Book 13: Chapter 110
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 13: Chapter 110

The Mahabharata in Sanskrit

Book 13
Chapter 110

1 [य]
पितामहेन विधिवद यज्ञा परॊक्ता महात्मना
गुणाश चैषां यथातत्त्वं परेत्य चेह च सर्वशः
2 न ते शक्या दरिद्रेण यज्ञाः पराप्तुं पितामह
बहूपकरणा यज्ञा नानासंभारविस्तराः
3 पार्थिवै राजपुत्रैर वा शक्याः पराप्तुं पितामह
नार्थन्यूनैर अवगुणैर एकात्मभिर असंहतैः
4 यॊ दरिद्रैर अपि विधिः शक्यः पराप्तुं सदा भवेत
तुल्यॊ यज्ञफलैर एतैस तन मे बरूहि पितामह
5 [भ]
इदम अङ्गिरसा परॊक्तम उपवासफलात्मकम
विधिं यज्ञफलैस तुल्यं तन निबॊध युधिष्ठिर
6 यस तु कल्यं तथा सायं भुञ्जानॊ नान्तरा पिबेत
अहिंसा निरतॊ नित्यं जुह्वानॊ जातवेदसम
7 षड्भिर एव तु वर्षैः स सिध्यते नात्र संशयः
तप्तकाञ्चनवर्णं च विमानं लभते नरः
8 देव सत्रीणाम अधीवासे नृत्यगीतनिनादिते
पराजापत्ये वसेत पद्मं वर्षाणाम अग्निसंनिभे
9 तरीणि वर्षाणि यः पराशेत सततं तव एकभॊजनम
धर्मपत्नी रतॊ नित्यम अग्निष्टॊम फलं लभेत
10 दवितीये दिवसे यस तु पराश्नीयाद एकभॊजनम
सदा दवादश मासांस तु जुह्वानॊ जातवेदसम
यज्ञं बहु सुवर्णं वा वासव परियम आहरेत
11 सत्यवाग दानशीलश च बरह्मण्यश चानसूयकः
कषान्तॊ दान्तॊ जितक्रॊधः स गच्छति परां गतिम
12 पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे
दवे समाप्ते ततः पद्मे सॊ ऽपसरॊभिर वसेत सह
13 तृतीये दिवसे यस तु पराश्नीयाद एकभॊजनम
सदा दवादश मासांस तु जुह्वानॊ जातवेदसम
14 अतिरात्रस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम
मयूरहंससंयुक्तं विमानं लभते नरः
15 सप्तर्षीणां सदा लॊके सॊ ऽपसरॊभिर वसेत सह
निवर्तनं च तत्रास्य तरीणि पद्मानि वै विदुः
16 दिवसे यश चतुर्हे तु पराश्नीयाद एकभॊजनम
सदा दवादश मासान वै जुह्वानॊ जातवेदसम
17 वाजपेयस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम
इन्द्र कन्याभिरूढं च विमानं लभते नरः
18 सगरस्य च पर्यन्ते वासवं लॊकम आवसेत
देवराजस्य च करीडां नित्यकालम अवेक्षते
19 दिवसे पञ्चमे यस तु पराश्नीयाद एकभॊजनम
सदा दवादश मासांस तु जुह्वानॊ जातवेदसम
20 अलुब्धः सत्यवादी च बरह्मण्यश चाविहिंसकः
अनसूयुर अपापस्थॊ दवादशाह फलं लभेत
21 जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम
सूर्यमाला समाभासम आरॊहेत पाण्डुरं गृहम
22 आवर्तनानि चत्वारि तथा पद्मानि दवादश
शराग्निपरिमाणं च तत्रासौ वसते सुखम
23 दिवसे यस तु षष्ठे वै मुनिः पराशेत भॊजनम
सदा दवादश मासान वै जुह्वानॊ जातवेदसम
24 सदा तरिषवण सनायी बरह्म चार्य अनसूयकः
गवामयस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम
25 अग्निज्वाला समाभासं हंसबर्हिण सेवितम
शातकुम्भमयं युक्तं साधयेद यानम उत्तमम
26 तथैवाप्सरसाम अङ्के परसुप्तः परतिबुध्यते
नूपुराणां निनादेन मेखलानां च निस्वनैः
27 कॊटीसहस्रं वर्षाणां तरीणि कॊटिशतानि च
पद्मान्य अष्टादश तथा पताके दवे तथैव च
28 अयुतानि च पञ्चाशद ऋक्षचर्म शतस्य च
लॊम्नां परमाणेन समं बरह्मलॊके महीयते
29 दिवसे सप्तमे यस तु पराश्नीयाद एकभॊजनम
सदा दवादश मासान वै जुह्वानॊ जातवेदसम
30 सरस्वतीं गॊपयानॊ बरह्मचर्यं समाचरन
सुमनॊवर्णकं चैव मधु मांसं च वर्जयेत
31 पुरुषॊ मरुतां लॊकम इन्द्रलॊकं च गच्छति
तत्र तत्र च सिद्धार्थॊ देवकन्याभिर उह्यते
32 फलं बहु सुवर्णस्य यज्ञस्य लभते नरः
संख्याम अतिगुणां चापि तेषु लॊकेषु मॊदते
33 यस तु संवत्सरं कषान्तॊ भुङ्क्ते ऽहन्य अष्टमे नरः
देवकार्यपरॊ नित्यं जुह्वानॊ जातवेदसम
34 पौण्डरीकस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम
पद्मवर्णनिभं चैव विमानम अधिरॊहति
35 कृष्णाः कनकगौर्यश च नार्यः शयामास तथापराः
