Book 13: Chapter 107
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 13: Chapter 107

The Mahabharata in Sanskrit

Book 13
Chapter 107

1 [य]
शतायुर उक्तः पुरुषः शतवीर्यश च वैदिके
कस्मान मरियन्ते पुरुषा बाला अपि पितामह
2 आयुष्मान केन भवति सवल्पायुर वापि मानवः
केन वा लभते कीर्तिं केन वा लभते शरियम
3 तपसा बरह्मचर्येण जपैर हॊमैस तथौषधैः
जन्मना यदि वाचारात तन मे बरूहि पितामह
4 [भ]
अत्र ते वर्तयिष्यामि यन मां तवम अनुपृच्छसि
अल्पायुर येन भवति दीर्घायुर वापि मानवः
5 येन वा लभते कीर्तिं येन वा लभते शरियम
यथा च वर्तन पुरुषः शरेयसा संप्रयुज्यते
6 आचाराल लभते हयायुर आचाराल लभते शरियम
आचारात कीर्तिम आप्नॊति पुरुषः परेत्य चेह च
7 दुराचारॊ हि पुरुषॊ नेहायुर विन्दते महत
तरसन्ति यस्माद भूतानि तथा परिभवन्ति च
8 तस्मात कुर्याद इहाचारं य इच्छेद भूतिम आत्मनः
अपि पापशरीरस्य आचारॊ हन्त्य अलक्षणम
9 आचार लक्षणॊ धर्मः सन्तश चाचार लक्षणाः
साधूनां च यथावृत्तम एतद आचार लक्षणम
10 अप्य अदृष्टं शरुतं वापि पुरुषं धर्मचारिणम
भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते परियम
11 ये नास्तिका निष्क्रियाश च गुरु शास्त्रातिलङ्घिनः
अधर्मज्ञा दुराचारास ते भवन्ति गतायुषः
12 विशीला भिन्नमर्यादा नित्यं संकीर्ण मैथुनाः
अल्पायुषॊ भवन्तीह नरा निरयगामिनः
13 सर्वलक्षणहीनॊ ऽपि समुदाचारवान नरः
शरद्दधानॊ ऽनसूयुश च शतं वर्षाणि जीवति
14 अक्रॊधनः सत्यवादी भूतानाम अविहिंसकः
अनसूयुर अजिह्मश च शतं वर्षाणि जीवति
15 लॊष्ट मर्दी तृणच छेदी नखखादी च यॊ नरः
नित्यॊच्छिष्टः संकुसुकॊ नेहायुर विन्दते महत
16 बराह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत
उत्थायाचम्य तिष्ठेत पूर्वां संध्यां कृताञ्जलिः
17 एवम एवापरां संध्यां समुपासीत वाग्यतः
नेक्षेतादित्यम उद्यन्तं नास्तं यान्तं कदा चन
18 ऋषयॊ दीर्घसंध्यत्वाद दीर्घम आयुर अवाप्नुवन
तस्मात तिष्ठेत सदा पूर्वां पश्चिमां चैव वाग्यतः
19 ये च पूर्वाम उपासन्ते दविजाः संध्यां न पश्चिमाम
सर्वांस तान धार्मिकॊ राजा शूद्र कर्माणि कारयेत
20 परदारा न गन्तव्याः सर्ववर्णेषु कर्हि चित
न हीदृशम अनायुष्यं लॊके किं चन विद्यते
यादृशं पुरुषस्येह परदारॊपसेवनम
21 परसाधनं च केशानाम अञ्जनं दन्तधावनम
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम
22 पुरीष मूत्रे नॊदीक्षेन नाधितिष्ठेत कदा चन
उदक्यया च संभाषां न कुर्वीत कदा चन
23 नॊत्सृजेत पुरीषं च कषेत्रे गरामस्य चान्तिके
उभे मूत्र पुरीषे तु नाप्सु कुर्यात कदा चन
24 पराङ्मुखॊ नित्यम अश्नीयाद वाग्यतॊ ऽननम अकुत्सयन
परस्कन्दयेच च मनसा भुक्त्वा चाग्निम उपस्पृशेत
25 आयुष्यं पराङ्मुखॊ भुङ्क्ते यशस्यं दक्षिणामुखः
धन्यं पश्चान मुखॊ भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः
26 नाधितिष्ठेत तुषाञ जातु केशभस्म कपालिकाः
अन्यस्य चाप्य उपस्थानं दूरतः परिवर्जयेत
27 शान्ति हॊमांश च कुर्वीत सावित्राणि च कारयेत
निषण्णश चापि खादेत न तु गच्छन कथं चन
28 मूत्रं न तिष्ठता कार्यं न भस्मनि न गॊव्रजे
29 आर्द्र पादस तु भुञ्जीत नार्द्र पादस तु संविशेत
आर्द्र पादस तु भुञ्जानॊ वर्षाणां जीवते शतम
30 तरीणि तेजांसि नॊच्छिष्ट आलभेत कदा चन
अगिं गां बराह्मणं चैव तथास्यायुर न रिष्यते
31 तरीणि तेजांसि नॊच्छिष्ट उदीक्षेत कदा चन
सूर्या चन्द्रमसौ चैव नक्षताणि च सर्वशः
32 ऊर्ध्वं पराणा हय उत्क्रामन्ति यूनः सथविर आयति
परत्युत्थानाभिवादाभ्यां पुनस तान परतिपद्यते
33 अभिवादयेत वृद्धांश च आसनं चैव दापयेत
कृताञ्जलिर उपासीत गच्छन्तं पृष्ठतॊ ऽनवियात
34 न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत
नैकवस्त्रेण भॊक्तव्यं न नग्नः सनातुम अर्हति
सवप्तव्यं नैव नग्नेन न चॊच्छिष्टॊ ऽपि संविशेत
35 उच्छिष्टॊ न सपृशेच छीर्षं सर्वे पराणास तदाश्रयाः
केशग्रहान परहारांश च शिरस्य एतान विवर्जयेत
36 न पाणिभ्याम उभाभ्यां च कण्डूयेज जातु वैश इरः
न चाभीक्ष्णं शिरः सनायात तथास्यायुर न रिष्यते
37 शिरःस्नातश च तैलेन नाङ्गं किं चिद उपस्पृशेत
तिलपिष्टं न चाश्नीयात तथायुर विन्दते महत
38 नाध्यापयेत तथॊच्छिष्टॊ नाधीयीत कदा चन
वाते च पूति गन्धे च मनसापि न चिन्तयेत
39 अत्र गाथा यमॊद्गीताः कीर्तयन्ति पुरा विदः
आयुर अस्य निकृन्तामि परजाम अस्याददे तथा
