Book 12: Chapter 59
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 12: Chapter 59

The Mahabharata in Sanskrit

Book 12
Chapter 59

1 ततः काल्यं समुत्थाय कृतपौर्वाह्णिक करियाः
ययुस ते नगराकारै रथैः पाण्डव यादवाः
2 परपद्य च कुरुक्षेत्रं भीष्मम आसाद्य चानघम
सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम
3 वयासादीन अभिवाद्यर्षीन सर्वैस तैश चाभिनन्दिताः
निषेदुर अभितॊ भीष्मं परिवार्य समन्ततः
4 ततॊ राजा महातेजा धर्मराजॊ युधिष्ठिरः
अब्रवीत पराञ्जलिर भीष्मं परतिपूज्याभिवाद्य च
5 य एष राजा राजेति शब्दश चरति भारत
कथम एष समुत्पन्नस तन मे बरूहि पिता मह
6 तुल्यपाणिशिरॊग्रीवस तुल्यबुद्धीन्द्रियात्मकः
तुल्यदुःखसुखात्मा च तुल्यपृष्ठ भुजॊदरः
7 तुल्यशुक्रास्थि मज्जश च तुल्यमांसासृग एव च
निःश्वासॊच्छाव तुल्यश च तुल्यप्राणशरीरवान
8 समानजन्म मरणः समः सर्वगुणैर नृणाम
विशिष्ट बुद्धीञ शूरांश च कथम एकॊ ऽधितिष्ठति
9 कथम एकॊ महीं कृत्स्नां वीर शूरार्य संकुलाम
रक्षत्य अपि च लॊकॊ ऽसय परसादम अभिवाञ्छति
10 एकस्य च परसादेन कृत्स्नॊ लॊकः परसीदति
वयाकुलेनाकुलः सर्वॊ भवतीति विनिश्चयः
11 एतद इच्छाम्य अहं सर्वं तत्त्वेन भरतर्षभ
शरॊतुं तन मे यथा वत तवं परब्रूहि वदतां वर
12 नैतत कारणम अल्पं हि भविष्यति विषां पते
यद एकस्मिञ जगत सर्वं देव वद याति संनतिम
13 [भीस्म]
नियतस तवं नरश्रेष्ठ शृणु सर्वम अशेषतः
यथा राज्यसमुत्पन्नम आदौ कृतयुगे ऽभवत
14 नैव राज्यं न राजासीन न दण्डॊ न च दाण्डिकः
धर्मेणैव परजाः सर्वा रक्षन्ति च परस्परम
15 पालयानास तथान्यॊन्यं नरा धर्मेण भारत
खेदं परमम आजग्मुस ततस तान मॊह आविशत
16 ते मॊहवशम आपन्ना मानवा मनुजर्षभ
परतिपत्तिविमॊहाच च धर्मस तेषाम अनीनशत
17 नष्टायां परतिपत्तौ तु मॊहवश्या नरास तदा
लॊभस्य वशम आपन्नाः सर्वे भारतसत्तम
18 अप्राप्तस्याभिमर्शं तु कुर्वन्तॊ मनुजास ततः
कामॊ नामापरस तत्र समपद्यत वै परभॊ
19 तांस तु कामवशं पराप्तान रागॊ नाम समस्पृशत
रक्ताश च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर
20 अगम्यागमनं चैव वाच्यावाच्यं तथैव च
भक्ष्याभक्ष्यं च राजेन्द्र दॊषादॊषं च नात्यजन
21 विप्लुते नरलॊके ऽसमिंस ततॊ बरह्म ननाश ह
नाशाच च बरह्मणॊ राजन धर्मॊ नाशम अथागमत
22 नष्टे बरह्मणि धर्मे च देवास तरासम अथागमन
ते तरस्ता नरशार्दूल बरह्माणं शरणं ययुः
23 परपद्य भगवन्तं ते देवा लॊकपिता महम
ऊचुः पराञ्जलयः सर्वे दुःखशॊकभयार्दिताः
24 भगवन नरलॊकस्थं नष्टं बरह्म सनातनम
लॊभमॊहादिभिर भावैस ततॊ नॊ भयम आविशत
25 बरह्मणश च परणाशेन धर्मॊ ऽपय अनशद ईश्वर
ततः सम समतां याता मर्त्यैस तरिभुवनेश्वर
26 अधॊ हि वर्षम अस्माकं मर्त्यास तूर्ध्व परवर्षिणः
करिया वयुपरमात तेषां ततॊ ऽगच्छाम संशयम
27 अत्र निःश्रेयसं यन नस तद धयायस्व पिता मह
तवत परभावसमुत्थॊ ऽसौ परभावॊ नॊ विनश्यति
28 तान उवाच सुरान सर्वान सवयं भूर भगवांस ततः
शरेयॊ ऽहं चिन्तयिष्यामि वयेतु वॊ भीः सुरर्षभाः
29 ततॊ ऽधयायसहस्राणां शतं चक्रे सवबुद्धिजम
यत्र धर्मस तथैवार्थः कामश चैवानुवर्णितः
30 तरिवर्ग इति विख्यातॊ गण एष सवयं भुवा
चतुर्थॊ मॊक्ष इत्य एव पृथग अर्थः पृथग गणः
31 मॊक्षस्यापि तरिवर्गॊ ऽनयः परॊक्तः सत्त्वं रजस्तमः
सथानं वृद्धिः कषयश चैव तरिवर्गश चैव दण्डजः
32 आत्मा देशश च कालश चाप्य उपायाः कृत्यम एव च
सहायाः कारणं चैव षड वर्गॊ नीतिजः समृतः
33 तरयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ
दण्डनीतिश च विपुला विद्यास तत्र निदर्शिताः
34 अमात्यरक्षा परणिधी राजपुत्रस्य रक्षणम
चारश च विविधॊपायः परणिधिश च पृथग्विधः
35 साम चॊपप्रदानं च भेदॊ दण्डश च पाण्डव
उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता
36 मन्त्रश च वर्णितः कृत्स्नस तथा भेदार्थ एव च
विभ्रंशश चैव मन्त्रस्य सिद्ध्यसिद्ध्यॊश च यत फलम
37 संधिश च विविधाभिख्यॊ हीनॊ मध्यस तथॊत्तमः
