पूर्वं जायति गर्दभः
52 खरॊ जीवति मासांस तु दश शवा च चतुर्दश
बिडालः सप्त मासांस तु ततॊ जायति मानवः
53 माता पितरम आक्रुश्य सारिकः संप्रजायते
ताडयित्वा तु ताव एव जायते कच्छपॊ नृप
54 कच्छपॊ दशवर्षाणि तरीणि वर्षाणि शक्यकः
वयालॊ भूत्वा तु षण मासांस ततॊ जायति मानुषः
55 भर्तृपिण्डम उपाश्नन यॊ राजद्विष्टानि सेवते
सॊ ऽपि मॊहसमापन्नॊ मृतॊ जायति वानरः
56 वानरॊ दशवर्षाणि तरीणि वर्षाणि मूषकः
शवा भूत्वा चाथ षण मासांस ततॊ जायति मानुषः
57 नयासापहर्ता तु नरॊ यमस्य विषयं गतः
संसाराणां शतं गत्वा कृमियॊनौ परजायते
58 तत्र जीवति वर्षाणि दश पञ्च च भारत
दुष्कृतस्य कषयं गत्वा ततॊ जायति मानुषः
59 असूयकॊ नरश चापि मृतॊ जायति शार्ङ्गकः
विश्वासहर्ता तु नरॊ मीनॊ जायति दुर्मतिः
60 भूत्वा मीनॊ ऽषट वर्षाणि मृगॊ जायति भारत
मृगस तु चतुरॊ मासांस ततश छागः परजायते
61 छागस तु निधनं पराप्य पूर्णे संवत्सरे ततः
कीटः संजायते जन्तुस ततॊ जायति मानुषः
62 धान्यान यवांस तिलान माषान कुलत्थान सर्षपांश चणान
कलायान अथ मुद्गांश च गॊधूमान अतसीस तथा
63 सस्यस्यान्यस्य हर्ता च मॊहाज जन्तुर अचेतनः
स जायते महाराज मूषकॊ निरपत्रपः
64 ततः परेत्य महाराज पुनर जायति सूकरः
सूकरॊ जातमात्रस तु रॊगेण मरियते नृप
65 शवा ततॊ जायते मूढः कर्मणा तेन पार्थिव
शवा भूत्वा पञ्चवर्षाणि ततॊ जायति मानुषः
66 परदाराभिमर्शं तु कृत्वा जायति वै वृकः
शवा सृगालस ततॊ गृध्रॊ वयालः कङ्कॊ बकस तथा
67 भरातुर भार्यां तु दुर्बुद्धिर यॊ धर्षयति मॊहितः
पुंस्कॊलिकत्वम आप्नॊति सॊ ऽपि संवत्सरं नृप
68 सखिभार्यां गुरॊर भार्यां राजभार्यां तथैव च
परधर्षयित्वा कामाद यॊ मृतॊ जायति सूकरः
69 सूकरः पञ्चवर्षाणि पञ्चवर्षाणि शवाविधः
पिपीलकस तु षण मासान कीटः सयान मासम एव च
एतान आसाद्य संसारान कृमियॊनौ परजायते
70 तत्र जीवति मासांस तु कृमियॊनौ तरयॊ दश
ततॊ ऽधर्मक्षयं कृत्वा पुनर जायति मानुषः
71 उपस्थिते विवाहे तु दाने यज्ञे ऽपि वाभिभॊ
मॊहात करॊति यॊ विघ्नं स मृतॊ जायते कृमिः
72 कृमिर जीवति वर्षाणि दश पञ्च च भारत
अधर्मस्य कषयं कृत्वा ततॊ जायति मानुषः
73 पूर्वं दत्त्वा तु यः कन्यां दवितीये संप्रयच्छति
सॊ ऽपि राजन मृतॊ जन्तुः कृमियॊनौ परजायते
74 तत्र जीवति वर्षाणि तरयॊदश युधिष्ठिर
अधर्मसंक्षये युक्तस ततॊ जायति मानुषः
75 देवकार्यम उपाकृत्य पितृकार्यम अथापि च
अनिर्वाप्य समश्नन वै ततॊ जायति वायसः
76 वायसॊ दशवर्षाणि ततॊ जायति कुक्कुटः
जायते लवकश चापि मासं तस्मात तु मानुषः
77 जयेष्ठं पितृसमं चापि भरातरं यॊ ऽवमन्यते
सॊ ऽपि मृत्युम उपागम्य करौञ्चयॊनौ परजायते
78 करौञ्चॊ जीवति मासांस तु दश दवौ सप्त पञ्च च
ततॊ निधनम आपन्नॊ मानुषत्वम उपाश्नुते
79 वृषलॊ बराह्मणी गत्वा कृमियॊनौ परजायते
तत्रापत्यं समुत्पाद्य ततॊ जायति मूषकः
80 कृतघ्नस तु मृतॊ राजन यमस्य विषयं गतः
यमस्य विषये करुद्धैर वधं पराप्नॊति दारुणम