40 य उच्छिष्टः परवदति सवाध्यायं चाधिगच्छति
यश चानध्याय काले ऽपि मॊहाद अभ्यस्यति दविजः
तस्माद युक्तॊ ऽपय अनध्याये नाधीयीत कदा चन
41 परत्य आदित्यं परत्य अनिलं परति गां च परति दविजान
ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः
42 उभे मूत्र पुरीषे तु दिवा कुर्याद उदङ्मुखः
दक्षिणाभिमुखॊ रात्रौ तथास्यायुर न रिष्यते
43 तरीन कृशान नावजानीयाद दीर्घम आयुर जिजीविषुः
बराह्मणं कषत्रियं सर्पं सर्वे हय आशीविषास तरयः
44 दहत्य आशीविषः करुद्धॊ यावत पश्यति चक्षुषा
कषत्रियॊ ऽपि दहेत करुद्धॊ यावत सपृशति तेजसा
45 बराह्मणस तु कुलं हन्याद धयानेनावेक्षितेन च
तस्माद एतत तरयं यत्नाद उपसेवेत पण्डितः
46 गुरुणा वैरनिर्बन्धॊ न कर्तव्यः कदा चन
अनुमान्यः परसाद्यश च गुरुः करुद्धॊ युधिष्ठिर
47 सम्यङ मिथ्या परवृत्ते ऽपि वर्तितव्यं गुराव इह
गुरु निन्दा दहत्य आयुर मनुष्याणां न संशयः
48 दूराद आवसथान मूत्रं दूरात पादावसेचनम
उच्छिष्टॊत्सर्जनं चैव दूरे कार्यं हितैषिणा
49 नातिकल्पं नातिसायं न च मध्यं दिने सथिते
नाज्ञातैः सह गच्छेत नैकॊ न वृषलैः सह
50 पन्था देयॊ बराह्मणाय गॊभ्यॊ राजस्य एव च
वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च
51 परदक्षिणं च कुर्वीत परिज्ञातान वनस्पतीन
चतुष्पथान परकुर्वीत सर्वान एव परदक्षिणान
52 मध्यं दिने निशाकाले मध्यरात्रे च सर्वदा
चतुष्पथान न सेवेत उभे संध्ये तथैव च
53 उपानहौ च वस्त्रं च धृतम अन्यैर न धारयेत
बरह्म चारी च नित्यं सयात पादं पादेन नाक्रमेत
54 अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः
अष्टम्यां सर्वपक्षाणां बरह्म चारी सदा भवेत
55 वृथा मांसं न खादेत पृष्ठमांसं तथैव च
आक्रॊशं परिवादं च पैशुन्यं च विवर्जयेत
56 नारुं तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत
ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्याम
57 वाक सायका वदनान निष्पतन्ति; यैर आहतः शॊचति रात्र्यहानि
परस्य नामर्मसु ते पतन्ति; तान पण्डितॊ नावसृजेत परेषु
58 रॊहते सायकैर विद्धं वनं परशुना हतम
वाचा दुरुक्तं बीभत्सं न संरॊहति वाक कषतम
59 हीनाङ्गान अतिरिक्ताङ्गान विद्या हीनान वयॊ ऽधिकान
रूपद्रविण हीनांश च सत्त्वहीनांश च नाक्षिपेत
60 नास्तिक्यं वेद निन्दां च देवतानां च कुत्सनम
दवेषस्तम्भाभिमानांश च तैक्ष्ण्यं च परिवर्जयेत
61 परस्य दण्डं नॊद्यच्छेत करॊद्धॊ नैनं निपातयेत
अन्यत्र पुत्राच छिष्याद वा शिक्षार्थं ताडनं समृतम
62 न बराह्मणान परिवदेन नक्षत्राणि न निर्दिशेत
तिथिं पक्षस्य न बरूयात तथास्यायुर न रिष्यते
63 कृत्वा मूत्र पुरीषे तु रथ्याम आक्रम्य वा पुनः
पादप्रक्षालनं कुर्यात सवाध्याये भॊजने तथा
64 तरीणि देवाः पवित्राणि बराह्मणानाम अकल्पयन
अदृष्टम अद्भिर निर्णिक्तं यच च वाचा परशस्यते
65 संयावं कृसरं मांसं शष्कुली पायसं तथा
आत्मार्थं न परकर्तव्यं देवार्थं तु परकल्पयेत
66 नित्यम अग्निं परिचरेद भिक्षां दद्याच च नित्यदा
वाग्यतॊ दन्तकाष्ठं च नित्यम एव समाचरेत
न चाभ्युदित शायी सयात परायश्चित्ती तथा भवेत
67 माता पितरम उत्थाय पूर्वम एवाभिवादयेत
आचार्यम अथ वाप्य एनं तथायुर विन्दते महत
68 वर्जयेद दन्तकाष्टानि वर्जनीयानि नित्यशः
भक्षयेच छास्त्र दृष्टानि पर्वस्व अपि च वर्जयेत
69 उदङ्मुखश च सततं शौचं कुर्यात समाहितः
70 अकृत्वा देवता पूजां नान्यं गच्छेत कदा चन
अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम
71 अवलॊक्यॊ न चादर्शॊ मलिनॊ बुद्धिमत्तरैः
न चाज्ञातां सत्रियं गच्छेद गर्भिणीं वा कदा चन
72 उदक्शिरा न सवपेत तथा परत्यक्शिरा न च
पराक्शिरास तु सवपेद विद्वान अथ वा दक्षिणा शिराः
73 न भग्ने नावदीर्णे वा शयने परस्वपेत च
नान्तर्धाने न संयुक्ते न च तिर्यक कदा चन
74 न नग्नः कर्हि चित सनायान न निशायां कदा चन
सनात्वा च नावमृज्येत गात्राणि सुविचक्षणः
75 न चानुलिम्पेद अस्नात्वा सनात्वा वासॊ न निर्धुनेत
आर्द्र एव तु वासांसि नित्यं सेवेत मानवः
सरजश च नावकर्षेत न बहिर धारयेत च
76 रक्तमाल्यं न धार्यं सयाच छुक्लं धार्यं तु पण्डितैः
वर्जयित्वा तु कमलं तथा कुवलयं विभॊ
77 रक्तं शिरसि धार्यं तु तथा वानेयम इत्य अपि
काञ्चनी चैव या माला न सा दुष्यति कर्हि चित
सनातस्य वर्णकं नित्यम आर्द्रं दद्याद विशां पते
78 विपर्ययं न कुर्वीत वाससॊ बुद्धिमान नरः
तथा नान्यधृतं धार्यं न चापदशम एव च