भयसत्कार वित्ताख्यः कार्त्स्न्येन परिवर्णितः
38 यात्रा कालाश च चत्वारस तरिवर्गस्य च विस्तरः
विजयॊ धर्मयुक्तश च तथार्थ विजयश च ह
39 आसुरश चैव विजयस तथा कार्त्स्न्येन वर्णितः
लक्षणं पञ्चवर्गस्य तरिविधं चात्र वर्णितम
40 परकाशश चाप्रकाशश च दण्डॊ ऽथ परिशब्दितः
परकाशॊ ऽषट विधस तत्र गुह्यस तु बहुविस्तरः
41 रथा नागा हयाश चैव पादाताश चैव पाण्डव
विष्टिर नावश चराश चैव देशिकाः पथि चाष्टकम
42 अङ्गान्य एतानि कौरव्य परकाशानि बलस्य तु
जङ्गमाजङ्गमाश चॊक्ताश चूर्णयॊगा विषादयः
43 सपर्शे चाभ्यवहार्ये चाप्य उपांशुर विविधः समृतः
अरिमित्रम उदासीन इत्य एते ऽपय अनुवर्णिताः
44 कृत्स्ना मार्गगुणाश चैव तथा भूमिगुणाश च ह
आत्मरक्षणम आश्वासः सपशानां चान्ववेक्षणम
45 कल्पना विविधाश चापि नृनागरथवाजिनाम
वयूहाश च विविधाभिख्या विचित्रं युद्धकौशलम
46 उत्पाताश च निपाताश च सुयुद्धं सुपलायनम
शस्त्राणां पायन जञानं तथैव भरतर्षभ
47 बलव्यसनम उक्तं च तथैव बलहर्षणम
पीडनास्कन्द कालश च भयकालश च पाण्डव
48 तथा खात विधानं च यॊगसंचार एव च
चौराटव्य अबलैश चॊग्रैः परराष्ट्रस्य पीडनम
49 अग्निदैर गरदैश चैव परतिरूपक चारकैः
शरेणि मुख्यॊपजापेन वीरुधश छेदनेन च
50 दूषणेन च नागानाम आशङ्का जननेन च
आरॊधनेन भक्तस्य पथश चॊपार्जनेन च
51 सप्ताङ्गस्य च राज्यस्य हरास वृद्धिसमञ्जसम
दूत सामर्थ्य यॊगश च राष्ट्रस्य च विवर्धनम
52 अरिमध्य सथ मित्राणां सम्यक चॊक्तं परपञ्चनम
अवमर्दः परतीघातस तथैव च बलीयसाम
53 वयवहारः सुसूक्ष्मश च तथा कण्टक शॊधनम
शमॊ वयायामयॊगश च यॊगॊ दरव्यस्य संचयः
54 अभृतानां च भरणं भृतानां चान्ववेक्षणम
अर्थकाले परदानं च वयसनेष्व अप्रसङ्गिता
55 तथा राजगुणाश चैव सेनापतिगुणाश च ये
कारणस्य च कर्तुश च गुणदॊषास तथैव च
56 दुष्टेङ्गितं च विविधं वृत्तिश चैवानुजीविनाम
शङ्कितत्वं च सर्वस्य परमादस्य च वर्जनम
57 अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम
परदानं च विवृद्धस्य पात्रेभ्यॊ विधिवत तथा
58 विसर्गॊ ऽरथस्य धर्मार्थम अर्थार्थं कामहेतुना
चतुर्थॊ वयसनाघाते तथैवात्रानुवर्णितः
59 करॊधजानि तथॊग्राणि कामजानि तथैव च
दशॊक्तानि कुरुश्रेष्ठ वयसनान्य अत्र चैव ह
60 मृगयाक्षास तथा पानं सत्रियश च भरतर्षभ
कामजान्य आहुर आचार्याः परॊक्तानीह सवयं भुवा
61 वाक पारुष्यं तथॊग्रत्वं दण्डपारुष्यम एव च
आत्मनॊ निग्रहस तयागॊ ऽथार्थ दूषणम एव च
62 यन्त्राणि विविधान्य एव करियास तेषां च वर्णिताः
अवमर्दः परतीघातः केतनानां च भञ्जनम
63 चैत्यद्रुमाणाम आमर्दॊ रॊधः कर्मान्त नाशनम
अपस्करॊ ऽथ गमनं तथॊपास्या च वर्णिता
64 पणवानकशङ्खानां भेरीणां च युधां वर
उपार्जनं च दरव्याणां परमर्म च तानि षट
65 लब्धस्य च परशमनं सतां चैव हि पूजनम
विद्वद्भिर एकीभावश च परातर हॊमविधिज्ञता
66 मङ्गलालम्भनं चैव शरीरस्य परतिक्रिया
आहारयॊजनं चैव नित्यम आस्तिक्यम एव च
67 एकेन च यथॊत्थेयं सत्यत्वं मधुरा गिरः
उत्सवानां समाजानां करियाः केतन जास तथा
68 परत्यक्षा च परॊक्षा च सर्वाधिकरणेषु च
वृत्तिर भरतशार्दूल नित्यं चैवान्ववेक्षणम
69 अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम
अनुजीवि सवजातिभ्यॊ गुणेषु परिरक्षणम
70 रक्षणं चैव पौराणां सवराष्ट्रस्य विवर्धनम
मण्डलस्था च या चिन्ता राजन दवादश राजिका
71 दवा सप्तति मतिश चैव परॊक्ता या च सवयं भुवा
देशजातिकुलानां च धर्माः समनुवर्णिताः
72 धर्मश चार्थश च कामश च मॊक्षश चात्रानुवर्णितः
उपायश चार्थलिप्सा च विविधा भूरिदक्षिणाः
73 मूलकर्म करिया चात्र मायायॊगश च वर्णितः
दूषणं सरॊतसाम अत्र वर्णितं च सथिराम्भसाम
74 यैर यैर उपायैर लॊकश च न चलेद आर्य वर्त्मनः
तत सर्वं राजशार्दूल नीतिशास्त्रे ऽनुवर्णितम
75 एतत कृत्वा शुभं शास्त्रं ततः स भगवान परभुः
देवान उवाच संहृष्टः सर्वाञ शक्रपुरॊगमान
76 उपकाराय लॊकस्य तरिवर्गस्थापनाय च
नव नीतं सरस्वत्या बुद्धिर एषा परभाविता