81 पट्टिसं मुद्गरं शूलम अग्निकुम्भं च दारुणम
असि पत्रवनं घॊरं वालुकां कूटशाल्मलीम
82 एताश चान्याश च बह्वीः स यमस्य विषयं गतः
यातनाः पराप्य तत्रॊग्रास ततॊ वध्यति भारत
83 संसारचक्रम आसाद्य कृमियॊनौ परजायते
कृमिर भवति वर्षाणि दश पञ्च च भारत
ततॊ गर्भं समासाद्य तत्रैव मरियते शिशुः
84 ततॊ गर्भशतैर जन्तुर बहुभिः संप्रजायते
संसारांश च बहून गत्वा ततस तिर्यक परजायते
85 मृतॊ दुःखम अनुप्राप्य बहुवर्षगणान इह
अपुनर्भाव संयुक्तस ततः कूर्मः परजायते
86 अशस्त्रं पुरुषं हत्वा स शस्त्रः पुरुषाधमः
अर्थार्थी यदि वा वैरी स मृतॊ जायते खरः
87 खरॊ जीवति वर्षे दवे ततः शास्तेण वध्यते
स मृतॊ मृगयॊनौ तु नित्यॊद्विग्नॊ ऽभिजायते
88 मृगॊ वध्यति शस्त्रेण गते संवत्सरे तु सः
हतॊ मृगस ततॊ मीनः सॊ ऽपि जालेन बध्यते
89 मासे चतुर्थे संप्राप्ते शवापदः संप्रजायते
शवापदॊ दशवर्षाणि दवीपी वर्षाणि पञ्च च
90 ततस तु निधनं पराप्तः कालपर्याय चॊदितः
अधर्मस्य कषयं कृत्वा ततॊ जायति मानुषः
91 सत्रियं हत्वा तु दुर्बुद्धिर यमस्य विषयं गतः
बहून कलेशान समासाद्य संसारांश चैव विंशतिम
92 ततः पश्चान महाराज कृमियॊनौ परजायते
कृमिर विंशतिवर्षाणि भूत्वा जायति मानुषः
93 भॊजनं चॊरयित्वा तु मक्षिका जायते नरः
मक्षिका संह वशगॊ बहून मासान भवत्य उत
ततः पापक्षयं कृत्वा मानुषत्वम अवाप्नुते
94 वाद्यं हृत्वा तु पुरुषॊ मशकः संप्रजायते
तथा पिण्याक संमिश्रम अशनं चॊरयेन नरः
स जायते बभ्रु समॊ दारुणॊ मूषकॊ नरः
95 लवणं चॊरयित्वा तु चीरी वाकः परजायते
दधि हृत्वा बकश चापि पलवॊ मत्स्यान असंस्कृतान
96 चॊरयित्वा पयश चापि बलाका संप्रजायते
यस तु चॊरयते तैलं तैलपायी परजायते
चॊरयित्वा तु दुर्बुद्धिर मधु दंशः परजायते
97 अयॊ हृत्वा तु दुर्बुद्धिर वायसॊ जायते नरः
पायसं चॊरयित्वा तु तित्तिरित्वम अवाप्नुते
98 हृत्वा पैष्टम अपूपं च कुम्भॊलूकः परजायते
फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः
99 कांस्यं हृत्वा तु दुर्बुद्धिर हारीतॊ जायते नरः
राजतं भाजनं हृत्वा कपॊतः संप्रजायते
100 हृत्वा तु काञ्चनं भाण्डं कृमियॊनौ परजायते
करौञ्चः कार्पासिकं हृत्वा मृतॊ जायति मानवः
101 चॊरयित्वा नरः पट्टं तव आविकं वापि भारत
कषौमं च वस्त्रम आदाय शशॊ जन्तुः परजायते
102 वर्णान हृत्वा तु पुरुषॊ मृतॊ जायति बर्हिणः
हृत्वा रक्तानि वस्त्राणि जायते जीव जीविकः
103 वर्णकादींस तथा गन्धांश चॊरयित्वा तु मानवः
छुच्छुन्दरित्वम आप्नॊति राजँल लॊभपरायणः
104 विश्वासेन तु निक्षिप्तं यॊ निह्नवति मानवः
स गतासुर नरस तादृङ मत्स्ययॊनौ परजायते
105 मत्स्ययॊनिम अनुप्राप्य मृतॊ जायति मानुषः
मानुषत्वम अनुप्राप्य कषीणायुर उपपद्यते
106 पापानि तु नरः कृत्वा तिर्यग जायति भारत
न चात्मनः परमाणं ते धर्मं जानन्ति किं चन
107 ये पापानि नराः कृत्वा निरस्यन्ति वरतैः सदा
सुखदुःखसमायुक्ता वयाधितास ते भवन्त्य उत