79 अन्यद एव भवेद वासः शयनीये नरॊत्तम
अन्यद रथ्यासु देवानाम अर्चायाम अन्यद एव हि
80 परियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च
पृथग एवानुलिम्पेत केसरेण च बुद्धिमान
81 उपवासं च कुर्वीत सनातः शुचिर अलंकृतः
पर्वकालेषु सर्वेषु बरह्म चारी सदा भवेत
82 नालीढया परिहतं भक्षयीत कदा चन
तथा नॊद्धृत साराणि पेक्षतां नाप्रदाय च
83 न संनिकृष्टॊ मेधावी नाशुचिर न च सत्सु च
परतिषिद्धान न धर्मेषु भक्षान भुञ्जीत पृष्ठतः
84 पिप्पलं च वटं चैव शणशाकं तथैव च
उदुम्बरं न खादेच च भवार्थी पुरुषॊत्तमः
85 आजं गव्यं च यन मांसं मायूरं चैव वर्जयेत
वर्जयेच छुष्क मांसं च तथा पर्युषितं च यत
86 न पाणौ लवणं विद्वान पराश्नीयान न च रात्रिषु
दधि सक्तून न भुञ्जीत वृथा मांसं च वर्जयेत
87 वालेन तु न भुञ्जीत परश्राद्धं तथैव च
सायंप्रातश च भुञ्जीत नान्तराले समाहितः
88 वाग्यतॊ नैकवस्त्रश च नासंविष्टः कदा चन
भूमौ सदैव नाश्नीयान नानासीनॊ न शब्दवत
89 तॊयपूर्वं परदायान्नम अतिथिभ्यॊ विशां पते
पश्चाद भुञ्जीत मेधावी न चाप्य अन्यमना नरः
90 समानम एकपङ्क्त्यां तु भॊज्यम अन्नं नरेश्वर
विषं हालाहलं भुङ्क्ते यॊ ऽपरदाय सुहृज्जने
91 पानीयं पायसं सर्पिर दधि सक्तु मधून्य अपि
निरस्य शेषम एतेषां न परदेयं तु कस्य चित
92 भुञ्जानॊ मनुजव्याघ्रनैव शङ्कां समाचरेत
दधि चाप्य अनुपानं वै न कर्तव्यं भवार्थिना
93 आचम्य चैव हस्तेन परिस्राव्य तथॊदकम
अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत
94 पाणिं मूर्ध्नि समाधाय सपृष्ट्वा चाग्निं समाहितः
जञातिश्रैष्ठ्यम अवाप्नॊति परयॊग कुशलॊ नरः
95 अद्भिः पराणान समालभ्य नाभिं पाणितलेन च
सपृशंश चैव परतिष्ठेत न चाप्य आर्द्रेण पाणिना
96 अङ्गुष्ठस्यान्तराले च बराह्मं तीर्थम उदाहृतम
कनिष्ठिकायाःपश्चात तु देव तीर्थम इहॊच्यते
97 अङ्गुष्ठस्य च यन मध्यं परदेशिन्याश च भारत
तेन पित्र्याणि कुर्वीत सपृष्ट्वापॊ नयायतस तथा
98 परापवादं न बरूयान नाप्रियं च कदा चन
न मनुः कश चिद उत्पाद्यः पुरुषेण भवार्थिना
99 पतितैस तु कथां नेच्छेद दर्शनं चापि वर्जयेत
संसर्गं च न गच्छेत तथायुर विन्दते महत
100 न दिवा मैथुनं गच्छेन न कन्यां न च बन्धकीम
न चास्नातां सत्रियं गच्छेत तथायुर विन्दते महत
101 सवे सवे तीर्थे समाचम्य कार्ये समुपकल्पिते
तरिः पीत्वापॊ दविः परमृज्य कृतशौचॊ भवेन नरः
102 इन्द्रियाणि सकृत सपृश्य तरिर अभ्युक्ष्य च मानवः
कुर्वीत पित्र्यं दैवं च वेद दृष्टेन कर्मणा
103 बराह्मणार्थे च यच छौचं तच च मे शृणु कौरव
परवृत्तं च हितं चॊक्त्वा भॊजनाद्य अन्तयॊस तथा
104 सर्वशौचेषु बराह्मेण तीर्थेन समुपस्पृशेत
निष्ठीव्य तु तथा कषुत्वा सपृश्यापॊ हि शुचिर भवेत
105 वृद्धॊ जञातिस तथा मित्रं दरिद्रॊ यॊ भवेद अपि
गृहे वासयितव्यास ते धन्यम आयुष्यम एव च
106 गृहे पारावता धन्याः शुकाश च सहसारिकाः
गृहेष्व एते न पापाय तथा वै तैलपायिकाः
107 उद्दीपकाश च गृध्राश च कपॊता भरमरास तथा
निविशेयुर यदा तत्र शान्तिम एव तदाचरेत
108 अमङ्गल्यानि चैतानि तथाक्रॊशॊ महात्मनाम
महात्मनां च गुह्यानि न वक्तव्यानि कर्हि चित
109 अगम्याश च न गच्छेत राजपत्नीः सखीस तथा
वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर
110 बन्धूनां बराह्मणानां च तथा शारणिकस्य च
संबन्धिनां च राजेन्द्र तथायुर विन्दते महत
111 बराह्मण सथपतिभ्यां च निर्मितं यन निवेशनम
तद आवसेत सदा पराज्ञॊ भवार्थी मनुजेश्वर
112 संध्यायां न सवपेद राजन विद्यां न च समाचरेत
न भुञ्जीत च मेधावी तथायुर विन्दते महत
113 नक्तं न कुर्यात पित्र्याणि भुक्त्वा चैव परसाधनम
पानीयस्य करिया नक्तं न कार्या भूतिम इच्छता
114 वर्जनीयाश च वै नित्यं सक्तवॊ निशि भारत
शेषाणि चावदातानि पानीयं चैव भॊजने
115 सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत
दविजच छेदं न कुर्वीत भुक्त्वा नच समाचरेत
116 महाकुलप्रसूतां च परशस्तां लक्षणैस तथा
वयःस्थां च महाप्राज्ञ कन्याम आवॊढुम अर्हति
117 अपत्यम उत्पाद्य ततः परतिष्ठाप्य कुलं तथा
पुत्राः परदेया जञानेषु कुलधर्मेषु भारत
118 कन्या चॊत्पाद्य दातव्या कुलपुत्राय धीमते
पुत्रा निवेश्याश च कुलाद भृत्या लभ्याश च भारत
119 शिरःस्नातॊ ऽथ कुर्वीत दैवं पित्र्यम अथापि च
नक्षत्रे न च कुर्वीत यस्मिञ जातॊ भवेन नरः
न परॊष्ठपदयॊः कार्यं तथाग्नेये च भारत