वयॊ रूपविलासिन्यॊ लभते नात्र संशयः
36 यस तु संवत्सरं भुङ्क्ते नवमे नवमे ऽहनि
सदा दवादश मासान वै जुह्वानॊ जातवेदसम
37 अश्वमेधस्य यज्ञस्य फलं पराप्नॊति मानवः
पुण्डरीकप्रकाशं च विमानं लभते नरः
38 दीप्तसूर्याग्नितेजॊभिर दिव्यमालाभिर एव च
नीयते रुद्र कन्याभिः सॊ ऽनतरिक्षं सनातनम
39 अष्टादशसहस्राणि वर्षाणां कल्पम एव च
कॊटीशतसहस्रं च तेषु लॊकेषु मॊदते
40 यस तु संवत्सरं भुङ्क्ते दशाहे वै गते गते
सदा दवादश मासान वै जुह्वानॊ जातवेदसम
41 बरह्म कन्या निवेशे च सर्वभूतमनॊहरे
अश्वमेध सहस्रस्य फलं पराप्नॊत्य अनुत्तमम
42 रूपवत्यश च तं कन्या रमयन्ति सदा नरम
नीलॊत्पलनिभैर वर्णै रक्तॊत्पलनिभैस तथा
43 विमानं मण्डलावर्तम आवर्त गहनावृतम
सागरॊर्मि परतीकाशं साधयेद यानम उत्तमम
44 विचित्रमणिमालाभिर नादितं शङ्खपुष्करैः
सफाटिकैर वज्रसारैश च सतम्भैः सुकृतवेदिकम
आरॊहति महद यानं हंससारसवाहनम
45 एकादशे तु दिवसे यः पराप्ते पराशते हविः
सदा दवादश मासान वै जुह्वानॊ जातवेदसम
46 परस्त्रियॊ नाभिलषेद वाचाथ मनसापि वा
अनृतं च न भाषेत मातापित्रॊः कृते ऽपि वा
47 अभिगच्छेन महादेवं विमानस्थं महाबलम
सवयम्भुवं च पश्येत विमानं समुपस्थितम
48 कुमार्यः काञ्चनाभासा रूपवत्यॊ नयन्ति तम
रुद्राणां तम अधीवासं दिवि दिव्यं मनॊहरम
49 वर्षाण्य अपरिमेयानि युगान्तम अपि चावसेत
कॊटीशतसहस्रं च दशकॊटिशतानि च
50 रुद्रं नित्यं परणमते देवदानव संमतम
स तस्मै दर्शनं पराप्तॊ दिवसे दिवसे भवेत
51 दिवसे दवादशे यस तु पराप्ते वै पराशते हविः
सदा दवादश मासान वै सर्वमेध फलं लभेत
52 आदित्यैर दवादशैस तस्य विमानं संविधीयते
मणिमुक्ता परवालैश च महार्हैर उपशॊभितम
53 हंसमाला परिक्षिप्तं नागवीथी समाकुलम
मयूरैश चक्रवाकैश च कूजद्भिर उपशॊभितम
54 अट्टैर महद्भिः संयुक्तं बरह्मलॊके परतिष्ठितम
नित्यम आवसते राजन नरनारी समावृतम
ऋषिर एवं महाभागस तव अङ्गिराः पराह धर्मवित
55 तरयॊदशे तु दिवसे यः पराप्ते पराशते हविः
सदा दवादश मासान वै देव सत्र फलं लभेत
56 रक्तपद्मॊदयं नाम विमानं साधयेन नरः
जातरूपप्रयुक्तं च रक्तसंचय भूषितम
57 देवकन्याभिर आकीर्णं दिव्याभरणभूषितम
पुण्यगन्धॊदयं दिव्यं वायव्यैर उपशॊभितम
58 तत्र शङ्कुपताकं च युगान्तं कल्पम एव च
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत
59 गीतगन्धर्वघॊषैश च भेरी पणवनिस्वनैः
सदा परमुदितस ताभिर देवकन्याभिर ईड्यते
60 चतुर्दशे तु दिवसे यः पूर्णे पराशते हविः
सदा दवादश मासान वै महामेध फलं लभेत
61 अनिर्देश्य वयॊ रूपा देवकन्याः सवलंकृताः
मृष्टतप्ताङ्गद धरा विमानैर अनुयान्ति तम
62 कलहंसविनिर्घॊषैर नूपुराणां च निस्वनैः
काञ्चीनां च समुत्कर्षैस तत्र तत्र विबॊध्यते
63 देवकन्या निवासे च तस्मिन वसति मानवः
जाह्नवी वालुकाकीर्णे पूर्णं संवत्सरं नर
64 यस तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः
सदा दादश मासांस तु जुह्वानॊ जातवेदसम
राजसूय सहस्रस्य फलं पराप्नॊत्य अनुत्तमम
65 यानम आरॊहते नित्यं हंसबर्हिण सेवितम
मणिमण्डलकैश चित्रजातरूपसमावृतम
66 दिव्याभरणशॊभाभिर वरस्त्रीभिर अलंकृतम
एकस्तम्भं चतुर्द्वारं सप्त भौमं सुमङ्गलम
वैजयन्ती सहस्रैश च शॊभितं गीतनिस्वनैः
67 दिव्यं दिव्यगुणॊपेतं विमानम अधिरॊहति
मणिमुक्ता परवालैश च भूषितं वैद्युत परभम
वसेद युगसहस्रं च खड्गकुञ्जरवाहनः
68 षॊडशे दिवसे यस तु संप्राप्ते पराशते हविः
सदा दवादश मासान वै सॊमयज्ञफलं लभेत
69 सॊमकन्या निवासेषु सॊ ऽधयावसति नित्यदा
सौम्य गन्धानुलिप्तश च कामचारगतिर भवेत
70 सुदर्शनाभिर नारीभिर मधुराभिस तथैव च
अर्च्यते वै विमानस्थः कामभॊगैश च सेव्यते
71 फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम
आवर्तनानि चत्वारि सागरे यात्य असौ नरः