77 दण्डेन सहिता हय एषा लॊकरक्षण कारिका
निग्रहानुग्रह रता लॊकान अनु चरिष्यति
78 दण्डेन नीयते चेयं दण्डं नयति चाप्य उत
दण्डनीतिर इति परॊक्ता तरीँल लॊकान अनुवर्तते
79 षाड्गुण्य गुणसारैषा सथास्यत्य अग्रे महात्मसु
महत्त्वात तस्य दण्डस्य नीतिर विस्पष्ट लक्षणा
80 नयचारश च विपुलॊ येन सर्वम इदं ततम
आगमश च पुराणानां महर्षीणां च संभवः
81 तीर्थवंशश च वंशश च नक्षत्राणां युधिष्ठिर
सकलं चातुराश्रम्यं चातुर्हॊत्रं तथैव च
82 चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम
इतिहासॊपवेदाश च नयायः कृत्स्नश च वर्णितः
83 तपॊ जञानम अहिंसा च सत्यासत्ये नयः परः
वृद्धॊपसेवा दानं च शौचम उत्थानम एव च
84 सर्वभूतानुकम्पा च सर्वम अत्रॊपवर्णितम
भुवि वाचॊ गतं यच च तच च सर्वं समर्पितम
85 तस्मिन पैतामहे शास्त्रे पाण्डवैतद असंशयम
धर्मार्थकाममॊक्षश च सकला हय अत्र शब्दिताः
86 ततस तां भगवान नीतिं पूर्वं जग्राह शंकरः
बहुरूपॊ विशालाक्षः शिवः सथाणुर उमापतिः
87 युगानाम आयुषॊ हरासं विज्ञाय भगवाञ शिवः
संचिक्षेप ततः शास्त्रं महार्थं बरह्मणा कृतम
88 वैशालाक्षम इति परॊक्तं तद इन्द्रः परत्यपद्यत
दश धयाय सहस्राणि सुब्रह्मण्यॊ महातपाः
89 भगवान अपि तच छास्त्रं संचिक्षेप पुरंदरः
सहस्रैः पञ्चभिस तात यद उक्तं बाहुदन्तकम
90 अध्यायानां सहस्रैस तु तरिभिर एव बृहस्पतिः
संचिक्षेपेश्वरॊ बुद्ध्या बार्हस्पत्यं तद उच्यते
91 अध्यायानां सहस्रेण काव्यः संक्षेपम अब्रवीत
तच छास्त्रम अमितप्रज्ञॊ यॊगाचार्यॊ महातपाः
92 एवं लॊकानुरॊधेन शास्त्रम एतन महर्षिभिः
संक्षिप्तम आयुर विज्ञाय मर्त्यानां हरासि पाण्डव
93 अथ देवाः समागम्य विष्णुम ऊचुः परजापतिम
एकॊ यॊ ऽरहति मर्त्येभ्यः शरैष्ठ्यं तं वै समादिश
94 ततः संचिन्त्य भगवान देवॊ नारायणः परभुः
तैजसं वै विरजसं सॊ ऽसृजन मानसं सुतम
95 विराजास तु महाभाग विभुत्वं भुवि नैच्छत
नयासायैवाभवद बुद्धिः परणीता तस्य पाण्डव
96 कीर्तिमांस तस्य पुत्रॊ ऽभूत सॊ ऽपि पञ्चातिगॊ ऽभवत
कर्दमस तस्य च सुतः सॊ ऽपय अतप्यन महत तपः
97 परजापतेः कर्दमस्य अनङ्गॊ नाम वै सुतः
परजानां रक्षिता साधुर दण्डनीति विशारदः
98 अनङ्ग पुत्रॊ ऽति बलॊ नीतिमान अधिगम्य वै
अभिपेदे मही राज्यम अथेन्द्रिय वशॊ ऽभवत
99 मृत्यॊस तु दुहिता राजन सुनीथा नाम मानसी
परख्याता तरिषु लॊकेषु या सा वेनम अजीजनत
100 तं परजासु विधर्माणं रागद्वेषवशानुगम
मन्त्रपूतैः कुशैर जघ्नुर ऋषयॊ बरह्मवादिनः
101 ममन्थुर दक्षिणं चॊरुम ऋषयस तस्य मन्त्रतः
ततॊ ऽसय विकृतॊ जज्ञे हरस्वाङ्गः पुरुषॊ भुवि
102 दग्धस्थाणुप्रतीकाशॊ रक्ताक्षः कृष्ण मूर्ध जः
निषीदेत्य एवम ऊचुस तम ऋषयॊ बरह्मवादिनः
103 तस्मान निषादाः संभूताः करूराः शैलवनाश्रयाः
ये चान्ये विन्ध्यनिलया मलेच्छाः शतसहस्रशः
104 भूयॊ ऽसय दक्षिणं पाणिं ममन्थुस ते महर्षयः
ततः पुरुष उत्पन्नॊ रूपेणेन्द्र इवापरः
105 कवची बद्धनिस्त्रिंशः स शरः स शरासनः
वेदवेदाङ्गविच चैव धनुर्वेदे च पारगः
106 तं दण्डनीतिः सकला शरिता राजन नरॊत्तमम
ततः स पराञ्जलिर वैन्यॊ महर्षींस तान उवाच ह
107 सुसूक्ष्मा मे समुत्पन्ना बुद्धिर धर्मार्थदर्शिनी
अनया किं मया कार्यं तन मे तत्त्वेन शंसत
108 यन मां भवन्तॊ वक्ष्यन्ति कार्यम अर्थसमन्वितम
तद अहं वै करिष्यामि नात्र कार्या विचारणा
109 तम ऊचुर अथ देवास ते ते चैव परमर्षयः
नियतॊ यत्र धर्मॊ वै तम अशङ्कः समाचर
110 परियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु
कामक्रॊधौ च लॊभं च मानं चॊत्सृज्य दूरतः
111 यश च धर्मात परविचलेल लॊके कश चन मानवः
निग्राह्यस ते स बाहुभ्यां शश्वद धर्मम अवेक्षतः
112 परतिज्ञां चाधिरॊहस्व मनसा कर्मणा गिरा
पालयिष्याम्य अहं भौमं बरह्म इत्य एव चासकृत
113 यश चात्र धर्मनीत्य उक्तॊ दण्डनीति वयपाश्रयः
तम अशङ्कः करिष्यामि सववशॊ न कदा चन
114 अदण्ड्या मे दविजाश चेति परतिजानीष्व चाभिभॊ