120 दारुणेषु च सर्वेषु परत्यहं च विवर्जयेत
जयॊतिषे यानि चॊक्तानि तानि सर्वाणि वर्जयेत
121 पराङ्मुखः शमश्रुकर्माणि कारयेत समाहितः
उदङ्मुखॊ वा राजेन्द्र तथायुर विन्दते महत
122 परिवादं न च बरूयात परेषाम आत्मनस तथा
परिवादॊ न धर्माय परॊच्यते भरतर्षभ
123 वर्जयेद वयङ्गिनीं नारीं तथा कन्यां नरॊत्तम
समार्षां वयङ्गितां चैव मातुः सवकुलजां तथा
124 वृद्धां परव्रजितां चैव तथैव च पतिव्रताम
तथातिकृष्ण वर्णां च वर्णॊत्कृष्टां च वर्जयेत
125 अयॊनिं च वियॊनिं च न गच्छेत विचक्षणः
पिङ्गलां कुष्ठिनीं नारीं न तवम आवॊढुम अर्हसि
126 अपस्मारि कुले जातां निहीनां चैव वर्जयेत
शवित्रिणां च कुले जातां तरयाणां मनुजेश्वर
127 लक्षणैर अन्विता या च परशस्ता या च लक्षणैः
मनॊज्ञा दर्शनीया च तां भवान वॊढुम अर्हति
128 महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर
अवरा पतिता चैव न गराह्या भूतिम इच्छता
129 अग्नीन उत्पाद्य यत्नेन करियाः सुविहिताश च याः
वेदेषु बराह्मणैः परॊक्तास ताश च सर्वाः समाचरेत
130 न चेर्ष्या सत्रीषु कर्तव्या दारा रक्ष्याश च सर्वशः
अनायुष्या भवेद ईर्ष्या तस्माद ईर्ष्यां विवर्जयेत
131 अनायुष्यॊ दिवा सवप्नस तथाभ्युदित शायिता
परातर निशायां च तथा ये चॊच्छिष्टाः सवपन्ति वै
132 पारदार्यम अनायुष्यं नापितॊच्च्छिष्टता तथा
यत्नतॊ वै न कर्तव्यम अभ्यासश चैव भारत
133 संध्यां न भुञ्जेन न सनायान न पुरीषं समुत्सृजेत
परयतश च भवेत तस्यां न च किं चित समाचरेत
134 बराह्मणान पूजयेच चापि तथा सनात्वा नराधिप
देवांश च परणमेत सनातॊ गुरूंश चाप्य अभिवादयेत
135 अनिमन्त्रितॊ न गच्छेत यज्ञं गच्छेत तु दर्शकः
अनिमन्त्रिते हय अनायुष्यं गमनं तत्र भारत
136 न चैकेन परिव्राज्यं न गन्तव्य तथा निशि
अनागतायां संध्यायां पश्चिमायां गृहे वसेत
137 मातुः पितुर गुरूणां च कार्यम एवानुशासनम
हितं वाप्य अहितं वापि न विचार्यं नरर्षभ
138 धनुर्वेदे च वेदे च यत्नः कार्यॊ नराधिप
हस्तिपृष्ठे ऽशवपृष्ठे च रथचर्यासु चैव ह
यत्नवान भव राजेन्द्र यत्नवान सुखम एधते
139 अप्रधृष्यश च शत्रूणां भृत्यानां सवजनस्य च
परजापालनयुक्तश च न कषतिं लभते कव चित
140 युक्तिशास्त्रं च ते जञेयं शब्दशास्त्रं च भारत
गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप
141 पुराणम इतिहासाश च तथाख्यानानि यानि च
महात्मनां च चरितं शरॊतव्यं नित्यम एव ते
142 पत्नीं रजस्वलां चैव नाभिगच्छेन न चाह्वयेत
सनातां चतुर्थे दिवसे रात्रौ गच्छेद विचक्षणः
143 पञ्चमे दिवसे नारी षष्ठे ऽहनि पुमान भवेत
एतेन विधिना पत्नीम उपगच्छेत पण्डितः
144 जञातिसंबन्धिमित्राणि पूजनीयानि नित्यशः
यष्टव्यं च यथाशक्ति यज्ञैर विविधदक्षिणैः
अत ऊर्ध्वम अरण्यं च सेवितव्यं नराधिप
145 एष ते लक्षणॊद्देश आयुष्याणां परकीर्तितः
शेषस तरैविद्य वृद्धेभ्यः परत्याहार्यॊ युधिष्ठिर
146 आचारॊ भूतिजनन आचारः कीर्तिवर्धनः
आचाराद वर्धते हय आयुर आचारॊ हन्त्य अलक्षणम
147 आगमानां हि सर्वेषाम आचारः शरेष्ठ उच्यते
आचार परभवॊ धर्मॊ धर्माद आयुर विवर्धते
148 एतद यशस्यम आयुष्यं सवर्ग्यं सवस्त्ययनं महत
अनुकम्पता सर्ववर्णान बरह्मणा समुदाहृतम
1 [y]
śatāyur uktaḥ puruṣaḥ śatavīryaś ca vaidike
kasmān mriyante puruṣā bālā api pitāmaha
2 āyuṣmān kena bhavati svalpāyur vāpi mānavaḥ
kena vā labhate kīrtiṃ kena vā labhate śriyam
3 tapasā brahmacaryeṇa japair homais tathauṣadhaiḥ
janmanā yadi vācārāt tan me brūhi pitāmaha
4 [bh]
atra te vartayiṣyāmi yan māṃ tvam anupṛcchasi
alpāyur yena bhavati dīrghāyur vāpi mānavaḥ
5 yena vā labhate kīrtiṃ yena vā labhate śriyam
yathā ca vartan puruṣaḥ śreyasā saṃprayujyate
6 ācārāl labhate hyāyur ācārāl labhate śriyam
ācārāt kīrtim āpnoti puruṣaḥ pretya ceha ca
7 durācāro hi puruṣo nehāyur vindate mahat
trasanti yasmād bhūtāni tathā paribhavanti ca
8 tasmāt kuryād ihācāraṃ ya icched bhūtim ātmanaḥ
api pāpaśarīrasya ācāro hanty alakṣaṇam
9 ācāra lakṣaṇo dharmaḥ santaś cācāra lakṣaṇāḥ
sādhūnāṃ ca yathāvṛttam etad ācāra lakṣaṇam
10 apy adṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam
bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam
11 ye nāstikā niṣkriyāś ca guru śāstrātilaṅghinaḥ