72 दिवसे सप्त दशमे यः पराप्ते पराशते हविः
सदा दवादश मासान वै जुह्वानॊ जातवेदसम
73 सथानं वारुणम ऐन्द्रं च रौद्रं चैवाधिगच्छति
मारुतौशनसे चैव बरह्मलॊकं च गच्छति
74 तत्र दैवतकन्याभिर आसनेनॊपचर्यते
भूर भुवं चापि देव रषिं विश्वरूपम अवेक्षते
75 तत्र देवाधिदेवस्य कुमार्यॊ रमयन्ति तम
दवात्रिंशद रूपधारिण्यॊ मधुराः समलंकृताः
76 चन्द्रादित्याव उभौ यावद गगने चरतः परभॊ
तावच चरत्य असौ वीरः सुधामृतरसाशनः
77 अष्टादशे तु दिवसे पराश्नीयाद एकभॊजनम
सदा दवादश मासान वै सप्त लॊकान स पश्यति
78 रथैः सनन्दिघॊषैश च पृष्ठतः सॊ ऽनुगम्यते
देवकन्याधिरूढैस तु भराजमानैः सवलंकृतैः
79 वयाघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम
विमानम उत्तमं दिव्यं सुसुखी हय अधिरॊहति
80 तत्र कल्पसहस्रं स कान्ताभिः सह मॊदते
सुधा रसं च भुञ्जीत अमृतॊपमम उत्तमम
81 एकॊनविंशे दिवसे यॊ भुङ्क्ते एकभॊजनम
सदा दवादश मासान वै सप्त लॊकान स पश्यति
82 उत्तमं लभते सथानम अप्सरॊगणसेवितम
गन्धर्वैर उपगीतं च विमानं सूर्यवर्चसम
83 तत्रामर वरस्त्रीभिर मॊदते विगतज्वरः
दिव्याम्बर धरः शरीमान अयुतानां शतं समाः
84 पूर्णे ऽथ दिवसे विंशे यॊ भुङ्क्ते हय एकभॊजनम
सदा दवादश मासांस तु सत्यवादी धृतव्रतः
85 अमांसाशी बरह्म चारी सर्वभूतहिते रतः
स लॊकान विपुलान दिव्यान आदित्यानाम उपाश्नुते
86 गन्धर्वैर अप्सरॊभिश च दिव्यमाल्यानुलेपनैः
विमानैः काञ्चनैर दिव्यैः पृष्ठतश चानुगम्यते
87 एकविंशे तु दिवसे यॊ भुङ्क्ते हय एकभॊजनम
सदा दवादश मासान वै जुह्वानॊ जातवेदसम
88 लॊकम औशनसं दिव्यं शक्र लॊकं च गच्छति
अश्विनॊर मरुतां चैव सुखेष्व अभिरतः सदा
89 अनभिज्ञश च दुःखानां विमानवरम आस्थितः
सेव्यमानॊ वरस्त्रीभिः करीडत्य अमरवत परभुः
90 दवाविंशे दिवसे पराप्ते यॊ भुङ्क्ते हय एकभॊजनम
सदा दवादश मासान वै जुह्वानॊ जातवेदसम
91 धृतिमान अहिंसा निरतः सत्यवाग अनसूयकः
लॊकान वसूनाम आप्नॊति दिवाकरसमप्रभः
92 कामचारी सुधा हारॊ विमानवरम आस्थितः
रमते देवकन्याभिर दिव्याभरणभूषितः
93 तरयॊविंशे तु दिवसे पराशेद यस तव एकभॊजनम
सदा दवादश मासांस तु मिताहारॊ जितेन्द्रियः
94 वायॊर उशनसश चैव रुद्र लॊकं च गच्छति
कामचारी कामगमः पूज्यमानॊ ऽपसरॊगणैः
95 अनेकगुणपर्यन्तं विमानवरम आस्थितः
रमते देवकन्याभिर दिव्याभरणभूषितः
96 चतुर्विंशे तु दिवसे यः पराशेद एकभॊजनम
सदा दवादश मासान वै जुह्वानॊ जातवेदसम
97 आदित्यानाम अधीवासे मॊदमानॊ वसेच चिरम
दिव्यमाल्याम्बरधरॊ दिव्यगन्धानुलेपनः
98 विमाने काञ्चने दिव्ये हंसयुक्ते मनॊरमे
रमते देवकन्यानां सहस्रैर अयुतैस तथा
99 पञ्चविंशे तु दिवसे यः पराशेद एकभॊजनम
सदा दवादश मासांस तु पुष्कलं यानम आरुहेत
100 सिंहव्याघ्र परयुक्तैश च मेघस्वननिनादितैः
रथैः स नन्दिघॊषैश च पृष्ठतः सॊ ऽनुगम्यते
101 देवकन्या समारूढै राजतैर विमलैः शुभैः
विमानम उत्तमं दिव्यम आस्थाय सुमनॊहरम
102 तत्र कल्पसहस्रं वै वसते सत्री शतावृते
सुधा रसं चॊपजीवन्न अमृताव उपमम उत्तमम
103 षड्विंशे दिवसे यस तु पराश्नीयाद एकभॊजनम
सदा दवादश मासांस तु नियतॊ नियताशनः
104 जितेन्द्रियॊ वीतरागॊ जुह्वानॊ जातवेदसम
स पराप्नॊति महाभागः पूम्यमानॊ ऽपसरॊगणैः
105 सप्तानां मरुतां लॊकान वसूनां चापि शॊ ऽशनुते
विमाने सफाटिके दिव्ये सर्वरत्नैर अलंकृते
106 गन्धर्वैर अप्सरॊभिश च पूज्यमानः परमॊदते
दवे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा
107 सप्तविंशे तु दिवसे यः पराशेद एकभॊजनम
सदा दवादश मासांस तु जुह्वानॊ जातवेदसम
108 फलं पराप्नॊति विपुलं देवलॊके च पूज्यते
अमृताशी वसंस तत्र स वितृप्तः परमॊदते
109 देवर्षिचरितं राजन राजर्षिभिर अधिष्ठितम
अध्यावसति दिव्यात्मा विमानवरम आस्थितः