लॊकं च संकरात कृत्स्नात तरातास्मीति परंतप
115 वैन्यस ततस तान उवाच देवान ऋषिपुरॊगमान
बराह्मणा मे सहायाश चेद एवम अस्तु सुरर्षभाः
116 एवम अस्त्व इति वैन्यस तु तैर उक्तॊ बरह्मवादिभिः
पुरॊधाश चाभवत तस्य शुक्रॊ बरह्म मयॊ निधिः
117 मन्त्रिणॊ वालखिल्यास तु सारस्वत्यॊ गणॊ हय अभूत
महर्षिर भगवान गर्गस तस्य सांवत्सरॊ ऽभवत
118 आत्मनाष्टम इत्य एव शरुतिर एषा परा नृषु
उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ
119 समतां वसुधायाश च स सम्यग उपपादयत
वैषम्यं हि परं भूमेर आसीद इति ह नः शरुतम
120 स विष्णुना च देवेन शक्रेण विबुधैः सह
ऋषिभिश च परजापाल्ये बरह्मणा चाभिषेचितः
121 तं साक्षात पृथिवी भेजे रत्नान्य आदाय पाण्डव
सागरः सरितां भर्ता हिमवांश चाचलॊत्तमः
122 शक्रश च धनम अक्षय्यं परादात तस्य युधिष्ठिर
रुक्मं चापि महामेरुः सवयं कनकपर्वतः
123 यक्षराक्षस भर्ता च भगवान नरवाहनः
धर्मे चार्थे च कामे च समर्थं परददौ धनम
124 हया रथाश च नागाश च कॊटिशः पुरुषास तथा
परादुर्बभूवुर वैन्यस्य चिन्तनाद एव पाण्डव
न जरा न च दुर्भिक्षं नाधनॊ वयाधयस तथा
125 सरीसृपेभ्यः सतेनेभ्यॊ न चान्यॊन्यात कदा चन
भयम उत्पद्यते तत्र तस्य राज्ञॊ ऽभिरक्षणात
126 तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च
यक्षराक्षस नागैश चापीप्षितं यस्य यस्य यत
127 तेन धर्मॊत्तरश चायं कृतॊ लॊकॊ महात्मना
रञ्जिताश च परजाः सर्वास तेन राजेति शब्द्यते
128 बराह्मणानां कषतत्राणात ततः कषत्रिय उच्यते
परथिता धनतश चेयं पृथिवी साधुभिः समृता
129 सथापनं चाकरॊद विष्णुः सवयम एव सतातनः
नातिवर्तिष्यते कश चिद राजंस तवाम इति पार्थिव
130 तपसा भगवान विष्णुर आविवेश च भूमिपम
देव वन नरदेवानां नमते यज जगन नृप
131 दण्डनीत्या च सततं रक्षितं तं नरेश्वर
नाधर्षयत ततः कश चिच चारनित्याच च दर्शनात
132 आत्मना करणैश चैव समस्येह महीक्षितः
कॊ हेतुर यद वशे तिष्ठेल लॊकॊ दैवाद ऋते गुणात
133 विष्णॊर ललाटात कमलं सौवर्णम अभवत तदा
शरीः संभूता यतॊ देवी पत्नी धर्मस्य धीमतः
134 शरियः सकाशाद अर्थश च जातॊ धर्मेण पाण्डव
अथ धर्मस तथैवार्थः शरीश च राज्ये परतिष्ठिता
135 सुकृतस्य कषयाच चैव सवर्लॊकाद एत्य मेदिनीम
पार्थिवॊ जायते तात दण्डनीति वशानुगः
136 महत्त्वेन च संयुक्तॊ वैष्णवेन नरॊ भुवि
बुद्ध्या भवति संयुक्तॊ माहात्म्यं चाधिगच्छति
137 सथापनाम अथ देवानां न कश चिद अतिवर्तते
तिष्ठत्य एकस्य च वशे तं चेद अनुविधीयते
138 शुभं हि कर्म राजेन्द्र शुभत्वायॊपकल्पते
तुल्यस्यैकस्य यस्यायं लॊकॊ वचसि तिष्ठति
139 यॊ हय अस्य मुखम अद्राक्षीत सॊम्य सॊ ऽसय वशानुगः
सुभगं चार्थवन्तं च रूपवन्तं च पश्यति
140 ततॊ जगति राजेन्द्र सततं शब्दितं बुधैः
देवाश च नरदेवाश च तुल्या इति विशां पते
141 एतत ते सर्वम आख्यातं महत्त्वं परति राजसु
कार्त्स्न्येन भरतश्रेष्ठ किम अन्यद इह वर्तताम
1 tataḥ kālyaṃ samutthāya kṛtapaurvāhṇika kriyāḥ
yayus te nagarākārai rathaiḥ pāṇḍava yādavāḥ
2 prapadya ca kurukṣetraṃ bhīṣmam āsādya cānagham
sukhāṃ ca rajanīṃ pṛṣṭvā gāṅgeyaṃ rathināṃ varam
3 vyāsādīn abhivādyarṣīn sarvais taiś cābhinanditāḥ
niṣedur abhito bhīṣmaṃ parivārya samantataḥ
4 tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ
abravīt prāñjalir bhīṣmaṃ pratipūjyābhivādya ca
5 ya eṣa rājā rājeti śabdaś carati bhārata
katham eṣa samutpannas tan me brūhi pitā maha
6 tulyapāṇiśirogrīvas tulyabuddhīndriyātmakaḥ
tulyaduḥkhasukhātmā ca tulyapṛṣṭha bhujodaraḥ
7 tulyaśukrāsthi majjaś ca tulyamāṃsāsṛg eva ca
niḥśvāsocchāva tulyaś ca tulyaprāṇaśarīravān
8 samānajanma maraṇaḥ samaḥ sarvaguṇair nṛṇām
viśiṣṭa buddhīñ śūrāṃś ca katham eko 'dhitiṣṭhati
9 katham eko mahīṃ kṛtsnāṃ vīra śūrārya saṃkulām
rakṣaty api ca loko 'sya prasādam abhivāñchati