adharmajñā durācārās te bhavanti gatāyuṣaḥ
12 viśīlā bhinnamaryādā nityaṃ saṃkīrṇa maithunāḥ
alpāyuṣo bhavantīha narā nirayagāminaḥ
13 sarvalakṣaṇahīno 'pi samudācāravān naraḥ
śraddadhāno 'nasūyuś ca śataṃ varṣāṇi jīvati
14 akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ
anasūyur ajihmaś ca śataṃ varṣāṇi jīvati
15 loṣṭa mardī tṛṇac chedī nakhakhādī ca yo naraḥ
nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat
16 brāhme muhūrte budhyeta dharmārthau cānucintayet
utthāyācamya tiṣṭheta pūrvāṃ saṃdhyāṃ kṛtāñjaliḥ
17 evam evāparāṃ saṃdhyāṃ samupāsīta vāgyataḥ
nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadā cana
18 ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuvan
tasmāt tiṣṭhet sadā pūrvāṃ paścimāṃ caiva vāgyataḥ
19 ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām
sarvāṃs tān dhārmiko rājā śūdra karmāṇi kārayet
20 paradārā na gantavyāḥ sarvavarṇeṣu karhi cit
na hīdṛśam anāyuṣyaṃ loke kiṃ cana vidyate
yādṛśaṃ puruṣasyeha paradāropasevanam
21 prasādhanaṃ ca keśānām añjanaṃ dantadhāvanam
pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam
22 purīṣa mūtre nodīkṣen nādhitiṣṭhet kadā cana
udakyayā ca saṃbhāṣāṃ na kurvīta kadā cana
23 notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike
ubhe mūtra purīṣe tu nāpsu kuryāt kadā cana
24 prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan
praskandayec ca manasā bhuktvā cāgnim upaspṛśet
25 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ
dhanyaṃ paścān mukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ
26 nādhitiṣṭhet tuṣāñ jātu keśabhasma kapālikāḥ
anyasya cāpy upasthānaṃ dūrataḥ parivarjayet
27 śānti homāṃś ca kurvīta sāvitrāṇi ca kārayet
niṣaṇṇaś cāpi khādeta na tu gacchan kathaṃ cana
28 mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje
29 ārdra pādas tu bhuñjīta nārdra pādas tu saṃviśet
ārdra pādas tu bhuñjāno varṣāṇāṃ jīvate śatam
30 trīṇi tejāṃsi nocchiṣṭa ālabheta kadā cana
agiṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate
31 trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadā cana
sūryā candramasau caiva nakṣatāṇi ca sarvaśaḥ
32 ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati
pratyutthānābhivādābhyāṃ punas tān pratipadyate
33 abhivādayeta vṛddhāṃś ca āsanaṃ caiva dāpayet
kṛtāñjalir upāsīta gacchantaṃ pṛṣṭhato 'nviyāt
34 na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet
naikavastreṇa bhoktavyaṃ na nagnaḥ snātum arhati
svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet
35 ucchiṣṭo na spṛśec chīrṣaṃ sarve prāṇās tadāśrayāḥ
keśagrahān prahārāṃś ca śirasy etān vivarjayet
36 na pāṇibhyām ubhābhyāṃ ca kaṇḍūyej jātu vaiś iraḥ
na cābhīkṣṇaṃ śiraḥ snāyāt tathāsyāyur na riṣyate
37 śiraḥsnātaś ca tailena nāṅgaṃ kiṃ cid upaspṛśet
tilapiṣṭaṃ na cāśnīyāt tathāyur vindate mahat
38 nādhyāpayet tathocchiṣṭo nādhīyīta kadā cana
vāte ca pūti gandhe ca manasāpi na cintayet
39 atra gāthā yamodgītāḥ kīrtayanti purā vidaḥ
āyur asya nikṛntāmi prajām asyādade tathā
40 ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati
yaś cānadhyāya kāle 'pi mohād abhyasyati dvijaḥ
tasmād yukto 'py anadhyāye nādhīyīta kadā cana
41 praty ādityaṃ praty anilaṃ prati gāṃ ca prati dvijān
ye mehanti ca panthānaṃ te bhavanti gatāyuṣaḥ
42 ubhe mūtra purīṣe tu divā kuryād udaṅmukhaḥ
dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate
43 trīn kṛśān nāvajānīyād dīrgham āyur jijīviṣuḥ
brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hy āśīviṣās trayaḥ
44 dahaty āśīviṣaḥ kruddho yāvat paśyati cakṣuṣā
kṣatriyo 'pi dahet kruddho yāvat spṛśati tejasā
45 brāhmaṇas tu kulaṃ hanyād dhyānenāvekṣitena ca