110 सत्रीभिर मनॊऽभिरामाभी रममाणॊ मदॊत्कटः
युगकक्ल्प सहस्राणि तरीण्य आवसति वै सुखम
111 यॊ ऽषटाविंशे तु दिवसे पराश्नीयाद एकभॊजनम
सदा दवादश मासांस तु जितात्मा विजितेन्द्रियः
112 फलं देवर्षिचरितं विपुलं समुपाश्नुते
भॊगवांस तेजसा भाति सहस्रांशुर इवामलः
113 सुकुमार्यश च नार्यस तं रममाणाः सुवर्चसः
पीनस्तनॊरु जघना दिव्याभरणभूषिताः
114 रमयन्ति मनःकान्ता विमाने सूर्यसंनिभे
सर्वकामगमे दिव्ये कल्पायुत शतं समाः
115 एकॊनत्रिंशे दिवसे यः पराशेद एकभॊजनम
सदा दवादश मासान वै सत्यव्रतपरायणः
116 तस्य लॊकाः शुभा दिव्या देवराजर्षिपूजिताः
विमानं चन्द्र शुभाभं दिव्यं समधिगच्छति
117 जातरूपमयं युक्तं सर्वरत्नविभूषितम
अप्सरॊगणसंपूर्णं गन्धर्वैर अभिनादितम
118 तत्र चैनं शुभा नार्यॊ दिव्याभरणभूषिताः
मनॊऽभिरामा मधुरा रमयन्ति मदॊत्कटाः
119 भॊगवांस तेजसा युक्तॊ वैश्वानरसमप्रभः
दिव्यॊ दिव्येन वपुषा भराजमान इवामरः
120 वसूनां मरुतां चैव साध्यानाम अश्विनॊस तथा
रुद्राणां च तथा लॊकान बरह्मलॊकं च गच्छति
121 यस तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः
सदा दवादश मासान वै बरह्मलॊकम अवाप्नुयात
122 सुधा रसकृताहारः शरीमान सर्वमनॊहरः
तेजसा वपुषा लक्ष्म्या भराजते रश्मिवान इव
123 दिव्यमाल्याम्बरधरॊ दिव्यगन्धानुलेपनः
सुखेष्व अभिरतॊ यॊगी दुःखानाम अविजानकः
124 सवयंप्रभाभिर नारीभिर विमानस्थॊ महीयते
रुद्र देवर्षिकन्याभिः सततं चाभिपूज्यते
125 नानाविध सुरूपाभिर नाना रागाभिर एव च
नाना मधुरभाषाभिर नाना रतिभिर एव च
126 विमाने नगराकारे सूर्यवत सूर्यसंनिभे
पृष्ठतः सॊमसंकाशे उदक चैवाभ्र संनिभे
127 दक्षिणायां तु रक्ताभे अधस्तान निल मण्डले
ऊर्ध्वं चित्राभिसंकाशे नैकॊ वसति पूजितः
128 यावद वर्षसहस्रं तु जम्बूद्वीपे परवर्षति
तावत संवत्सराः परॊक्ता बरह्मलॊकस्य धीमतः
129 विप्रुषश चैव यावन्त्यॊ निपतन्ति नभस्तलात
वर्षासु वर्षतस तावन निवसत्य अमरप्रभः
130 मासॊपवासी वर्षैस तु दशभिर सवर्गम उत्तमम
महर्षित्वम अथासाद्य स शरीरगतिर भवेत
131 मुनिर दान्तॊ जितक्रॊधॊ जितशिश्नॊदरः सदा
जुह्वन्न अग्नींश च नियतः संध्यॊपासनसेविता
132 बहुभिर नियमैर एवं मासान अश्नाति यॊ नरः
अभ्रावकाश शीलश च तस्य वासॊ निरुच्यते
133 दिवं गत्वा शरीरेण सवेन राजन यथामरः
सवर्गं पुण्यं यथाकामम उपभुङ्क्ते यथाविधि
134 एष ते भरतश्रेष्ठ यज्ञानां विधिर उत्तमः
वयाख्यातॊ हय आनुपूर्व्येण उपवासफलात्मकः
135 दरिद्रैर मनुजैः पार्थ पराप्यं यज्ञफलं यथा
उपवासम इमं कृत्वा गच्छेच च परमां गतिम
देवद्विजातिपूजायां रतॊ भरतसत्तम
136 उपवासविधिस तव एष विस्तरेण परकीर्तितः
नियतेष्व अप्रमत्तेषु शौचवत्सु महात्मसु
137 दम्भद्रॊह निवृत्तेषु कृतबुद्धिषु भारत
अचलेष्व अप्रकम्पेषु मा ते भूद अत्र संशयः
1 [y]
pitāmahena vidhivad yajñā proktā mahātmanā
guṇāś caiṣāṃ yathātattvaṃ pretya ceha ca sarvaśaḥ
2 na te śakyā daridreṇa yajñāḥ prāptuṃ pitāmaha
bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ
3 pārthivai rājaputrair vā śakyāḥ prāptuṃ pitāmaha
nārthanyūnair avaguṇair ekātmabhir asaṃhataiḥ
4 yo daridrair api vidhiḥ śakyaḥ prāptuṃ sadā bhavet
tulyo yajñaphalair etais tan me brūhi pitāmaha
5 [bh]
idam aṅgirasā proktam upavāsaphalātmakam
vidhiṃ yajñaphalais tulyaṃ tan nibodha yudhiṣṭhira
6 yas tu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet
ahiṃsā nirato nityaṃ juhvāno jātavedasam
7 ṣaḍbhir eva tu varṣaiḥ sa sidhyate nātra saṃśayaḥ
taptakāñcanavarṇaṃ ca vimānaṃ labhate naraḥ
8 deva strīṇām adhīvāse nṛtyagītaninādite
prājāpatye vaset padmaṃ varṣāṇām agnisaṃnibhe