10 ekasya ca prasādena kṛtsno lokaḥ prasīdati
vyākulenākulaḥ sarvo bhavatīti viniścayaḥ
11 etad icchāmy ahaṃ sarvaṃ tattvena bharatarṣabha
śrotuṃ tan me yathā vat tvaṃ prabrūhi vadatāṃ vara
12 naitat kāraṇam alpaṃ hi bhaviṣyati viṣāṃ pate
yad ekasmiñ jagat sarvaṃ deva vad yāti saṃnatim
13 [bhīsma]
niyatas tvaṃ naraśreṣṭha śṛṇu sarvam aśeṣataḥ
yathā rājyasamutpannam ādau kṛtayuge 'bhavat
14 naiva rājyaṃ na rājāsīn na daṇḍo na ca dāṇḍikaḥ
dharmeṇaiva prajāḥ sarvā rakṣanti ca parasparam
15 pālayānās tathānyonyaṃ narā dharmeṇa bhārata
khedaṃ paramam ājagmus tatas tān moha āviśat
16 te mohavaśam āpannā mānavā manujarṣabha
pratipattivimohāc ca dharmas teṣām anīnaśat
17 naṣṭāyāṃ pratipattau tu mohavaśyā narās tadā
lobhasya vaśam āpannāḥ sarve bhāratasattama
18 aprāptasyābhimarśaṃ tu kurvanto manujās tataḥ
kāmo nāmāparas tatra samapadyata vai prabho
19 tāṃs tu kāmavaśaṃ prāptān rāgo nāma samaspṛśat
raktāś ca nābhyajānanta kāryākāryaṃ yudhiṣṭhira
20 agamyāgamanaṃ caiva vācyāvācyaṃ tathaiva ca
bhakṣyābhakṣyaṃ ca rājendra doṣādoṣaṃ ca nātyajan
21 viplute naraloke 'smiṃs tato brahma nanāśa ha
nāśāc ca brahmaṇo rājan dharmo nāśam athāgamat
22 naṣṭe brahmaṇi dharme ca devās trāsam athāgaman
te trastā naraśārdūla brahmāṇaṃ śaraṇaṃ yayuḥ
23 prapadya bhagavantaṃ te devā lokapitā maham
ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ
24 bhagavan naralokasthaṃ naṣṭaṃ brahma sanātanam
lobhamohādibhir bhāvais tato no bhayam āviśat
25 brahmaṇaś ca praṇāśena dharmo 'py anaśad īśvara
tataḥ sma samatāṃ yātā martyais tribhuvaneśvara
26 adho hi varṣam asmākaṃ martyās tūrdhva pravarṣiṇaḥ
kriyā vyuparamāt teṣāṃ tato 'gacchāma saṃśayam
27 atra niḥśreyasaṃ yan nas tad dhyāyasva pitā maha
tvat prabhāvasamuttho 'sau prabhāvo no vinaśyati
28 tān uvāca surān sarvān svayaṃ bhūr bhagavāṃs tataḥ
śreyo 'haṃ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ
29 tato 'dhyāyasahasrāṇāṃ śataṃ cakre svabuddhijam
yatra dharmas tathaivārthaḥ kāmaś caivānuvarṇitaḥ
30 trivarga iti vikhyāto gaṇa eṣa svayaṃ bhuvā
caturtho mokṣa ity eva pṛthag arthaḥ pṛthag gaṇaḥ
31 mokṣasyāpi trivargo 'nyaḥ proktaḥ sattvaṃ rajastamaḥ
sthānaṃ vṛddhiḥ kṣayaś caiva trivargaś caiva daṇḍajaḥ
32 ātmā deśaś ca kālaś cāpy upāyāḥ kṛtyam eva ca
sahāyāḥ kāraṇaṃ caiva ṣaḍ vargo nītijaḥ smṛtaḥ
33 trayī cānvīkṣikī caiva vārtā ca bharatarṣabha
daṇḍanītiś ca vipulā vidyās tatra nidarśitāḥ
34 amātyarakṣā praṇidhī rājaputrasya rakṣaṇam
cāraś ca vividhopāyaḥ praṇidhiś ca pṛthagvidhaḥ
35 sāma copapradānaṃ ca bhedo daṇḍaś ca pāṇḍava
upekṣā pañcamī cātra kārtsnyena samudāhṛtā
36 mantraś ca varṇitaḥ kṛtsnas tathā bhedārtha eva ca
vibhraṃśaś caiva mantrasya siddhyasiddhyoś ca yat phalam
37 saṃdhiś ca vividhābhikhyo hīno madhyas tathottamaḥ
bhayasatkāra vittākhyaḥ kārtsnyena parivarṇitaḥ
38 yātrā kālāś ca catvāras trivargasya ca vistaraḥ
vijayo dharmayuktaś ca tathārtha vijayaś ca ha
39 āsuraś caiva vijayas tathā kārtsnyena varṇitaḥ
lakṣaṇaṃ pañcavargasya trividhaṃ cātra varṇitam
40 prakāśaś cāprakāśaś ca daṇḍo 'tha pariśabditaḥ
prakāśo 'ṣṭa vidhas tatra guhyas tu bahuvistaraḥ
41 rathā nāgā hayāś caiva pādātāś caiva pāṇḍava
viṣṭir nāvaś carāś caiva deśikāḥ pathi cāṣṭakam
42 aṅgāny etāni kauravya prakāśāni balasya tu
jaṅgamājaṅgamāś coktāś cūrṇayogā viṣādayaḥ