108 असंवासाः परजायन्ते मलेच्छाश चापि न संशयः
नराः पापसमाचारा लॊभमॊहसमन्विताः
109 वर्जयन्ति च पापानि जन्मप्रभृति ये नराः
अरॊगा रूपवन्तस ते धनिनश च भवन्त्य उत
110 सत्रियॊ ऽपय एतेन कल्पेन कृत्वा पापम अवाप्नुयुः
एतेषाम एव जन्तूनां पत्नीत्वम उपयान्ति ताः
111 परस्वहरणे दॊषाः सर्व एव परकीर्तिताः
एतद वै लेश मात्रेण कथितं ते मयानघ
अपरस्मिन कथा यॊगे भूयः शरॊष्यसि भारत
112 एतन मया महाराज बरह्मणॊ वदतः पुरा
सुरर्षीणां शरुतं मध्ये पृष्टश चापि यथातथम
113 मयापि तव कार्त्स्न्येन यथावद अनुवर्णितम
एतच छरुत्वा महाराज धर्मे कुरु मनः सदा
1 [y]
pitāmaha mahābāho sarvaśāstraviśārada
śrotum icchāmi martyānāṃ saṃsāravidhum uttamam
2 kena vṛttena rājendra vartamānā narā yudhi
prāpnuvanty uttamaṃ svargaṃ kathaṃ ca narakaṃ nṛpa
3 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭa samaṃ janāḥ
prayānty amuṃ lokam itaḥ ko vai tān anugacchati
4 [bh]
asāv āyāti bhagavān bṛhaspatir udāradhīḥ
pṛcchainaṃ sumahābhāgam etad guhyaṃ sanātanam
5 naitad anyena śakyaṃ hi vaktuṃ kena cid adya vai
vaktā bṛhaspatisamo na hy anyo vidyate kva cit
6 [v]
tayoḥ saṃvadator evaṃ pārtha gāṅgeyayos tadā
ājagāma viśuddhātmā bhagavān sa bṛhaspatiḥ
7 tato rājā samutthāya dhṛtarāṣṭra purogamaḥ
pūjām anupamāṃ cakre sarve te ca sabhā sadaḥ
8 tato dharmasuto rājā bhagavantaṃ bṛhaspatim
upagamya yathānyāyaṃ praśnaṃ papraccha suvrataḥ
9 [y]
bhagavan sava dharmajña sarvaśāstraviśārada
martyasya kaḥ sahāyo vai pitā mātā suto guruḥ
10 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭa samaṃ janāḥ
gacchanty amutra lokaṃ vai ka enam anugacchati
11 [b]
ekaḥ prasūto rājendra jantur eko vinaśyati
ekas tarati durgāṇi gacchaty ekaś ca durgatim
12 asahāyaḥ pitā mātā tathā bhrātā suto guruḥ
jñātisaṃbandhivargaś ca mitravargas tathaiva ca
13 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭa samaṃ janāḥ
muhūrtam upatiṣṭhanti tato yānti parāṅmukhāḥ
tais tac charīram utsṛṣṭaṃ dharma eko 'nugacchati
14 tasmād dharmaḥ sahāyārthe sevitavyaḥ sadā nṛbhiḥ
prāṇī dharmasamāyukto narakāyopapadyate
15 tasmān nyāyāgatair arthair dharmaṃ seveta paṇḍitaḥ
dharma eko manuṣyāṇāṃ sahāyaḥ pāralaukikaḥ
16 lobhān mohād anukrośād bhayād vāpy abahuśrutaḥ
naraḥ karoty akāryāṇi parārthe lobhamohitaḥ
17 dharmaś cārthaś ca kāmaś ca tritayaṃ jīvite phalam
etat trayam avāptavyam adharmaparivarjitam
18 [y]
śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam
śarīravicayaṃ jñātuṃ buddhis tu mama jāyate
19 mṛtaṃ śarīrarahitaṃ sūkṣmam avyaktatāṃ gatam