9 trīṇi varṣāṇi yaḥ prāśet satataṃ tv ekabhojanam
dharmapatnī rato nityam agniṣṭoma phalaṃ labhet
10 dvitīye divase yas tu prāśnīyād ekabhojanam
sadā dvādaśa māsāṃs tu juhvāno jātavedasam
yajñaṃ bahu suvarṇaṃ vā vāsava priyam āharet
11 satyavāg dānaśīlaś ca brahmaṇyaś cānasūyakaḥ
kṣānto dānto jitakrodhaḥ sa gacchati parāṃ gatim
12 pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe
dve samāpte tataḥ padme so 'psarobhir vaset saha
13 tṛtīye divase yas tu prāśnīyād ekabhojanam
sadā dvādaśa māsāṃs tu juhvāno jātavedasam
14 atirātrasya yajñasya phalaṃ prāpnoty anuttamam
mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ
15 saptarṣīṇāṃ sadā loke so 'psarobhir vaset saha
nivartanaṃ ca tatrāsya trīṇi padmāni vai viduḥ
16 divase yaś caturhe tu prāśnīyād ekabhojanam
sadā dvādaśa māsān vai juhvāno jātavedasam
17 vājapeyasya yajñasya phalaṃ prāpnoty anuttamam
indra kanyābhirūḍhaṃ ca vimānaṃ labhate naraḥ
18 sagarasya ca paryante vāsavaṃ lokam āvaset
devarājasya ca krīḍāṃ nityakālam avekṣate
19 divase pañcame yas tu prāśnīyād ekabhojanam
sadā dvādaśa māsāṃs tu juhvāno jātavedasam
20 alubdhaḥ satyavādī ca brahmaṇyaś cāvihiṃsakaḥ
anasūyur apāpastho dvādaśāha phalaṃ labhet
21 jāmbūnadamayaṃ divyaṃ vimānaṃ haṃsalakṣaṇam
sūryamālā samābhāsam ārohet pāṇḍuraṃ gṛham
22 āvartanāni catvāri tathā padmāni dvādaśa
śarāgniparimāṇaṃ ca tatrāsau vasate sukham
23 divase yas tu ṣaṣṭhe vai muniḥ prāśeta bhojanam
sadā dvādaśa māsān vai juhvāno jātavedasam
24 sadā triṣavaṇa snāyī brahma cāry anasūyakaḥ
gavāmayasya yajñasya phalaṃ prāpnoty anuttamam
25 agnijvālā samābhāsaṃ haṃsabarhiṇa sevitam
śātakumbhamayaṃ yuktaṃ sādhayed yānam uttamam
26 tathaivāpsarasām aṅke prasuptaḥ pratibudhyate
nūpurāṇāṃ ninādena mekhalānāṃ ca nisvanaiḥ
27 koṭīsahasraṃ varṣāṇāṃ trīṇi koṭiśatāni ca
padmāny aṣṭādaśa tathā patāke dve tathaiva ca
28 ayutāni ca pañcāśad ṛkṣacarma śatasya ca
lomnāṃ pramāṇena samaṃ brahmaloke mahīyate
29 divase saptame yas tu prāśnīyād ekabhojanam
sadā dvādaśa māsān vai juhvāno jātavedasam
30 sarasvatīṃ gopayāno brahmacaryaṃ samācaran
sumanovarṇakaṃ caiva madhu māṃsaṃ ca varjayet
31 puruṣo marutāṃ lokam indralokaṃ ca gacchati
tatra tatra ca siddhārtho devakanyābhir uhyate
32 phalaṃ bahu suvarṇasya yajñasya labhate naraḥ
saṃkhyām atiguṇāṃ cāpi teṣu lokeṣu modate
33 yas tu saṃvatsaraṃ kṣānto bhuṅkte 'hany aṣṭame naraḥ
devakāryaparo nityaṃ juhvāno jātavedasam
34 pauṇḍarīkasya yajñasya phalaṃ prāpnoty anuttamam
padmavarṇanibhaṃ caiva vimānam adhirohati
35 kṛṣṇāḥ kanakagauryaś ca nāryaḥ śyāmās tathāparāḥ
vayo rūpavilāsinyo labhate nātra saṃśayaḥ
36 yas tu saṃvatsaraṃ bhuṅkte navame navame 'hani
sadā dvādaśa māsān vai juhvāno jātavedasam
37 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ
puṇḍarīkaprakāśaṃ ca vimānaṃ labhate naraḥ
38 dīptasūryāgnitejobhir divyamālābhir eva ca
nīyate rudra kanyābhiḥ so 'ntarikṣaṃ sanātanam
39 aṣṭādaśasahasrāṇi varṣāṇāṃ kalpam eva ca
koṭīśatasahasraṃ ca teṣu lokeṣu modate
40 yas tu saṃvatsaraṃ bhuṅkte daśāhe vai gate gate
sadā dvādaśa māsān vai juhvāno jātavedasam
41 brahma kanyā niveśe ca sarvabhūtamanohare
aśvamedha sahasrasya phalaṃ prāpnoty anuttamam