43 sparśe cābhyavahārye cāpy upāṃśur vividhaḥ smṛtaḥ
arimitram udāsīna ity ete 'py anuvarṇitāḥ
44 kṛtsnā mārgaguṇāś caiva tathā bhūmiguṇāś ca ha
ātmarakṣaṇam āśvāsaḥ spaśānāṃ cānvavekṣaṇam
45 kalpanā vividhāś cāpi nṛnāgarathavājinām
vyūhāś ca vividhābhikhyā vicitraṃ yuddhakauśalam
46 utpātāś ca nipātāś ca suyuddhaṃ supalāyanam
śastrāṇāṃ pāyana jñānaṃ tathaiva bharatarṣabha
47 balavyasanam uktaṃ ca tathaiva balaharṣaṇam
pīḍanāskanda kālaś ca bhayakālaś ca pāṇḍava
48 tathā khāta vidhānaṃ ca yogasaṃcāra eva ca
caurāṭavy abalaiś cograiḥ pararāṣṭrasya pīḍanam
49 agnidair garadaiś caiva pratirūpaka cārakaiḥ
śreṇi mukhyopajāpena vīrudhaś chedanena ca
50 dūṣaṇena ca nāgānām āśaṅkā jananena ca
ārodhanena bhaktasya pathaś copārjanena ca
51 saptāṅgasya ca rājyasya hrāsa vṛddhisamañjasam
dūta sāmarthya yogaś ca rāṣṭrasya ca vivardhanam
52 arimadhya stha mitrāṇāṃ samyak coktaṃ prapañcanam
avamardaḥ pratīghātas tathaiva ca balīyasām
53 vyavahāraḥ susūkṣmaś ca tathā kaṇṭaka śodhanam
śamo vyāyāmayogaś ca yogo dravyasya saṃcayaḥ
54 abhṛtānāṃ ca bharaṇaṃ bhṛtānāṃ cānvavekṣaṇam
arthakāle pradānaṃ ca vyasaneṣv aprasaṅgitā
55 tathā rājaguṇāś caiva senāpatiguṇāś ca ye
kāraṇasya ca kartuś ca guṇadoṣās tathaiva ca
56 duṣṭeṅgitaṃ ca vividhaṃ vṛttiś caivānujīvinām
śaṅkitatvaṃ ca sarvasya pramādasya ca varjanam
57 alabdhalipsā labdhasya tathaiva ca vivardhanam
pradānaṃ ca vivṛddhasya pātrebhyo vidhivat tathā
58 visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā
caturtho vyasanāghāte tathaivātrānuvarṇitaḥ
59 krodhajāni tathogrāṇi kāmajāni tathaiva ca
daśoktāni kuruśreṣṭha vyasanāny atra caiva ha
60 mṛgayākṣās tathā pānaṃ striyaś ca bharatarṣabha
kāmajāny āhur ācāryāḥ proktānīha svayaṃ bhuvā
61 vāk pāruṣyaṃ tathogratvaṃ daṇḍapāruṣyam eva ca
ātmano nigrahas tyāgo 'thārtha dūṣaṇam eva ca
62 yantrāṇi vividhāny eva kriyās teṣāṃ ca varṇitāḥ
avamardaḥ pratīghātaḥ ketanānāṃ ca bhañjanam
63 caityadrumāṇām āmardo rodhaḥ karmānta nāśanam
apaskaro 'tha gamanaṃ tathopāsyā ca varṇitā
64 paṇavānakaśaṅkhānāṃ bherīṇāṃ ca yudhāṃ vara
upārjanaṃ ca dravyāṇāṃ paramarma ca tāni ṣaṭ
65 labdhasya ca praśamanaṃ satāṃ caiva hi pūjanam
vidvadbhir ekībhāvaś ca prātar homavidhijñatā
66 maṅgalālambhanaṃ caiva śarīrasya pratikriyā
āhārayojanaṃ caiva nityam āstikyam eva ca
67 ekena ca yathottheyaṃ satyatvaṃ madhurā giraḥ
utsavānāṃ samājānāṃ kriyāḥ ketana jās tathā
68 pratyakṣā ca parokṣā ca sarvādhikaraṇeṣu ca
vṛttir bharataśārdūla nityaṃ caivānvavekṣaṇam
69 adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam
anujīvi svajātibhyo guṇeṣu parirakṣaṇam
70 rakṣaṇaṃ caiva paurāṇāṃ svarāṣṭrasya vivardhanam
maṇḍalasthā ca yā cintā rājan dvādaśa rājikā
71 dvā saptati matiś caiva proktā yā ca svayaṃ bhuvā
deśajātikulānāṃ ca dharmāḥ samanuvarṇitāḥ
72 dharmaś cārthaś ca kāmaś ca mokṣaś cātrānuvarṇitaḥ
upāyaś cārthalipsā ca vividhā bhūridakṣiṇāḥ
73 mūlakarma kriyā cātra māyāyogaś ca varṇitaḥ
dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām
74 yair yair upāyair lokaś ca na caled ārya vartmanaḥ
tat sarvaṃ rājaśārdūla nītiśāstre 'nuvarṇitam
75 etat kṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavān prabhuḥ
devān uvāca saṃhṛṣṭaḥ sarvāñ śakrapurogamān
76 upakārāya lokasya trivargasthāpanāya ca
nava nītaṃ sarasvatyā buddhir eṣā prabhāvitā