acakṣur viṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati
20 [b]
pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā
21 prāṇinām iha sarveṣāṃ sākṣibhūtāni cāniśam
etaiś ca sa ha dharmo 'pi taṃ jīvam anugacchati
22 tvag asthi māṃsaṃ śukraṃ ca śoṇitaṃ ca mahāmate
śarīraṃ varjayanty ete jīvitena vivarjitam
23 tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate
iha loke pare caiva kiṃ bhūyaḥ kathayāmi te
24 [y]
anudarśitaṃ bhagavatā yathā dharmo 'nugacchati
etat tu jñātum icchāmi kathaṃ retaḥ pravartate
25 [b]
annam aśnanti ye devāḥ śarīrasthā nareśvara
pṛthivī vāyur ākāśam āpo jyotir manas tathā
26 tatas tṛpteṣu rājendra teṣu bhūteṣu pañcasu
manaḥṣaṣṭheṣu śuddhātman retaḥ saṃpadyate mahat
27 tato garbhaḥ saṃbhavati strīpuṃsoḥ pārtha saṃgame
etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi
28 [y]
ākhyātam etad bhavatā garbhaḥ saṃjāyate yathā
yathā jātas tu puruṣaḥ prapadyati tad ucyatām
29 [b]
āsanna mātraḥ satataṃ tair bhūtair abhibhūyate
vipramuktaś ca tair bhūtaiḥ punar yāty aparāṃ gatim
sa tu bhūtasamāyuktaḥ prāpnute jīva eva ha
30 tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham
devatāḥ pañca bhūtasthāḥ kiṃ bhūyaḥ śrotum icchasi
31 [y]
tvag asthi māṃsam utsṛjya taiś ca bhūtair vivarjitaḥ
jīvaḥ sa bhagavān kvasthaḥ sukhaduḥkhe samaśnute
32 [b]
jīvo dharmasamāyuktaḥ śīghraṃ retastvam āgataḥ
strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata
33 yamasya puruṣaiḥ kleśaṃ yamasya puruṣair vadham
duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati
34 iha loke ca sa prāṇī janmaprabhṛti pārthiva
svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ
35 yadi dharmaṃ yathāśakti janmaprabhṛti sevate
tataḥ sa puruṣo bhūtvā sevate nityadā sukham
36 athāntarā tu dharmasya adharmam upasevate
sukhasyānantaraṃ duḥkhaṃ sa jīvo 'py adhigacchati
37 adharmeṇa samāyukto yamasya viṣayaṃ gataḥ
mahad duḥkhaṃ samāsādya tiryagyonau prajāyate
38 karmaṇā yena yeneha yasyāṃ yonau prajāyate
jīvo mohasamāyuktas tan me nigadataḥ śṛṇu
39 yad etad ucyate śāstre setihāse sac chandasi
yamasya viṣayaṃ ghoraṃ martyo lokaḥ prapadyate
40 adhītya caturo vedān dvijo mohasamanvitaḥ
patitāt pratigṛhyātha kharayonau prajāyate
41 kharo jīvati varṣāṇi daśa pañca ca bhārata
kharo mṛto balīvardaḥ sapta varṣāṇi jīvati
42 balīvardo mṛtaś cāpi jāyate brahmarākṣasaḥ
brahmarakṣas tu trīn māsāṃs tato jāyati brāhmaṇaḥ
43 patitaṃ yājayitvā tu kṛmiyonau prajāyate