42 rūpavatyaś ca taṃ kanyā ramayanti sadā naram
nīlotpalanibhair varṇai raktotpalanibhais tathā
43 vimānaṃ maṇḍalāvartam āvarta gahanāvṛtam
sāgarormi pratīkāśaṃ sādhayed yānam uttamam
44 vicitramaṇimālābhir nāditaṃ śaṅkhapuṣkaraiḥ
sphāṭikair vajrasāraiś ca stambhaiḥ sukṛtavedikam
ārohati mahad yānaṃ haṃsasārasavāhanam
45 ekādaśe tu divase yaḥ prāpte prāśate haviḥ
sadā dvādaśa māsān vai juhvāno jātavedasam
46 parastriyo nābhilaṣed vācātha manasāpi vā
anṛtaṃ ca na bhāṣeta mātāpitroḥ kṛte 'pi vā
47 abhigacchen mahādevaṃ vimānasthaṃ mahābalam
svayambhuvaṃ ca paśyeta vimānaṃ samupasthitam
48 kumāryaḥ kāñcanābhāsā rūpavatyo nayanti tam
rudrāṇāṃ tam adhīvāsaṃ divi divyaṃ manoharam
49 varṣāṇy aparimeyāni yugāntam api cāvaset
koṭīśatasahasraṃ ca daśakoṭiśatāni ca
50 rudraṃ nityaṃ praṇamate devadānava saṃmatam
sa tasmai darśanaṃ prāpto divase divase bhavet
51 divase dvādaśe yas tu prāpte vai prāśate haviḥ
sadā dvādaśa māsān vai sarvamedha phalaṃ labhet
52 ādityair dvādaśais tasya vimānaṃ saṃvidhīyate
maṇimuktā pravālaiś ca mahārhair upaśobhitam
53 haṃsamālā parikṣiptaṃ nāgavīthī samākulam
mayūraiś cakravākaiś ca kūjadbhir upaśobhitam
54 aṭṭair mahadbhiḥ saṃyuktaṃ brahmaloke pratiṣṭhitam
nityam āvasate rājan naranārī samāvṛtam
ṛṣir evaṃ mahābhāgas tv aṅgirāḥ prāha dharmavit
55 trayodaśe tu divase yaḥ prāpte prāśate haviḥ
sadā dvādaśa māsān vai deva satra phalaṃ labhet
56 raktapadmodayaṃ nāma vimānaṃ sādhayen naraḥ
jātarūpaprayuktaṃ ca raktasaṃcaya bhūṣitam
57 devakanyābhir ākīrṇaṃ divyābharaṇabhūṣitam
puṇyagandhodayaṃ divyaṃ vāyavyair upaśobhitam
58 tatra śaṅkupatākaṃ ca yugāntaṃ kalpam eva ca
ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset
59 gītagandharvaghoṣaiś ca bherī paṇavanisvanaiḥ
sadā pramuditas tābhir devakanyābhir īḍyate
60 caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ
sadā dvādaśa māsān vai mahāmedha phalaṃ labhet
61 anirdeśya vayo rūpā devakanyāḥ svalaṃkṛtāḥ
mṛṣṭataptāṅgada dharā vimānair anuyānti tam
62 kalahaṃsavinirghoṣair nūpurāṇāṃ ca nisvanaiḥ
kāñcīnāṃ ca samutkarṣais tatra tatra vibodhyate
63 devakanyā nivāse ca tasmin vasati mānavaḥ
jāhnavī vālukākīrṇe pūrṇaṃ saṃvatsaraṃ nara
64 yas tu pakṣe gate bhuṅkte ekabhaktaṃ jitendriyaḥ
sadā dādaśa māsāṃs tu juhvāno jātavedasam
rājasūya sahasrasya phalaṃ prāpnoty anuttamam
65 yānam ārohate nityaṃ haṃsabarhiṇa sevitam
maṇimaṇḍalakaiś citrajātarūpasamāvṛtam
66 divyābharaṇaśobhābhir varastrībhir alaṃkṛtam
ekastambhaṃ caturdvāraṃ sapta bhaumaṃ sumaṅgalam
vaijayantī sahasraiś ca śobhitaṃ gītanisvanaiḥ
67 divyaṃ divyaguṇopetaṃ vimānam adhirohati
maṇimuktā pravālaiś ca bhūṣitaṃ vaidyuta prabham
vased yugasahasraṃ ca khaḍgakuñjaravāhanaḥ
68 ṣoḍaśe divase yas tu saṃprāpte prāśate haviḥ
sadā dvādaśa māsān vai somayajñaphalaṃ labhet
69 somakanyā nivāseṣu so 'dhyāvasati nityadā
saumya gandhānuliptaś ca kāmacāragatir bhavet
70 sudarśanābhir nārībhir madhurābhis tathaiva ca
arcyate vai vimānasthaḥ kāmabhogaiś ca sevyate
71 phalaṃ padmaśataprakhyaṃ mahākalpaṃ daśādhikam
āvartanāni catvāri sāgare yāty asau naraḥ
72 divase sapta daśame yaḥ prāpte prāśate haviḥ