tasmād etat trayaṃ yatnād upaseveta paṇḍitaḥ
46 guruṇā vairanirbandho na kartavyaḥ kadā cana
anumānyaḥ prasādyaś ca guruḥ kruddho yudhiṣṭhira
47 samyaṅ mithyā pravṛtte 'pi vartitavyaṃ gurāv iha
guru nindā dahaty āyur manuṣyāṇāṃ na saṃśayaḥ
48 dūrād āvasathān mūtraṃ dūrāt pādāvasecanam
ucchiṣṭotsarjanaṃ caiva dūre kāryaṃ hitaiṣiṇā
49 nātikalpaṃ nātisāyaṃ na ca madhyaṃ dine sthite
nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha
50 panthā deyo brāhmaṇāya gobhyo rājasya eva ca
vṛddhāya bhārataptāya garbhiṇyai durbalāya ca
51 pradakṣiṇaṃ ca kurvīta parijñātān vanaspatīn
catuṣpathān prakurvīta sarvān eva pradakṣiṇān
52 madhyaṃ dine niśākāle madhyarātre ca sarvadā
catuṣpathān na seveta ubhe saṃdhye tathaiva ca
53 upānahau ca vastraṃ ca dhṛtam anyair na dhārayet
brahma cārī ca nityaṃ syāt pādaṃ pādena nākramet
54 amāvāsyāṃ paurṇamāsyāṃ caturdaśyāṃ ca sarvaśaḥ
aṣṭamyāṃ sarvapakṣāṇāṃ brahma cārī sadā bhavet
55 vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca
ākrośaṃ parivādaṃ ca paiśunyaṃ ca vivarjayet
56 nāruṃ tudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta
yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām
57 vāk sāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni
parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu
58 rohate sāyakair viddhaṃ vanaṃ paraśunā hatam
vācā duruktaṃ bībhatsaṃ na saṃrohati vāk kṣatam
59 hīnāṅgān atiriktāṅgān vidyā hīnān vayo 'dhikān
rūpadraviṇa hīnāṃś ca sattvahīnāṃś ca nākṣipet
60 nāstikyaṃ veda nindāṃ ca devatānāṃ ca kutsanam
dveṣastambhābhimānāṃś ca taikṣṇyaṃ ca parivarjayet
61 parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet
anyatra putrāc chiṣyād vā śikṣārthaṃ tāḍanaṃ smṛtam
62 na brāhmaṇān parivaden nakṣatrāṇi na nirdiśet
tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate
63 kṛtvā mūtra purīṣe tu rathyām ākramya vā punaḥ
pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā
64 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan
adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate
65 saṃyāvaṃ kṛsaraṃ māṃsaṃ śaṣkulī pāyasaṃ tathā
ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet
66 nityam agniṃ paricared bhikṣāṃ dadyāc ca nityadā
vāgyato dantakāṣṭhaṃ ca nityam eva samācaret
na cābhyudita śāyī syāt prāyaścittī tathā bhavet
67 mātā pitaram utthāya pūrvam evābhivādayet
ācāryam atha vāpy enaṃ tathāyur vindate mahat
68 varjayed dantakāṣṭāni varjanīyāni nityaśaḥ
bhakṣayec chāstra dṛṣṭāni parvasv api ca varjayet
69 udaṅmukhaś ca satataṃ śaucaṃ kuryāt samāhitaḥ
70 akṛtvā devatā pūjāṃ nānyaṃ gacchet kadā cana
anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam
71 avalokyo na cādarśo malino buddhimattaraiḥ
na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadā cana
72 udakśirā na svapeta tathā pratyakśirā na ca
prākśirās tu svaped vidvān atha vā dakṣiṇā śirāḥ
73 na bhagne nāvadīrṇe vā śayane prasvapeta ca
nāntardhāne na saṃyukte na ca tiryak kadā cana
74 na nagnaḥ karhi cit snāyān na niśāyāṃ kadā cana
snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇaḥ
75 na cānulimped asnātvā snātvā vāso na nirdhunet
ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ
srajaś ca nāvakarṣeta na bahir dhārayeta ca
76 raktamālyaṃ na dhāryaṃ syāc chuklaṃ dhāryaṃ tu paṇḍitaiḥ
varjayitvā tu kamalaṃ tathā kuvalayaṃ vibho
77 raktaṃ śirasi dhāryaṃ tu tathā vāneyam ity api
kāñcanī caiva yā mālā na sā duṣyati karhi cit
snātasya varṇakaṃ nityam ārdraṃ dadyād viśāṃ pate
78 viparyayaṃ na kurvīta vāsaso buddhimān naraḥ
tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca
79 anyad eva bhaved vāsaḥ śayanīye narottama
anyad rathyāsu devānām arcāyām anyad eva hi