tatra jīvati varṣāṇi daśa pañca ca bhārata
44 kṛmibhāvāt pramuktas tu tato jāyati gardabhaḥ
gardabhaḥ pañcavarṣāṇi pañcavarṣāṇi sūkaraḥ
śvā varṣam ekaṃ bhavati tato jāyati mānavaḥ
45 upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān
sa jīva iha saṃsārāṃs trīn āpnoti na saṃśayaḥ
46 prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ
tataḥ pretaḥ parikliṣṭaḥ paścāj jāyati brāhmaṇaḥ
47 manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt
so 'dhamān yāti saṃsārān adharmeṇeha cetasā
48 śvayonau tu sa saṃbhūtas trīṇi varṣāṇi jīvati
tatrāpi nidhanaṃ prāptaḥ kṛmiyonau prajāyate
49 kṛmibhāvam anuprāpto varṣam ekaṃ sa jīvati
tatas tu nidhanaṃ prāpya brahmayonau prajāyate
50 yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇe
ātmanaḥ kāmakāreṇa so 'pi haṃsaḥ prajāyate
51 pitaraṃ mātaraṃ vāpi yas tu putro 'vamanyate
so 'pi rājan mṛto jantuḥ pūrvaṃ jāyati gardabhaḥ
52 kharo jīvati māsāṃs tu daśa śvā ca caturdaśa
biḍālaḥ sapta māsāṃs tu tato jāyati mānavaḥ
53 mātā pitaram ākruśya sārikaḥ saṃprajāyate
tāḍayitvā tu tāv eva jāyate kacchapo nṛpa
54 kacchapo daśavarṣāṇi trīṇi varṣāṇi śakyakaḥ
vyālo bhūtvā tu ṣaṇ māsāṃs tato jāyati mānuṣaḥ
55 bhartṛpiṇḍam upāśnan yo rājadviṣṭāni sevate
so 'pi mohasamāpanno mṛto jāyati vānaraḥ
56 vānaro daśavarṣāṇi trīṇi varṣāṇi mūṣakaḥ
śvā bhūtvā cātha ṣaṇ māsāṃs tato jāyati mānuṣaḥ
57 nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ
saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate
58 tatra jīvati varṣāṇi daśa pañca ca bhārata
duṣkṛtasya kṣayaṃ gatvā tato jāyati mānuṣaḥ
59 asūyako naraś cāpi mṛto jāyati śārṅgakaḥ
viśvāsahartā tu naro mīno jāyati durmatiḥ
60 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata
mṛgas tu caturo māsāṃs tataś chāgaḥ prajāyate
61 chāgas tu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ
kīṭaḥ saṃjāyate jantus tato jāyati mānuṣaḥ
62 dhānyān yavāṃs tilān māṣān kulatthān sarṣapāṃś caṇān
kalāyān atha mudgāṃś ca godhūmān atasīs tathā
63 sasyasyānyasya hartā ca mohāj jantur acetanaḥ
sa jāyate mahārāja mūṣako nirapatrapaḥ
64 tataḥ pretya mahārāja punar jāyati sūkaraḥ
sūkaro jātamātras tu rogeṇa mriyate nṛpa
65 śvā tato jāyate mūḍhaḥ karmaṇā tena pārthiva
śvā bhūtvā pañcavarṣāṇi tato jāyati mānuṣaḥ
66 paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ
śvā sṛgālas tato gṛdhro vyālaḥ kaṅko bakas tathā
67 bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ
puṃskolikatvam āpnoti so 'pi saṃvatsaraṃ nṛpa
68 sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca
pradharṣayitvā kāmād yo mṛto jāyati sūkaraḥ
69 sūkaraḥ pañcavarṣāṇi pañcavarṣāṇi śvāvidhaḥ
pipīlakas tu ṣaṇ māsān kīṭaḥ syān māsam eva ca
etān āsādya saṃsārān kṛmiyonau prajāyate
70 tatra jīvati māsāṃs tu kṛmiyonau trayo daśa
tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣaḥ
71 upasthite vivāhe tu dāne yajñe 'pi vābhibho
mohāt karoti yo vighnaṃ sa mṛto jāyate kṛmiḥ
72 kṛmir jīvati varṣāṇi daśa pañca ca bhārata
adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ
73 pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye saṃprayacchati
so 'pi rājan mṛto jantuḥ kṛmiyonau prajāyate
74 tatra jīvati varṣāṇi trayodaśa yudhiṣṭhira
adharmasaṃkṣaye yuktas tato jāyati mānuṣaḥ
75 devakāryam upākṛtya pitṛkāryam athāpi ca
anirvāpya samaśnan vai tato jāyati vāyasaḥ
76 vāyaso daśavarṣāṇi tato jāyati kukkuṭaḥ
jāyate lavakaś cāpi māsaṃ tasmāt tu mānuṣaḥ
77 jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate
so 'pi mṛtyum upāgamya krauñcayonau prajāyate
78 krauñco jīvati māsāṃs tu daśa dvau sapta pañca ca
tato nidhanam āpanno mānuṣatvam upāśnute
79 vṛṣalo brāhmaṇī gatvā kṛmiyonau prajāyate
tatrāpatyaṃ samutpādya tato jāyati mūṣakaḥ
80 kṛtaghnas tu mṛto rājan yamasya viṣayaṃ gataḥ
yamasya viṣaye kruddhair vadhaṃ prāpnoti dāruṇam
81 paṭṭisaṃ mudgaraṃ śūlam agnikumbhaṃ ca dāruṇam
asi patravanaṃ ghoraṃ vālukāṃ kūṭaśālmalīm
82 etāś cānyāś ca bahvīḥ sa yamasya viṣayaṃ gataḥ
yātanāḥ prāpya tatrogrās tato vadhyati bhārata
83 saṃsāracakram āsādya kṛmiyonau prajāyate
kṛmir bhavati varṣāṇi daśa pañca ca bhārata
tato garbhaṃ samāsādya tatraiva mriyate śiśuḥ
84 tato garbhaśatair jantur bahubhiḥ saṃprajāyate
saṃsārāṃś ca bahūn gatvā tatas tiryak prajāyate
85 mṛto duḥkham anuprāpya bahuvarṣagaṇān iha
apunarbhāva saṃyuktas tataḥ kūrmaḥ prajāyate
86 aśastraṃ puruṣaṃ hatvā sa śastraḥ puruṣādhamaḥ
arthārthī yadi vā vairī sa mṛto jāyate kharaḥ
87 kharo jīvati varṣe dve tataḥ śāsteṇa vadhyate
sa mṛto mṛgayonau tu nityodvigno 'bhijāyate
88 mṛgo vadhyati śastreṇa gate saṃvatsare tu saḥ
hato mṛgas tato mīnaḥ so 'pi jālena badhyate
89 māse caturthe saṃprāpte śvāpadaḥ saṃprajāyate
śvāpado daśavarṣāṇi dvīpī varṣāṇi pañca ca
90 tatas tu nidhanaṃ prāptaḥ kālaparyāya coditaḥ
adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ
91 striyaṃ hatvā tu durbuddhir yamasya viṣayaṃ gataḥ
bahūn kleśān samāsādya saṃsārāṃś caiva viṃśatim