sadā dvādaśa māsān vai juhvāno jātavedasam
73 sthānaṃ vāruṇam aindraṃ ca raudraṃ caivādhigacchati
mārutauśanase caiva brahmalokaṃ ca gacchati
74 tatra daivatakanyābhir āsanenopacaryate
bhūr bhuvaṃ cāpi deva rṣiṃ viśvarūpam avekṣate
75 tatra devādhidevasya kumāryo ramayanti tam
dvātriṃśad rūpadhāriṇyo madhurāḥ samalaṃkṛtāḥ
76 candrādityāv ubhau yāvad gagane carataḥ prabho
tāvac caraty asau vīraḥ sudhāmṛtarasāśanaḥ
77 aṣṭādaśe tu divase prāśnīyād ekabhojanam
sadā dvādaśa māsān vai sapta lokān sa paśyati
78 rathaiḥ sanandighoṣaiś ca pṛṣṭhataḥ so 'nugamyate
devakanyādhirūḍhais tu bhrājamānaiḥ svalaṃkṛtaiḥ
79 vyāghrasiṃhaprayuktaṃ ca meghasvananināditam
vimānam uttamaṃ divyaṃ susukhī hy adhirohati
80 tatra kalpasahasraṃ sa kāntābhiḥ saha modate
sudhā rasaṃ ca bhuñjīta amṛtopamam uttamam
81 ekonaviṃśe divase yo bhuṅkte ekabhojanam
sadā dvādaśa māsān vai sapta lokān sa paśyati
82 uttamaṃ labhate sthānam apsarogaṇasevitam
gandharvair upagītaṃ ca vimānaṃ sūryavarcasam
83 tatrāmara varastrībhir modate vigatajvaraḥ
divyāmbara dharaḥ śrīmān ayutānāṃ śataṃ samāḥ
84 pūrṇe 'tha divase viṃśe yo bhuṅkte hy ekabhojanam
sadā dvādaśa māsāṃs tu satyavādī dhṛtavrataḥ
85 amāṃsāśī brahma cārī sarvabhūtahite rataḥ
sa lokān vipulān divyān ādityānām upāśnute
86 gandharvair apsarobhiś ca divyamālyānulepanaiḥ
vimānaiḥ kāñcanair divyaiḥ pṛṣṭhataś cānugamyate
87 ekaviṃśe tu divase yo bhuṅkte hy ekabhojanam
sadā dvādaśa māsān vai juhvāno jātavedasam
88 lokam auśanasaṃ divyaṃ śakra lokaṃ ca gacchati
aśvinor marutāṃ caiva sukheṣv abhirataḥ sadā
89 anabhijñaś ca duḥkhānāṃ vimānavaram āsthitaḥ
sevyamāno varastrībhiḥ krīḍaty amaravat prabhuḥ
90 dvāviṃśe divase prāpte yo bhuṅkte hy ekabhojanam
sadā dvādaśa māsān vai juhvāno jātavedasam
91 dhṛtimān ahiṃsā nirataḥ satyavāg anasūyakaḥ
lokān vasūnām āpnoti divākarasamaprabhaḥ
92 kāmacārī sudhā hāro vimānavaram āsthitaḥ
ramate devakanyābhir divyābharaṇabhūṣitaḥ
93 trayoviṃśe tu divase prāśed yas tv ekabhojanam
sadā dvādaśa māsāṃs tu mitāhāro jitendriyaḥ
94 vāyor uśanasaś caiva rudra lokaṃ ca gacchati
kāmacārī kāmagamaḥ pūjyamāno 'psarogaṇaiḥ
95 anekaguṇaparyantaṃ vimānavaram āsthitaḥ
ramate devakanyābhir divyābharaṇabhūṣitaḥ
96 caturviṃśe tu divase yaḥ prāśed ekabhojanam
sadā dvādaśa māsān vai juhvāno jātavedasam
97 ādityānām adhīvāse modamāno vasec ciram
divyamālyāmbaradharo divyagandhānulepanaḥ
98 vimāne kāñcane divye haṃsayukte manorame
ramate devakanyānāṃ sahasrair ayutais tathā
99 pañcaviṃśe tu divase yaḥ prāśed ekabhojanam
sadā dvādaśa māsāṃs tu puṣkalaṃ yānam āruhet
100 siṃhavyāghra prayuktaiś ca meghasvananināditaiḥ
rathaiḥ sa nandighoṣaiś ca pṛṣṭhataḥ so 'nugamyate
101 devakanyā samārūḍhai rājatair vimalaiḥ śubhaiḥ
vimānam uttamaṃ divyam āsthāya sumanoharam
102 tatra kalpasahasraṃ vai vasate strī śatāvṛte
sudhā rasaṃ copajīvann amṛtāv upamam uttamam
103 ṣaḍviṃśe divase yas tu prāśnīyād ekabhojanam
sadā dvādaśa māsāṃs tu niyato niyatāśanaḥ
104 jitendriyo vītarāgo juhvāno jātavedasam
sa prāpnoti mahābhāgaḥ pūmyamāno 'psarogaṇaiḥ
105 saptānāṃ marutāṃ lokān vasūnāṃ cāpi śo 'śnute
vimāne sphāṭike divye sarvaratnair alaṃkṛte