77 daṇḍena sahitā hy eṣā lokarakṣaṇa kārikā
nigrahānugraha ratā lokān anu cariṣyati
78 daṇḍena nīyate ceyaṃ daṇḍaṃ nayati cāpy uta
daṇḍanītir iti proktā trīṁl lokān anuvartate
79 ṣāḍguṇya guṇasāraiṣā sthāsyaty agre mahātmasu
mahattvāt tasya daṇḍasya nītir vispaṣṭa lakṣaṇā
80 nayacāraś ca vipulo yena sarvam idaṃ tatam
āgamaś ca purāṇānāṃ maharṣīṇāṃ ca saṃbhavaḥ
81 tīrthavaṃśaś ca vaṃśaś ca nakṣatrāṇāṃ yudhiṣṭhira
sakalaṃ cāturāśramyaṃ cāturhotraṃ tathaiva ca
82 cāturvarṇyaṃ tathaivātra cāturvedyaṃ ca varṇitam
itihāsopavedāś ca nyāyaḥ kṛtsnaś ca varṇitaḥ
83 tapo jñānam ahiṃsā ca satyāsatye nayaḥ paraḥ
vṛddhopasevā dānaṃ ca śaucam utthānam eva ca
84 sarvabhūtānukampā ca sarvam atropavarṇitam
bhuvi vāco gataṃ yac ca tac ca sarvaṃ samarpitam
85 tasmin paitāmahe śāstre pāṇḍavaitad asaṃśayam
dharmārthakāmamokṣaś ca sakalā hy atra śabditāḥ
86 tatas tāṃ bhagavān nītiṃ pūrvaṃ jagrāha śaṃkaraḥ
bahurūpo viśālākṣaḥ śivaḥ sthāṇur umāpatiḥ
87 yugānām āyuṣo hrāsaṃ vijñāya bhagavāñ śivaḥ
saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam
88 vaiśālākṣam iti proktaṃ tad indraḥ pratyapadyata
daśa dhyāya sahasrāṇi subrahmaṇyo mahātapāḥ
89 bhagavān api tac chāstraṃ saṃcikṣepa puraṃdaraḥ
sahasraiḥ pañcabhis tāta yad uktaṃ bāhudantakam
90 adhyāyānāṃ sahasrais tu tribhir eva bṛhaspatiḥ
saṃcikṣepeśvaro buddhyā bārhaspatyaṃ tad ucyate
91 adhyāyānāṃ sahasreṇa kāvyaḥ saṃkṣepam abravīt
tac chāstram amitaprajño yogācāryo mahātapāḥ
92 evaṃ lokānurodhena śāstram etan maharṣibhiḥ
saṃkṣiptam āyur vijñāya martyānāṃ hrāsi pāṇḍava
93 atha devāḥ samāgamya viṣṇum ūcuḥ prajāpatim
eko yo 'rhati martyebhyaḥ śraiṣṭhyaṃ taṃ vai samādiśa
94 tataḥ saṃcintya bhagavān devo nārāyaṇaḥ prabhuḥ
taijasaṃ vai virajasaṃ so 'sṛjan mānasaṃ sutam
95 virājās tu mahābhāga vibhutvaṃ bhuvi naicchata
nyāsāyaivābhavad buddhiḥ praṇītā tasya pāṇḍava
96 kīrtimāṃs tasya putro 'bhūt so 'pi pañcātigo 'bhavat
kardamas tasya ca sutaḥ so 'py atapyan mahat tapaḥ
97 prajāpateḥ kardamasya anaṅgo nāma vai sutaḥ
prajānāṃ rakṣitā sādhur daṇḍanīti viśāradaḥ
98 anaṅga putro 'ti balo nītimān adhigamya vai
abhipede mahī rājyam athendriya vaśo 'bhavat
99 mṛtyos tu duhitā rājan sunīthā nāma mānasī
prakhyātā triṣu lokeṣu yā sā venam ajījanat
100 taṃ prajāsu vidharmāṇaṃ rāgadveṣavaśānugam
mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādinaḥ
101 mamanthur dakṣiṇaṃ corum ṛṣayas tasya mantrataḥ
tato 'sya vikṛto jajñe hrasvāṅgaḥ puruṣo bhuvi
102 dagdhasthāṇupratīkāśo raktākṣaḥ kṛṣṇa mūrdha jaḥ
niṣīdety evam ūcus tam ṛṣayo brahmavādinaḥ
103 tasmān niṣādāḥ saṃbhūtāḥ krūrāḥ śailavanāśrayāḥ
ye cānye vindhyanilayā mlecchāḥ śatasahasraśaḥ
104 bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthus te maharṣayaḥ
tataḥ puruṣa utpanno rūpeṇendra ivāparaḥ
105 kavacī baddhanistriṃśaḥ sa śaraḥ sa śarāsanaḥ
vedavedāṅgavic caiva dhanurvede ca pāragaḥ
106 taṃ daṇḍanītiḥ sakalā śritā rājan narottamam
tataḥ sa prāñjalir vainyo maharṣīṃs tān uvāca ha
107 susūkṣmā me samutpannā buddhir dharmārthadarśinī
anayā kiṃ mayā kāryaṃ tan me tattvena śaṃsata
108 yan māṃ bhavanto vakṣyanti kāryam arthasamanvitam
tad ahaṃ vai kariṣyāmi nātra kāryā vicāraṇā
109 tam ūcur atha devās te te caiva paramarṣayaḥ
niyato yatra dharmo vai tam aśaṅkaḥ samācara