80 priyaṅgucandanābhyāṃ ca bilvena tagareṇa ca
pṛthag evānulimpeta kesareṇa ca buddhimān
81 upavāsaṃ ca kurvīta snātaḥ śucir alaṃkṛtaḥ
parvakāleṣu sarveṣu brahma cārī sadā bhavet
82 nālīḍhayā parihataṃ bhakṣayīta kadā cana
tathā noddhṛta sārāṇi pekṣatāṃ nāpradāya ca
83 na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca
pratiṣiddhān na dharmeṣu bhakṣān bhuñjīta pṛṣṭhataḥ
84 pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca
udumbaraṃ na khādec ca bhavārthī puruṣottamaḥ
85 ājaṃ gavyaṃ ca yan māṃsaṃ māyūraṃ caiva varjayet
varjayec chuṣka māṃsaṃ ca tathā paryuṣitaṃ ca yat
86 na pāṇau lavaṇaṃ vidvān prāśnīyān na ca rātriṣu
dadhi saktūn na bhuñjīta vṛthā māṃsaṃ ca varjayet
87 vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca
sāyaṃprātaś ca bhuñjīta nāntarāle samāhitaḥ
88 vāgyato naikavastraś ca nāsaṃviṣṭaḥ kadā cana
bhūmau sadaiva nāśnīyān nānāsīno na śabdavat
89 toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate
paścād bhuñjīta medhāvī na cāpy anyamanā naraḥ
90 samānam ekapaṅktyāṃ tu bhojyam annaṃ nareśvara
viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane
91 pānīyaṃ pāyasaṃ sarpir dadhi saktu madhūny api
nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasya cit
92 bhuñjāno manujavyāghranaiva śaṅkāṃ samācaret
dadhi cāpy anupānaṃ vai na kartavyaṃ bhavārthinā
93 ācamya caiva hastena parisrāvya tathodakam
aṅguṣṭhaṃ caraṇasyātha dakṣiṇasyāvasecayet
94 pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ
jñātiśraiṣṭhyam avāpnoti prayoga kuśalo naraḥ
95 adbhiḥ prāṇān samālabhya nābhiṃ pāṇitalena ca
spṛśaṃś caiva pratiṣṭheta na cāpy ārdreṇa pāṇinā
96 aṅguṣṭhasyāntarāle ca brāhmaṃ tīrtham udāhṛtam
kaniṣṭhikāyāḥpaścāt tu deva tīrtham ihocyate
97 aṅguṣṭhasya ca yan madhyaṃ pradeśinyāś ca bhārata
tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatas tathā
98 parāpavādaṃ na brūyān nāpriyaṃ ca kadā cana
na manuḥ kaś cid utpādyaḥ puruṣeṇa bhavārthinā
99 patitais tu kathāṃ necched darśanaṃ cāpi varjayet
saṃsargaṃ ca na gaccheta tathāyur vindate mahat
100 na divā maithunaṃ gacchen na kanyāṃ na ca bandhakīm
na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat
101 sve sve tīrthe samācamya kārye samupakalpite
triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhaven naraḥ
102 indriyāṇi sakṛt spṛśya trir abhyukṣya ca mānavaḥ
kurvīta pitryaṃ daivaṃ ca veda dṛṣṭena karmaṇā
103 brāhmaṇārthe ca yac chaucaṃ tac ca me śṛṇu kaurava
pravṛttaṃ ca hitaṃ coktvā bhojanādy antayos tathā
104 sarvaśauceṣu brāhmeṇa tīrthena samupaspṛśet
niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet
105 vṛddho jñātis tathā mitraṃ daridro yo bhaved api
gṛhe vāsayitavyās te dhanyam āyuṣyam eva ca
106 gṛhe pārāvatā dhanyāḥ śukāś ca sahasārikāḥ
gṛheṣv ete na pāpāya tathā vai tailapāyikāḥ
107 uddīpakāś ca gṛdhrāś ca kapotā bhramarās tathā
niviśeyur yadā tatra śāntim eva tadācaret
108 amaṅgalyāni caitāni tathākrośo mahātmanām
mahātmanāṃ ca guhyāni na vaktavyāni karhi cit
109 agamyāś ca na gaccheta rājapatnīḥ sakhīs tathā
vaidyānāṃ bālavṛddhānāṃ bhṛtyānāṃ ca yudhiṣṭhira
110 bandhūnāṃ brāhmaṇānāṃ ca tathā śāraṇikasya ca
saṃbandhināṃ ca rājendra tathāyur vindate mahat
111 brāhmaṇa sthapatibhyāṃ ca nirmitaṃ yan niveśanam
tad āvaset sadā prājño bhavārthī manujeśvara
112 saṃdhyāyāṃ na svaped rājan vidyāṃ na ca samācaret
na bhuñjīta ca medhāvī tathāyur vindate mahat
113 naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam
pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā
114 varjanīyāś ca vai nityaṃ saktavo niśi bhārata
śeṣāṇi cāvadātāni pānīyaṃ caiva bhojane
115 sauhityaṃ ca na kartavyaṃ rātrau naiva samācaret
dvijac chedaṃ na kurvīta bhuktvā naca samācaret