92 tataḥ paścān mahārāja kṛmiyonau prajāyate
kṛmir viṃśativarṣāṇi bhūtvā jāyati mānuṣaḥ
93 bhojanaṃ corayitvā tu makṣikā jāyate naraḥ
makṣikā saṃha vaśago bahūn māsān bhavaty uta
tataḥ pāpakṣayaṃ kṛtvā mānuṣatvam avāpnute
94 vādyaṃ hṛtvā tu puruṣo maśakaḥ saṃprajāyate
tathā piṇyāka saṃmiśram aśanaṃ corayen naraḥ
sa jāyate babhru samo dāruṇo mūṣako naraḥ
95 lavaṇaṃ corayitvā tu cīrī vākaḥ prajāyate
dadhi hṛtvā bakaś cāpi plavo matsyān asaṃskṛtān
96 corayitvā payaś cāpi balākā saṃprajāyate
yas tu corayate tailaṃ tailapāyī prajāyate
corayitvā tu durbuddhir madhu daṃśaḥ prajāyate
97 ayo hṛtvā tu durbuddhir vāyaso jāyate naraḥ
pāyasaṃ corayitvā tu tittiritvam avāpnute
98 hṛtvā paiṣṭam apūpaṃ ca kumbholūkaḥ prajāyate
phalaṃ vā mūlakaṃ hṛtvā apūpaṃ vā pipīlikaḥ
99 kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ
rājataṃ bhājanaṃ hṛtvā kapotaḥ saṃprajāyate
100 hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate
krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyati mānavaḥ
101 corayitvā naraḥ paṭṭaṃ tv āvikaṃ vāpi bhārata
kṣaumaṃ ca vastram ādāya śaśo jantuḥ prajāyate
102 varṇān hṛtvā tu puruṣo mṛto jāyati barhiṇaḥ
hṛtvā raktāni vastrāṇi jāyate jīva jīvikaḥ
103 varṇakādīṃs tathā gandhāṃś corayitvā tu mānavaḥ
chucchundaritvam āpnoti rājaṁl lobhaparāyaṇaḥ
104 viśvāsena tu nikṣiptaṃ yo nihnavati mānavaḥ
sa gatāsur naras tādṛṅ matsyayonau prajāyate
105 matsyayonim anuprāpya mṛto jāyati mānuṣaḥ
mānuṣatvam anuprāpya kṣīṇāyur upapadyate
106 pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata
na cātmanaḥ pramāṇaṃ te dharmaṃ jānanti kiṃ cana
107 ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā
sukhaduḥkhasamāyuktā vyādhitās te bhavanty uta
108 asaṃvāsāḥ prajāyante mlecchāś cāpi na saṃśayaḥ
narāḥ pāpasamācārā lobhamohasamanvitāḥ
109 varjayanti ca pāpāni janmaprabhṛti ye narāḥ
arogā rūpavantas te dhaninaś ca bhavanty uta
110 striyo 'py etena kalpena kṛtvā pāpam avāpnuyuḥ
eteṣām eva jantūnāṃ patnītvam upayānti tāḥ
111 parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ
etad vai leśa mātreṇa kathitaṃ te mayānagha
aparasmin kathā yoge bhūyaḥ śroṣyasi bhārata
112 etan mayā mahārāja brahmaṇo vadataḥ purā
surarṣīṇāṃ śrutaṃ madhye pṛṣṭaś cāpi yathātatham
113 mayāpi tava kārtsnyena yathāvad anuvarṇitam
etac chrutvā mahārāja dharme kuru manaḥ sadā

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1806 of 2013 Book 90% ~14 min left