110 priyāpriye parityajya samaḥ sarveṣu jantuṣu
kāmakrodhau ca lobhaṃ ca mānaṃ cotsṛjya dūrataḥ
111 yaś ca dharmāt pravicalel loke kaś cana mānavaḥ
nigrāhyas te sa bāhubhyāṃ śaśvad dharmam avekṣataḥ
112 pratijñāṃ cādhirohasva manasā karmaṇā girā
pālayiṣyāmy ahaṃ bhaumaṃ brahma ity eva cāsakṛt
113 yaś cātra dharmanīty ukto daṇḍanīti vyapāśrayaḥ
tam aśaṅkaḥ kariṣyāmi svavaśo na kadā cana
114 adaṇḍyā me dvijāś ceti pratijānīṣva cābhibho
lokaṃ ca saṃkarāt kṛtsnāt trātāsmīti paraṃtapa
115 vainyas tatas tān uvāca devān ṛṣipurogamān
brāhmaṇā me sahāyāś ced evam astu surarṣabhāḥ
116 evam astv iti vainyas tu tair ukto brahmavādibhiḥ
purodhāś cābhavat tasya śukro brahma mayo nidhiḥ
117 mantriṇo vālakhilyās tu sārasvatyo gaṇo hy abhūt
maharṣir bhagavān gargas tasya sāṃvatsaro 'bhavat
118 ātmanāṣṭama ity eva śrutir eṣā parā nṛṣu
utpannau bandinau cāsya tatpūrvau sūtamāgadhau
119 samatāṃ vasudhāyāś ca sa samyag upapādayat
vaiṣamyaṃ hi paraṃ bhūmer āsīd iti ha naḥ śrutam
120 sa viṣṇunā ca devena śakreṇa vibudhaiḥ saha
ṛṣibhiś ca prajāpālye brahmaṇā cābhiṣecitaḥ
121 taṃ sākṣāt pṛthivī bheje ratnāny ādāya pāṇḍava
sāgaraḥ saritāṃ bhartā himavāṃś cācalottamaḥ
122 śakraś ca dhanam akṣayyaṃ prādāt tasya yudhiṣṭhira
rukmaṃ cāpi mahāmeruḥ svayaṃ kanakaparvataḥ
123 yakṣarākṣasa bhartā ca bhagavān naravāhanaḥ
dharme cārthe ca kāme ca samarthaṃ pradadau dhanam
124 hayā rathāś ca nāgāś ca koṭiśaḥ puruṣās tathā
prādurbabhūvur vainyasya cintanād eva pāṇḍava
na jarā na ca durbhikṣaṃ nādhano vyādhayas tathā
125 sarīsṛpebhyaḥ stenebhyo na cānyonyāt kadā cana
bhayam utpadyate tatra tasya rājño 'bhirakṣaṇāt
126 teneyaṃ pṛthivī dugdhā sasyāni daśa sapta ca
yakṣarākṣasa nāgaiś cāpīpṣitaṃ yasya yasya yat
127 tena dharmottaraś cāyaṃ kṛto loko mahātmanā
rañjitāś ca prajāḥ sarvās tena rājeti śabdyate
128 brāhmaṇānāṃ kṣatatrāṇāt tataḥ kṣatriya ucyate
prathitā dhanataś ceyaṃ pṛthivī sādhubhiḥ smṛtā
129 sthāpanaṃ cākarod viṣṇuḥ svayam eva satātanaḥ
nātivartiṣyate kaś cid rājaṃs tvām iti pārthiva
130 tapasā bhagavān viṣṇur āviveśa ca bhūmipam
deva van naradevānāṃ namate yaj jagan nṛpa
131 daṇḍanītyā ca satataṃ rakṣitaṃ taṃ nareśvara
nādharṣayat tataḥ kaś cic cāranityāc ca darśanāt
132 ātmanā karaṇaiś caiva samasyeha mahīkṣitaḥ
ko hetur yad vaśe tiṣṭhel loko daivād ṛte guṇāt
133 viṣṇor lalāṭāt kamalaṃ sauvarṇam abhavat tadā
śrīḥ saṃbhūtā yato devī patnī dharmasya dhīmataḥ
134 śriyaḥ sakāśād arthaś ca jāto dharmeṇa pāṇḍava
atha dharmas tathaivārthaḥ śrīś ca rājye pratiṣṭhitā
135 sukṛtasya kṣayāc caiva svarlokād etya medinīm
pārthivo jāyate tāta daṇḍanīti vaśānugaḥ
136 mahattvena ca saṃyukto vaiṣṇavena naro bhuvi
buddhyā bhavati saṃyukto māhātmyaṃ cādhigacchati
137 sthāpanām atha devānāṃ na kaś cid ativartate
tiṣṭhaty ekasya ca vaśe taṃ ced anuvidhīyate
138 śubhaṃ hi karma rājendra śubhatvāyopakalpate
tulyasyaikasya yasyāyaṃ loko vacasi tiṣṭhati
139 yo hy asya mukham adrākṣīt somya so 'sya vaśānugaḥ
subhagaṃ cārthavantaṃ ca rūpavantaṃ ca paśyati
140 tato jagati rājendra satataṃ śabditaṃ budhaiḥ
devāś ca naradevāś ca tulyā iti viśāṃ pate
141 etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu
kārtsnyena bharataśreṣṭha kim anyad iha vartatām

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1399 of 2013 Book 69% ~16 min left