106 gandharvair apsarobhiś ca pūjyamānaḥ pramodate
dve yugānāṃ sahasre tu divye divyena tejasā
107 saptaviṃśe tu divase yaḥ prāśed ekabhojanam
sadā dvādaśa māsāṃs tu juhvāno jātavedasam
108 phalaṃ prāpnoti vipulaṃ devaloke ca pūjyate
amṛtāśī vasaṃs tatra sa vitṛptaḥ pramodate
109 devarṣicaritaṃ rājan rājarṣibhir adhiṣṭhitam
adhyāvasati divyātmā vimānavaram āsthitaḥ
110 strībhir mano'bhirāmābhī ramamāṇo madotkaṭaḥ
yugakaklpa sahasrāṇi trīṇy āvasati vai sukham
111 yo 'ṣṭāviṃśe tu divase prāśnīyād ekabhojanam
sadā dvādaśa māsāṃs tu jitātmā vijitendriyaḥ
112 phalaṃ devarṣicaritaṃ vipulaṃ samupāśnute
bhogavāṃs tejasā bhāti sahasrāṃśur ivāmalaḥ
113 sukumāryaś ca nāryas taṃ ramamāṇāḥ suvarcasaḥ
pīnastanoru jaghanā divyābharaṇabhūṣitāḥ
114 ramayanti manaḥkāntā vimāne sūryasaṃnibhe
sarvakāmagame divye kalpāyuta śataṃ samāḥ
115 ekonatriṃśe divase yaḥ prāśed ekabhojanam
sadā dvādaśa māsān vai satyavrataparāyaṇaḥ
116 tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ
vimānaṃ candra śubhābhaṃ divyaṃ samadhigacchati
117 jātarūpamayaṃ yuktaṃ sarvaratnavibhūṣitam
apsarogaṇasaṃpūrṇaṃ gandharvair abhināditam
118 tatra cainaṃ śubhā nāryo divyābharaṇabhūṣitāḥ
mano'bhirāmā madhurā ramayanti madotkaṭāḥ
119 bhogavāṃs tejasā yukto vaiśvānarasamaprabhaḥ
divyo divyena vapuṣā bhrājamāna ivāmaraḥ
120 vasūnāṃ marutāṃ caiva sādhyānām aśvinos tathā
rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati
121 yas tu māse gate bhuṅkte ekabhaktaṃ śamātmakaḥ
sadā dvādaśa māsān vai brahmalokam avāpnuyāt
122 sudhā rasakṛtāhāraḥ śrīmān sarvamanoharaḥ
tejasā vapuṣā lakṣmyā bhrājate raśmivān iva
123 divyamālyāmbaradharo divyagandhānulepanaḥ
sukheṣv abhirato yogī duḥkhānām avijānakaḥ
124 svayaṃprabhābhir nārībhir vimānastho mahīyate
rudra devarṣikanyābhiḥ satataṃ cābhipūjyate
125 nānāvidha surūpābhir nānā rāgābhir eva ca
nānā madhurabhāṣābhir nānā ratibhir eva ca
126 vimāne nagarākāre sūryavat sūryasaṃnibhe
pṛṣṭhataḥ somasaṃkāśe udak caivābhra saṃnibhe
127 dakṣiṇāyāṃ tu raktābhe adhastān nila maṇḍale
ūrdhvaṃ citrābhisaṃkāśe naiko vasati pūjitaḥ
128 yāvad varṣasahasraṃ tu jambūdvīpe pravarṣati
tāvat saṃvatsarāḥ proktā brahmalokasya dhīmataḥ
129 vipruṣaś caiva yāvantyo nipatanti nabhastalāt
varṣāsu varṣatas tāvan nivasaty amaraprabhaḥ
130 māsopavāsī varṣais tu daśabhir svargam uttamam
maharṣitvam athāsādya sa śarīragatir bhavet
131 munir dānto jitakrodho jitaśiśnodaraḥ sadā
juhvann agnīṃś ca niyataḥ saṃdhyopāsanasevitā
132 bahubhir niyamair evaṃ māsān aśnāti yo naraḥ
abhrāvakāśa śīlaś ca tasya vāso nirucyate
133 divaṃ gatvā śarīreṇa svena rājan yathāmaraḥ
svargaṃ puṇyaṃ yathākāmam upabhuṅkte yathāvidhi
134 eṣa te bharataśreṣṭha yajñānāṃ vidhir uttamaḥ
vyākhyāto hy ānupūrvyeṇa upavāsaphalātmakaḥ
135 daridrair manujaiḥ pārtha prāpyaṃ yajñaphalaṃ yathā
upavāsam imaṃ kṛtvā gacchec ca paramāṃ gatim
devadvijātipūjāyāṃ rato bharatasattama
136 upavāsavidhis tv eṣa vistareṇa prakīrtitaḥ
niyateṣv apramatteṣu śaucavatsu mahātmasu
137 dambhadroha nivṛtteṣu kṛtabuddhiṣu bhārata
acaleṣv aprakampeṣu mā te bhūd atra saṃśayaḥ

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1804 of 2013 Book 90% ~14 min left