116 mahākulaprasūtāṃ ca praśastāṃ lakṣaṇais tathā
vayaḥsthāṃ ca mahāprājña kanyām āvoḍhum arhati
117 apatyam utpādya tataḥ pratiṣṭhāpya kulaṃ tathā
putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata
118 kanyā cotpādya dātavyā kulaputrāya dhīmate
putrā niveśyāś ca kulād bhṛtyā labhyāś ca bhārata
119 śiraḥsnāto 'tha kurvīta daivaṃ pitryam athāpi ca
nakṣatre na ca kurvīta yasmiñ jāto bhaven naraḥ
na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata
120 dāruṇeṣu ca sarveṣu pratyahaṃ ca vivarjayet
jyotiṣe yāni coktāni tāni sarvāṇi varjayet
121 prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ
udaṅmukho vā rājendra tathāyur vindate mahat
122 parivādaṃ na ca brūyāt pareṣām ātmanas tathā
parivādo na dharmāya procyate bharatarṣabha
123 varjayed vyaṅginīṃ nārīṃ tathā kanyāṃ narottama
samārṣāṃ vyaṅgitāṃ caiva mātuḥ svakulajāṃ tathā
124 vṛddhāṃ pravrajitāṃ caiva tathaiva ca pativratām
tathātikṛṣṇa varṇāṃ ca varṇotkṛṣṭāṃ ca varjayet
125 ayoniṃ ca viyoniṃ ca na gaccheta vicakṣaṇaḥ
piṅgalāṃ kuṣṭhinīṃ nārīṃ na tvam āvoḍhum arhasi
126 apasmāri kule jātāṃ nihīnāṃ caiva varjayet
śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara
127 lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ
manojñā darśanīyā ca tāṃ bhavān voḍhum arhati
128 mahākule niveṣṭavyaṃ sadṛśe vā yudhiṣṭhira
avarā patitā caiva na grāhyā bhūtim icchatā
129 agnīn utpādya yatnena kriyāḥ suvihitāś ca yāḥ
vedeṣu brāhmaṇaiḥ proktās tāś ca sarvāḥ samācaret
130 na cerṣyā strīṣu kartavyā dārā rakṣyāś ca sarvaśaḥ
anāyuṣyā bhaved īrṣyā tasmād īrṣyāṃ vivarjayet
131 anāyuṣyo divā svapnas tathābhyudita śāyitā
prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai
132 pāradāryam anāyuṣyaṃ nāpitoccchiṣṭatā tathā
yatnato vai na kartavyam abhyāsaś caiva bhārata
133 saṃdhyāṃ na bhuñjen na snāyān na purīṣaṃ samutsṛjet
prayataś ca bhavet tasyāṃ na ca kiṃ cit samācaret
134 brāhmaṇān pūjayec cāpi tathā snātvā narādhipa
devāṃś ca praṇamet snāto gurūṃś cāpy abhivādayet
135 animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ
animantrite hy anāyuṣyaṃ gamanaṃ tatra bhārata
136 na caikena parivrājyaṃ na gantavya tathā niśi
anāgatāyāṃ saṃdhyāyāṃ paścimāyāṃ gṛhe vaset
137 mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam
hitaṃ vāpy ahitaṃ vāpi na vicāryaṃ nararṣabha
138 dhanurvede ca vede ca yatnaḥ kāryo narādhipa
hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha
yatnavān bhava rājendra yatnavān sukham edhate
139 apradhṛṣyaś ca śatrūṇāṃ bhṛtyānāṃ svajanasya ca
prajāpālanayuktaś ca na kṣatiṃ labhate kva cit
140 yuktiśāstraṃ ca te jñeyaṃ śabdaśāstraṃ ca bhārata
gandharvaśāstraṃ ca kalāḥ parijñeyā narādhipa
141 purāṇam itihāsāś ca tathākhyānāni yāni ca
mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te
142 patnīṃ rajasvalāṃ caiva nābhigacchen na cāhvayet
snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ
143 pañcame divase nārī ṣaṣṭhe 'hani pumān bhavet
etena vidhinā patnīm upagaccheta paṇḍitaḥ
144 jñātisaṃbandhimitrāṇi pūjanīyāni nityaśaḥ
yaṣṭavyaṃ ca yathāśakti yajñair vividhadakṣiṇaiḥ
ata ūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa
145 eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ
śeṣas traividya vṛddhebhyaḥ pratyāhāryo yudhiṣṭhira
146 ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ
ācārād vardhate hy āyur ācāro hanty alakṣaṇam
147 āgamānāṃ hi sarveṣām ācāraḥ śreṣṭha ucyate
ācāra prabhavo dharmo dharmād āyur vivardhate
148 etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat
anukampatā sarvavarṇān brahmaṇā samudāhṛtam

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1801 of 2013 Book 89% ~18 min left